SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ३८ सर्वार्थसिद्धिः सागरोपमाणि देशोनानि ॥ तेजःपद्मलेश्ययोमिथ्यादृष्टयसँयतसम्यग्दृष्टयोनीनाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण द्वे सागरोपमे अष्टादश च सागरोपमाणि साँतिरेकाणि ॥ सासादनसम्यग्दृष्टिसम्यमिथ्यादृष्ट्योः सामान्योक्तः कालः ॥ सँयतासँयतप्रमत्ताप्रमत्तानां नानाजीवापेक्षया सर्वः कालः ॥ एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ शुक्ललेश्यानां मिथ्यादृष्टेनीनाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेणैकत्रिंशत्सागरोपमाणि सोतिरेकाणि ॥ सासादनसम्यग्दृष्ट्यादिसयोगकेवल्यन्तानामलेश्यानां च सामान्योक्तः कालः । किं तु सँयतासँयतस्य नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनैकः समयः । उत्कर्षेणान्तर्मुहूर्तः ॥ (११) भव्यानुवादेन- भव्येषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः ॥ एकजीवापेक्षया द्वौ भङ्गौ । अनादिः सपर्यवसानः सादिः सपर्यवसानश्च । तत्र सादिः सपर्यवसानो जघन्येनान्तर्मुहूर्तः । उत्कर्षेणार्द्धपुद्गलपरिवर्तो देशोनः ॥ सासादनसम्यग्दृष्टयाद्ययोगकेवल्यन्तानां सामान्योक्तः कालः ॥ अभव्यानामनाद्यपर्यवसानः ॥ (१२) सम्यक्त्वानुवादेन- क्षायिकसम्यग्दृष्टीनामसँयतसम्यग्दृष्ट्याद्ययोगकेवल्यन्तानां सामान्योक्तः कालः ॥ क्षायोपशमिकसम्यग्दृष्टीनां चतुर्णा सामान्योक्तः कालः ॥ औपशमिकसम्यक्त्वेषु असंयतसम्यग्दृष्टिसंयतासंयतयो नाजीवापेक्षया जवन्येनान्तर्मुहूर्तः । उत्कर्षण १ कथमेतत्-- प्रथमस्वर्गपटलापेक्षया द्वे सागरोपमे । द्वादशस्वर्ग पटलापेक्षया अष्टादश सागरोपमाणि च तल्लेश्यायुक्तानां मारणान्तिकोत्पादसम्भवात्सातिरेकतः सागरोपमयुक्तत्वाच्च सातिरेकाणि । किंचिदाधकानीत्यर्थः।। २ ग्रैवेयकदेवापेक्षया तेषां नामानि मारणान्तिकोत्पादावस्थायामीप शुक्ललेश्यासम्भवात्सातिरेकाणि ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy