SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः १५१ शर्कराप्रभायां जघन्या। शर्कराप्रभायामुत्कृष्टा स्थितिस्त्रीणि सागरोपमाणि । सा वालुकाप्रभायां जघन्येत्यादि ॥ एवं द्वितीयादिषु जघन्या स्थितिरुक्ता ॥ प्रथमायां का जघन्येति तत्प्रदर्शनार्थमाह॥दशवर्षसहस्राणि प्रथमायाम् ॥ ३६॥ अपरा स्थितिरित्यनुवर्तते । रत्नप्रभायां दशवर्षसहस्राणि अपरा स्थितिदितव्या ॥ अथ भवनवासिनां का जघन्या स्थितिरित्यत आह ॥ भवनेषु च ॥ ३७॥ चशब्दः किमर्थः ? प्रकृतसमुच्चयार्थः ॥ तेन भवनवासिनामपरा स्थितिर्दशवर्षसहस्राणीत्यभिसम्बध्यते ॥ व्यन्तराणां तर्हि का जघन्या स्थितिरित्यत आह ॥ व्यन्तराणां च ॥ ३८॥ चशब्दः प्रकृतसमुच्चयार्थः ॥ तेन व्यन्तराणामपरा स्थितिदशवर्षसहस्राणीत्यवगम्यते ॥ अथैषां परा स्थितिः का इत्यत्रोच्यते ॥ ॥ परा पल्योपममधिकम् ॥ ३९ ॥ परा उत्कृष्टा स्थितिय॑न्तराणां पल्योपममधिकम् ॥ इदानीं ज्योतिप्काणां परा स्थितिर्वक्तव्येत्यत आह ॥ज्योतिष्काणां च ॥ ४०॥ चशब्दः प्रकृतसमुच्चयार्थः ॥ तेनैवमभिसम्बन्धः । ज्योति
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy