SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः अथ चतुर्थमत्रझ किं लक्षणमित्यत्रोच्यते - ॥ मैथुनमब्रह्म ॥ १६ ॥ २०७ स्त्रीपुंसयोश्चारित्रमोहोदये सति रागपरिणामाविष्टयोः परस्परस्पर्शनं प्रति इच्छा मिथुनम् । मिथुनस्य कर्म मैथुनमित्युच्यते । न सर्वं कर्म । कुतः - लोके शास्त्रे च तथा प्रसिद्धेः । लोके तावदागोपालादिप्रसिद्धं स्त्रीपुंसरागपरिणामनिमित्तं चेष्टितं मैथुनमिति । शास्त्रेऽपि अश्ववृषभयो मैथुनेच्छायामित्येवमादिषु तदेव गृह्यते ॥ अपि च प्रमत्तयोगादित्यनुवर्तते तेन स्त्रीपुंसमिधुन विषयं रतिसुखार्थं चेष्टितं मैथुनमिति गृह्यते न सर्वम् ॥ अहिंसादयो धर्मा यस्मिन् परिपाल्यमाने बृंहन्ति वृद्धिमुपयान्ति तद्ब्रश । न ब्रह्म अब्रह्म । किं तत् ? मैथुनम् ॥ तत्र हिंसादयो दोषाः पुष्यन्ति ॥ यस्मान्मैथुनसेवनप्रवणः स्थास्तूश्चरिष्णून् प्राणिनो हिनस्ति । मृषावादमाचष्टे । अदत्तमादत्ते । सचेतनमितरच्च परिग्रहं गृह्णाति ॥ अथ पञ्चमस्य परिग्रहस्य किं लक्षणमित्यत आह॥ मूर्छा परिग्रहः ॥ १७ ॥ मूर्चेत्युच्यते । का मूर्छा बाबानां गोमहिषमणिमुक्तादीनां चेतनाचेतनानां रागादीनामुपधीनां च संरक्षणार्जनसंस्कारादिलक्षणाव्यावृत्तिर्मूर्छा ॥ ननु च - लोके वातादिप्रकोपविशेषस्य मूर्खेति प्रसिद्धिरस्ति तद्ब्रहणं कस्मान्न भवति ? सत्यमेवैतत् । मूर्छतिरयं मोहसामान्ये वर्तते । सामान्यचोदनाश्च विशेषेष्वव - तिष्ठन्त इत्युक्ते विशेषे व्यवस्थितः परिगृह्यते । परिग्रहप्रकरणात् ॥ एवमपि बाह्यस्य परिग्रहत्वं न प्राप्नोति । अध्यात्मिकस्य संग्रह - णात् ॥ सत्यमेवैतत् - प्रधानत्वादभ्यन्तर एव संगृह्यते । असत्यपि
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy