SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः १३३ ख्येयवर्षकोटीसमयमात्रच्छिनैस्तत्पूर्णमुद्धारपल्यम् ॥ ततः समये समये एकैकस्मित्रोमच्छेदेऽपकृष्यमाणे यावता कालेन तद्रिक्तं भवति तावान्काल उद्धारपल्योपमाख्यः ॥ तेषामुद्धारपल्यानां दशकोटीकोट्य एकमुद्धारसागरोपमम् ॥ अर्धतृतीयोद्धारसागरोपमानां यावन्तो रोमच्छेदास्तावन्तो द्वीपसमुद्राः ॥ पुनरुद्धारपल्यरोमच्छेदैवर्षशतसमयमात्रच्छिनैः पूर्णमद्धापल्यम् ॥ ततः समये समये एकैकस्मित्रोमच्छेदेऽपकृष्यमाणे यावता . कालेन तद्रिक्तं भवति तावान्कालोऽद्धापल्योपमाख्यः ॥ एषामद्धापल्यानां दशकोटीकोट्य एकमद्धासागरोपमम् ॥ दशाद्धासागरोपमकोटीकोट्य एकावसर्पिणी ॥ तावत्येवोत्सर्पिणी ॥ अनेनाद्धापल्येन नारकतैर्यग्योनानां देवमनुष्याणां च कर्मस्थितिर्भवस्थितिरायुःस्थितिः कायस्थितिश्च परिच्छेत्तव्या ॥ उक्ता च संग्रहगाथा- ववहारुद्धारद्धा पल्ला तिण्णेव होंति बोद्धव्वा । संखादी च सम्मुद्दा कम्मठिदि वण्णिदा तदिये ॥ १॥ यथैवेते उत्कृष्टजघन्ये स्थिती नृणां तथैव ॥ तिर्यग्योनिजानां च ॥ ३९॥ तिरश्चां योनिस्तिर्यग्योनिः । तिर्यग्गतिनामकोदयापादितं जन्मेत्यर्थः । तिर्यग्योनौ जातास्तिर्यग्योनिजाः। तेषां तिर्यग्योनिजानामुत्कष्टा भवस्थितिस्निपल्योपमा ॥ जघन्या अन्तर्मुहूर्ता ॥ मध्येऽनेकविकल्पा ॥ ७ ॥ भूबिललेश्याद्यायु द्वीपोदधिवास्यगिरिसरःसरिताम् ॥ मानं नृणां च भेदः स्थितिस्तिरश्चामपि तृतीयाध्याये ॥१॥ ॥ इति तत्त्वार्थवृत्तौ सर्वार्थसिद्धिसज्ञिकायां तृतीयोऽध्यायः ॥ ३ ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy