SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ सर्वार्थसिद्धिः उपकार इत्यनुवर्तते ॥ जीवपुद्गलादीनामवगाहिनामवकाशदानमवगाह आकाशस्योपकारो वोदितव्यः ॥ आह जीवपुद्गलानां क्रियावतामवगाहिनामवकाशदानं युक्तम् । धर्मास्तिकायादयः पुनर्निष्क्रिया नित्यसम्बन्धास्तेषां कथमवगाह इति चेन्न - उपचारतस्तत्सिद्धेः । यथा गमनाभावेऽपि सर्वगतमाकाश मित्युच्यते सर्वत्र सद्भावात् एवं धर्माधर्मावपि • अवगाहक्रियाभावेऽपि सर्वत्र व्याप्तिदर्शनादवगा हिनावित्युपचर्येते ॥ · आह यद्यवकाशदानमस्य स्वभावः वज्रादिभिर्लोष्टादीनां भित्यादिभिर्गवादीनां च व्याघातो न प्राप्नोति । दृश्यते च व्याघातः । तस्मादस्यावकाशदानं हीयते इति ।। नैष दोषः । • बज्रलोष्टादीनां स्थूलानां परस्परव्याघात इति नास्यावकाशदान• सामर्थ्यं हीयते । तत्रावगाहिनामेव व्याघातात् । वज्रादयः पुनः स्थूलत्वात्परस्परं प्रत्यवकाशदानं न कुर्वन्तीति नासावा - काशदोषः । ये खलु पुद्गलाः सूक्ष्मास्ते परस्परं प्रत्यवकाशदानं कुर्वन्ति ॥ यद्येवं नेदमाकाशस्यासाधारणं. लक्षणमितरेषामपि तत्सद्भावादिति ॥ तन्न । सर्वपदार्थानां साधारणावगा - हनहेतुत्वमस्या साधारणं लक्षणमिति नास्तिं दोषः ॥ अलोकाकाशे तदभावादभाव इति चेन्न - स्वभावापरित्यागात् ॥ : १६४ उक्त आकाशस्योपकारः । अथ तदनन्तरोद्दिष्टानां पुद्गलानां क उपकार इत्यत्रोच्यते— ॥ शरीरवाङ्मनःप्राणापानाः पुद्गलानाम् ॥ १९ ॥ इदमयुक्तं वर्तते । किमत्रायुक्तम् ? पुद्गलानां क उपकार १ तय अवगाहृदानस्य इत्यर्थः । अवकाशदानाभावश्च अवगाह्यद्रव्या भावात ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy