SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः १४३ एवमुत्तरत्रापि योज्यम् ॥ आगमापेक्षया व्यवस्था भवतीति , उपर्युपरीत्यनेन द्वयोर्द्वयोरभिसम्बन्धो वेदितव्यः ॥ प्रथमौ सौधर्मशानकल्पौ , तयोरुपरि सानत्कुमारमाहेन्द्रौ , तयोरुपरि ब्रह्मलोकब्रह्मोत्तरौ , तयोरुपरि लान्तवकापिष्ठौ , तयोरुपरि शुक्रमहाशुक्रौ , तयोरुपरि शतारसहस्रारौ , तयोरुपरि आनतप्राणतौ , तयोरुपरि आरणाच्युतौ ॥ अध उपरि च प्रत्येकमिन्द्रसम्बन्धो वेदितव्यः । मध्ये तु प्रतिद्वयमेकः ॥ सौधर्मेशानसानत्कुमारमाहेन्द्राणां चतुर्णा चत्वार इन्द्राः। ब्रह्मलोकब्रह्मोत्तरयोरेको ब्रह्मेन्द्रो नाम । लान्तवकापिष्ठयोरेको लान्तवाख्यः । शुक्रमहाशुक्रयोरेकः शुक्रसञ्ज्ञः । शतारसहस्रारयोरेकः शतारनामा । आनतप्राणतारणाच्युतानां चतुर्णी चत्वारः । एवं कल्पवासिनां द्वादश इन्द्रा भवन्ति ।। जम्बूद्वीपे महामन्दरो योजनसहस्रावगाहो भवति नवनवतियोजनसहस्रोच्छूयः । तस्याधस्तादधोलोकः । बाहुल्येन तत्प्रमाण-(मेरुप्रमाण)स्तिर्यक्प्रसृतस्तिर्यग्लोकः । तस्योपरिष्टादूर्ध्वलोकः । मेरुचूलिका चत्वारिंशद्योजनोच्छ्राया । तस्या उपरि केशान्तरमात्रे व्यवस्थितमृजुविमानमिन्द्रकं सौधर्मस्य ॥ सर्वमन्यल्लोकानुयोगाद्वेदितव्यम् ॥ नवसु अवेयकेष्विति नवशब्दस्य पृथग्वचनं किमर्थम् ? । अन्यान्यपि नवविमानानि अनुदिशसञ्जकानि सन्तीति ज्ञापनार्थम् । तेनानुदिशानां ग्रहणं वेदितव्यम् ॥ एषामधिकृतानां वैमानिकानां परस्परतो विशेषप्रतिपत्यर्थमाहस्थितिप्रभावसुखद्युतिलेश्याविशुद्धीन्द्रियावधिविषयतोऽधिकाः ॥ २० ॥ स्वोपात्तस्यायुष उदयात्तस्मिन्भवे शरीरेण सहावस्थानं स्थितिः । शापानुग्रहशक्तिः प्रभावः । सुखमिन्द्रियार्थानुभवः । शरीर
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy