SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ १९४ सर्वार्थसिद्धिः त्वम् ॥ हिंसादिक्रूरकर्मा जनप्रवर्तन परस्वहरणविषयातिगृद्धिकृष्णलेश्याभिजातरौद्रध्यानमरणकालतादिलक्षणो नारकस्यायुष आसवा भवति ॥ आह उक्तो नारकस्यायुष आस्रवः । तैर्यग्योनस्येदानीं वक्तव्य इत्यत्रोच्यते— ॥ माया तैर्यग्योनस्य ॥ १६ ॥ चारित्र मोहकर्मविशेषस्योदयादाविर्भूत आत्मनः कुटिलभावो माया निकृतिः तैर्यग्योनस्यायुष आस्रवो वेदितव्यः । तत्प्रपञ्चो मिथ्यात्वोपेतधर्मदेशना निःशीलता सम्धानप्रियता नीलकपोतले - श्यार्तध्यानमरणकालतादिः ॥ आह व्याख्यातस्तैर्यग्योनस्यायुष आस्रवः । इदानीं मानुषस्यायुषः को हेतुरित्यत्रोच्यते ॥ अल्पारम्भपरिग्रहत्वं मानुषस्य ॥ १७ ॥ नारकायुरास्रवो व्याख्यातः । तद्विपरीतो मानुषस्यायुष, इति सङ्क्षेपः ॥ तद्व्यासः - विनीतस्वभावप्रकृतिभद्रताप्रगुणव्यवहारतातनुकषायत्व मरणकाला संक्लेशतादिः ॥ किमेतावानेव मानुषस्यायुष आस्रव इत्यत्रोच्यते|| स्वभाव मार्दवञ्च ॥ १८ ॥ मृदोर्भावो मार्दवम् । स्वभावेन मार्दवं स्वभावमार्दवम् । उपदेशानपेक्षमित्यर्थः । एतदपि मानुषस्यायुष आस्रवः ॥ पृथग्योगकरणं किमर्थं ? उत्तरार्थम् । देवायुष आस्रवोऽपि यथा स्यात् ॥ किमेतदेव द्वितीयं मानुषस्यास्रवो ! नेत्युच्यते- ॥ निश्शीलव्रतत्वं च सर्वेषाम् ॥ १९ ॥
SR No.022501
Book TitleSarvarth Siddhi
Original Sutra AuthorPujyapadacharya
Author
PublisherKallappa Bharamappa Nitbe
Publication Year1839
Total Pages310
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy