SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १६ सर्वार्थसिद्धिः गकेवल्यन्तानि सन्ति । क्षायोपशमिकसम्यक्त्वे असंयतसम्यग्हप्ट्यादीनि अप्रमत्तान्तानि । औपशमिकसम्यक्त्वे असंयतसम्यग्दृष्ट्यादीनि उपशान्तकषायान्तानि । सासादनसम्यग्दृष्टिः सम्यङ्मिध्यादृष्टिमिथ्यादृष्टिश्च स्वे स्वे स्थाने ॥ संज्ञानुवादेन संज्ञिषु द्वादशगुणस्थानानि क्षीणकषायान्तानि । असंज्ञिषु एकमेव मिथ्यादृष्टिस्थानम् । तदुभयव्यपदेशरहितः सयोगकेवली अयोगकेवली च ॥ आहारानुवादेन आहारकेषु मिथ्यादृष्ट्यादीनि सयोगकेवल्यन्तानि । अनाहारकेषु विग्रहगत्यापन्नेषु त्रीणि गुणस्थानानि, मिथ्यादृष्टिः सासादनसम्यग्दृष्टिरसंयतसम्यग्दृष्टिश्च । समुद्घातगतः सयोगकेवली अयोगकेवली च । सिद्धाः परमेष्ठिनः अतीतगुणस्थानाः ॥ उक्ता सत्प्ररूपाणा ॥ सङ्ख्याप्ररूपणोच्यते-- सा द्विविधा ॥ सामान्येन तावत् जीवा मिथ्यादृष्टयोऽनन्तानन्ताः। सासादनसम्यग्दृष्टयः सम्यमिथ्यादृष्टयोऽसंयतसम्यग्दृष्टयः संयतासंयताश्च पल्योपमासङ्ख्येयभागप्रमिताः ॥ प्रमत्तसंयताः कोटीपृथक्त्वसङ्ख्योः । पृथक्त्वमित्यागमसंज्ञा तिसृणां कोटीनामुपरि नवानामधः ॥ अप्रमत्तसंयताः संख्येयाः। १ तथाहि । द्वितीये गुणस्थाने द्विपञ्चाशद्गुणकोट्यः ॥ ५२००००००० ॥ तृतीयगुणस्थाने चतुरधिकाः शतके ट्यः ॥ १०४०००००००॥ चतुर्थगुण. स्थाने सप्तशतकोट्यः ॥ ७००००००००० ॥ पञ्चमगुणस्थाने त्रयोदशकोव्यः॥ १३००००.०० ॥ तथा चोक्तम् ॥ गाथा ॥ तेरहकोटी देसे बावण्णा सासणा मुणेयव्वा ॥ मिस्सम्मि य तद्गा असंजदा सत्तसप्प कोडीओ ॥१॥ २ तथापि प्रमत्तसंयता निर्धारयितुं शक्याः । तेन तत्संख्या कथ्यते ॥ कोटीपञ्चकं त्रिनवतिलक्षा. अष्टानवतिसहस्राः शतद्वयं षट् च वेदितव्याः ॥ ५९३९८२०६ ॥ ___३ सा संख्या न ज्ञायते इति चेदुच्यते ॥ कोटीद्वयं षण्णवतिलक्षाः नवनावतिसहस्राः शतमेकमधिकम् ॥ प्रमत्तसंयतार्द्धपरिमाणा इत्यर्थः ॥ २९६९९१००॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy