SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ १३६ सर्वार्थसिद्धिः इति वचनं क्रियान्तरनिवृत्त्यर्थं स्थिता न गच्छन्त इति । सर्वात्मप्रदेशेष्विति वचनमाधार निर्देशार्थं नैकप्रदेशादिषु कर्मप्रदेशा वर्तन्ते , क तर्हि ? उर्ध्वमस्तिर्यक सर्वेप्वात्मप्रदेशेषु व्याप्य स्थिता इति ॥ अनन्तानन्तप्रदेशवचनं परिमाणान्तरव्यपोहार्थ न संख्येया न चासंख्येया नाप्यनन्ता इति ॥ ते खलु पुद्गलस्कन्धा अभव्यानन्तगुणाः सिद्धानन्तभागप्रमितप्रदेशा घनांगुलस्यासंख्येयभागक्षेत्रावगाहिनः एकद्वित्रिचतुःसंख्येयासंख्येयसमयस्थितिकाः पञ्चवर्णपञ्चरसद्विगन्धचतुःस्पर्शस्वभावा अष्टविधकर्मप्रकृतियोग्याः योगवंशादात्मनाऽऽत्मसात्कियन्त इति प्रदेशबन्धः समासतो वेदितव्यः ॥ ___आह बन्धपदार्थानन्तरं पुण्यपापोपसंख्यानं चोदितं तद्वन्धेऽन्तर्भूतमिति प्रेत्याख्यातं । तत्रेदं वक्तव्यं कोऽत्र पुण्यबन्धः कः पापबन्ध इति ... तत्र पुण्यबन्धप्रकृतिपरिगणनार्थमिदमारभ्यते - ... - ॥ सद्वेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५ ॥ शुभं प्रशस्तमिति यावत् । तदुत्तरैः प्रत्येकमभिसम्बध्यतेशुभमायुः शुभं नाम शुभं गोत्रमिति ॥ शुभायुस्त्रितयं तिर्यगायुkनुष्यायुर्देवायुरिति ॥ शुभनाम सप्तत्रिंशद्विकल्पं तद्यथा- मनुष्यगतिर्देवगतिः पञ्चेन्द्रिजातिः पञ्च शरीराणि त्रीण्यङ्गोपाङ्गानि सम. चतुरस्रसंस्थानं वज्रर्षभनाराचसंहननं प्रशस्तवर्णरसगन्धस्पर्शाः मनुष्यदेवगत्यांनुपूर्व्यद्वयमगुरुलघुपरघातोच्छ्वासातपोद्योतप्रशस्तविहायोगतयस्त्रसबादरपर्याप्तिप्रत्येकशरीरास्थरशुभसुभगसुस्वरादेययशःकीर्तयो . १ जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वमिति सूत्रव्याख्याने ॥ २ तत्रैव ॥ ३ दशविधस्य बन्धनसंघातद्वयस्याप्यत्रैवार्भावः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy