________________
प्रथमोऽध्यायः
अभिहितोभयप्रकारस्य प्रमाणस्य आदिप्रकारविशेषप्रतिपत्यर्थमाह॥ मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध
इत्यनर्थान्तरम् ॥ १३ ॥ आदौ यदुद्दिष्टं ज्ञानं तस्य पर्यायशब्दा एते वेदितव्याः। मतिज्ञानावरणक्षयोपशमान्तरङ्गनिमित्तजनितोपयोगविषयत्वात् । एतेषां श्रुतादिष्वप्रवृत्तेश्च ॥ मननं मतिः । स्मरणं स्मृतिः । सञ्ज्ञानं सञ्ज्ञा । चिन्तनं चिन्ता । अभिनिबोधनमभिनिबोधः । इति यथासम्भवं विग्रहान्तरं विज्ञेयम् ॥ सत्यपि प्रकृतिभेदे रूढिबललाभात् पर्यायशब्दत्वम् । यथा- इंद्रः शक्रः पुरन्दरः इति, इन्दनादिक्रियाभेदेऽपि शचीपतेरेकस्यैव संज्ञाः। समभिरूढनयापेक्षया तेषामर्थान्तरकल्पनायां मत्यादिष्वपि स क्रमो विद्यत एव । किंतु मतिज्ञानावरणक्षयोपशमनिमित्तोपयोगं नातिवर्तत इति अयमत्रार्थो विवक्षितः । इतिशब्दः प्रकारार्थः । एवंप्रकारा अस्य पर्यायशब्दा इति । अभिधेयार्थो वा । मतिः स्मृतिः संज्ञा चिन्ता अभिनिबोध इत्येतैर्योऽर्थोऽभिधीयते स एक एव इति ॥
अथास्यात्मलाभे किं निमित्तमित्याह॥ तदिन्द्रियानिन्द्रियनिमित्तम् ॥ १४ ॥
इन्दतीति इन्द्र आत्मा तस्य ज्ञस्वभावस्य तदावरणक्षयोपशमे सति स्वयमर्थान् गृहीतुमसमर्थस्य यदर्थोपलब्धिनिमित्तं लिङ्गं तदिन्द्रस्य लिङ्गमिन्द्रियमित्युच्यते ॥ अथवा लीनमर्थ
. मत्यादिपर्यायशब्दानाम ॥