SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १४८ सर्वार्थसिद्धिः -- देवानां नोक्ता । तस्यां वक्तव्यायामादावुद्दिष्टानां भवनवासिनां स्थितिप्रतिपादनार्थमाह-- ॥ स्थितिरसुरनागसुपर्णद्वीपशेषाणां सागरोपमत्रिपल्योपमाईहीनमिता ॥ २८ ॥ असुरादीनां सागरोपमादिभिर्यथाक्रममत्राभिसम्बन्धो वेदितव्यः ॥ इयं स्थितिरुत्कृष्टा । जघन्याऽप्युत्तरत्र वक्ष्यते ॥ तद्यथाअसुराणां सागरोपमा स्थितिः । नागानां त्रिपल्योपमा स्थितिः । सुपर्णानामर्द्धतृतीयानि । द्वीपानां द्वे । शेषाणां षण्णामध्यर्द्धपल्योपमम् ॥ ___आद्यदेवनिकायस्थित्यभिधानादनन्तरं व्यन्तरज्योतिष्कस्थितिवचने क्रमप्राप्ते सति तदुल्लङ्घय वैमानिकानां स्थितिरुच्यते । कुतः ? तयोरुत्तरत्र. लघुनोपायेन स्थितिवचनात् ॥ तेषु चादावुद्दिष्टयोः कल्पयोः स्थितिविधानार्थमाह-- ॥ सौधर्मेशानयोः सागरोपमे अधिके ॥२९॥ ___ सागरोपमे इति द्विवचननिर्देशात् द्वित्वगतिः । अधिके इत्ययमधिकारः । आ कुतः? आ सहस्रारात् । इदं तु कुतो ज्ञायते ? उत्तरत्र तुशब्दग्रहणात् । तेन सौधर्मेशानयोर्देवानां द्वे सागरोपमे सातिरेके प्रत्येतव्ये ॥ उत्तरयोः स्थितिविशेषप्रतिपत्त्यर्थमाह॥ सानत्कुमारमाहेन्द्रयोः सप्त ॥ ३०॥ १ घातायुष्कसम्यग्दृष्ट्यपेक्षया किश्चिदूनार्द्धसागरोपममाधिकं भवति सोध. मेकल्पासहस्रारपर्यन्तम् ॥ सम्मे घादेऊणं सायारदळमहियमासहस्सारा इति । वचनात् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy