SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ४४ सर्वार्थसिद्धिः एकजीवं प्रति नास्त्यन्तरम् ॥ पुंवेदेषु मिथ्यादृष्टेः सामान्यवत् ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टयोनानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येन पल्योपमासंख्येयभागोऽन्तर्मुहूर्तश्च । उत्कर्षेण सागरोपमशतपृथक्त्वम् ॥ असंयतसम्यग्दृष्टयाद्यप्रमत्तान्तानां नानाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण सागरोपमशतपृथक्त्वम् ॥ द्वयोरुपशमकयो नाजीवापेक्षया सामान्यवत् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः। उत्कर्षेण सागरोपमशतपृथक्त्वम् । द्वयोः क्षपकयो नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण संवत्सरः साँतिरेकः । एकजीवं प्रति नास्त्यन्तरम् ॥ नपुंसकवेदेषु मिथ्यादृष्टे नाजीवापेक्षया नास्त्यन्तरम् । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रयस्त्रिंशत्सागरोपमाणि देशोनानि ॥ सासादनसम्यग्दृष्टयाद्यनिवृत्त्युपशमकान्तानां सामान्योक्तम् ॥ द्वयोः क्षपकयोः स्त्रीवेदवत् ॥ अपगतवेदेषु अनिवृत्तिबादरोपशमकसूक्ष्मसाम्परायोपशमकयो नाजीवापेक्षया सामान्योक्तम् । एकजीवं प्रति जघन्यमुत्कृष्टं चान्तर्मुहूर्तः ।। उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ शेषाणां सामान्यवत् ॥ (६) कषायानुवादेन—क्रोधमानमायालोभकषायाणां मिथ्यादृष्टयाद्यनिवृत्त्युपशमकान्तानां मनोयोगिवत् ॥ द्वयोः क्षपकयो नाजीवापेक्षया जघन्येनैकः समयः । उत्कर्षेण संवत्सरः सातिरेकः ॥ केवललोभस्य सूक्ष्मसाम्परायोपशमकस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ क्षपकस्य तस्य सामान्यवत् ॥ अकषायेषु उपशान्तकषायस्य नानाजीवापेक्षया सामान्यवत् । एकजीवं प्रति नास्त्यन्तरम् ॥ शेषाणां त्रयाणां १ अष्टादशमासा इत्यर्थः॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy