SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः गकेवलिनां च नानाजीवापेक्षया एकजीवापेक्षया च जघन्यश्चोत्कृष्टश्चान्तर्मुहूर्तः ॥ सयोगकेवलिनां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण पूर्वकोटी देशोना । विशेषेण ( १ ) गत्यनुवादेन— नरकगतौ नारकेषु सप्तसु पृथिवीषु मिथ्यादृष्टे नाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जय॑न्येनान्तर्मुहूर्तः । उत्कर्षेण यथासंख्यं एक-त्रि-सप्त-दश-सप्तदशद्वाविंशति-त्रयस्त्रिंशत्सागरोपमाणि ॥ सासादनसम्यग्दृष्टेः सम्यग्मिथ्यादृष्टेश्च सामान्योक्तः कालः । असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण उक्त एवोत्कृष्टो देशोनेंः ॥ तिर्यग्गतौ तिरश्चां मिथ्यादृष्टीनां नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षणानन्तः कालोऽसंख्येयाः पुलपरिवर्ताः ॥ सासादनसम्यग्दृष्टिसम्यग्मिथ्यादृष्टिसंयतासंयतानां सामान्येनोक्तः कालः ॥ असंयतसम्यग्दृष्टेर्नानाजीवापेक्षया सर्वः कालः । एकजीवं प्रति जघन्येनान्तर्मुहूर्तः । उत्कर्षेण त्रीणि पल्योपमानि ॥ मनुष्य १ तत्कथम् ?। चतुर्णी क्षपकाणामपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परा. यक्षणिकषायाणामयोगकेवालेनां च मोक्षगामित्वेन चान्तरे मरणासम्भवात् ॥ २ सयोगकवलिगुणस्थानानन्तरमन्तर्मुहूर्तमध्येऽयोगकेवलिगुणस्थानप्राप्ते । ___३ अष्टवर्ष नन्तरं तपो गृहीत्वा केवलमुत्पादयतीति कियद्वर्षहीनत्वाद्देशोना पूर्वकोटी वेदितव्या ॥ ४ पश्चान्मिथ्यादृष्टिगुणस्थानत्यागसम्भवात् ॥ ५ प्रथमपृथिव्यामाप देशोनत्वकथनात्तत्र गृहःतवेदकक्षायिकसम्यक्त्वानामुत्कृष्टायुष्येणेोत्पत्यभावोऽ-वगम्यते ॥ ६ यः कश्चिदनादिमिथ्यादृष्टिीवो गत्यन्तरे स्थितः तियग्गतिं प्रविष्टः स तिर्यग्गतावुत्कर्षेणानन्तकालमसंख्येयान्पुद्गलपारिवर्तान् तिष्ठ त तत ऊर्ध्व गत्यन्तरं प्राप्नोति ततस्तदपेक्षया तिमियादृष्टिकालः अनन्तः काल: असंख्येयाः पुद्गलपरिवर्ताः इत्युक्तम् ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy