SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ भूमिका. विजयो बुद्धिमान्गङ्ग- । देवो धर्मादिशब्दतः ॥ सेनश्च दशपूर्वाणां । धारकाः स्युर्यथाक्रमम् || १४६ ॥ त्र्यशीतं शतमब्दाना | मेतेषां कालसंग्रहः ॥ तदा च कृत्स्नमेवेदं । पुराणं विस्तरिष्यते ॥ २४५ ॥ ततो नक्षत्रनामा च जयपालो महातपाः ॥ पाण्डुश्च ध्रुवसेनवं । कंसाचार्य इति क्रमात् ॥ १४६ ॥ एकादशाङ्गविद्यानां । पारगाः स्युर्मुनीश्वराः ॥ विंशं द्विशतमब्दाना । मेतेषां काल इष्यते ॥ १४७ ॥ तदा. पुराणमेतत्तु । पादोनं प्रथयिष्यत ॥ भाजनाभावतो भूयो । जायेत ज्ञाकनिष्ठता ॥ १४८ ॥ सुभद्रश्च यशोभद्रो । भद्रबाहुर्महायशाः || लोहार्यश्चेत्य भी ज्ञेयाः । प्रथमाप्राब्धिपारगाः ॥ १४९ ॥ समानां शतमेषां स्यात् । कालोऽ ष्टादशभिर्युतः ॥ तुर्यो भागः पुराणस्य । तदाऽस्य प्रतनिष्यते १ १० उपर्युक्तवचनतश्चरमो भद्रबाहुर्महावीराजननिर्वृतेः सप्तमे शतकेऽभवदिति निश्चीयत । तस्य प्रशिष्योऽयमुमास्वातिः कंदा बभूवेति निर्णयम् ॥ ख्रिस्त शतकात्पूर्वं महावीरशतकं षट्शतवार्षिकमिति प्रसिद्धिर्वर्तते । तत्प्रमाणतया गृहीतं चेदितोऽष्टादशशतवर्षतः पूर्वम्रयमुमास्वातिर्बभूवेति निश्चीयते ॥ अनेनार्यजननिषेव्येण भगवदुमास्वातिना मोक्षशास्त्रं व्यरचि ॥ अत्र कर्णाटभाषानिबद्ध तत्त्वार्थवृत्ति प्रस्तावनातश्चेयं कथा ज्ञायते साम्प्रतं तत्पुस्तकाभावाद्यथास्मृतमत्रोदाहरिष्यामः · -- . आसीत् किल सौराष्ट्रे (गुजराथ) देशे द्वैपायकनामा कश्चिद्विद्वदप्रेसरो नित्यनैमित्तिक क्रियानुष्ठानपावित्रितान्तःकरणः श्रावकः ॥ कदाचित्स च स्वस्य स्वाध्यायार्थ मोक्षशास्त्रं रिरंचयिष्यन् ' प्रत्यहमेकं सूत्रं निर्मायैव भुनज्मि नो चेदुपवास एव शरणमिति' नियमं विधाय प्रथमेऽह्नि प्राथमिकं ' दर्शनज्ञानचा - रित्राणि मोक्षमार्गः ' इत्येवंरूपं सूत्रं विरच्य स्मृतिभ्रंशभयात्
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy