SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३४ सर्वार्थसिद्धिः नुभवः । शुभप्रकृतीनां निकृष्टः ॥ स एवं प्रत्ययवशादुपात्तोऽ नुभवो द्विधा प्रवर्तते, स्वमुखेन परमुखेन च ॥ सर्वासां मूलप्रकृतीनां स्वमुखेनैवानुभवः । उत्तरप्रकृतीनां तुल्यजातीयानां परमुखेनापि भवति ॥ आयुर्दर्शनच्चारित्रमोहवजनां न हि नरकायुर्मुखेन तिर्यगायुर्मनुष्यायुर्वा विपच्यते । नापि दर्शनमोहश्चारित्र मोहमुखेन । चारित्रमोहो वा दर्शन मोहमुखेन ॥ आह - अभ्युपेमः प्रागुपचितनानाप्रकार कर्मविपाको ऽनुभव इति । इदं तु न विजानीमः किमयं प्रसंख्यातोऽप्रसंख्यातः १ इत्यत्रोच्यते प्रसंख्यातोऽनुभूयत इति ब्रूमहे ॥ कुतः ? यतः - ॥ स यथानाम ॥ २२ ॥ ज्ञानावरणस्य फलं ज्ञानाभावो, दर्शनावरणस्य फलं दर्शनशक्त्युपरोध इत्येवमाद्यन्वर्थसञ्ज्ञानिर्देशात्सर्वासां कर्मप्रकृतीनां सविकल्पानामनुभवसम्प्रत्ययो जायते ॥ आह यदि विपाकोऽनुभवः प्रतिज्ञायते, तत्कर्मानुभूतं किमाभरणवदवतिष्ठते, आहोस्विन्निष्पीतसारं प्रच्यवते ? इत्यत्रो - च्यते --- ॥ ततश्च निर्जरा ॥ २३ ॥ पीडानुग्रहावात्मने प्रदायाभ्यवहृतौदनादिविकारवत्पूर्वस्थितिक्षयादवस्थानाभावात्कर्मणो निवृत्तिर्निर्जरा ॥ सा द्विप्रकाराविपाकजा इतरा च ॥ तत्र चतुर्गतावनेक जातिविशेषावघूर्णिते संसारमहार्णवे चिरं पंरिभ्रमतः शुभाशुभस्य कर्मणः क्रमेण परि पाककालप्राप्तस्यानुभवोदयावलिस्रोतोऽनुप्रविष्टस्यारब्धफलस्य या १ अन्वर्थसज्ञः सन्प्रसंख्यातः । २ प्रसंख्यातः सन्ननुभूयते ज्ञायत इत्यर्थः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy