SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ १०८ सर्वार्थसिद्धिःकार्यकारणभावसन्तत्या अनादिसम्बन्भे, विशेषापेक्षया सादिसम्बन्धे. ऽपि च बीजवृक्षवत् ॥ यथौदारिकवैक्रियिकाहारकाणि जीवस्य कादाचित्कानि, न तथा तैजसकार्मणे । नित्यसम्बन्धिनी हि ते आसंसारक्षयात् ॥ त एते तैजसकार्मणे किं कस्यचिदेव भवत उताविशेषेणेत्यत आह ॥ सर्वस्य ॥ ४२॥ सर्वशब्दो निरवशेषवाची। निरवशेषस्य संसारिणो जीवस्य ते द्वे अपि शरीरे भवत इत्यर्थः ॥ ___ अविशेषाभिधानात्तैरौदारिकादिभिः सर्वस्य संसारिणो योगपद्येन सम्बन्धप्रसङ्गे सम्भविशरीरप्रदर्शनार्थमिदमुच्यते.तदादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्थ्यः ४३ तच्छब्दः प्रकृततैजसकार्मणप्रतिनिर्देशार्थः। ते तैजसकामणे आदिर्येषां तानि तदादीनि । भाज्यानि विकल्प्यानि । आ कुतः । आ चतुर्थ्यः । युगपदेकस्यात्मनः ॥ कस्यचित् द्वे, तैजसकामणे । अपरस्य त्रीणि औदारिकतैजसकार्मणानि; वैकि. यिकतैजसकार्मणानि वा। अन्यस्य चत्वारि , औदारिकाहारकतैजसकार्मणानीति विभागः क्रियते ॥ पुनरपि तेषां विशेषप्रतिपत्त्यर्थमाह-. ॥ निरुपभोगमन्त्यम् ॥ ४४ ॥ १ विग्रहगत्यासन्नस्य..
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy