SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७२ सर्वार्थसिद्धिः ययोस्तौ ऋजुविपुलमती । स एष मनःपर्ययो द्विविधः ऋजु+ मतिर्विपुलमतिरिति ॥ आह उक्तो भेदः, लक्षणमिदानीं वक्तव्य - मित्यत्रोच्यते । वीर्यान्तरायमनः पर्ययज्ञानावरणक्षयोपशमाङ्गोपाङ्गनामलाभावष्टम्भादात्मनः परकीयमनः सम्बन्धेन लब्धवृत्तिरुपयोगो मनःपर्ययः ॥ मनिज्ञानप्रसङ्ग इति चेदुक्तोत्तरं पुरस्तात् । अपेक्षाकारणं मन इति । परकीयमनसि व्यवस्थितोऽर्थः अनेन ज्ञायते इत्येतावदत्रापेक्ष्यते । तत्र ऋजुमतिर्मनः पर्ययः कालतो जघन्येन जीवानामात्मनश्च द्वित्रीणि भवग्रहणानि उत्कर्षेण सप्ताष्टौ गत्यागत्यादिभिः प्ररूपयति ॥ क्षेत्रतो जघन्येन गव्यूतिपृथक्त्वं, उत्कर्षेण योजनपृथक्त्वस्याभ्यन्तरं न बहिः || द्वितीयकालतो जघन्येन सप्ताष्टौ भवग्रहणानि, उत्कर्षेणासंख्येयानि गत्यागत्यादिभिः प्ररूपयति ॥ क्षेत्रतो जघन्येन योजनपृथक्त्वं, उत्कर्षेण मानुषोत्तरशैलस्याभ्यन्तरं न बहिः ॥ उक्तयोरनयोः पुनरपि विशेषप्रतिपत्त्यर्थमाह॥ विशुध्द्यप्रतिपाताभ्यां तद्विशेषः ॥ २४ ॥ ―――― तदावरणक्षयोपशमे सति आत्मनः प्रसादो विशुद्धिः । प्रतिपतनं प्रतिपातः न प्रतिपातः अप्रतिपातः । उपशान्तकपायस्य चारित्रमोहोद्रेकात्प्रच्युतसँयमशिखरस्य प्रतिपातो भवति । क्षीणकषायस्य प्रतिपातकारणाभावादप्रतिपातः ॥ विशुद्धिश्व अप्रतिपातश्च विशुध्द्यप्रतिपातौ ताभ्याम् । तयोर्विशेषस्तद्विशेषः ॥ तत्र विशुध्या तावत् — ऋजुमतेर्विपुलमतिर्ब्रव्य क्षेत्रकालभावैर्विशुद्धतरः । कथमिह ? यः कार्मणद्रव्यानन्तभागोऽन्त्यः सर्वावधिना ज्ञातस्तस्य पुनरनन्तभागकृतस्यान्त्यो भागः ऋजुमतेर्विषयः । १ त्रिसंख्यातोऽधिका अष्टसंख्यातो न्यूना संख्या ॥ "
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy