SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २२८ सर्वार्थसिद्धिः मावृण्वन्तोऽप्रत्याख्यानावरणाः क्रोधमानमायालोभाः। यदुदयाद्विरति कृत्स्नां संयमाख्यां न शक्नोति कर्तुं ते कृत्यं प्रत्याख्यानमावृण्वन्तः प्रत्याख्यानावरणाः क्रोधमानमायालोमाः । समेकीभावे वर्तते । संयमेन सहावस्थानादेकीभूय ज्वलन्ति संयमो वा ज्वलत्येषु, सत्स्वपीति संज्वलनाः क्रोधमानमायालोमाः । त एते समुदिताः सन्तः षोडश कषाया भवन्ति ॥ मोहनीयानन्तरोद्देशभाज आयुष उत्तरप्रकृतिनिपिनार्थमाह नारकतैर्यग्योनमानुषदैवानि ॥१०॥ . नारकादिषु भवसम्बन्धेनायुषो व्यपदेशः क्रियते । नरकेषु भवं नारकमायुः। तिर्यग्योनिषु भवं तैर्यग्योनम् । मानुषेषु भवं मानुषं । देवेषु भवं दैवमिति ॥ नरकेषु तीव्रशीतोष्णवेदनेषु यनिमित्तं दीर्घजीवनं तन्नारकम् ॥ एवं शेषेष्वपि । आयुश्चतुर्विधं व्याख्यातं तदनन्तरमुद्दिष्टं यन्नामकर्म तदुत्तरप्रकृतिनिर्णयार्थमाह॥ गतिजातिशरीराङ्गोपाङ्गनिर्माणबन्धनसंघातसंस्थानसंहननस्पर्शरसगन्धवर्णानुपूर्व्यागुरुलघूपघातपरघातातपोद्योतोच्छ्वासविहायोगतयः प्रत्येकशरीरत्रससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरादेययशःकीर्तिसेतराणि तीर्थकरत्वं च ११ यदुदयादात्मा भवान्तरं गच्छति सा गतिः। सा चतु. विधा- नरकगतिस्तिर्यग्गतिर्देवगतिर्मनुष्यगतिश्चेति ॥ यनिमित्त आत्मनो नारको भावस्तन्नरकगतिनाम । एवं शेषेष्वपि योज्यम् ॥ तासु नरकादिगतिप्वव्यभिचारिणा सादृश्येनेकीकृतोऽर्थात्मा जातिः॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy