SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः पल्योपमासंख्येयभागः । एकजीवं प्रति जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः ॥ प्रमत्ताप्रमत्तयोश्चतुर्णामुपशमकानां च नानाजीवापेक्षया एकजीवापेक्षया च जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्टिमिथ्यादृष्टीनां सामान्योक्तः कालः ॥ (१३) सञ्ज्ञानुवादेन- संज्ञिषु मिथ्यादृष्टयाद्यनिवृत्तिबादरान्तानां पुंवेदवत् । शेषाणां सामान्योक्तः कालः ॥ असंज्ञिनां मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येन क्षुद्रभवग्रहणम् ॥ तिण्णिसया छत्तीसा छावट्ठी सहस्सगाणि मरणाणि । अंतोमुहुत्तमेत्ते तावदिया चेव होंति खुद्दभवा ॥ ६६३३६ ॥ उत्कर्षेणानन्तः कालोऽसंख्येयाः पुद्गलपरिवर्ताः । तदुभयव्यपदेशरहितानां सामान्योक्तः कालः ॥ (१४) आहारानुवादेन- आहारकेषु मिथ्यादृष्टेनानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति. जघन्येनान्तर्मुहूर्तः। उत्कर्षेणांगुलासंख्येयभागा असंख्येयाः संख्येया उत्सर्पिण्यवसर्पिण्यः । शेषाणां सामान्योक्तः कालः ॥ अनाहारकेषु मिथ्यादृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेण त्रयः समयाः ॥ सासादनसम्यग्दृष्टयसँयतसम्यग्दृष्टयो नाजीवापेक्षया जघन्यनैकः समयः । . उत्कर्षणावलिकाया असंख्येयभागः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षण द्वौ समयौ ॥ सयोगकेवीलनो नानाजीवापेक्षया जघन्येन त्रयः समयाः । उत्कर्षेण संख्येयाः समयाः। एकजीवं प्रति जघन्यश्चोत्कृष्टश्च त्रयः समयाः ॥ अयोगकेवलिनां सामान्योक्तः कालः ॥ कालो वर्णितः ॥ १ एकं द्वौ त्रीन्वाऽनाहारक इति वक्ष्यमाणत्वात् ॥ २ समये संमये दण्डादिप्रारम्भकत्वात् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy