SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ पंचमोऽध्यायः १६३ स्तिकायः साधारणाश्रयः पृथिवीधातुरिवाश्वादिस्थिताविति ॥ ननु च उपग्रहवचनमनर्थकमुपकार इत्येवं सिद्धत्वात् । गतिस्थिती धर्माधर्मयो रुपकार इति ॥ नैष दोषः याथासंख्यनिवृत्त्यर्थमुपमहवचनम् । धर्माधर्मयोर्गतिस्थित्योश्च यथासंख्यं भवति, एवं जीवपुद्गलानां यथासंख्यं प्राप्नोति धर्मस्योपकारो जीवानां गतिः अधर्मस्योपकारः पुद्गलानां स्थितिरिति । तन्निवृत्त्यर्थमुपग्रह वचनं क्रियते || आह धर्माधर्मयोर्य उपकारः स आकाशस्य युक्तः सर्वगतत्वादिति चेत् — तदयुक्तं, तस्यान्योपकारसद्भावात् सर्वेषां धर्मादीनां द्रव्याणामवगाहनं तत्प्रयोजनम् । एकस्यानेकप्रयोजनकल्पनायां लोकालोकविभागाभावः । भूमिजलादीन्येव तत्योजनसमर्थानि नार्थे धर्माधर्माभ्यामिति चेन्न साधारणाश्रय इति विशिष्योक्तत्वात् । अनेककारणसाध्यत्वाच्चैकस्य कार्यस्य ॥ तुल्यबलवत्त्वात्तयोर्गतिस्थितिप्रतिबन्ध इति चेन्न - अप्रेरकत्वात् ॥ अनुपलब्धेर्न तौ स्तः स्वरविषाणवदिति चेन्न सर्वप्रवाद्य- विप्रतिपत्तेः । सर्वे हि प्रवादिनः प्रत्यक्षाप्रत्यक्षानर्थानभिवाञ्छन्ति || अस्मान्प्रतिहेतोरसिद्धेश्च । सर्वज्ञेन निरतिशयप्रत्यक्षज्ञानचक्षुषा धर्मादयः सर्वे उपलभ्यन्ते । तदुपदेशाच्च श्रुतज्ञानिभिरपि ॥ अत्राह यद्यतीन्द्रिययोर्धर्माधर्मयो रुपकारसम्बन्धेनास्तित्वमवत्रियते, तदनन्तरमुद्दिष्टस्य नभसोडतीन्द्रियस्याधिगमे क उपकार इत्युच्यते ॥ आकाशस्यावगाहः ॥ १८ ॥ १ अश्वादिस्थितौ भूम्याधारवदित्यर्थः ॥ दधातीति धातुः आधार इत्यर्थः ॥ २ ' प्रतिपक्षिकार्यकारणत्वे सति ' इति शेषः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy