SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः अथ त्रसाः के ते इत्यत्रोच्यते ॥ ॥ द्वीन्द्रियादयस्त्रसाः ॥ १४ ॥ .. द्वे इन्द्रिये यस्य सोऽयं द्वीन्द्रियः, द्वीन्द्रियः आदिर्येषां ते द्वीन्द्रियादयः ॥ आदिशब्दो व्यवस्थावाची। क व्यवस्थिताः। आगमे । कथम् । द्वीन्द्रियस्त्रीन्द्रियश्चतुरिन्द्रियः पञ्चेन्द्रियश्चेति ॥ तद्गुणसंविज्ञानवृत्तिग्रहणात् द्वीन्द्रियस्याप्यन्तर्भावः ॥ कति पुनरेषां प्राणाः ? । द्वीन्द्रियस्य तावत् षट् प्राणा पूर्वोक्ता एव रसनवाक्प्राणाधिकाः । त्रीन्द्रियस्य सप्त त एव घ्राणप्राणाधिकाः । चतुरािंद्रियम्याष्टा त एव चक्षुःप्राणाधिकाः । पञ्चेन्द्रियस्य तिरश्चोःसंज्ञिनो नव त एव श्रोत्रप्राणाधिकाः । सचिनो दश त एव मनोबलप्राणाधिकाः ॥ आदिशब्देन निर्दिष्टानामनितिसंख्यानामियत्तावधारणं कर्तव्यमित्यत आह ॥ ॥ पञ्चेन्द्रियाणि ॥ १५॥ इन्द्रियशब्दो व्याख्यातार्थः । पञ्चग्रहणमवधारणार्थ, पञ्चैव नाधिकसंख्यानीति ॥ कर्मेन्द्रियाणां वागादीनामिह ग्रहणं कर्तव्यम् । न कर्तव्यम् । उपयोगप्रकरणात् ॥ उपयोगसाधनानामिह ग्रहणं कृतं, न क्रियासाधनानामनवस्थानाच ॥ क्रियासाधनानामङ्गोपाङ्गनामकर्मनिवर्तितानां सर्वेषामपि क्रियासाधनत्वमस्तीति न पञ्चैव कर्मेन्द्रियाणि ॥ १ मर्यादावाची, तेन पञ्चेन्द्रियादूर्ध्वं षडिन्द्रियादजीवो न भवतीत्य. भिप्रायः ॥ २ तद्गुणसंविज्ञानबहुव्री।हसमासे उदाहरणं लम्बणः । भद्णसावज्ञ ने बहुधनः ॥-३ तदिन्द्रयानिन्द्रियानमित्तमात सूतव्याख्यानावसरे ॥ ४ वाक्पाणिपादपायूपस्थानाम् ॥ .
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy