SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ १६० सर्वार्थसिद्धिः धर्मादीन्युत्तरकालभावी नि । अतो व्यवहारनयापेक्षयाऽपि आधाराधेयकल्पनानुपपत्तिरिति ॥ नैष दोषः ॥ युगपद्धाविनामपि आधाराधेयभावो दृश्यते । घटे रूपादयः शरीरे हस्तादय इति ॥ लोक इत्युच्यते । को लोकः ? । धर्माधर्मादीनि द्रव्याणि यत्र लोक्यन्ते स लोक इति । अधिकरणसाधने घञ् ॥ आकाशं द्विधा विभक्तं । लोकाकाशमलोकाकाशं चेति ॥ लोक उक्तः । स यत्र तल्लोकाकाशम् । ततो बहिः सर्वतोऽनन्तमलोकाकाशम् ॥ लोकालोकविभागश्च धर्माधर्मास्तिकायसद्भावाद्विज्ञेयः ॥ असति हि तस्मिन्धर्मास्तिकाये जीवपुद्गलानां गतिनियमहेत्वभावाद्विभागो न स्यात् । असति चाधर्मास्तिकाये स्थितेराश्रयनिमित्ताभावात् स्थितेरभावः । तस्या अभावे लोकालोकविभागाभावो वा स्यात् । तस्मादुभयसद्भावाल्लोकालोकविभागसिद्धिः ॥ तत्रावध्रियमाणानामवस्थानभेदसम्भवाद्विशेषप्रतिपत्त्यर्थमाह-- ॥ धर्माधर्मयोः कृत्स्ने ॥ १३ ॥ कृत्सवचनमशेषव्याप्तिप्रदर्शनार्थम् । अगारेऽवस्थितो घट इति यथा , तथा धर्माधर्मयोलॊकाकाशेऽवगाहो न भवति ? किं तर्हि । कृत्ले , तिलेषु तैलवदिति ॥ अन्योन्यप्रदेशप्रवेशव्याघाताभावः अवगाहनशक्तियोगाद्वेदितव्यः ।। अतो विपरीतानां मूर्तिमतामेकप्रदेशसंख्येयासंख्येयानन्तप्रदेशानां पुद्गलानामवगाहविशेषप्रतिपत्त्यर्थमाह॥ एकप्रदेशादिषु भाज्यः पुद्गलानाम् ॥ १४ ॥ एक एव प्रदेशः एकप्रदेशः । एकप्रदेश आदिर्येषां त इमे एकप्रदेशादयः । तेषु पुद्गलानामवगाहो भाज्यो विकल्प्यः ॥ अवयवेन विग्रहसमुदायः समासार्थ इति एकप्रदेशोऽपि गृह्यते ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy