SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः नसयोगिनां मिथ्यादृष्टयादिसयोगकेवल्यन्तानामयोगकेवलिनां च सामान्यमेव ॥ (५) वेदानुवादेन- स्त्रीपुन्नपुंसकवेदानामवेदानां च सामान्यवत् ॥ ( ६ ) कषायानुकादेन- क्रोधमानमायालोभकपायाणामकषायाणां च सामान्यवत् (७ ) ज्ञानानुवादेन- मत्यज्ञानिश्रुताज्ञानिविभङ्गज्ञानिनां मतिश्रुतावधिमनःपर्ययकेवलज्ञानिनां च सामान्यवत् ॥ ( ८ ) सँयमानुवादेन– सर्वेषां सँयतानां सँयतासँयतानामसँयतानां च सामान्यवत् (९) दर्शनानुवादेन--- चक्षुर्दशनाचक्षुर्दर्शनावधिदर्शनकेवलदर्शनिनां सामान्यवत् ॥ (१०) लेश्यानुवादेन -- षड्लेश्यानामलेश्यानां च सामान्यवत् ॥ (११) भव्यानुवादेन- भव्यानां मिथ्यादृष्ट्याद्ययोगकेवल्य तानां सामा. न्यवत् । अभव्यानां पारिणामिको भावः ॥ (१२) सम्यक्त्वानुवादेन- क्षायिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेः क्षायिको भावः । क्षायिकं सम्यक्त्वम् । असंयतत्वमौदयिकेन भावेन ॥ सँयतासँयतप्रमत्ताप्रमत्तसँयतानां क्षायोपशमिको भावः । क्षायिकं सम्यक्त्वं च॥ चतुर्णामुपशमकानामौपशमिको भावः । क्षायिकं सम्यक्त्वम्॥ शेषाणां सामान्यवत् ॥ क्षायोपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेः क्षायोपशमिको भावः । क्षायोपशमिकं सम्यक्त्वम् । असंयतः पुनरौदायकन भावेन ॥ सँयतासँयतप्रमत्ताप्रमत्तसँयतानां क्षायोपशमिको भावः । क्षायोपशमिकं सम्यक्त्वम् ॥ औपशमिकसम्यग्दृष्टिषु असंयतसम्यग्दृष्टेरौपशमिको भावः । औपशमिकं सम्यक्त्वम् । असंयतः पुनरौदयिकेन भावेन ॥ सँयतासँयतप्रमत्ताप्रमत्तसँयतानां क्षोयोपशमिको भावः । औपशमिकं सम्यक्त्वम् ॥ चतुर्णामुपश १ अभव्यत्वधर्मस्य मुख्यत्वेन । मिथ्यात्वमुख्यत्वेन तु औदयिक एव स्यात् ॥ २ अत्र औदयिको भावः इत्येकः पाठः । औपशमिको भावः इत्येकः पाठः॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy