SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः घूककपिमुखाः अन्तरेषु । मेघविद्युन्मुखाः शिखरिण उभयो. रन्तयोः । मत्स्यमुखकालमुखाः हिमवत उभयोरन्तयोः । हस्तिमुखा आदर्शमुखाः उत्तरविजयादस्योभयोरन्तयोः । गोमुखभेषमुखाः दक्षिणदिग्विजयार्धस्योभयोरन्तयोः। एकोरुका मृदाहारा गुहावासिनः शेषाः पुष्पफलाहारा वृक्षवासिनः सर्वे ते पल्योपमायुषः ॥ ते चतुर्विंशतिरपि द्वीपा जलतलादेकयोजनोत्सेधाः ॥ लवणोदधेबर्बाह्यपार्श्वेऽप्येवं चतुर्विशतिीपा विज्ञातव्याः ॥ तथा कालो. देऽपि वेदितव्याः ॥ त एतेऽन्तीपजा म्लेच्छाः कर्मभूमिजाश्च शकयवनशबरपुलिन्दादयः ॥ ___काः पुनः कर्मभूमय इत्यत आह॥ भरतैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः ॥ ३७॥ भरतैरावतविदेहाश्च पञ्च पञ्च, एताः कर्मभूमय इति व्यपदिश्यन्ते ॥ तत्र विदेहग्रहणादेवकुरूत्तरकुरुग्रहणे प्रसक्ते तत्प्रतिषेधार्थमाह " अन्यत्र देवकुरूत्तरकुरुभ्यः” इति ॥ अन्यत्र शब्दो वर्जनार्थः । देवकुरव उत्तरकुरवो हैमवतो हरिवर्षों रम्यको हैरण्यवतोऽन्तीपाश्च भोगभूमय इति व्यपदिश्यन्ते ॥ अथ कथं कर्मभूमित्वं ? शुभाशुभलक्षणस्य कर्मणोऽधिष्ठानत्वात् ॥ ननु सर्वं लोकत्रितयं कर्मणोऽधिष्ठानमेव, तत एवं प्रकर्षगतिर्विज्ञास्यते प्रकर्षेण यत्कर्मणोऽधिष्ठानमिति ॥ तत्राशुभकर्मणस्तावत्सप्तमनरकप्रापणस्य भरतादिष्वेवार्जनं, शुभस्य सर्वार्थसिध्यादिस्थानविशेषप्रापणस्य पुण्यकर्मण उपार्जनं, तत्रैव कृप्यादिलक्षणस्य षड् १ असिमषिः कृषिविद्या वाणिज्यं शिल्पमित्यपि। कर्माणि षड्विधानि स्युः प्रजाजीवनहेतवः ॥ १॥ अत्रासिकर्म सेवायां मषिलिपिविधौ स्मृता ।
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy