SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ २४४ . सर्वार्थसिद्धिः कश्चिन्मे स्वः परो वा विद्यते । एक एव नायेऽहम् । एक एव प्रिये । न मे कश्चित् स्वजनः परजनो वा व्याधिजरामरणादीनि दुःखान्यपहरति । गन्धुमित्राणि स्मशानं नातिवर्तन्ते । धर्म एव मे सहायः सदा अनपायीति चिन्तनमेकत्वानुप्रेक्षा ॥ एवं बस्य भावयतः स्वजनेषु प्रीत्यनुबन्धो न भवति । परजनेषु च द्वेषानुबन्धो नोपजायते । ततो निःसङ्गतामभ्युपगतो मोक्षायैव घटते १ शरीरादन्यत्वचिन्तनमन्यत्वानुप्रेक्षा । तद्यथा बन्धं प्रत्येकत्वे सत्यपि लक्षणभेदादन्योऽहमैन्द्रियकं शरीरमनिन्द्रियोऽहमज्ञं शरीरं ज्ञोऽहमनित्यं शरीरं नित्योऽहमाद्यन्तवच्छरीरमनाद्यन्तोऽहं बहुनि मे शरीरशतसहस्राण्यतीतानि संसारे परिभ्रमतः। स एवाहमन्यस्तेभ्य इत्येवं शरीरादप्यन्यत्वं मे किमङ्ग ! पुनधेिभ्यः परिग्रहेभ्य इत्येवं ह्यस्य मनःसमादधानस्य शरीरादिषु स्पृहा नोत्पद्यते । ततस्तत्वज्ञानभावनापूर्वके वैराग्यप्रकर्षे सति आत्यन्तिकस्य मोक्षसुखस्याप्तिर्भवति ॥ ५ ॥ शरीरमिदमत्यन्ताशुचि शुक्रशोणितयोन्यशुचिसंवर्धितमवस्करवदशुचिमाजनं त्वङ्मात्रप्रच्छादितमतिपूतिरसनिष्यन्दिस्रोतो. विलमङ्गारवदात्मभावमाश्रितमप्याश्वेवापादयति । मानानुलेपनधूपप्रघर्षवासमास्यादिभिरपि न शक्यमशुचित्वमपहर्तुमस्य । सम्य. ग्दर्शनादि पुनर्भाव्यमानं जीवस्यात्यन्तिकी शुद्धिमाविर्भावयतीति तत्त्वतो भावनमशुचित्वानुप्रेक्षा ॥ एवं ह्यस्य संस्मरतः शरीरनिर्वेदो भवति । निर्विणश्च जन्मोदधितरणाय चित्तं समाधत्ते ॥ ६॥ आस्रवसंवरनिर्जराः पूर्वोक्ता अपि इहोपन्यस्यन्ते तद्गुणदोषभावनार्थ । तद्यथा- आस्रवा इहामुत्रापाययुक्ता महानदीस्रोतोवेगतीक्ष्णा इन्द्रियकषायात्रतादयः। तत्रेन्द्रियाणि तावस्पर्शनादीनि वनगजबायसपन्नगपतङ्गहरिणादीन् व्यसनार्णवमवगाहयन्ति
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy