SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ ५४ सर्वार्थसिद्धिः संयताः संख्येयगुणाः । प्रमत्तसँयताः संख्येयगुणाः । सँयतासँयताः संख्येयगुणाः । असंयत्तसम्यग्दृष्टयः संख्येयगुणाः ॥ मनःपर्ययज्ञानिषु सर्वतः स्तोकाश्चत्वार उपशमकाः । चत्वारः क्षपकाः संख्येयगुणाः । अप्रमत्तसँयताः संख्येयगुणाः । प्रमत्तसँयताः संख्येयगुणाः ॥ केवलज्ञानिषु अयोगकेवलिभ्यः संयोगकेवलिनः संख्येयगुणाः ।। (८) सँयमानुवादेन--- सामायिकच्छेदोपस्थापनशुद्धिसँयतेषु द्वयोरुपशमकयोस्तुल्यसंख्या । ततः संख्येयगुणौ क्षपकौ । अप्रमत्ताः संख्येयगुणाः । प्रमत्ताः संख्येयगुणाः ।। परिहारविशुद्धिसँयतेषु अप्रमत्तेभ्यः प्रमत्ताः संख्येयगुणाः । सूक्ष्मसाम्परायशुद्धिसँयतेषु उपशमकेभ्यः क्षपकाः संख्येयगुणाः ॥ यथाख्यातविहारशुद्धिसँयतेषु उपशान्तकषायेभ्यः क्षीणकषायाः संख्येयगुणाः ॥ अयोगकेवलिनस्तावन्त एव । सयोगकेवलिनः संख्येयगुणाः ॥ सँयतासँयतानां नास्त्यल्पबहुत्वम् । असंयतेषु सर्वतः स्तोकाः सासादनसम्यग्दृष्टयः । सम्यमिथ्यादृष्टयोऽसंख्येयगुणा। : असंयतसम्यग्दृष्टयोऽसंख्येयगुणाः । मिथ्यादृष्टयोऽनन्तगुणाः ॥ (९) दर्शनानुवादेन- चक्षुर्दर्शनिनां मनोयोगिवत् ॥ अचक्षुदर्शनिनां काययोगिवत् ॥ अवधिदर्शनिनामवधिज्ञानिवत् ॥ केवलदर्शनिनां केवलज्ञानिवत् ॥ (१०) लेश्यानुवादेन- कृष्णनीलकापोतलेश्यानां असंयतवत् ॥ तेजःपद्मलेश्यानां सर्वतः स्तोका अप्रमत्ताः। प्रमत्ताः संख्येयगुणाः । एवमितरेषां पञ्चेन्द्रियवत् ॥ शुक्ललेश्यानां सर्वतः स्तोका उपशमकाः । क्षपकाः संख्येयगुणाः । सयोगकेवलिनः संख्येयगुणाः। अप्रमत्तसँयताः संख्येयगुणाः । १ अयोगकेवालनः एको वा द्वौ वा त्रयो वा उत्कर्षणाष्टोत्तरशतसंख्याः स्वकालेन समुदितास्तेभ्यः संख्येयाः सयोगकेवलिनः ॥ ८९८५०२ ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy