SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः वग्रहः। यथा- चक्षुषा शुक्लं रूपमिति ग्रहणमवग्रहः ॥ अवग्रहगृहीतेऽर्थे तद्विशेषाकाङ्क्षणमीहा। यथा- शुक्लं रूपं किं बलाका पताकेति ॥ विशेषनिर्ज्ञानाद्याथात्म्यावगमनमवायः । उत्पतननिपतनपक्षविक्षेपादिभिर्बलाकैवेयं न पताकेति ॥ अथैतस्ये कालान्तरेऽविस्मरणकारणं धारणा। यथा-. सैवेयं बलाका पूर्वाले यामहमद्राक्षमिति ॥ एषामवग्रहादीनामुपन्यासक्रमः उत्पत्तिकमकृतः ॥ १ ननु ईहा संशयज्ञानं भवितुमर्हति, किं बलाका पताकेति उभयकोटीपरामर्शप्रत्ययत्वात्. प्रसिद्धसंशयज्ञानवत् ॥ तथा च कथमस्याः प्रामाण्यमिति न शंकितव्यम्। हेतोरसिद्धेः। तस्या भवितव्यताप्रत्ययरूपत्वेन उभयकोटीपरामर्शिप्रत्ययरूपत्वाघटनात् । किं बलाका पताकेति वचनं तु निदर्शनद्वयोपदर्शनार्थमुक्तम् । तथा च किं बलाकेत्यत्र बलाकया भवितव्यमिति तात्पर्यम् । किं पातकेत्यत्र च पताकया भवितव्यमिति तात्पयम् ॥ कथमेषा प्रतीतिरिति चेत् प्ररूपणशास्त्रे ज्ञानमागणायां मतिज्ञानव्याख्यानावसरे श्रीमदभयसूरिवर्यैस्तथैव निरूपितत्वात् ॥ यथाहि तद्वन्थःअवग्रहेण इदं श्वतमिति ज्ञातेऽर्थे विशेषस्य बलाकारूपस्य पताकारूपस्य वा यथावस्थितस्य आकांक्षा, बलाकया भवितव्यमिति भवितव्यताप्रत्ययरूपा बलाकायामेव संजायमाना ईहाख्यं द्वितीयं ज्ञानं भवेत् ॥ अथवा पता. कारूपं विषयमालम्ब्य उत्पद्यमाना अनया पताकया भवितव्यमिति भवि. तव्यताप्रत्ययरूपा आकांक्षा ईहानाम द्वितीयं ज्ञानं भवेत् ॥ एवीमन्द्रिया. न्तरविषयेषु । मनोविषये च अवग्रहगृहीते यथावस्थितस्य विशेषस्य आकां. क्षारूपा ईहति निश्चेतव्यम् ॥ मतिज्ञानावणक्षयोपशमस्य ता. तम्यभेदेन अवग्रहेहाज्ञानयोर्भेदसंभवात् ॥ आस्मिन् सम्यग्ज्ञानप्रकरणे बलाका वा पताका वा इति संशयस्य बलाकायां पताकया भवितव्यमिति विपर्ययस्य च मिथ्या. ज्ञानस्यानवतारात् ॥ २ अर्थतस्येत्यत्र अवतस्य इत्यपेक्षितं। अवायज्ञानविषयीभूतस्येति तदर्थ.॥ ३ एवविधप्रत्यभिज्ञारूपज्ञानस्य कारणभूतं संस्कारविशिष्टं ज्ञानं धारणा न विदमित्यर्थः ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy