SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः दृष्टिवाद इति ॥ दृष्टिवादः पञ्चविधः- परिकर्म । सूत्रम् । प्रथमानुयोगः । पूर्वगतम् । चूलिका चेति ॥ तत्र पूर्वगतं चतुदशविधम् -- उत्पादपूर्वम् । अग्रायणीयम् । वीर्यानुप्रवादम् । अस्तिनास्तिप्रवादम् ॥ ज्ञानप्रवादम् । सत्यप्रवादम् । आत्मप्रवादम् । कर्मप्रवादम् । प्रत्याख्याननामधेयम् । विद्यानुप्रवादम् । कल्याणनामधेयम् । प्राणावायम् । क्रियाविशालम् । लोकबिन्दुसारमिति ॥ तदेतत् श्रुतं द्विभेदमनकभेदं द्वादशभेदमिति ॥ किंकृतोऽयं विशेषः? । वक्तृविशेषकृतः ॥ त्रयो वक्तारः । सर्वज्ञतीर्थकरः । इतरो वा श्रुतकेवली। आरातीयश्चेति ॥ तत्र सर्वज्ञेन परमर्षिणा परमाचिन्त्यकेवलज्ञानविभूतिविशेषेण अर्थत आगम उद्दिष्टः । तस्य प्रत्यक्षदर्शित्वात्प्रक्षीणदोषत्वाच्च प्रामाण्यम् । तस्य साक्षाच्छिष्यैर्बुध्यतिशयर्धियुक्तैर्गणधरैः श्रुतकेवलिभिरनुस्मृतग्रन्थरचनमङ्गपूर्वलक्षणं तत्प्रमाणं, तत्प्रामाण्यात् ॥ आरातीयैः पुनराचार्यैः कालदोषासङ्क्षिप्तायुर्मतिबलशिष्यानुग्रहार्थं दशवैकालिकाद्युपनिबद्धं, तत्प्रमाणमर्थतस्तदेवेदमिति ॥ क्षीरार्णवजलं घटगृहीतमिव । ____व्याख्यातं परोक्षम् । प्रत्यक्षमिदानीं वक्तव्यम् । तत् द्वेधा- देशप्रत्यक्षं सकलप्रत्यक्षं च ॥ देशप्रत्यक्षमवधिमनःपर्ययज्ञाने । सर्वप्रत्यक्षं केवलम् ॥ यद्येवमिदमेव तावदवधिज्ञानं त्रिःप्रकारस्य प्रत्यक्षस्याद्यं व्याक्रियतामित्यत्रोच्यते ॥ द्विविधोऽवधिः। भवप्रत्ययः क्षयोपशमनिमित्तश्चेति ॥ तत्र भवप्रत्यय उच्यते. ॥ भवप्रत्ययोऽवधिदेवनारकाणाम् ॥ २१ ॥ ___भव इत्युच्यते । को भवः? । आयुर्नामकर्मोदयनिमित्त आत्मनः पर्यायो भवः । प्रत्ययः कारणं निमित्तमित्यनान्त
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy