SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २६८ सर्वार्थसिद्धिः यगुणमिर्जरो भवति । स एव पुनरनन्तानुवन्धिकोधमानमायालोभानां वियोजनपरो भवति* यदा तदा परिणामविशुद्धिपकर्षयोगारतोऽसंख्येयगुणनिर्जरो भवति । स एव पुनर्दर्शनमोहप्रकृतित्रयतृणनिचयं निर्दिधक्षन् परिणामविशुध्धतिशययोगादर्शनमोहक्षपकव्यपदेशभाक् तेष्वेव पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । एवं सः क्षाषिकसम्यग्दृष्टिभूत्वा श्रेण्यारोहणाभिमुखश्चारित्रमोहोपशमं प्रति व्याप्रियमाणो विशुद्धिप्रकर्षयोगादुपशमकव्यपदेशमनुभवन् पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव पुनरशेषचारित्रमोहोपशमनिमित्तसन्निधाने परिप्राप्तोपशान्तकषायव्यपदेशः पूर्वोक्तादसंख्येयगुणनिर्जरो भवति । स एव पुनश्चारित्रमोहक्षपणं प्रत्यभिमुखः परिमामविशुध्द्या वर्द्धमानः क्षपकव्यपदेशमनुभवन्पूर्वोक्तादसंख्येय. गुणनिर्जरो भवति । स यदा निःशेषचारित्रमोहक्षपणकारणपरिणामाभिमुखः क्षीणकषायव्यपदेशमास्कन्दन्पूर्वोक्तादसंख्येयगुणनिर्जरो भवति स एव द्वितीय शुक्लध्यानानलनिर्दग्धघातिकर्मनिचयः सन् जिनव्यपदेशभाक् पूर्वोक्तादसंख्येयगुणनिर्जरो भवति ।। आह सम्यग्दर्शनसन्निधानेऽपि यद्यसंख्येयगुणनिर्जरत्वात्परस्परसो न साम्यमेषां, किं तर्हि श्रावकवदमी विरतादयो गुणभेदान्न निम्रन्थतामर्हन्तीत्युच्यते ॥ नैतदेवम् । कुतः। यस्माद्गुणमेदादन्योऽन्यविशेषेऽपि नैगमादिनयव्यापारात्सर्वेऽपि हि भवन्ति॥ पुलाकबकुशकुशीलनिग्रन्थस्नातका निर्ग्रन्थाः॥४६॥ उत्तरगुणभावनोपेतमनसो व्रतेप्वपि कचित्कदाचित्परिपूर्णतामपरिप्राप्नुवन्तोऽविशुद्धाः पुलाकसादृश्यात्पुलाका इत्युच्यन्ते । * अविरतादिचतुर्ष, इत्यधिकः पाठस्तालपत्रपुस्तके वर्तते ॥ ... १ स्यात्पुलाकस्तुच्छ धान्ये ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy