SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १७१ पंचमोऽध्यायः वंशशंखादिनिमित्तः सौषिरः ॥. बन्धो द्विविधो वैस्रसिकः प्रायोगिकश्च ॥ पुरुषप्रयोगानपेक्षो वैस्रसिकः । तद्यथा- स्निग्धरूक्षत्वगुणनिमित्तो विद्युदुल्काजलधारामीन्द्रधनुरादिविषयः ॥ पुरुषप्रयोग. निमित्तः प्रायोगिकः, अजीवविषयो जीवाजीवविषयश्चेति द्विधा भिन्नः । तत्राजीवविषयो जतुकाष्ठादिलक्षणः। जीवाजीवविषयः कर्मनोकर्मबन्धः ॥ सौक्ष्म्यं द्विविधं , अन्त्यमापेक्षिकं च ॥ तत्रान्त्यं परमाणूनाम् । आपेक्षिकं बिल्वामलकबदरादीनाम् ॥ स्थौल्यमपि द्विविधं , अन्त्यमापेक्षिकं चेति ॥ तत्रान्त्यं जगद्व्यापिनि महास्कन्धे । आपेक्षिकं बदरामलकबिल्वतालादिषु ॥ संस्थानमाकृतिः । तविविधं , इत्थंलक्षणमनित्थंलक्षणं चेति ॥ वृत्तव्यस्रचतुरस्रायतपरिमण्डलादीनामित्थंलक्षणम् । ततोऽन्य मेघादीनां संस्थानमनेकविधमित्थमिदमिति निरूपणाभावादनित्थंलक्षणम् ॥ भेदाः षोढा, उत्कर चूर्णखण्डचूर्णिकाप्रतराणुचटनविकल्पात् ॥ तत्रोत्करः काष्ठादीनां करपत्रादिभिरुत्करणम् । चूों यवगोधूमादीनां सक्तुकणिकादिः । खण्डो घटादीनां कपालशर्करादिः । चूर्णिका माषमु. गादीनाम् । प्रतरोऽभ्रपटलादीनाम् । अणुचटनं सन्तप्तायःपिण्डादिषु अयोधनादिभिरभिहन्यमानेषु स्फुलिङ्गनिर्गमः ॥ तमो दृष्टिप्रतिबन्धकारणं प्रकाशविरोधि ॥ छाया प्रकाशावरणनिमित्ता । सा द्वेधा , वर्णादिविकारपरिणता प्रतिबिम्बमातात्मिका चेति ॥ आतपः आदित्यादिनिमित्तः उष्णप्रकाशलक्षणः ॥ उद्योतश्चन्द्रमणिखद्योतादिप्रभवः प्रकाशः ।। त एते शब्दादयः पुद्गलद्रव्यविकारास्त एषां सन्तीति शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायाऽऽतपो. द्योतवन्तः पुद्गला इत्यभिसम्बध्यते ॥ चशब्देन नोदनाभिघातादयः पुद्गलपरिणामा आगमे प्रसिद्धाः समुच्चीयन्ते ॥ दर्पणादिसंस्थानम् ।। २ गोलकसंस्थानम् । ३ कवादिभिः । ..
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy