SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ .२०६ सर्वार्थसिद्धिः परोपणमस्ति भावलक्षणम् ॥ तथा चोक्तम्- स्वयमेवात्मनाss स्मानं हिनस्त्यात्मा प्रमादवान् ॥ पूर्व प्राण्यन्तराणान्तु पश्चात्स्याद्वा न वा वधः ॥ १॥ इति ॥ आह अभिहितलक्षणा हिंसा; तदनन्तरोद्दिष्टमनृतं किं लक्षणमित्यत्रोच्यते... ॥ असदभिधानमनृतम् ॥ १४ ॥ - सच्छब्दः प्रशंसावाची न सदसदप्रशस्तमिति यावत् । असतोऽर्थस्याभिधानमसदभिधानमनृतम् ॥ ऋतं सत्यं न ऋतमनृतम् ॥ किं पुनरप्रशस्तं ? प्राणिपीडाकरं यत्तदप्रशस्तम् ॥ विद्यमानार्थविषयं वा अविद्यमानार्थविषयं वा ॥ उक्तं चप्रागेवाहिंसाप्रतिपालनार्थमितरद्रतमिति। तस्माद्धिंसाकर्मवचोऽनृतमिति निश्चयम् ॥ अथानृतानन्तरमुद्दिष्टं यत्स्तेयं तस्य किं लक्षणमित्यत आह.. ॥ अदत्तादानं स्तेयम् ॥ १५ ॥ आदानं ग्रहणमदत्तस्यादानमदत्तादानं स्तेयमित्युच्यते । यद्येवं कर्मनोकर्मग्रहणमपि स्तेयं प्रामोति अन्येनादत्तत्त्वात् ॥ नैष दोषः। दानादाने यत्र सम्भवतस्तत्रैव स्तेयव्यवहारः । कुतः ? अदत्तग्रहणसामर्थ्यात् ॥ एवमपि भिक्षोमिनगरादिषु भ्रमणकाले रथ्याद्वारादिप्रवेशाददत्तादानं प्रामोति ॥ नैष दोषः। सामान्येन मुक्तत्वात् ॥ तथाहि- अयं भिक्षुः पिहितद्वारा. दिषु न प्रविशति अमुक्तत्वात् ॥ अथवा प्रमत्तयोगादित्यनुवर्तते प्रमत्तयोगाददत्तादानं यत् तत्स्तयमित्युच्यते ॥ न च रथ्यादि प्रविशतः प्रमत्तयोगोऽस्ति । तेनैतदुक्तं भवति यत्र संक्ले. शपरिणामेन प्रवृत्तिस्तत्र स्तेयं भवति बाह्यवस्तुनो ग्रहणे वाड ग्रहणे च ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy