________________
पंचमोऽध्यायः
१५९ पुद्गलानामित्यविशेषवचनात्परमाणोरपि प्रदेशत्वप्रसङ्गे तत्प्र. तिषेधार्थमाह
॥ नाणोः ॥ ११ ॥ अणोः प्रदेशा न सन्तीति वाक्यशेषः ॥ कुतो न सन्तीति चेत् प्रदेशमात्रत्वात् । यथा आकाशप्रदेशस्यैकस्य प्रदेशभेदाभावादप्रदेशत्वमेवमणोरपि प्रदेशमात्रत्वात्प्रदेशभेदाभावः ॥ किं च ततोऽ ल्पपरिमाणाभावान्न ह्यणोरल्पीयानन्योऽस्ति । यतोऽस्य प्रदेशा भिधेरन् ॥ ' एषामवधृतप्रदेशानां धर्मादीनामाधारप्रतिपत्यर्थमिदमुच्यते--
॥ लोकाकाशेऽवगाहः ॥ १२ ॥ उक्तानां धर्मादीनां द्रव्याणां लोकाकाशेऽवगाहो न बहिरित्यर्थः ॥ यदि धर्मादीनां लोकाकाशमाधारः। आकाशस्य क आधार इति ? || आकाशस्य नास्त्यन्य आधारः । स्वप्रतिष्ठमाकाशम् ॥ यद्याकाशं स्वप्रतिष्ठं , धर्मादीन्यपि स्वप्रतिष्ठान्येव । अथ . धर्मादीनामन्य आधारः कल्प्यते , आकाशस्याप्यन्य आधारः कल्प्यः । तथा सत्यनवस्थाप्रसङ्ग इति चेन्नैष दोषः ॥ नाकाशादन्यदधिकपरिमाणं द्रव्यमस्ति । यत्राकाशं स्थितमित्युच्यते । सर्वतोऽनन्तं हि तत् । ततो धर्मादीनां पुनरधिकरणमाकाशमि. त्युच्यते व्यवहारनयवशात् । एवम्भूतनयापेक्षया तु सर्वाणि द्रव्याणि स्वप्रतिष्ठान्येव ॥ तथा चोक्तं , क भवानास्ते? आत्मनीति ॥ धर्मादीनि लोकाकाशान्न बहिः सन्तीति एतावत् अत्राधाराधेयकल्पनासाध्यं फलम् ॥ ननु च लोके पूर्वोत्तरकालभाविनामाधाराधेयभावो दृष्टः यथा कुण्डे बदरादीनां । न तथाऽऽकाशं पूर्वम् ।