Book Title: Sarva Darshan Sangraha
Author(s): Vinayak Ganesh
Publisher: Anand Ashram
Catalog link: https://jainqq.org/explore/002416/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ आनन्दाश्रमसंस्कृतग्रन्थावलिः । ग्रथाङ्कः ५१ श्रीमन्माधवाचार्यप्रणीतः सर्वदर्शनसंग्रहः । मधुसूदनसरस्वतीकृतः प्रस्थानभेदथ | एतत् पुस्तकद्वयं आनन्दाश्रमव्यवस्थापकेन आपटे कुलोत्पनेन बी. ए. इत्युपपदधारिणा गणेशात्मजेन विनायकेन आनन्दाश्रमस्थपण्डितानां साहाय्येन संशोधितम् । 18991 तच्च तेनैव पुण्याख्यपत्तने आनन्दाश्रममुद्रणालये आयसाक्षरैर्मुद्रयित्वा प्रकाशितम् । द्वितीयेयमङ्कनावृत्तिः । शालिवाहन शकाब्दाः १८४९ खिस्ताब्दाः १९२८ ( भस्य सर्वेऽधिकारा राजशासनानुसारेण स्वायत्तीकृताः ) । मूल्यं रूपकद्वयम् (२) । Page #2 --------------------------------------------------------------------------  Page #3 -------------------------------------------------------------------------- ________________ आदर्श पुस्तक लेख पत्रिका | अस्य सर्वदर्शनसंग्रहस्य पुस्तकानि यैः परहितैकपरतया संस्करणसाहाय्यार्थ प्रदत्तानि तेषां नामादीनि पुस्तकानां संज्ञाश्च कृतज्ञतया प्रकाश्यन्ते - क. च. इति संज्ञिते - पुस्तके काशीस्थ वे० शा ० सं० रा० सदाशिव गोविन्द कान्हेरे इत्येतेषाम् । ख. इति संज्ञितम् काशीस्थ वे० शा ० सं० रा० दामोदरशास्त्री सहस्रबुद्धे इत्येतेषाम् । ग. इति संज्ञितम् - पुण्यपत्तनस्थडेकन कालेजाधिकारिभिर्दत्तम् । घ. इति संज्ञितम् - द्राविडलिप्या लिखितं म्हैसूरपुस्तक संग्रहालयस्थम् । तत्संग्रहालयस्य व्यवस्थापकैः पण्डितवर्यैः ए. महादेवशास्त्रिभिः महितम् । अस्मिन्पुस्तके शांकरदर्शनमपि विद्यते । ङ. इति संज्ञितम् - कालिकातामुद्रणालये मुद्रितम् । क. इति संज्ञितम् - काशी स्थपण्डितवर्यगोविन्ददास इत्येतेषां केवलं शांकर दर्शनम् । धने * शांकरदर्शनस्य पुस्तकद्वयमेव लब्धम् । तस्य संशोफर्ग्युसन कालेज स्थसंस्कृताध्यापकैः पण्डितवर्यैरभ्यंकरोपाह्ववासुदेवशास्त्रिभिः साहाय्यं दत्त्वोपकारभारेणर्णित्वं नीतोऽस्य पुस्तकस्य प्रकाशकः । Page #4 -------------------------------------------------------------------------- ________________ अथ सर्वदर्शनसंग्रहान्तर्गतदर्शनानामनुक्रमः । : : : चार्वाकदर्शनम् ... बौद्धदर्शनम् .... आहेतदर्शनम् ..... रामानुजदर्शनम् .... पूर्णप्रज्ञदर्शनम् नकुलीशपाशुपतदर्शनम् शैवदर्शनम् .... प्रत्यभिज्ञादर्शनम् ... रसेश्वरदर्शनम् .... औलूक्यदर्शनम् .... अक्षपाददर्शनम् ... जैमिनिदर्शनम् पाणिनिदर्शनम् सांख्यदर्शनम् .... पातञ्जलदर्शनम् ... शांकरदर्शनम् ... :: :: :: :: :: १९-३५ ३५-४९ ४९-५९ ६०-६५ ६५-७२ ७२-७८ ७८-८३ ८३-८९ ९०-९६ ... ९७-१०७ ....१०७-११६ ...११७-१२१ ...१२२-१४२ ...१४३-१४१ - - Page #5 -------------------------------------------------------------------------- ________________ द्वितीयावृत्ति संबन्धि निवेदनम् । सोऽयं सर्वदर्शनसंग्रहाभिधो ग्रन्थः पुरा वसुद्वयष्टृन्दु ( १८२८ ) परिमिते शाकीये संवत्सरेऽत्र संस्थायां मुद्रितोऽभूत् । स च न केवलमत्र नापि केवलं महाराष्ट्रे किंतु मोहमयीमहामहीमण्डलेऽपि प्रथममेव मुद्रितोऽभूत् । वङ्ग ( बंगाल ) देशे यथा कथंचिदसौ मुद्रित इति केवलं श्रूयते स्म । तदानीं च संशोधनकर्मणि यावदपेक्षितानि साधनानि नाऽऽसन् । किंचैतद्देशे तदध्ययनाध्यापनप्रचारोऽपि विलयं गत इवाऽऽसीत् । एतादृश्यवस्थान्तरे त्रुटितानि अतिजीर्णतया स्थले स्थले निर्मृष्टाक्षराणि लेखकाज्ञानाद्वा तत्पठनपाठनप्रचाराभावाद्वा विपर्यासं गतान्यप्यत्यशुद्धान्यपि कतिचित्तत्प्रत्यन्तराणि महता प्रयत्नेन संपाद्यानि सहायभूतान्यभूवन् । ततश्च लेखक दोषात्कलिकयोजक दोषादूदृष्टिदोषाच्चापि स्थले स्थले ग्रन्थो वा पाठानामूर्ध्वाधरीभावो वाऽपि वैपरीत्यं जुषते स्मेति मन्ये । अथ द्वितीयमुद्रणावृत्तिसमये संप्राप्ते प्रथमावृत्तिस्थितानि स्खलितानि परिमार्जितव्यानीति मनस्यकरवम् । ततस्तत्तद्दर्शनसंबन्धीनि संस्कृत पुस्तकानि शारीरभाव्यरामानुजभाष्यादीनि तथा तत्तद्दर्शनानामाङ्गलीयभाषान्तराणि महाराष्ट्रभाषान्तराणि च अन्यान्यपि तदुपयुक्तानि पुस्तकानि संपाच संवत्सरपर्यन्तमास्थापूर्वकं पुनः पुनर्वाचनमकार्षम् । अथ च वे० शा ० सं० आचार्यभक्तपदविभूषि बापटोपा विष्णुशास्त्रिणां सविधे प्रत्यहं गत्वा सार्धसंवत्सरपर्यन्तमामूलादस्य ग्रन्थस्य तन्मुखाच्छ्रवणमप्यकार्षम् । एवमवश्यापेक्षितां पूर्वभाविनीं साधनसामग्री सिद्धां कृत्वैतत्संशोधने प्रवृत्तोऽभूवमहम् । तत्र प्रथमावृत्तिस्थितानि प्रमादस्थलानि सर्वाण्यपि यथामति विचार्य संशुद्धतां लम्भितानि । तथा पाठाश्चापि येऽअधःस्थितियोग्या अप्यूर्ध्वं गता आसंस्ते स्वस्थानेऽधो निवेशिताः । तत्संसूचनायैव च तदग्रे - एतादृक्तिरेखा रूपं चिह्नं प्रदत्तमस्ति । ये च पाठा ऊर्ध्वस्थितिमर्हन्तोऽप्यधः पतितास्त उपरि योग्यस्थलं प्रापिताः सन्ति । अत्र प्रसङ्गागतमुपेक्षानर्हमिति किंचिन्निवेद्यते – वे० शा ० सं० महामहोपाध्यायपदमण्डितैरभ्यंकरोप हैवसुदेवशास्त्रिभिरभिनयां दर्शनाङ्कुराभिधां टीकां विरच्य तत्संवलितः सर्वदर्शनसंग्रहो ( भाण्डारकर इन्स्टिट्यूट संस्थायां ) मुद्रितः । स चातीव सुपरिशुद्धः । टीकाऽपि सुविशदा सुलभार्थावबोधा च दर्शनकारहृत्तलावगाहिनी चेत्यतीव हृदयंगमा । प्रार्थये च सर्वदर्शनसंग्रहग्रन्थरहस्यजिज्ञासूनेकवारमपि सा भवद्भिः प्रेक्षणीयेति । अनेन च पुस्तकेनैतग्रन्थसंशोधनेऽनुपमं साहाय्यमाचरितमिति स्मरामि गुरुवर्याणां महामहोपाध्यायवासुदेवशास्त्रिणां मुहुर्मुहुरुपकारभारम् । तथा वे० शा० सं० आचार्यभक्त विष्णुशास्त्रि. भिरपि स्वकीयं बहुमूल्यं कालं मदर्थं व्ययीकृत्य बहूपकृतमिति सप्रमोदमभिनन्दये । 1 1 Page #6 -------------------------------------------------------------------------- ________________ [२] ननु यद्येवमन्यत्र मुद्रितोऽयं निबन्धग्रन्थस्तर्हि किमर्थमयं पुनर्मुद्रणे प्रयास इतिचेत्प्रथमावृत्तौ समाप्तायां पुनस्तदावृत्तिः प्रकाशनीयेति सामान्यत एतत्संस्थासमयस्तदनुसारे. ति ब्रूमः । किंच यथैतत्सटीकं पुस्तकं महत्तथा तन्मूल्यमपि महद्दशरूपकपरिमितमिति कृत्वा न सर्वेषां सौलाम्येन प्राप्यम् । अपि चाधीषिषूणां छात्राणां न टीका तावत्युपयोगिनी भवति । किं त्वध्यापयितुरेव स्थलविशेषे कंचिद्विशेषं द्रष्टुमिति महन्महत एवोपकुर्यात् । एतदनुसंधायैव चेयमावृत्तिः पूर्वापेक्षया वर्धिताऽपि न तदनुसारेण तन्मूल्यं वर्षितं किंतु पूर्ववद्रूपकद्वयमेवावस्थापितम् । तस्माद्यथैव च सुस्नापितं स्वलंकृतं निर्मलं सुन्दरं च बालकं न कस्यापि जिघृक्षार्भारमावहति प्रत्युत' स्वकीयकोमलगात्रसंस्पर्शात्सुखयतीति सर्वजनीनम् । तथेदमपि पुस्तकं सुसंस्कृतं सुपरिशुद्धं स्वल्पमूल्यं विषयसुन्दरं चाध्ययनाध्यापनार्थ स्वहस्तधारणे न कस्यापि भारभूतं भवेदपि च रञ्जयेदेव वाचकमानसमिति पश्यामीत्यलं विस्तरेण । पुण्यपत्तने ) बी० ए० इत्युपपदधारी फाल्गुनशुक्ल द्वितीयायां आपटे-इत्युपाह-गणेशात्मजो गुरुवासरे शके १८४९ ) विनायकशर्मा। Page #7 -------------------------------------------------------------------------- ________________ उपोद्घातः। ... अयि भोः सर्वदर्शनसंग्रहप्रणयिन आनन्दाश्रमस्थसंस्कृतग्रन्थावलीप्रकाशितग्रन्थग्राहकमाननीयमहाशयाः. ननु लभतां तत्रभवतां भवतामासेचनकतां चिराय तन्वानस्यास्य हृद्यस्य च सर्वदर्शनसंग्रहनाम्नो ग्रन्थस्याऽऽत्मदर्शनाय वासो भवत्सु पदम् । नह्ययं षण्नास्तिकदर्शनषडास्तिकदर्शनमध्वभाष्यश्रीभाष्यादिप्रौढनिबन्धैः साकं पास्पर्धांति भवतां मतिः । - अयं हि निबन्धस्तत्तदर्शनकाराणां निबन्धौघानुदधरिव पयःपूरानालोड्य भगवता माधवेनेव माधावाचार्येण पीयूषकलश इवोद्धृतः सर्वदर्शनसंग्रहनाम्ना प्रसेधितश्च । दर्शनपदार्थस्त्वेतादृशस्थले दृश्यते ज्ञायत आत्माऽनेनेति व्युत्पत्त्या ज्ञानसामान्यार्थकाद्दशिधातोः करणल्युटा निष्पन्नदर्शनशब्देन चेतनवस्तुविषयविचारप्रवणमागमात्मकं शास्त्रमुच्यते । दर्शनगतसंख्याविषये तैर्थकानां विविधानि मतान्युपलभ्यन्ते । केचित्खलु पूर्वोत्तरमीमांसाद्वयं सेश्वरनिरीश्वरसांख्यद्वयं सप्तपदार्थषोडशपर्दाथाभिधायिन्यायद्वयं चेति षड्दर्शनान्याहुः । तदुक्तम् कपिलस्य कणादस्य गौतमस्य पतञ्जलेः । व्यासस्य जैमिनेश्चापि शास्त्राण्याहुः षडेव हि ॥ इति । __ अपरे तु मीमांसकसांख्यनैयायिकबौद्ध जैनचार्वाकाणां दर्शनानि षड्दर्शनी प्राहुः । अन्ये तु पुनः सौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकेति भेदभिन्नबौद्धेन जैनलौकायति. काम्यां च सहितमाद्यदर्शनषट्कं द्वादशदर्शनीति संगिरन्ते । अनेन तु निबन्धकाsतोऽप्यधिकानीति मिलित्वा षोडश दर्शनानि संगृहीतानि । अत एव च सर्वदर्शनसंग्रहनाम्ना प्रथयत्यमुम् । दर्शनानां नामानि मूल एव स्फुटानीति न पुनरिहोल्लिख्यन्ते । तानि च दर्शनानि द्विविधानि । अभेदग्राहीणि भेदग्राहीण च तत्र शांकरदर्शनमभेदवादीति सुप्रसिद्धो डिण्डिमः सर्वत्रेति न तत्र विचारलेशावकाशोऽपि । पाणिनिदर्शनमप्यमेदमेव वदतीति तत्रस्थग्रन्थादवगम्यते । तथाहि-अभ्युपगताद्वितीयत्वनिर्वाहाय वाच्यवाचकयोरविभागः प्रदर्शितः, इत्युपक्रम्य वाच्या सा सर्वशब्दानां शब्दाच्च न पृथक्ततः । अपृथक्त्वेऽपि संबन्धस्तयोर्जीवात्मनोरिव ॥ Page #8 -------------------------------------------------------------------------- ________________ . [२] वाच्यवाचकयोरभेदेऽपि तयोः संबन्धः केवलं कल्पनावशाद्भासते नतु वास्तवः । परमार्थतस्तु अभेद एवेत्यर्थः । तत्र दृष्टान्तो यथा जीवात्मपरमात्मनोस्तिवाभेदेऽपि कल्पनावशाद्व्यावहारिकस्तयोः संबन्धोऽवमासते तद्वदित्युक्तम् । एवं चैतदर्शनमभेदवादीति स्पष्टमेवोक्तम् । एवमेव मीमांसादर्शनमपीति बोद्धव्यम् । तथा च दर्शनत्रयमभेदमवलम्बत इति स्पष्टमेवेति । तदन्यानि भेदवादीनि । - अभेदवादीन्येव श्रौतानीत्युच्यन्ते । भेदवादीनि च तार्किकाणीति । प्राधान्येन श्रुतितो मूलतत्त्वप्रतिपादकानि श्रौतानि । मुख्यतया तर्केण मूलतत्त्वान्वेषकाणि च तार्किकाणि । प्रकारान्तरेण पुनर्द्विविधानि । नास्तिकान्यास्तिकानि चेति । परलोकादिना. स्तित्वग्राहकाणि नास्तिकानि । परलोकाद्यस्तित्वग्राहीणि चाऽऽस्तिकानि । चार्वाकदर्शनं भेदचतुष्टययुतं बौद्धदर्शनमार्हतदर्शनं चेति नास्तिकदर्शनानि । तदन्यानि त्रयोदशाऽऽस्तिकदर्शनानि । अस्य च सर्वदर्शनसंग्रहनाम्नो निबन्धस्य प्रणेता सुगृहीतनामधेयः श्रीसायणमाधवाचार्य इति श्रीमत्सायणदुग्धाब्धिकौस्तुभेन महौनसा । क्रियते माधवार्येण सर्वदर्शनसंग्रहः ॥ इति ग्रन्थारम्भे स्वयमेवोक्तत्वान्निश्चीयते । अयं हि माधवाचार्यों दक्षिणदेशे तुङ्गभद्रानदीतीरे पम्पासरःसविधे संप्रति — गोवळकोंडा ' इति नाम्ना प्रसिद्धिं गते विजयनगरे वैदिकमार्गप्रवर्तकस्य स्वप्रतापमार्तण्डपारिशोषिताहितप्रस्रवणौघस्य वीरबुक्कनाम्नो मनुजेन्द्रस्य देवेन्द्रस्य बृहस्पतिरिव कुलगुरुमन्त्री निखिलराजकार्यधुरंधर आसीत् । तथा शाकीये त्रयोदशशतकोत्तरार्धे सायणवंशीयस्य यजुःशाखिनो मायणाचार्यस्य भार्यायां श्रीमत्यां प्रादुरासीदितीतिहासकोविदाः कथयन्ति । अनेन च राजकार्यधुरंधरेण जगतीतलवर्तिनिखिलविद्वत्प्रकाण्डमण्डलमण्डनायमानेन मन्त्रिप्रवरेण पूर्वस्मिन्वयसि वीरबुक्कभूपतेस्तत्पुत्रस्य हरिहराख्यस्य च प्रधानममात्य. पदमुररीकृत्य समीचीनतया राजकार्यभरं निर्वाह्योत्तरस्मिन्वयसि भगवत्पूज्यपादश्रीशंकराचार्याणां शारदापीठे शृङ्गवेर(शंगेरी)पुरे तत्कालवर्तिपीठाधिष्ठितश्रीशंकरानन्दगुरूणां सकाशाच्चतुर्थाश्रमं स्वीकृत्य तत्पट्टाधिकारः समग्राहि । तत आरम्यैव विद्यारण्य इति समाख्या प्रथिताऽभूत् । अयं चाऽऽद्यशंकराचार्यात्पड्विंशो विद्यारण्यभारतीति पर. म्परया तत्रत्यवक्तृमुखाच्छ्यते । Page #9 -------------------------------------------------------------------------- ________________ ..[३] अनेन हि माधवाचार्येण नैकशो ग्रन्थाः प्रणीताः । तदन्तर्गत एवायं प्रकृतः सर्वदर्शनसंग्रहनामा निबन्धः । अत्रायं प्रश्नः पुरतः प्रादुर्भवति । किमयं ग्रन्थश्चतुर्थाश्रमस्वीकरणात्प्राक् प्रणीतोऽथवा तदनन्तरामिति । तत्र चरमाश्रमदीक्षाग्रहणात्प्रागेवायं निबन्धो निरमायीत्यनुमीयते । कुत इतिचेच्छ्यताम् । यतोऽयं माधवाचार्यः स्वयमेव ग्रन्थारम्भे श्रीमत्सायणदुग्धाब्धीति श्लोके माधवेतिस्वनामनिर्देशपुरःसरं स्वस्मिञ्जनकतया सायणवंशसंबन्धमवगमयति । यदि चायं निबन्धो जगद्गुरुपीठाधिष्ठानादूर्ध्वं कृतः स्यात्तर्हि संन्यासाश्रमस्वीकारमहिन्नैव तत्प्राग्माविस्ववंशगोत्रसंबन्धादेनिवृत्तत्वाद्ग्रन्थनिर्माणसमये तादृशसंवन्धस्याविद्यमानत्वेनासत्संबन्धकीर्तनस्य चानुचितत्वेन कथमयं सुधीर्माधवः सदावदितुं प्रवृत्तोऽसत्संबन्धं निर्दिशेत् । तथाचोक्तं विश्वेश्वरसरस्वतीप्रणीते यतिधर्मसंग्रहे नामगोत्रादि चरणं देशं वासं श्रुतं कुलम् । वयो वृत्तं व्रतं शीलं ख्यापर्यन्नैव सद्यतिः ॥ इति । माधवेति नामापि च चतुर्थाश्रमग्रहणात्प्राक्तनमेव । तादृशान्ववायान्वयविशिष्टत्वेनैवाऽऽत्मनो माधवेतिनाम्नोल्लेखकरणात् । विद्यारण्य इति समाख्यायाः संन्यासदीक्षाग्रहणसमनन्तरभाविनीत्वेन पूर्वकथाकोविदपरम्परयेदानीमपि श्रूयमाणत्वाच्च । पञ्चदशीग्रन्थस्तु शारदापीठाक्रमणादूर्ध्व विरचित इति प्रतीयते । यतस्तत्र संन्यासाश्रमग्रहणात्पूर्वभाविनो वंशनामसंबन्धस्य कस्यचिदपि निर्देशमन्तरैव केवलं जगद्गुरुपीठाधिकारग्राहकशंकरानन्दगुरुपादाम्बुरुहनमनं विधाय ग्रन्थारम्भः क्रियमाणो दृश्यते । यद्यपि तत्र न ग्रन्थकर्तुर्नाम्न उल्लेखस्तथाऽपि नमस्कार्यत्वेन शंकरानन्दगुरोरुपादानान्नमस्कारकर्ता तच्छिष्येणैव भवितव्यम् । स च शिष्यो विद्यारण्य एव । नमनकर्तृग्रन्थकोंरैक्यलाभात् । एवं च पञ्चदश्यां दीपकपरिसमाप्त्यवसरे । विद्यारण्यमुनिविरचितायां ' इत्युल्लेखः पञ्चदश्याः संन्यासदीक्षासमनन्तरभाविनीत्वं सूचयति । यदि चायं निबन्धः पीठाधिरोहणानन्तरं कृतः स्यात्तर्हि पञ्चदश्यामिवात्रापि सायणवंशसंबन्धादिकं किमपि नोल्लिखेत् । यतश्चात्र वंशसंबन्धं कीर्तयति ततः संन्यासस्वीकारात्प्राग्भवत्वमस्य निबन्धस्य सिध्यति। ___ अथ पञ्चदश्यपि शारदापीठप्रवेशात्प्रागेव प्रणीतेति षे चेत् कथय किमिति तत्र माधवनामोल्लेखं न करोति । किमिति च तदानीमविद्यमानं शंकरानन्दगुरुसंबन्धमुद्घाट. यति । आधुनिकाः संन्यासिनोऽपि दीक्षोत्तरं तत्प्राग्वर्तिनामवंशसंबन्धित्वेन नैवाऽऽत्मानं कथयन्ति । नामगोत्रादिचरणं देशं वासं श्रुतं कुलमितिनिषेधात् । किंत्वाश्रमप्रतिष्ठापि Page #10 -------------------------------------------------------------------------- ________________ [४] तनाम्नैव व्यवहरन्ति । अन्यत्सर्व नारायणस्मरणमिति वदन्तश्च सांसारिकसंबन्धादेनि. वृत्तिं सूचयन्ति । तस्मात्पञ्चदश्यारम्भे केवलं नमस्कार्यत्वेन श्रीशंकरानन्दगुरूल्लेखनं ग्रन्थकर्तुस्तदानीं चतुर्थाश्रमवर्तित्वं स्पष्टमेवावगमयति । ... . . एवं वेदभाष्यपराशरमाधवकालमाधवजैमिनीयन्यायमालावैयासिकन्यायमालाप्रभृतिग्रन्थेष्वपि कर्तृत्वेन माधवनामोल्लेखनं तत्तद्ग्रन्थप्रणयनसमये ग्रन्थकर्तुः संन्यासदीक्षानधिष्ठितत्वं सूचयतीतिबोध्यम् । यद्यपि मुद्रितशंकरदिग्विजयग्रन्थे शिरोभागे ' विद्यारण्यविरचितः' इत्युल्लेखो · दृश्यते तथाऽपि तथोल्लेखे चतुर्थाश्रमग्रहणोत्तरं तद्विरचितत्वे च न दृढतरं प्रमाणं. प. श्यामः । प्रत्युत प्रतिसर्गसमाप्तौ ' इति श्रीमाधवीये' इत्युक्तत्वेन संन्यासस्वीकरणा. प्राग्भाविमाधवसमाख्यालक्षितस्यैव तत्र कर्तृत्वेन प्रतिपादनात्सर्वदर्शनसंग्रहवच्छंकरदिग्विजयग्रन्थोऽपि भगवल्लिङ्गधारणावस्थातः प्रागेव निरमायीति निश्चीयते । युक्तं चैतत् । यतो जैमिनीयन्यायमालाविस्तरो माधवाचार्येण दण्डस्वीकरणात्पूर्वमेव प्रणीत इति तावन्निर्विवादम् । तत्र स्वस्य वीरबुक्कसंबन्धित्वेनाभिधानात् । वरि. बुक्कसंबन्धश्च चरमाश्रमस्वीकारपर्यन्तमेव । न तदुत्तरमनुवर्तितुमुत्सहते । तदानीं मनःसंकल्पपूर्वकं तस्य परित्यक्तव्यत्वात् । तथा च जैमिनीयन्यायमालाविस्तरग्रन्थारम्भे-- प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । इति यत्प्रणम्यत्वेन गुरोरभिधानं न तद्दीक्षाग्राहकगुरुविषयकम् । तदानीं दीक्षाया एवाभावात् । किंतु विद्याग्राहकगुरुविषयकमेवेति वक्तव्यम् । तदेव च पद्यार्धे शंकरदिग्विजयग्रन्थारम्भे दृश्यते । तद्यथा-- प्रणम्य परमात्मानं श्रीविद्यातीर्थरूपिणम् । प्राचीनशंकरजये सारः संगृह्यते स्फुटम् ॥ इति । एवं च गुरूलेखनस्य विद्याग्राहकगुरुविषयत्वेनान्यथामिद्धेत्रि पञ्चदश्यामिव पारिवाज्याङ्गीकरणानन्तरं विरचितत्वे किंचिदनन्यथासिद्धं लिङ्गं दृष्टिपथं समारोहति । एवं च शंकरदिग्विजयोऽपि माधवाचार्येण भगवल्लिङ्गस्वीकारणात्प्रागेव विरचित इति मे मतिः । एतद्विषय इतिहाससंशोधकैर्युक्तायुक्तं विचार्यम् । प्रमादश्चेत्क्षन्तव्यम् । इह खलु जगति हिरण्यगर्भप्रभृतिस्तम्बपर्यन्तः सर्वोऽप्युच्चावचः प्राणभृद्वगों निस. र्गत एवानिष्टजिहासुरभीष्टेप्सुश्च भवतीत्यनुभवसाक्षिकमेतन्नात्र विवादः कस्यचिदपि दर्शनकारस्य । अभीष्टं चास्य सुखविशेष एव मोक्षापरपर्यायः । स च सुखविशेष Page #11 -------------------------------------------------------------------------- ________________ [५] ज्ञानैकसाध्यः । ज्ञानादेव तु कैवल्यमित्युक्तत्वात् । न हि ज्ञानेन सदृशं पवित्रामिह विद्यते, इति गीतासु भगवता ज्ञानमाहात्म्यातिशयस्योपगीतत्वाच्च । यद्यपि लोके यत्किचिदिष्टं वस्तु प्रयत्नसहस्रेणापि ज्ञानिनाऽपि न पार्यते संपादयितुं तत्प्रभूतैश्वर्यसंपन्नः कोऽपि द्रव्यबलादनायासेनैव संसाधयतीति ज्ञानापेक्षया द्रव्यस्यैवाधिकः प्रभावो लक्ष्यते तथाऽपि यस्य प्रभावात्सुदुर्लभमपि संपिपादयिषसि तद्र्व्यं बुद्धिप्रभावेणैव लभ्यं नान्येन केनापीति ज्ञानवैभवमेव सर्वोत्कर्षेण सर्वत्र विजयते । अत एव भ्रष्टराज्यैरपि त्रयोदशवर्षपर्यन्तं वनावनान्तरं परिभ्रमद्भिरपि पाण्डवैः केवलं भगवत्साहाय्येनैव करदीकृतसकलसामन्तमण्डलस्यैश्वर्यशिखरारूढस्य सार्वभौमचक्रवर्तिनोऽष्टादशाक्षौहिणीनायकस्य भ्रातृशतपरिवारितस्य दुर्योधनस्यापि राज्ञः पराजयः समपादि । द्रव्यं तु केवलं तादृशबुद्धौ साहाय्यकारि भवति न तु तस्य प्राधान्यमिति सर्वजनीनमेतत् । तच्च ज्ञानं तत्त्वविषयकमेव । तत्त्वं च तस्य वस्तुनो भावस्तत्त्वमिति व्युत्पत्त्या वस्तुनो मूलस्वरूपमु. च्यते । मूलस्वरूपज्ञानमेव हि मोक्षोपयोगि भवति । एवं च यस्य ज्ञानं मोक्षोपयोगि भवति तत्तत्त्वमिति सामान्यतस्तत्त्वलक्षणं पर्यवस्यति । तादृशतत्त्वज्ञानोपजीव्योऽभीष्टः सुखविशेषो हि तत्तद्दर्शनकारमतिवैचित्र्यात्प्रतिदर्शनं भिन्नः । तदनुसारेण चाभीष्यमाणसुखविशेषसाधीभूतज्ञानप्रयोजकतत्त्वान्यपि भिन्नान्येवेत्यर्थादर्शनानामपि भेदः सिध्यतीत्यतः संप्रति तेषां को वा विषयः कीदृशं च तस्य स्वरूपमित्यादि संक्षिप्य किंचिन्निरूप्यते । तत्र प्रथमोपस्थितस्योपेक्षानर्हत्वेन प्रथमतश्चार्वाकदर्शनमेवावलम्ब्यते नास्तिकशिरोमणिना चार्वाकेण प्रतिपादितं दर्शनं चार्वाकदर्शनमित्युच्यते । यस्य मते यत्स्पर्शेन्द्रियेण मृदुकठोरशीतोष्णादयः स्पर्शा उपलभ्यन्ते, यद्रसनोन्द्रियेण कटुम्ल. मधुरादयो रसा अनुभूयन्ते, यद्घाणेन्द्रियेण मृगमदकुङमप्रमृतिसुरभिवस्तुपरिमलोद्गारा आघ्रीयन्ते, यच्चक्षुरिन्द्रियेणः घटपटस्तम्माम्भोरुहादयः पदार्थाः स्थावरजङ्गमाः परिचीयन्ते, यच्च श्रोत्रेन्द्रियेण तन्त्रीगीतादयः स्त्रीगीतादयश्च मधुरध्वनयः शोश्रूयन्ते तदेवैकं प्रत्यक्षं प्रमाणम् । अन्यदनुमानादिकं त्वप्रमाणमेव । अतो न परलोको न वेदोदितो धर्मो न पुण्यं न पापं नापिवाऽनुमानादिगम्यमीश्वरादिकमन्यत् । किंतु लोकप्रसिद्धो राजैव परमेश्वरः । देह एवाऽऽत्मा । मरणमेव मोक्षः। कान्तालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । कण्टकादिव्यथाजन्यं दुःखमेव निरयः । तस्मात्खाद्याखाद्यादिविचारनिरपेक्ष यावच्छक्यं यथेच्छं सुख संपादनीयमिति निष्कर्षः । तदेतन्मतं श्रवणसमये मनोहरमपि परिणामेऽत्यन्तं भयावहत्वाच्छिष्टैविगर्हितत्वाच्चानुपादेयमेव । ___ बुद्धाख्यं देवमनुसरन्तो बौद्धास्तेषां दर्शनं बौद्धदर्शनम् । ते च बौद्धा माध्यमिक योगाचारसौत्रान्तिकवैभाषिकनामभि श्चतुर्विधाःप्रसिद्धाः । तथाहि भगवता बुद्धेन प्रथ Page #12 -------------------------------------------------------------------------- ________________ मतः स्वशिष्येभ्यः सर्व शून्यमिति उपदेशे कृते यैः शिष्यैस्तदेव यथार्थत्वेन परिगृहीतं न तदुपर्याक्षेपः कृतोऽतस्ते मध्यमबुद्धित्वान्माध्यमिकेत्याख्यां प्रापुः । इत्थं हि तेषामा. शयः-सर्व क्षणिक, सर्व दुःखं, सर्व स्वलक्षणं, सर्व शून्यम् , इति भावनाचतुष्टयोपदेशेन क्रमेण सर्वस्थायित्वानुकूलवेदनीयत्वसर्वानुगतत्वसर्वसत्यत्वानां निराकरणेन सर्वशून्यत्वमेव गुरुणा बोधिता वयमिति । अतः सर्वशून्यत्ववादिन एते । अपरे शिष्याः पुनः कथं सर्वस्य शून्यत्वमवगन्तुं शक्यम् । तथा सति ज्ञानस्यापि शून्यत्वेन जगदान्ध्यं प्रसज्येत । अतो बाह्यार्थस्य शून्यत्वमस्तु नामेत्यूचुः । शिष्येणहि द्वयं करणीयं योग आचारश्चेति । तत्राज्ञातार्थस्य ज्ञानायाऽऽक्षेपो योगः । गुरूक्तार्थस्याङ्गीकरणमाचारः । ततश्च यैः शिष्यैर्गुरूक्तं भावनाचतुष्टयं बाह्यार्थशून्यत्वं चाङ्गीकृत्य सर्वस्य शून्यत्व आक्षेपः कृतस्ते योगाचार इति प्रथां जग्मुः। अत एते बाह्यार्थशून्यत्ववादिनो विज्ञानमात्रास्तित्ववादिनचोच्यन्ते । एतेषामयमभिप्रायः-अनादिवासनावशाबुद्धिरेवानेकाकारेण भासत इति प्रागुक्तगुरूपदिष्टभावनाचतुष्टयपरिचयबलात्सर्ववासनोच्छेदे विविधविषयाकारोपद्रवानुदयाद्विशुद्धज्ञानोदयो मोक्षः संपद्यत इति । अन्ये तु-नीलादेर्वाह्यार्थस्यासत्त्वे विज्ञानमात्रास्तित्वं वक्तुमशक्यम् । ततो बाह्यार्थोऽप्यङ्गीकरणीय एवेति प्राहुः । ततो गुरुणा भवतु नाम बाह्यार्थः परंतु. न स प्रत्यक्षः किं त्वनुमेय इत्युक्त कियत्पर्यन्तं सूत्रं भवेदिति पृष्टत्वात्ते सौत्रान्तिकसंज्ञया । प्रसिद्धाः । सूत्रान्तं पृच्छन्ति ते सौत्रान्तिकाः । । पृच्छतौ सुस्नातादिभ्यः ' इति प्राग्वहतीयष्ठक्प्रत्ययः । अत एते बाह्यार्थानुमेयत्ववादिन इत्युच्यन्ते । ___ परे च केचिच्छिष्या एवमूचुः-यथा चानुभवबलाबाह्यार्थो घटपटादिरुररी क्रियते तथा प्रत्यक्षबलात्तस्यार्थस्य प्रत्यक्षत्वमप्यङ्गीकरणीयम् । एवं च बाह्येष्वान्तरेषु चार्थेषु प्रत्यक्षेषु सत्सु यत्कांश्चित्प्रथमं सर्व शून्यमित्युपदिष्टवान्गुरुः । तदनन्तरं कांश्चिद्विज्ञानमेव सदिति । ततः कांश्चिच्चोभयं बाह्यमान्तरं च सदित्यभिप्रेत्यावस्थितान्विज्ञेयमनुमेयं चेति । सेयं गुरोविरुद्धा भाषेति ब्रुवाणा वैभाषिकाख्यया ख्याताः । अत एवैते बाह्यार्थप्रत्यक्षत्ववादिनः सर्वास्तित्ववादिनश्चीच्यन्ते । त ऐते जगन्मूलकारणत्वेन पार्थिवाप्यतैजसवायवीयांश्चतुर्विधान्परमाणून्परिकल्प्य सेषु किंचित्स्थायि सुखदं सामान्यलक्षणं सत्यं वाऽनिमालयन्तः सर्व क्षणिकं सर्व दुःखं सर्वं स्वलक्षणं सर्व शून्यं चेति भावनाचतुष्टयं स्वीकुर्वन्ति । तथैतेषां मते ह्यार्यसत्याख्यं दुःखसमुदायमार्गनिरोधभेदाच्चतुर्विधं तत्त्वम् । Page #13 -------------------------------------------------------------------------- ________________ 101 तंत्र प्रथमं दुःखापरपर्यायं विज्ञानवेदनासंज्ञासंस्काररूपभेदात्पञ्चविधम् । इयमेव पञ्चस्कन्धीत्युच्यते । दुःखकारणं स्थिरत्वादिभ्रान्तिः समुदायः । दुःखतत्कारणैतदुभयनिवृत्त्युपायः सर्व क्षणिकमितिभावनारूयो मार्गः । सर्वनैरात्म्य वासनारूपो निरोधः । स एव मोक्ष इत्यभिधीयते । पञ्चस्कन्धानां लक्षणं भावनाचतुष्टयमित्येवमादिविस्तरो मूलतोऽवगन्तव्यः । प्रत्यक्षमनुमानं चेतिप्रमाणद्वयवादिनश्चैते । अर्हन्तं परमेश्वरं मन्यमाना आईतास्तेषां दर्शनमार्हतदर्शनम् । अत्र जीवाजीवो पुण्यपापे आश्रवसंवरौ बन्धनिर्जरामोक्षाश्चेति नव तत्त्वानि । एतन्मते घटपटादयः सन्तीति न निश्चेतुं शक्यते नापि न सन्तीतिकृत्वा सर्वे पदार्था भावाभावात्मकाः । सम्यं - ग्दर्शनसम्यग्ज्ञानसम्यक्चारित्रैश्च मोक्षः सिध्यति । स च देहस्वरूपावरणापगमे जीवस्य सततोर्ध्वगमनम् । जीवादिनवसंख्याकानां तत्त्वानां सम्यग्दर्शनादित्रयाणां च लक्षणानि मूल एवं स्पष्टानीति विस्तरंभिया नोच्यन्ते । चार्वाकप्रभृत्यार्हतपर्यन्ताः पटू, वेदविरोधित्वान्नास्तिका इत्युच्यन्ते । वेदविरोधित्वमेव नास्तिकत्वमित्यर्थः । इति षण्नास्तिक दर्शनस्वरूप संक्षेपः । अथाऽऽस्तिकदर्शनानि । तत्र रामानुजाचार्यमते मुख्यतस्तत्त्वत्रयम् । चिदचिदीश्वरमेदात् । तत्र चिज्जीवो भोक्ता । अचिज्जडवर्गो भोग्यम् । चिज्जडयोरन्तर्यामी संस्तान्नग्रामकश्चेश्वरः । स हि सविशेषः सगुणश्च । अयं हीश्वरश्चिज्जडौं व्याप्नोतीत्यात्मशब्दे • नोच्यते । यो यद्व्याप्नोति स तस्याऽऽत्मा । तच्चास्य शरीरमिति चिज्जडो परमात्मनः शरीरम् । तत्रापि जीवः परमात्मनः शरीरं भूत्वा जडस्याऽऽत्मा भवति । एतत्पदार्थत्रितयं परमार्थतः परस्परस्माद्भिन्नं सत्संबद्धं च भवति । अतोऽयं परमात्मा सजातीयविजातीयस्वगतैतद्भेदत्रय सहित एवेति रामानुजाचार्या मन्यन्ते । भेदेऽपि शरीरविशिष्टस्यैकत्वाद्विशिष्टाद्वैतवादमाश्रयन्ते । मायावादमसहमानाश्च विवर्तवादं प्रतिक्षिपन्ति । पारणामवादं स्वीकुर्वन्तश्च सत्ख्यातिं समर्थयन्ते । एतेषां मते जीवन्मुक्तिर्नास्ति । मोक्षेऽपि जीवब्रह्मणोर्भेद एव । याथातथ्येन परमात्मस्वरूपावबोधपूर्वकतत्कैर्यमेव मोक्ष इति बोध्यम् । 1 : अथ पूर्णप्रज्ञ दर्शनस्वरूपं निरूप्यते । पूर्णा आत्मतत्त्वप्रतिपादकशास्त्रे प्रज्ञा मतियस्य स पूर्णप्रज्ञः । मध्वाचार्य इत्यर्थः । तेन प्रवर्तितं दर्शनं पूर्णप्रज्ञदर्शनम् । अत एतद्दर्शनं मध्वदर्शनमित्यप्युच्यते । अस्यैव मध्यममन्दिर इति आनन्दतीर्थ इति चापरं नाम । अस्य पूर्णप्रज्ञाचार्यस्य जन्म शाके खखभूभूमिते ( ११००) वर्षे कर्णाटकदेशे रजतपीठाख्ये (उडपी ) ग्रामे वेदवेद्यां मातारं मध्यगेहाख्यात्पितुः सकाशादाविरभूत् । एतस्य विद्याध्यापक गुरुरच्युतप्रेक्ष्याचार्य: । अयं हि पूर्णप्रज्ञाचार्थो वायोस्तृतीयोऽवतार इति मन्यन्ते तदनुयायिनः । तदुक्तम् २ Page #14 -------------------------------------------------------------------------- ________________ [८]. प्रथमस्तु हनूमान्स्याद्वितीयो भीम एव च । पूर्णप्रज्ञस्तृतीयश्च भगवत्कार्यसाधकः ॥ इति । — अनेन च महाभारततात्पर्यनिर्णयनामा ग्रन्थो विरचिंतः । तद्ग्रन्थसमाप्त्यवसरे चायं श्लोकों दृश्यतेमध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे । इति । वायोर्देवस्य यत्तृतीयं रूपं मध्वाख्यं तेनामुना मध्वाचार्येण केशवार्पणबुद्ध्याऽयं महामास्ततात्पर्यनिर्णयाख्यो ग्रन्थः कृत इति तदर्थः । अस्य मतं द्वैतवादः । द्विधा इतं द्वीतम् । तस्य भावो द्वैतम् । भेद इति यावत् । स च भेदः पञ्चविधः । जीवेश्वरभेदो जडेश्वर. भेदो जीवजडभेदो जीवानां मिथो भेदो जडानां मिथो भेदश्चेति । तदिदं भेदपञ्चक सत्यमनादि च । यदि च सादि स्यात्तर्हि नाशमाप्नुयात् । न च कदापि नाशमुपैति । तथा यदि चेदं भेदपञ्चकमसत्यं स्यातर्हि तस्य भ्रान्तिकल्पितत्वं स्वीकार्य स्यात् । न चेदं भ्रान्तिकल्पितमिति मन्तव्यम् । कल्पितस्य निवृत्त्यवश्यंभावात् । नैव चेदं निवतते । तस्मात्सत्योऽनादिश्चायं भेदप्रपञ्चः । एवं च द्वैतं न विद्यत इति यन्मतं तदज्ञानिनां मतमिति बोद्धव्यम् । श्रुतिरप्यतार्थे प्रमाणम् । तथा हि- सत्य आत्मा सत्यो जीवः सत्यं भिदा सत्यं भिदा सत्यं भिदा मैवारुवण्यो मैवारुवण्यो मैवारुवण्यः' इति । अस्यार्थः । आत्मा परमात्मा सत्यः । त्रिकालाबाधित इत्यर्थः । तथा जीवः सत्यः । तयोर्जीवेश्वरयोर्भेदश्चापि सत्यः । मैवारुवण्यः इत्यत्र मा एव आरुवण्य इति पदत्रयम् । तत्र मा इति निषेधार्थकमव्ययम् । एवेति निश्चयद्योतको निपातः । आरुभिन्यो भजनीय आरुवण्यः । एवं च परमात्मा दुष्टजनसेव्यो नैव भक्तीत्यर्थः । सत्यं भिदेति मवारुवण्य इति च त्रिवचनं भेदसत्यत्वदाढ्य प्रदर्शयितुम् । अस्वां श्रुतौं स्पष्टमेव भेदोऽभिहितः । नाभेदे सति भेददाढ्य सेव्यसेवकभावो वाऽअसा संगच्छते । अनुमा. नेनापि भेदोऽवसीयते । परमेश्वर पक्षीकृत्य तत्र जीवाभेदः साध्यते । जीव प्रतीश्वरस्य सेव्यत्वात् । यो यं प्रति सेव्यो भवति स तस्माद्भिन्नः । यथा भृत्याद्रानेति । अत्र भृत्यः सेवको राजा च सेव्यः । तस्मात्सेवकात्सेव्यो राजा भिन्नो दृ इति । अयमा शयः । प्रभूतं धनं मे स्याद्दारिद्रयं लेशतोऽपि मा भूदिति प्रार्थयमानाः पुरुषाः राज्ञो गुणोत्कर्षः, कीर्तयेयुश्चेत्प्रीतो राजा तेषामभिलषितं पूरयेत् । परंतु यदि ते सर्वाङ्गीणं. स्वद्राव्यपदमेव-देहीत्यभिकाङ्क्षयुस्तर्हि नेषदपीष्टलाभो भवेत् प्रत्युत क्रोधोत्पावनेनानापाति: स्यात् । तदुक्तम् घातयन्ति हि राजानो राजाऽहमितिवादिनः । ददत्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम् ॥ इति । Page #15 -------------------------------------------------------------------------- ________________ [3] 6 महः सहस्वाम्यद्भावनमपि महतामप्रीतिकरं भवति । विमुतं तैः साकं स्वाद पाककमि पर्थः । एवं च जीवेश्वरयोरभेदः सर्वथा दुर्घटः । नश्च ब्रह्म वेद महौव भवतीतिश्रुतिबलाज्जीवेश्वरयोरभेदः द: शक्यशङ्क इति वाच्यम् । संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत् । इत्वित्प्रशंसापरत्वादभेदश्रुतेः । नहि ब्राह्मणपूजया शूद्रो ब्राह्मणजातितां लभते किंतु ब्राह्मणवत्प्रशंसनीयो भवतीत्यर्थः । तत्त्वमसीति महावाक्यमपि भेदप्रतिपादकमेव । तस्य त्वं तत्त्वमिति षष्ठीसमासमङ्गीकृत्य तस्येश्वरस्य त्वं दासोऽसीत् । अथवा स आत्मा तस्त्वमसि श्वेतकेतो ' इत्युद्दालकस्य स्वपुत्रं श्वेतकेतुं प्रत्युपदेशपरे वाक्ये आत्मा अतत् त्वम् इति पदच्छेदः । अतदित्यत्र च नञर्थो मेदः । तथा च यः स्वातन्त्र्यादिगुणोपेतः स एव परमात्मा । त्वं तु असत् तस्मादास्मनो भिन्नः परतन्त्रो जीवोऽसीत्यर्थात् । एवं च जीवेश्वरयोः सेव्य सेवक भाषात्तयोर्भेदः सिद्धः । सेवा व नामकरण भजनभेदात्रिविधा । तत्राङ्कनं नाम शङ्खचकादिनारायणाला मुद्रावारणम् । तदपि ' अतसतनूर्न तदामो अद्भुते ' इति तैत्तियोगविषय मुद्रा धारणं मुख्यम् । योऽतप्ततनूरत एवाऽऽमः स वष्णुपर्व नाश्नुत इति तदर्थं मन्यन्ते मध्वानुयायिनः । तथा चोक्तं ब्रह्माण्डपुराणे - कृत्वा धातुमयीं मुद्रां तापयित्वा स्वकां तनुम् । चक्रादिचिह्नितां भूप धारयेद्वैष्णवो नरः ॥ इति । 1 पुत्रादीनां केशवादिनाम्ना व्यवहारो नामकरणमुच्यते । तेन च निरन्तरं नारायणस्मरणं भवति । भजनं तु कायिकवाचिकमानसिकभेदेन दशविधम् । तत्र सत्यं हितं प्रियं स्वाध्यायश्चेति चतुर्विधं वाचिकम्। दानं परित्राणं परिरक्षणं चेति त्रिविधं कायिकम् । दया स्पृहा श्रद्धा चेति त्रिविधं मानसिकम् । सर्वस्य भजनस्य विष्णुप्रसादसंपादनं प्रयोजनम् । जीवोऽणुपरिमाणः । न मध्यमपरिमाणो नापि विभुः । I स च मोक्षावस्थायामपि परमेश्वरस्य दास एव । अपौरुषेयो वेदो नित्यश्च । तस्य च स्वतः प्रामाण्यमित्यादि मध्वाचार्या मन्यन्ते । प्रत्यक्षमनुमानं शब्दश्चेति प्रमाणत्रयवादिनचैत । एतेषां मते जगत्कर्तृत्वादिरहितं दुःखामिश्रितं परिपूर्ण सुखमेव मोक्षः । सच विष्णुप्रसादादेव लभ्यः । विष्णुप्रसादश्ध तद्गुणोत्कर्षज्ञानादेव भवति मामेदज्ञानात् । तदुक्तम् ——-- 1 तस्मिन्मने किमिहास्त्यलभ्यं धर्मार्थकामैरलमल्पकास्ते । समाश्रिताद्ब्रह्मतरोरनन्तान्निःसंशयं मुक्तिफलं प्रयान्ति ॥ इति मध्वदर्शनसंक्षेपः । Page #16 -------------------------------------------------------------------------- ________________ [१०] - नकुलीशपाशुपतदर्शने पशुपतिना महेश्वरेण जीवानां पाशनिरासकत्वेन कार्यकारणयोगविधिदुःखान्तरूपं तत्त्वपञ्चकं प्रतिपादितम् । पशुपतिशब्दार्थश्चैवं व्याख्यातोऽभियुक्तैः-- ब्रह्माद्याः स्तम्बपर्यन्ताः पशवः परिकीर्तिताः । तेषां हि नायको यस्माच्छिवः पशुपतिः स्मृतः ॥ इति । अत्र जगतीतलवर्तिचेतनाचेतननिखिलपदार्थजातं कार्यशब्देनोच्यते । कारणशब्देनेश्वरः । स च स्वतन्त्रः । जपध्यानादिकं योगशब्देनाभिधीयते । त्रिषवणं भस्मस्नानादिकं व्रतं विधिरुच्यते । दुःखनिरासपूर्वकमीश्वरभावो दुःखान्तशब्देनोक्तः । स एव परमपुरुषार्थो मोक्ष इति । शैवदर्शने पाशविमोक्षणार्थ षट् तत्त्वानि पतिविद्याविद्यापशुपाशकारणाख्यान्युपदिष्टानि । तत्र पतिः शिवः । विद्या तत्त्वज्ञानम् । अविद्या मिथ्याज्ञानम् । पाशो मलकर्ममायारोधशक्त्याख्यश्चतुर्विधः । पशुविः । पाशनिवृत्तौ कारणं जपध्यानचर्यादिकमिति । तदुक्तम् पतिविद्ये तथाऽविद्या पशुः पाशश्च कारणम् । तन्निवृत्ताविति प्रोक्ताः पदार्थाः षट् समासतः ॥ इति । एतेषां तत्त्वानां सामीचीन्येन ज्ञानात्पाशविमोचने संजाते शिवत्वप्राप्तिरूपो मोक्षः सिंध्यतीति शैवानां मतम् । मोक्षप्राप्तौ प्रत्यभिज्ञैव मुख्यं साधनमिति मन्यमाना माहेश्वरास्त्वेवं प्रतिपादयन्ति । पूर्णस्वतन्त्र ईश्वरो जगन्निर्माणकरणविषये न किमपि कर्मादिकं साधनमपेक्षते । किंतु स्वेच्छयैव सर्व निर्मिमीते । जीवाः परस्परं भिन्ना अपि न परमेश्वरा दमर्हन्ति । जीवेश्वरयोश्चैतन्यस्वभावाविशेषात् । परमेश्वरे जीवतादात्म्यस्य स्वानुभवसिद्धत्वाञ्च । अतो जीवैस्तत्तादात्म्यसंपत्त्यर्थं प्रत्यभिज्ञैवाऽऽश्रयणीया । प्रत्यभिज्ञा च अहमीश्वर एव न तद्भिन्न इत्येतादृशः साक्षात्कारः । तादृशेन केवलेन साक्षात्कारेणैवाभ्युदयो मोक्षश्च संपद्यते । न तदर्थं प्राणायामादेरपेक्षा । नापि कायशोषणस्य भस्मस्नानादेपपरिचर्यादेश्चापेक्षेति । यद्यपीश्वरवज्जीवात्माऽपि चैतन्यस्वरूपेणैव प्रकाशते तथाऽपि मायावशादंशेनैव प्रकाशते । परिपूर्णचैतन्यस्वरूपेण प्रकाशनार्थं तु प्रत्यभिज्ञाऽऽवश्यकीति पूर्णात्मतालाभ एव मोक्ष इति प्रत्यभिज्ञादर्शनानुसारिणां मतम् ।। संप्रति रसेश्वरदर्शनस्वरूपं संक्षेपतो वित्रियते । पारदादिपदवाच्यो यो रमस्तद्रूप ईश्वरो रसेश्वरः । सोऽयं रसेश्वरः सेव्यमानः शरीरदायसंपादनद्वारा मुक्तेहेतुरिति ये Page #17 -------------------------------------------------------------------------- ________________ [११] माहेश्वरा मम्यन्ते तेऽप्युपचाराद्रसेश्वरशब्देनाभिधीयन्ते । तैरते रसेश्वरपदवाच्यैः प्रवर्तितं दर्शनं रसेश्वरदर्शनमित्युच्यते । एतेऽपि न परमेश्वराज्जीवानां पार्थक्यं सहन्ते । - किंतु चैतन्यस्वरूपाविशेषादीश्वरस्वरूपभूता एव जीवात्मान इत्यवगच्छन्ति । मोक्षो हि पारदरससेवनेन शरीरस्थैर्य संपादनाज्जीवन्मुक्तिरेवेत्येषां मतम् । जीवतः सत एव या मुक्तिः सा जीवन्मुक्तिरित्यर्थः । अयमाशयः - मुक्तिर्नाम मूलाज्ञाननिवृत्तिपूर्वकस्वस्वरूपयाथात्म्यावाप्तिः । सा च ज्ञानैकसाध्या । तमेव विदित्वेति श्रुतेः । ज्ञानं चाऽऽत्मतत्त्वI विषयकमेव । तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम् । इति स्मृतेः । तच्च ज्ञानं तदभ्यासातिशयात् । अभ्यासातिशयश्च शरीरस्थैर्ये सत्येव । तदुक्तं भगवद्गोविन्दपादाचार्यै: इति धनशरीरभोगान्मत्वाऽनित्यान्सदैव यतनीयम् । मुक्तौ सा च ज्ञानात्तच्चाम्यासात्स च स्थिरे देहे || इति । शरीरस्थैर्ये च पारदादिपदबोध्यस्य रसस्य सेवनात् । रसस्य पारदत्वं च संसारप-रपारप्रापणहेतुत्वेन । तदुक्तम् — संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः । इति । पारदो गदितो यस्मात्परार्थं साधकोत्तमैः । इति च । यस्मात्साधकोत्तमैरयं परार्थं परो मोक्षस्तदर्थं मोक्षसाधनत्वेन गदितस्तस्मादसौ पारदः स्मृत इति शेषः । पारदस्य मोक्षार्थत्वं तु न साक्षात् किंतु मुक्तिप्रयोजकज्ञानसंपादकात्मतत्त्वाभ्याससाधनशरीरदाद्यसंपादनद्वारैवेति तदाशयः । तथा च जीवन्मुक्ति समीहमानेन पुरुषधौरेयेणाऽऽदौ पारदरससेवनेन शरीरस्थायित्वं संपादनीयम् । संपादिते च शरीरस्थैर्ये क्रमेण आत्मतत्त्वाम्यासातिशयान्मिथ्याज्ञाननिवृत्तौ जायमानायां या मुक्तिः सा जीवत एव मुक्तिर्भवतीति तात्पर्यम् । ननु अन्यैर्देर्शनकारैः श्रवणमननादिप्रकारान्तरेणैव जीवन्मुक्तिरुक्ता न त्वदुक्तप्रका - रेणेति कथमियं त्वदभिमता जीवन्मुक्तिर्विश्वसनीया भवेत् । अत एव तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ संपत्स्ये । षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने । करामलकवत्साऽपि प्रत्यक्षा नोपलभ्यते ॥ इति श्रुतिस्मृत्योर्देहपातानन्तरं मुक्तिः प्रदर्शिता । किं च निष्पद्यमानमिदं शरीरं हि षडूभिः काशैर्निष्पद्यत इति श्रुतिस्मृत्यादिषु प्रसिद्धम् । तत्र त्वगसृङ्क्षसरूपास्त्रयः कोशा मातुः शरीरादनुवर्तन्ते । मेदोस्थिमज्जारूपाश्च त्रयः कोशाः पितुः सकाशात्र Page #18 -------------------------------------------------------------------------- ________________ [१२] -: म्यन्ते । तदेतैः षभिः कोशैर्घटमानं शरीरं विनश्वरतया प्रत्यक्षतो दृश्यते । तथा च जीवतः एव मुक्तिरिति कथंकारं संजाघटीति । इति चेदुच्यते । पाट्कौशिकस्य देहस्यास्थिरस्वमस्तु नामः । तथाऽपि पारदाभ्रकपदाभिलप्यमाना या हरगौरीसृष्टिस्तत्संयोगजनितस्य शरीरस्य नित्यत्वमेव । हरसृष्टिः पारदः । गौरीसृष्टिस्त्वभ्रकः । तदुक्तं रसार्णवे अभ्रकस्तव बीजं बीजिं तु मम तु पारदः । इति । शिवगौरीसंवादोऽयम् । अत एव चेश्वरशररिसंभूतत्वेन पारदो रसो रसेश्वर इत्युच्यते । तादृशस्य रसेश्वरस्य सेवनेन तत्संयोगजन्यस्य नित्यशरीरस्य प्राप्तौ सत्यां षट्कौशिकस्यास्थिरस्यापि देहस्य न परित्यागो भवति । प्रत्युत हरगौरीसृष्टिजशरीरसंबन्धेन तत्र दिव्यत्वं दाढ्यै च संपद्यते । यथा पारद ( परिस) संबन्धेन लोहमपि सुवर्णं भवति तद्वत् । तदुक्तं रसहृदये— ८ + ये चात्यक्तशरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः । मुक्तास्ते रससिद्धा मन्त्रगणः किंकरो येषाम् ॥ इति । एवं च पारदरससंबन्धेन पाटकौशिकस्य शरीरस्य लोहस्येव सुवर्णत्वे दिव्यत्वे स्थिरत्वे च संपाद्यमाने जीवत एव मुक्तिरित्युक्तिः सामीचीन्येन संगच्छते । तथा च दर्शनकारैः प्रदर्शिता जीवन्मुक्तिः करामलकवत्प्रत्यक्षा पारदपदाभिधेयरसेश्वरसेवनेन भवतीति जीवन्मुक्ति मनङ्गीकुर्वाणा रामानुजप्रभृतयोऽज्ञानिन एवेति मन्तव्यम् । अत एवं विद्यारण्यैस्तिक दर्शनप्रदर्शनसमये सर्वतो जघन्यत्वेनाऽऽदौ रामानुजदर्शनं निर्दिष्टम् । तदपेक्षया चैतदर्शनस्य श्रेष्ठयाद्रामानुजदर्शनोत्तरं दर्शनचतुष्टयव्यवधानेन रसेश्वरदर्शनं निर्दिष्टमिति मन्ये । इति रसेश्वरदर्शनस्वरूप संक्षेपः । औलक्यदर्शनमेव वैशेषिकदर्शनं कण ददर्शनमिति चोच्यते । अक्षपाददर्शनं च नैयायिकदर्शनमित्यभिधीयते । प्रतिज्ञाहेतूदाहरणोपनयनिगमनाख्यपञ्चावयवं वाक्यं न्यायः । तं विदन्ति ते नैयायिकास्तेषां दर्शनामित्यर्थः । दर्शनद्वयेऽपि तत्त्वज्ञानान्निःश्रेयसाधिगम इत्युक्तम् । निःश्रेयसं मोक्षः । तस्याधिगमः प्राप्तिरित्यर्थः । मोक्षश्चाऽऽत्यन्तिकी दुःखनिवृत्तिः । सा च तत्त्वज्ञानादनन्तरमेव न जायते । किंतु तत्त्वज्ञानेन दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानां मध्ये उत्तरोत्तरस्य नाशे सति तत्पूर्व भाविदोषादीनां नाशात्क्रमेणापवर्गः सिध्यति । तदुक्तम् — दुःखजम्मप्रवृत्तिदोष मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति । मोक्षसाघनीभूतज्ञानविषयामि तत्वानि च प्रमाणप्रमेयसंशयेत्यादीनि गौतमेन षोडशोक्तानि । 1 Page #19 -------------------------------------------------------------------------- ________________ [૨] कणादेन तु सप्तैवोक्तानि । तेषु सप्तस्वेव गौतमोक्तानां षोडशपदार्थानां यथायथयन्तर्भावः सिध्यति । आदृतश्चायमन्तर्भावो नैयायिकैः । अनुमेव विशेषमनुलक्ष्य षोडशपदार्थवादिनो नैयायिकाः सप्त पदार्थवादिनश्च वैशेषिका इति व्यवहारः । अतो वैशेषिकसंमतान्येव सप्त तत्त्वानि सावान्तरभेदानि निरूप्यन्ते - द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः सप्त पदार्थाः । पृथिव्यप्तेजोवाय्वाकाशकालदिमात्ममनांसीति नव द्रव्याणि । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्स्वसंयोगविभाग परत्वापरत्वगुरुत्वद्रवत्वस्नेहशब्दबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्काराश्चतुर्विंशतिर्गुणाः । चलनात्मकं पञ्चविधं कर्म । परमपरं चेति द्विविधं सामान्यम् । नित्यद्रव्यवृत्तयो विशेषास्त्वनम्ता एव । प्रागभावः प्रध्वंसाभावोऽत्यन्ताभावोऽन्योन्याभावश्चेति चत्वारोऽभावा इति । एतेषां लक्षणानि अनुमानव्याप्त्यादिलक्षणानि चेति सर्वं मूल एव स्पष्टम् । जैमिनिमुनिना प्रणीतं दर्शनं जैमिनिदर्शनम् । तदनुवर्तमाना जैमिनीयाः । ते च ज्योतिष्टोमेन स्वर्गकामो यजेतेत्यादिकं हि यद्वचनत्वेन प्रमाणपदवीमवगाहेतैतादृशः सर्वज्ञत्वादिविशेषणविशिष्टः कोऽपीश्वरो नास्ति । मानुषदेहवत्त्वाविशेषेण विप्रलम्भक त्वादिदोषावश्यंभावात् । यद्यपि ब्रह्मविष्णुमहेश्वराः प्रेष्ठा देवाः सन्ति दृश्यते च तेष्यतिशायिनी संपत् । यदाह कश्चित् अथापि वेदहेतुत्वाद्ब्रह्मविष्णुमहेश्वराः । कामं भवन्तु सैश्वर्याः सार्वश्यं पुरुषेषु किम् ॥ इति । तथाऽपि न तेषु सार्वज्ञ्यं संभावयितुमलम् । भ्रान्तेः पुरुषधर्मत्वाद्रागद्वेषादिएक निग्रहानुग्रहग्रस्तत्वाच्च । न च प्रत्यक्षं सर्वज्ञसाधकं भवेदिति वाच्यम् । संबद्धं वर्तमानं च गृह्यते चक्षुरादिना । इत्यभियुक्तवचनात् । तस्मात्सर्वज्ञस्य प्रामाणिकपुरुषस्याभावादेवापौरुषेयो वेदोऽतों भ्रान्त्यादिदोषानास्पदत्वात्स एव सर्वज्ञो भगवान् । तत एव च चक्षुरिन्द्रियागोचरयथावस्थितपदार्थधर्मादिस्वरूपपरिचयो याथातथ्येन भवति । वेदोदितो यागादिधर्म एव चस्वनुष्ठितोऽपूर्वोत्पादनद्वारा स्वर्गादि फलं जनयति । न तत्रान्यस्य कस्यचित्सािंख्यनैयायिकादिपरिकल्पितस्येश्वरस्यापेक्षा । एते च मीमांसका द्विविधाः । अभिहितावयवादिनो भाट्टाः । अन्विताभिधानवादिनः प्राभाकराः । द्विविधानामध्येतेषां मते शब्दा नित्याः । वेदानां धर्मे स्वतः सिद्धं प्रामाण्यं स्वर्गादेः प्राप्तिश्च मोक्ष इति । """ सांप्रतं सांख्यदर्शनस्वरूपं निरूप्यते । ते च सांख्या द्विविधाः । सेश्वरा निरीश्वराश्च । ये तु जीवातिरिक्तं षड्विंशमीश्वरं मन्यदेत ते सेश्वराः । अन्ये निरीश्वराः । त एत उभयेऽपि निराहुः - प्रकृत्युपरमे पुरुषस्य स्वस्वरूपेणावस्थानं मोक्षः । स I Page #20 -------------------------------------------------------------------------- ________________ चं प्रकृतिपुरुषयोर्मेंदज्ञानात् । भेदज्ञानं च तत्त्वज्ञानाज्जायते । तत्त्वानि च पञ्चविंशतिसंख्याकानि । तत्र किंचित्तत्त्वं प्रकृतिरेव । किंचिद्विकृतिरेव । किंचिदुभयात्मकम् । किंचिच्चानुभयात्मकम् । त्रयाणां सत्त्वरजस्तमआख्यानां गुणानां साम्यावस्था प्रकृतिरुच्यते । प्रकरोति कार्य जनयतीति प्रकृतिः । सा च प्रकृतिरेव न कस्यचिदपि विकृतिः । अतो मलप्रकृतिरित्युच्यते । तस्याः सकाशान्महदहंकारौ शब्दतन्मात्र स्पर्शतन्मात्रं रूपतन्मात्रं रसतन्मात्रं गन्धतन्मात्रं चेति महदादीनि सप्त तत्त्वानि क्रमेण समुत्पद्यन्ते । तत्रान्तःकरणापरपर्यायं महत्तत्त्वमहंकारस्य प्रकृतिमूलप्रकृतेस्तु विकृतिः । एवमभिमानापरनामधेयमहंकारतत्त्वं महत्तत्त्वस्य विकृतिः । तदेवाहंकारतत्त्वं तामसं सत्पश्चतन्मात्राणां, तदेव सात्त्विकं - सज्ज्ञानेन्द्रियाणां चक्षुःश्रोत्रवाणरसनात्वगाख्यानां, कर्मेन्द्रियाणां वाक्पाणिपादपायूपस्थाख्यानां संकल्पविकल्पैत हुभयात्मकस्य मनसश्च प्रकृतिः । अयं भावः-महत्तत्त्वाज्जायमानोऽहंकारस्त्रिविधः सात्त्विको राजसस्तामसश्वेति । सात्त्विको वैकारिक इति व्यवहियते । राजसस्तैजस इत्यभिधीयते । तामसश्च मृतादिरित्युच्यते । तत्र तामसादहंकारात्पूर्वोत्तरक्रमेण शब्दतन्मात्रादिपञ्चकं समुत्पद्यते । एवं च पूस्योत्तरं विकृतिरुत्तरस्य च पूर्व प्रकृतिरित्युभयात्मकानि महदादीनि सप्त तत्त्वानीत्यर्थः । शब्दस्पर्शरूपसगन्धाख्यानां गुणानां विशेषरहितानामाश्रयभूः तानि सूक्ष्माणि पञ्च भूतानि तन्मात्रशब्देनोच्यन्ते । तन्मात्रपञ्चकात्प्रत्येकस्मात्पूर्वेप. स्वाताच्छन्दतन्मात्रादाकाशः स्पर्शतन्मात्राद्वायरित्येवं क्रमेण वियदादीनि पञ्च महाभू. वानि जायन्ते । अत एव च तामसोऽहंकारो भूतादिरिति भण्यते । नैतेभ्यः किंचितत्त्वान्तरं समुत्पद्यत इतीमानि पञ्च महाभूतानि विकृत्यात्मकान्येव । तथा सात्त्विका. दहंकारात्पञ्च ज्ञानेन्द्रियाणि पश्च कर्मेन्द्रियाणि तदुभयप्रेरकं मनश्चेत्येकादशेन्द्रियगणः प्रादुर्भवति । अयमिन्द्रियगणोऽपि केवलं . विकृत्यात्मक एव । अत एवैतदुपादानभूतः सात्त्विकोऽहंकारो वैकारिक इति निर्दिश्यते । पुरुषस्तु न कस्यचित्प्रकृतिर्नापि वा विकृतिरित्यनुभयात्मकः । एवं च प्रकृतिः प्रकृत्यात्मिकैका । उभयात्मकानि महदादीनि सप्त । पञ्च महाभूतानि एकादशेन्द्रियाणि च केवलविकृत्यात्मकानीति षोडश । अनुभयात्मकः पुरुषश्चैक इति मिलित्वा पञ्चविंशतिस्तत्त्वानि । _ तदुक्तं सांख्यकारिकायाम् मूलप्रकृतिरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकश्च विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ इति । - इमानि च तत्त्वानि मोक्षसाधनीभूतप्रकृतिपुरुषविवेकज्ञाने हेयतयोपयुक्तानीति सांख्यानामभिप्रायः । अन्यश्च विस्तरः पुरुषस्तु अकर्ता भोक्ता नित्यचिद्रूपः प्रकृतिपुरुषसंबन्धः प्रकृतेर्निवृत्तिश्चेत्यादिस्तत एवावगन्तव्य इति ।। .. Page #21 -------------------------------------------------------------------------- ________________ [१५] - पतललिप्रभृतिमुनिमतमनुवर्तमानानां दर्शनं पातञ्जलदर्शनम् । एतन्मते चितिशक्ते निरुपाधिकस्वरूपेणावस्थानं मोक्षः । तत्र साधनतया यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधीत्येतदष्टाङ्गनिर्वचनपुरःसरं प्रमाणविपर्ययादिचित्तवृत्तिनिरोधाख्यो योगः सविस्तरं प्रतिपादितः । तत्र योगे प्रत्याहारपर्यन्तानि पञ्च बहिरङ्गाणि साधनानि । ततः पराणि त्रीणि संयमपदवाच्यान्यन्तरङ्गसाधनानीति विवेक्तव्यामिति । अधुना सर्वदर्शनमूर्धन्यभूतं शांकरदर्शनं संक्षेपतः किंचिन्निरूप्यते । सांख्यदर्शने मुख्यतः प्रकृतिपुरुषरूपं तत्त्वद्वयं प्रतिपादितम् । तत्र प्रकृतिरपि नित्या । सैव प्रधानशब्देनोच्यते । तच्च प्रधानं जडमपि घटस्य मृदिव महदादेः कारणमित्युक्तम् । तथा कैरपि सांख्यैर्जीवातिरिक्तः परमेश्वरः स्वीकृतः । स एव ब्रह्मात्मेत्यादिशब्दैर्व्यवाहियते । ततश्च जडनीवभेदो जीवेश्वरभेदः परिणामवादश्च स्वीकृतः । स च भेदः सत्य इति स्पष्टमेव प्रतीयते । तदेतत्सर्व श्रीशंकराचार्याणामसंमतम् । यतः श्रुतौ ___ सजातीयं न मे किंचिद्विजातीयं न मे भवेत् । स्वगतं च न मे किंचिन्न मे भेदत्रयं भवेत् ॥ इति ब्रह्मणि सजातीयाद्विजातीयात्स्वगताच्च भेदः प्रतिषिध्यते । यदि च सांख्यमतानुसारेण भेदो वास्तविकः स्यात्तर्हि चेतनत्वेन सजातीयाज्जीवादचेतनत्वेन विजातीयाज्जडाद्रामानुजमते ब्रह्मणः सगुणत्वेन स्वगताद्गुणाच्च ब्रह्मणि भेदस्य दुर्वारतया भेदत्रयनिषेधप्रतिपादिका श्रुतिः पीडयेत । जीवब्रह्मणो. स्तविकत्वेनैकविज्ञानेन सर्वविज्ञानप्रतिज्ञाऽपि न संगच्छेत । नेह नानाऽस्ति, नेति नेति इत्याद्याः श्रुतयोऽप्यमुमेवाभेदं प्रशंसन्ति । सर्वं खल्विदं ब्रह्म, ऐतदात्म्यमिद५ सर्वम्, . एवमादिश्रुतयश्च तं द्रढयन्ति । ततश्च भेदत्रयनिषेधान्यथानुपपत्त्या परिदृश्यमानस्य सचराचरस्य सचेतनाचेतनस्य सर्वस्य जगतः प्रातिभासिकत्वकल्पनं विना गत्यभावात्तदुपपादकमनादिभावरूपाज्ञानं परिकल्पनीयम् । यथैव हि रज्ज्वा तिमिरादिदोषवशासर्पभूदलनाम्बुधाराः परिकल्प्यन्त एवं चिन्मात्रवपुषि परे ब्रह्माण परिकल्पितमिदमनेकभेदभिन्नं सकलं जगन्मिथ्याभूतम् । यथावस्थितब्रह्मस्वरूपावबोधबाध्यं च । मिथ्यात्वं नाम प्रतीयमानत्वपूर्वकयथावस्थितवस्तुज्ञाननिवर्त्यत्वम् । यथा भ्रमाधिष्ठानभूतरज्जुतत्त्वज्ञाने प्रतीयमानसपीदेर्निवृत्तिः । दोषश्चात्र स्वरूपतिरोधानविविधविचित्रविक्षेपकरं सदसद्भ्यामनिर्वचनीयमनाद्यविद्यापरपर्याय भावरूपाज्ञानमेव । इदमेव सर्वस्य जगतो मूलकारणमिति मूलाज्ञानमित्युच्यते । तच्च त्रिगुणात्मकमपि न सांख्यसंमतप्रधानवन्नित्यम् । मोक्षावस्थायां तस्य विनाशावश्यंभावात् । अतो न कथमपि द्वैतप्रसङ्गः । एतादृशाज्ञानकल्पने प्रमाणं देवात्मशक्तिं स्वगुणैर्निगूढाम् , भूयश्चान्ते विश्वमायानिवृत्तिः, पराऽस्य शक्तिर्विविधैव Page #22 -------------------------------------------------------------------------- ________________ [१६] श्रूयते, इत्याचाः श्रुतयः । अत्र स्वगुणैर्निगूढां मायानिवृत्तिः पराऽस्य शक्तिपिविधवे. त्यादिपदैः पूर्वोक्तविशेषणविशिष्टस्य तादृशाज्ञानस्य स्पष्टमेवोपढौकितत्वात् । किंचोंकाज्ञाने तत्त्वमसीति जीवब्रह्मैक्यप्रतिपादकश्रुतिरपि प्रमाणम् । यदि च जीवब्रह्मणोभेदस्तात्त्विकः स्यात्तदा तयोस्तादात्म्यं कुशाग्रधिषणेन सुरगुरुणाऽपि सुदुर्वचमित्यतस्तादृशाज्ञानकल्पनमनिच्छद्भिस्तत्रभवद्भिर्भवद्भिः सर्वैरप्यगत्या स्वीकार्यम् । तेन चाज्ञानेनायं जीवनडादिः सकलः प्रपञ्चः परमात्मनि प्रकल्पित इति मिथ्यैवेति चैकमेव तत्त्वं परमार्थतः । ततश्च परमात्मन्येवेदं सकलं भासत इत्ययं विवर्तवादः । नतु परिणामवादो नापि रामानुजीयाभीष्टा सख्यातिः । किंत्वनिर्वचनीयख्यातिः । अनिर्वचनीयत्वं नाम कार्यस्य सत्त्वेनासत्त्वेन च निर्वक्तमशक्यस्य ख्यातिः प्रतीतिः । यथा शक्तिकायां भासमानं रजतम् । तद्धि न सत्यम् । नेदं रजतमिति बाधानुपपत्तेः । नाप्यसत्यम् । संप्रतीदं रजतमिति प्रतीत्यनुपपत्तेः । तदुक्तम् सत्त्वे न भ्रान्तिबाधौ स्तो नासत्त्वे ख्यातिबाधने । सदसद्भ्यामनिर्वाच्याविद्याऽऽविद्यैः सह भ्रमः ॥ इति । प्रपञ्चस्याप्यनादिभावरूपाज्ञानमूलकत्वादनिर्वचनीयत्वमेव । तथाहि प्रतीयमानं सर्क जगन्न सत् । ज्ञानिदृष्टया बाधानुपपत्तेः । नाप्यसत् । ज्ञानावस्थातः प्राक्कालेऽस्मदादीनामपि प्रतीत्यनुपपत्तेः । अतः सतः ख्यातिर्दुवैचा । एतत्सर्वमनुसंधायैव माण्डूक्योपनिषद्युक्तम् मायामात्रमिदं द्वैतमद्वैतं परमार्थतः । इति । एतन्मते मूलाज्ञाननिवृत्तौ स्वस्वरूपाधिगमो मोक्षः । एवं चानवरततन्तन्यमानानादिभावरूपाज्ञानकृतं सर्व संसृतिचक्रं तस्मिन्परस्मिन्नेव कल्पितं मिथ्याभूतम् । रज्जो भुजंगवत् । निरस्तसमस्तदोषनिधूताखिलविशेषकर सकूटस्थशुद्धबुद्धमुक्तनित्यज्ञानानन्दस्वयंज्योतीरूपं चिन्मात्रमेकमेव ब्रह्मतत्त्वमित्यद्वैतप्रतिपादकं शांकरदर्शनमेव विजय. तेतराम् । एवं यथाबुद्धिबलं सर्वदर्शनस्वरूपं संक्षेपतो निरूप्य श्रीमत्सच्चिदानन्दचरणकमलयोः समर्पयति पुण्यपत्तने शके १८४९ फा. शु. ११ भृगुवासरे. ६ मारुलकरोपाख्यः शंकरशास्त्री । Page #23 -------------------------------------------------------------------------- ________________ ॐतत्सब्रह्मणे नमः। सर्वदर्शनसंग्रहः। तत्र चार्वाकदर्शनम् ॥ १ ॥ नित्यज्ञानाश्रयं वन्दे निःश्रेयसनिधिं शिवम् । येनैव जातं मह्यादि तेनैवेदं सकर्तृकम् ॥ १ ॥ पारं गतं सकलदर्शनसागराणा मात्मोचितार्थ चरितार्थितसर्वलोकम् । श्रीशाङ्गपाणितनयं निखिलागमज्ञं ' सर्वज्ञविष्णुगुरुमन्वहमाश्रयेऽहम् ॥ २॥ श्रीमत्सायणदुग्धाब्धिकौस्तुभेन महौजसा । क्रियते माधवार्येण सर्वदर्शनसंग्रहः ॥ ३॥ पूर्वेषामतिदुस्तराणि सुतरामालोड्य शास्त्राण्यसौ श्रीमत्सायणमाधवः प्रभुरुपन्यास्यत्सतां प्रीतये । दूरोत्सारितमत्सरेण मनसा शृण्वन्तु तत्सज्जना ...... माल्यं कस्य विचित्रपुष्परचितं प्रीत्यै न संजायते ॥४॥ अथ कथं परमेश्वरस्य निःश्रेयसप्रदत्वमभिधीयते । बृहस्पतिमतानुसारिणा नास्तिकशिरोमणिना चार्वाकण तस्य दूरोत्सारितत्वात् । दुरुच्छेदं हि चावाकस्य चेष्टितम् । प्रायेण सर्वप्राणिनस्तावत् . यावज्जीवं सुखं जीवेनास्ति मृत्योरगोचरः। . भस्मीभूतस्य देहस्य पुनरागमनं कुतः॥ इति लोकगाथामनुरुन्धानों नीतिकामशास्त्रानुसारेणार्थकामावेव पुरुषार्थों मन्यमानाः पारलौकिकमर्थमपहनुवानाचार्वाकमतमनुवर्तमाना एवानुभूयन्ते । अत एव तस्य चार्वाकमतस्य लोकायतमित्यन्वर्थमपरं नामधेयम् । तंत्र पृथिव्यादीनि भूतानि चत्वारि तत्त्वानि । तेभ्य एव देहाकारपरिणतेभ्यः किण्वादिभ्यो मदशक्तिवच्चैतन्यमुपजायते । तेषु विनष्टेषु सत्सु स्वयं विनश्यति । तदाहुः-विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविन १च. 'दि कार्यजातं स°। २ मुद्रितपुस्तके-आत्मोचिताचरितमर्थितसर्वलोकमिति । ३ च. "णिचा । ४ ख.--- ‘ण दू° । ५ च. °ना नुः का। ६ क. च. अत्र। ७ च. "नि दे । ८ च. 'तेभ्यस्तेभ्यः । ९ क.-. विश्वं । १० क.-डा तदिह । ११ क.-. °नमेवै । Page #24 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे— २ श्यति न प्रेत्य संज्ञाऽस्ति ( वृ० २ । ४ । १२ ) इति । तचैतन्यविशिष्टंदेह एवाऽऽत्मा । देहातिरिक्त आत्मनि प्रमाणाभावात् । प्रत्यक्षैकप्रमाणवादितया - नुमानादेरनङ्गीकारेण प्रामाण्याभावात् । अङ्गनाद्यालिङ्गनादिजन्यं सुखमेव पुरुषार्थः । न चास्य दुःखसंभिन्नतया पुरुषार्थत्वमेव नास्तीति मन्तव्यम् । अत्रर्जनीयतया प्राप्तस्य दुःखस्य परिहारेण सुखमात्रस्यैव भोक्तव्यत्वात् । तद्यथा मत्स्यार्थी सशल्कान्सकण्टकान्मत्स्यानुपादत्ते स यावदादेयं तावदादाय निव र्तते । यथा वा धान्यार्थी सपलालानि धान्यान्याहरति स यावदादेयं तावदादाय निवर्तते । तस्माद्दुःखभयान्नानुकूलवेदनीयं सुखं त्यक्तमुचिरम् । न हि मृगाः सन्तीति शाल यो नोप्यन्ते । न हि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते । यदि कश्विद्भीरुर्दृष्टं सुखं त्यजेत्तर्हि स पशुवन्मूखों भवेत् । तदुक्तम् त्याज्यं सुखं विषयसंगमजन्म पुंसां दुःखोपसृष्टमिति मूर्खत्रिचारणैषा । व्रीही जिहासति सितोत्तमतण्डुलाढयान् को नाम भोस्तुपकणोपहितान्हितार्थी ॥ इति । * ननु पारलौकिक सुखाभावे बहुवित्तव्ययशरीरायाससाध्येऽग्निहोत्रादौ विद्या वृद्धाः कथं वर्तिष्यन्त इति चेत्तदपि न प्रमाणकोटिं प्रवेष्टुमीष्टे । अनृत व्याघा पुनरुक्तदोषद्वेषिततया वैदिकंमन्यैरेव धूर्तचकैः परस्परं कर्मकाण्डमामाण्यवा दिभिर्ज्ञानकाण्डस्य ज्ञानकाण्डमामाण्यवादिभिः कर्मकाण्डस्य च प्रतिक्षिप्तत्वेन अय्या धूर्त मला मात्रत्वेनाग्निहोत्रादे जीविकामात्रमयोजनत्वात् । तथा चाऽऽभा ७ णक:-- अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविकेति बृहस्पतिः ॥ इति । 1 अत एव कण्टकादिजन्यं दुःखमेव नरकः । लोकसिद्धो राजा परमेश्वरः । देहोच्छेदो मोक्षः | देहात्मबादे च स्थूलोऽहं कृशोऽहं कृष्णोऽहमित्यादिसामानाधिकरण्योपपत्तिः । मम शरीरमिति व्यवहारो राहोः शिर इत्यादिवदौपचा रिकः । तदेतत्सर्व समग्राहि १ क.–ङ, ॰नालि॰ । २ च. ॰दिजनितं सु' । ३ च न्ते । भीरु' । ४ च. 'दौ त्रैवि' । ५ च. प्रवर्तन्त | ६ च. 'टे | व्या । ७ च तवादमा । ८ क. ड. च कृ । ९ च 'शोऽह । Page #25 -------------------------------------------------------------------------- ________________ चार्वाकदर्शनम् । अङ्गनालिङ्गनाजन्यसुखमेव पुमर्थता। . .. कण्टकादिव्यथाजन्यं दुःखं निरय उच्यते ॥ १ ॥ लोकसिद्धो भवेद्राजा परेशो नापरः स्मृतः। - .. देहस्य नाशो मुक्तिस्तु न ज्ञानान्मुक्तिरिष्यते ॥२॥ अत्र चत्वारि भूतानि भूमिवार्यनलानिलाः। .. चतुर्व्यः खलु भूतेभ्यश्चैतन्यमुपजायते ॥ ३॥ .. किण्वादिभ्यः समेतेभ्यो द्रव्येभ्यो मदशक्तिवत् ।। अहं स्थूलः कृशोऽस्मीति सामानाधिकरण्यतः ॥ ४ ॥ देहः स्थौल्यादियोगाच्च स एवाऽऽत्मा न चापरः। मम देहोऽयमित्युक्तिः संभवेदौपचारिकी ॥ ५ ॥ इति । स्यादेतत् । स्यादेष मनोरथो यद्यनुमानादेः प्रामाण्यं न स्यात् । अस्ति च प्रामाण्यम् । कथमन्यथा धूमोपलम्भानन्तरं धूमध्वजे प्रेक्षावता प्रवृत्तिरुपपद्येत । नधास्तीरे फलानि सन्तीति वचनश्रवणसमनन्तरं फलार्थिनां नदीतीरे प्रवृत्ति रिति । तदेतन्मनोराज्यविजृम्भणम् । व्याप्तिपक्षधर्मताशालि हि लिङ्ग गमकमभ्युपगनमनुमानप्रामाण्यवादिभिः । व्याप्तिश्चोभयविधोपाधिविधुरः संबन्धः । सच सत्तया चक्षुरादिवनाङ्गभावं भजते । किं तु ज्ञाततया । कः खलु ज्ञानो. पायो भवेत् । न तावत्प्रत्यक्षम् । तच्च बाह्यमान्तरं वाऽभिमतम्। न प्रथमः । तस्य संप्रयुक्तविषयज्ञानजनकत्वेन भवति प्रसरसंभवेऽपि भूतभविष्यतोस्तदसंभवेन सर्वोपसंहारवत्या व्याप्तदुर्ज्ञानत्वात् । न च व्याप्तिज्ञानं सामान्यगोचरमिति मन्तव्यम् । व्यक्त्योरविनाभावाभावप्रसङ्गात् । नापि चरमः । अन्तःकरणस्य बहिरिन्द्रियैतन्त्रत्वेन बाह्येऽर्थे स्वातन्त्र्येणं प्रवृत्त्यनुपपत्तेः । तदुक्तम् चक्षुरायुक्तविषयं परतन्त्रं बहिर्मनः। (त० वि० २०) इति । नाप्यनुमानं व्याप्तिज्ञानोपायः । तत्र तत्राप्येवमित्यनवस्थादौःस्थ५प्रसङ्गात् । नापि शब्दस्तदुपार्थः । काणादमतानुसारेणानुमान एवान्तर्भावात् । अनन्तर्भावे वा वृद्धव्यवहाररूपलिङ्गावगतिसापेक्षतया प्रागुक्तदूषणलङ्घनाजघालत्वात् । धूमधूमध्वजयोरविनाभावोऽस्तीति वचनमात्रे मन्वादिवद्विश्वासाभा १ च. तदे । २ च. हि विभागं गमकमगीकृत । ३ क. च. तत्र । ४ क. भाव । ५ च. °यपरत । ६ च. ण प्रवृत्तेरप्रवृत्तेः । त° । ७ च. पायम् । ८ च. यः कणा । ९ च. नसंगतिम। Page #26 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेवाच। अनुपदिष्टाविनाभावस्य पुरुषस्यार्थान्तरदर्शनेनार्थान्तरानुमित्यभावे स्वार्थानुमानकथायाः कथाशेषत्वप्रसङ्गाच्च । कैव कथा परार्थानुमानस्य । उपमानादिकं तु दूरापास्तम् । तेषां संज्ञासंज्ञिसंवन्धादिबोधकत्वेनानौपाधिकसंबन्धबोधकत्वासंभवात् । किंच-उपाध्यभावोऽपि दुरवगमः । उपाधीनां प्रत्यक्षत्वनियमासंभवेन प्रत्यक्षाणामभावस्य प्रत्यक्षत्वेऽप्यप्रत्यक्षाणामभावस्याप्रत्यक्षतयाऽनुमानाधपेक्षायामुक्तदूषणानतिवृत्तेः । अपि च साधनाव्यापकत्वे सति साध्यसमव्याप्तिरिति तल्लक्षणं कक्षीकर्तव्यम् । तदुक्तम् अव्याप्तसाधनो यः साध्यसमव्याप्तिरुच्यते स उपाँधिः । शब्देऽनित्ये साध्ये सकर्तृकत्वं घटत्वमश्रवती च ॥ व्यावर्तयितुमुपात्तान्यत्र क्रमतो विशेषणानि त्रीणि । तस्मादिदमनवद्यं समासमेत्यादिनोक्तमाचार्यश्च ॥ इति ।* तंत्र विध्यध्यवसायपूर्वकत्वानिषेधाध्यवसायस्योपाधिज्ञाने जाते तदभाव- - विशिष्टसंबन्धरूपं व्याप्तिज्ञानं व्याप्तिज्ञानाधीनं चोपाधिज्ञानमिति परस्पराश्रयवज्र. प्रहारदोषो वज्रलेपायते । तस्मादविनाभावस्य दुर्बोधतया नानुमानाद्यवकाशः । धूमादिज्ञानानन्तरमग्न्यादिज्ञाने प्रवृत्तिः प्रत्यक्षमूलतया भ्रान्त्या वा युज्यते । कचित्फलपतिलम्भस्तु मणिमन्त्रौषधादिवद्यादृच्छिकः। अतस्तत्साध्यमदृष्यादिकमपि नास्ति । नन्वदृष्टीनिष्टौ जगद्वैचित्र्यमाकस्मिकं स्यादिति चेन्न तद्भद्रम् । स्वभावादेव तदुपपत्तेः । तदुक्तम् अग्निरुष्णो जलं शीतं समस्पर्शस्तथाऽनिलः । केनेदं चित्रितं तस्मात्स्वभावात्तद्वयवस्थितिः ॥ इति । तदेतत्सर्वं बृहस्पतिनाऽप्युक्तम् न स्वर्गो नापवर्गो वा नैवाऽऽत्मा पारलौकिकः । नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ॥ १॥ * समासमाविनाभावावेकत्र स्तो यदा तदा । समेन यदि नो व्याप्तस्तयोहीनोऽप्रयोजकः ॥ इति घ. ङ. पुस्तकटिप्पण्याम् । १ क.--. °च्च । उ°। २ च. उपास्यभा । ३ च. °रधिग°।४ क. वेनाप्र। ५ क. °वस्याप्रत्यक्षतयाऽनु। ६ च. म् । अ। ७ क.-ड. "पाधिरिति । श°। ८ क.-.नित्यत्वे सा । ९च.तां व्या । १० च. त्र व्यव । ११ च. विध्यव । १२ च. रूपमज्ञा । १३च. °ज्रपातस्ते। त° । १४ च पंधवद्या । १५ च. "टानङ्गीकारे ज° । १६ क.-. चेत्तन्न । १७ क. ख. ग. घ. तं शीतस्प। १८ च र्गो वाऽपि नैवाऽऽत्मा देवो वा पा। Page #27 -------------------------------------------------------------------------- ________________ बौद्धदर्शनम् । अग्निहोत्रं त्रयो वेदास्त्रिदण्डं भस्मगुण्ठनम् । बुद्धिपौरुषहीनानां जीविका धातृनिर्मिता ॥ २ ॥ पशुश्चेभिहतः स्त्रर्न ज्योतिष्टोमे गमिष्यति । स्वपिता यजमानेन तत्र कस्मान्न हिंस्यते ॥ ३ ॥ मृतानामपि जन्तूनां श्राद्धं चेत्तृप्तिकारणम् । निर्वाणस्य प्रदीपस्य स्नेहः संवर्धयेच्छिखाम् ॥ ४ ॥ गच्छतामिह जन्तूनां व्यर्थ पाथेयकल्पनम् । गेहस्थकृतश्राद्धेन पथि तृप्तिरवारिता ।। ५ ।। स्वर्गस्थिता यदा तृप्तिं गच्छेयुस्तत्र दानतः । प्रासादस्योपरिस्थानामत्र कस्मान्न दीयते ॥ ६॥ यावज्जीवेत्सुखं जीवेद्दणं कृत्वा घृतं पिबेत् । भस्मीभूतस्य देहस्य पुनरागमनं कुतः ॥ ७ ॥ यदि गच्छेत्परं लोकं देहादेष विनिर्गतः । कस्माद्भूयो न चाssयाति बन्धुस्नेहसमाकुलः ॥ ८ ॥ ततश्च जीवनोपायो ब्राह्मणैर्विहितस्त्विह । मृतानां प्रेतकार्याणि न त्वन्यद्विद्यते कचित् ॥ यो वेदस्य कर्तारो भण्डधूर्तनिशाचराः । जर्फरीतुर्फरीत्यादि पण्डितानां वचः स्मृतम् ॥ १० ॥ अश्वस्यात्र हि शिश्नं तु पत्नीग्राह्यं प्रकीर्तितम् । भण्डैस्तद्वत्परं चैत्र ग्राह्यजातं प्रकीर्तितम् ॥ ११ ॥ मांसानां खादनं तद्वन्निशाचरसमीरितम् । इति । तस्माद्बहूनां प्राणिनामनुग्रहार्थं चार्वाकमतमाश्रयणीयमिति रमणीयम् ॥ इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे चार्वाकदर्शनम् ॥ ९ ॥ अथ बौद्धदर्शनम् ॥ २ ॥ अत्र बौद्धैरभिधीयते । यदभ्यधायि - अविनाभावो दुर्बोध इति तदसाधीयः । तादात्म्यतदुत्पत्तिभ्यामविनाभावस्य सुज्ञानत्वात् । तदुक्तम्कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमो ऽदर्शनान्न न दर्शनात् ॥ ( न्या० बि० ) इति । १ च. 'रो मुनिभण्डनि' । २ च. अत्र । ३ क. ग. 'दर्शनात्तददर्शना । ख. दर्शनावान्तरदर्शनात् । ङ. व. दर्शनान्तरदर्शनात् । Page #28 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेअन्वयव्यतिरेकावविनाभावनिश्चायकाविति पक्षे साध्यसाधनयोरव्यभिचारो दुरवधारणो भवेत् । भूते भविष्यति वर्तमाने चानुपलभ्यमानेऽर्थे व्यभिचारशकाया अनिवारणात् । ननु तथाविधस्थले तावकेऽपि मते व्यभिचारशङ्का दुष्परिहरेति चेन्मैव वोचः। दिनाऽपि कारणं कार्यमुत्पद्यतामित्येवंविधायाः शङ्काया व्याघातावधिकतया निवृत्तत्वात् । तदेव ह्याशङ्कयेत यस्मिन्नाशयमाने व्याघा. तादयो नावतरेयुः । तदुक्तम्- व्याघातावधिराशङ्का[न्या० कु० ३ । ७] इति । तस्मात्तदुत्पत्तिनिश्चयेनाविनाभावो निश्चीयते । तदुत्पत्तिनिश्चयश्च कार्यहेत्वोः प्रत्यक्षोपलम्भानुपलम्भपञ्चकनिबन्धनः । कार्यस्योत्पत्तेः प्रागनुपलम्भः कारणो. पलम्भे सत्युपलम्भ उपलब्धस्य पश्चात्कारणानुपलम्भादनुपलम्भ इति पञ्चकारण्या धूमधूमध्वजयोः कार्यकारणभावो निश्चीयते । तथा तादात्म्यनिश्वयेनाप्यविनाभावो निश्चीयते । यदि शिंशपा वृक्षत्वमतिपतेत्स्वात्मानमेव जह्यादिति विपक्षे बाधक प्रवृत्तेः । अप्रवृत्ते तु. बाधके भूयः सहभावोपलम्भेऽपि व्यभिचारशङ्कायाः को निवारयिता । शिंशपावृक्षयोश्च तादात्म्यनिश्चयो वृक्षोऽयं शिंशपति सामानाधिकरण्यबलादुपपद्यते । न ह्यत्यन्ताभेदे तत्संभवति । पर्यायत्वेन युगपत्प्रयोगायोगात् । नाप्यत्यन्तभेदे । गवा श्वयोरनुपलम्भात् । तस्मात्कार्यात्मानौ कारणात्मानावनुमापयत इति सिद्धम् ।। यदि कश्चित्मामाण्यमनुमानस्य नाङ्गीकुर्यात्तं प्रति ब्रूयात् । अनुमानं प्रमाणं न भवतीत्येतावन्मात्रमुच्यते तत्र न किंनन साधनमुपन्यस्यत उपन्यस्यते वा । न प्रथमः । अशिरस्कवचनस्योपन्यासे साध्यासिद्धः। . एकाकिनी प्रतिज्ञा हि प्रतिज्ञात न साधयेत् । इति न्यायात् । नापि चरमः । अनुमानं प्रमाणं न भवतीति ब्रुवाणेनं वच. नप्रमाणमनभ्युपगच्छता त्वया स्वपरकीयशास्त्रे प्रामाण्येनोपग्रहीतस्य वचनस्यो. पन्यासे मम माता वन्ध्येतिवव्याघातापातात् । किं च प्रमाणतदाभासव्यवस्थापनं तत्समानजातीयत्वादिति वदता भवतैव स्वीकृतं स्वभावानुमानम् । पर १ ख. नियामका । २ व. च. °ति ननु प । ३ क. नेऽपि व्य । ग. "ने व्य । घ.-च. °ने च व्य° ४ क. °रिहारे । ५ च. हरैवेति । ६ च. °वम् । वि । ७ च. "न्धनस्तादात्म्यनिश्चयोsनाविनाभावो निश्चीयते ता । ८ च. योस्ताद। । ९ च. त् । यस्मा । १० घ. च. "रणमात्मानमर्नु । ख. रणावनु । ११ ख.-च. स्यते वा। १२ क. °न त्वया पारस्करबचनस्यो । ग. 'नत्वाच्छिरस्कव । ख. °न त्वया स्ववचनस्यो । इति पाठः ख. पुस्तकस्य समासे वर्तते । ङ.--च न त्वयाऽशिरस्कवचनस्यो । १३ घ. तं प्रमाणाभासानु । Page #29 -------------------------------------------------------------------------- ________________ ... N बौद्धदर्शनम् । गता विप्रतिपत्तिन्तु वचनलिङ्गोनेति ब्रुवेता कार्यलिङ्गकमनुमानम् । अनुप. लब्ध्या कंचिदर्थं प्रतिषेधयताऽनुपलब्धिलिङ्गकमनुमानम् । तथा चोक्तं तथा गतैः प्रमाणान्तरसामान्यस्थितेरन्यधियो गतेः। प्रेमाणान्तरसद्भावः प्रतिषेधाच्च कस्यचित् ।। इति । पराक्रान्तं चात्र सूरिभिरिति ग्रन्थभूयस्त्वभयादुपरम्यते । - ते च बौद्धाश्चतुर्विधया भावनया परमपुरुषार्थ कथयन्ति । ते च साध्यमिक कयोगाचौरसौत्रान्तिवैभाषिकसंज्ञाभिः प्रसिद्धा बौद्धा यथाक्रमं सर्वशुन्य त्वबाँयार्थशून्यत्वबाह्यार्थानुमेयत्वबाह्यार्थप्रत्यक्षत्ववादानातिष्ठन्ते । यद्यपि भगवा बुद्ध एक एवं बोधयिता तथाऽपि बौद्धव्यानां बुद्धिभेदाचातुर्विध्यम् । यथा गतोऽस्तमर्क इत्युक्ते जारचौरानूंचानादयः स्वेष्टानुसारेणाभिसरणंपरस्वहरणसदांचरणादिसमयं बुद्धयन्ते । सर्व क्षणिक क्षणिकं दुःखं दुःखं स्वलक्षणं स्वलक्षण शून्यं शून्यमिति. भावनाचतुष्टयमुपदिष्टं द्रष्टव्यम् । तत्र क्षणिकत्वं नीलादिक्षणानां सत्त्वेनानुमातव्यं यत्सत्तक्षणिकं यथा जलधरपटैलं सन्तश्वामी भावा इति । न चायमसिद्धो हेतुः। अर्थक्रियाकारित्वलक्षणस्य सत्त्वस्य नीलादिक्ष प.नां प्रत्यक्षसिद्धत्वात् । व्यापकव्यावृत्त्या व्याप्यव्यावृत्तिरिति न्यायेन व्याप क.क्रमाक्रमव्यावृत्तावक्षणिकोत्सवव्यावृत्तेः सिद्धत्वाच्य । तच्चार्थक्रियाकारित्वं क्रमाक्रमाभ्यां व्याप्तम् । न च क्रमाक्रमाभ्यामन्यः प्रकार: संभवाति । ... परस्परविरोधे हि न प्रकारान्तरस्थितिः । . नैकताऽपि विरुद्धानामुक्तिमात्रविरोधतः ॥ [न्या० कु०३।८। इति न्यायेन व्याघातस्योद्भटत्वात् । तौ च क्रमाक्रमौ स्थायिनः सकाशा यावर्तमानावर्थक्रियामपि पावर्तयन्तो क्षणिकत्वपक्ष एवं सत्र व्यवस्था फ्यत इति सिद्धम् । - १ क. घ.--. "स्थितिरन्यधियां ग । २ च. उच्यते । ३ क. ग. "ति गूढभूयस्त्वभ । ख. "ति गूढभूयस्त्वाभावादु' । ४ घ. विधाः । चतुर्विध । ५ च. चारार्हत्सौत्रा । ६च. कसं । ७ घ. बाह्यश। ८ च. नवादादारयोर्बोद्धव्याः स्वाशयानु। ९ च. 'दि स्वयं । १० च. के दुः। १.१ च. त्वं य । १२ क. दिलक्ष । १३ च. धरः स । १४ घ. °टलः स । १५ क्र.-ड. त्तिन्या । १६ च. च क्रि । १७ क.ग. ङ. च. रः समस्ति । प। . ..:: .... Page #30 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे नन्वक्षणिकस्यार्थक्रियाकारित्वं किं न स्यादिति चेत्तदयुक्तम् । विकल्पांसहत्वात् । तथाहि - वर्तमानार्थक्रिया करणका लेडतीतानागतयोः किमर्थक्रिययोः स्थायिनः सामर्थ्यमस्ति नो वा आये तयोरनिराकरणप्रसङ्गः । समर्थस्य क्षेपायोगात् । यद्यदा यत्करणसमर्थ तत्तदा तत्करोत्येव यथा सामग्री स्वकार्थं समर्थश्चायं भाव इति प्रसङ्गानुमानाश्च । द्वितीय कदापि न कुर्यात् । सामर्थ्य मात्रानुबन्धित्वादर्थक्रियाकारित्वस्य । यद्यदा यन्न करोति तत्तदा तत्रासमर्थं यथाहि शिलाशकलमङ्कुरे । न चैष वर्तमानार्थक्रियाकरणकाले वृत्तवर्तिष्यमाणे अर्थक्रिये करोतीति तद्विपर्ययाच्च । ननु क्रमवत्सहकारिलाभरस्थायिनोऽतीतानागतयोः क्रमेण करणमुपपद्यत इति चेत्तत्रेदं भवान्पृष्टो व्याचष्टाम् | सहकारिणः किं भावस्योपकुर्वन्ति न वा । न चेन्नापेक्षणीयास्ते । अकिंचित्कुर्वतां तेषां तदर्थ्यायोगात् । अथ भावस्तैः सहकारिभिः सहैव कार्य करोतीति स्वभाव इति चेत् । अङ्ग तर्हि सहकारिणो न जह्यात् । प्रत्युत पलायमानानपि गले पाशेन बद्ध्वा कृत्यं कार्यं कुर्यात् । स्वभावस्यानपायात् । उपकारकत्वपक्षे सोऽयमुपकारैः किं भावाद्भिद्यते न वा । भेदक्ष आगन्तुकस्थैव तस्य कारणत्वं स्यान्न भावस्याक्षणिकस्य । आगन्तुकातिशयान्वयव्यति रेकानुविधायित्वात्कार्यस्य । तदुक्तम्- वर्षातपाभ्यां किं व्योम्नश्चर्मण्यस्ति तयोः फलम् । चर्मोपमवेत्सोऽनित्यः खतुल्यवेदसत्फलः ॥ इति । १४ किंच सहकारिजन्योऽतिशयः किमतिशयान्तरमारंभते न वा । उभयथाऽपि मागुक्तदूपणपाषाणवर्षणप्रसङ्गः । अतिशयन्तिरारम्भपक्षे बहुमुखा नवस्थादौ:स्थ्यमपि स्यात् । अतिशये जनयितव्ये सहकार्यन्तरापेक्षायां तत्परम्परापात इत्येकाऽनवस्थाssस्थेया । तथा सहकारिभिः सलिलपवनादिभिः पदार्थसा *राधीयमाने बीजस्यातिशये बीजमुत्पादकमभ्युपेयम् । अपरथा तदभावेऽप्यतिशयः प्रादुर्भवेत् । बीजं चातिशयमादधानं सहकारिसापेक्षमेवाऽऽधत्ते । अन्यथा १ च. ल्पानुपपत्तेः । त' । २ क. ख. तदा करों । ३ च भवति इ° । ४ च. येऽपि क° 4 ५ क. 'तन्न स । ख. तत्र न स । ग. 'तदा न तत्सम' । ६ क. ख. ग. च. 'भात्क्रमेण क्रमणमु' । ७ क. ख. ग. तादात्म्यायो । ८ च. 'क्षे योऽय । ९ च रः स किं । १० क. 'रभेत न । ११ च. 'प्र' । १२ ख. न्तरं भवत्पक्षे | १३ च . ० हुदुःखा' । १४ च. 'तिज' । १५ क. दिप° । Page #31 -------------------------------------------------------------------------- ________________ बौद्धदर्शनम् । सर्वदोपकारापत्तावङ्कुरस्यापि सदोदयः प्रसज्येत । तस्मादतिशयार्थमपेक्ष्यमाणैः सहकारिभिरतिशयान्तरमाधेयं बीजे । तस्मिन्नप्युपकारे पूर्वन्यायेन सहकारिसापेक्षस्य बीजस्य जनकत्वे सहकारिसंपाद्यबीजगतातिशयानवस्था प्रथमा व्यवस्थिता । अथोपकारः कार्यार्थमपेक्ष्यमाणोऽपि बीजादिनिरपेक्षं कार्य जनयति तत्सापेक्षं वा । प्रथमे बीजादेरहेतुत्वमापतेत् । द्वितीयेऽपेक्ष्यमाणेन बीजादिनोपकारेऽतिशय आधेयः । एवं तत्र तत्रापति बीजादिजन्यातिशयनिष्ठातिशयपरम्परापात इति द्वितीयाऽनवस्था स्थिरा भवेत् । एवमपेक्ष्यमाणेनोपकारेण बीजादौ धर्मिण्युपकारान्तरमाधेयमित्युपकाराधेयबी. जाश्रयातिशयपरम्परापात इति तृतीयाऽनवस्था दुरवस्था स्यात् । अथ भावादभिन्नोऽतिशयः सहकारिभिराधीयत इत्यभ्युपगम्यते तर्हि प्राचीनो भावोऽनतिशयात्मा निवृत्तोऽन्यश्चातिशयात्मा कुर्वद्रूपादिपदवेदनीयो जायत इति फलितं ममापि मनोरथद्रुमेण । तस्मात्क्रमेणाक्षणिकस्यार्थक्रिया दुर्घटा ।। ___नाप्यक्रमेण घटते । विकल्पासहत्वात् । तथाहि-युगपत्सकलकार्यकरणसमर्थः स्वभावस्तदुत्तरकालमनुवर्तते न वा । प्रथमे तत्कालवत्कालान्तरेऽपि तावकार्यकरणमापतेत् । द्वितीये स्थायित्ववृत्त्याशा मूषिकभक्षितवीजादावङ्कुरादिजननप्रार्थनामनुहरेत् । यद्विरुद्धधर्माध्यस्तं तन्नाना यथा शीतोष्णे । विरुद्धधर्माध्यस्तश्चायमिति जलधरे प्रतिबन्धसिद्धिः । न चायमसिद्धो हेतुः । स्थायिनि कालभेदेन सामर्थ्यासामथ्र्ययोः प्रसङ्गतद्विपर्ययसिद्धत्वात् । तत्रासामर्थ्यसा. धको प्रसङ्गतद्विपर्ययो प्रागुक्तौ । सामर्थ्यसाधकावभिधीयते । यद्यदा यजननासमर्थ तत्तदा तन्न करोति यथा शिलाशकलमङ्कुरम् । असमर्थश्वायं वर्तमानार्थक्रियाकरणकाले+ऽतीतानागतयोरर्थक्रिययोरिति प्रसङ्गः। यवदा पत्करोति तत्तदा तंत्र समर्थं यथा सामग्री स्वकार्ये । करोति चाय ___ * हेत्वभाविपर्ययः सामर्थ्यासामर्थ्ययोरिति शेष इति घ. पु. टिप्पण्याम् । + इत उत्तरमयं ग्रन्थो घ. पुस्तके। स यथा--असमर्थत्वेऽपि यद्ययं वर्तमानकाले क्रियां करोति तदाऽतीतानागतयोरर्थक्रिये कुर्यादित्यप्रसङ्गः । इति । । १च. कारवदङ्कु । २ च. दयं प्रसज्जेद' । ३ ग. 'स्मिन्नुप । ४ ग. पाद्यापकारवत्यति । ५ क. °द्य बीजवत्यति । ख. घ. °द्य बीजवृत्त्यति । ६ क. पेक्षः का' । ७ ग. दि. नि । ८ घ. जात । ९ ख. स्मारक्ष । क. घ.-च. स्मादक्ष । १० क. ख. काला । ११ घ. 'र्थ्ययोरप्रसङ्गात् । तद्वि' । १२ घ. °धकाप्र । १३ ग. कुरे। अ । १४ ङ. योरतिप्र । १५ ख. घ. °रित्यप्र । १६ ग. तत्स । १७ क. ग. घ. कार्य क° । ख. कार्यम् । क। Page #32 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेमतीतानागतकाले तत्कालवर्तिन्यावर्थक्रिये भाव इति प्रसङ्गव्यत्ययो विपर्ययः । तस्माद्विपक्षे क्रमयोगपद्यव्यावृत्त्या व्यापकानुपलम्भेनाधिगतव्यतिरेकव्याप्तिकं प्रसङ्गतद्विपर्ययवलाद्गहीतान्वयव्याप्तिकं च सत्त्वं क्षणिकत्वपक्ष एव व्यवस्थास्यतीति सिद्धम् । तदुक्तं ज्ञानश्रिया यत्सत्तत्क्षणिकं यथा जलधरः सन्तश्च भावा अमी ___ सत्ता शक्तिरिहार्थकर्मणि मितेः सिद्धेषु सिद्धा * न सा। नाप्येकैव विधाऽन्यथा परकृतेनापि क्रियादिर्भवेद x द्वेधाऽपि क्षणभङ्गसंगतिरतः साध्ये च विश्राम्यति ॥ इति । न च कणभक्षाक्षचरणादिपक्षकक्षीकारेण सत्तासामान्ययोगित्वमेव सत्त्व मिति मन्तव्यम् । सामान्यविशेषसमवायानामसत्त्वप्रसङ्गात् । न च तत्र स्वरू. पसत्तानिवन्धनः सद्व्यवहारः । प्रयोजैकगौरवापत्तेः । अनुगतत्वाननुगतत्ववि. कल्पपराहतेश्च । सर्पपमहीधरादिषु विलक्षणेषु क्षणेष्वनुगतस्याऽऽकारस्य माणिषु सूत्रबद्भुतगणेषु गुणवच्चाप्रतिभासनाच्च । किंच सामान्यं सर्वगतं स्वाश्रयसर्वगतं वा । प्रथमे सर्ववस्तुसंकरप्रसङ्गः । अपसिद्धान्तापत्तिश्च । यतः प्रोक्तं प्रशस्तपादेन-स्वविषयसर्वगतमिति । किंच विद्यमाने घटे वर्तमान सामान्यमन्यत्र जायमानेन संवध्यमानं तस्मादागच्छत्संवध्यतेऽनागच्छद्वा । आधे द्रव्यत्वापत्तिः । द्वितीये संवन्धानुपपत्तिः । किंच विनष्टे घटे सामान्यमवतिष्ठते विनश्यति स्थानान्तरं गच्छति वा । प्रथमे निराधारत्वापत्तिः । द्वितीये नित्यत्व वाचोयुक्त ययुक्तिः । तृतीये द्रव्यत्वप्रसक्तिः । इत्यादिदूषणग्रहग्रस्तत्वात्सामा. न्यमप्रामाणिकम् । तदुक्तम्-- अन्यत्र वर्तमानस्य ततोऽन्यस्थानजन्मानि । तस्मादचलतः स्थानावृत्तिरित्यतियुक्तता ।। यत्रासौ वर्तते भावस्तेन संबध्यते न तु । तदेशिनं च व्यामोति किमप्येतन्महाद्भुतम् ।। न याति न च तत्राऽऽसीदस्ति पश्चान्न चांशवत् । जहाति पूर्व नाऽऽभारमहो व्यसनसंततिः ॥ इति । * स्थिरेषु स्थिरा इति । घ. पु. टिप्पण्याम् । x नानात्वेन स्थिरत्व एकविधत्वेनास्थिरत्वेऽपि । इति घ. पु. टिप्पण्याम् । १ ग. ध. गस्तद्वयत्ययो वि । २ घ. मितिः । ३ क. 'जको गौ । ४ क. ग. घ. "तकणे । ५घ. स्तपदे । ६ क. ख. ग. घ. °णग्रस्त । क. प्राप्नोति । Page #33 -------------------------------------------------------------------------- ________________ "बौद्धदर्शनम् । अनुवृत्तप्रत्ययः किमालम्बन इति चेदङ्ग, अन्यापोहालम्बन एवेति संतोव्यमायुष्मतेत्यलमतिप्रसङ्गेन। सर्वस्य संसारस्य दुःखात्मकत्वं सर्वतीर्थकरसंमतम् । अन्यथा तन्निविवृत्सूनां तेषां तनिवृत्त्युपाये प्रवृत्त्यनुपपत्तेः । तस्मात्सर्व दुःख दुःखमिति भावनीयम् । ननु किंवदिति पृष्टे दृष्टान्तः कथनीय इति चेन्मैवम् । स्वलक्षणानां क्षणानां क्षणिकतयों सालक्षण्याभावादेतेन सदृशमपरमिति वक्तुमशक्यत्वात् । ततः स्वलक्षणं स्वलक्षणमिति भावनीयम् । एवं शन्यं शून्य मित्यपि भावनीयम् । स्वमे जागरणे च न मया दृष्टमिदं रजतादीति विशिष्टनिषेधस्योपलम्भात् । यदि दृष्टं सत्तदा तद्विशिष्टस्य दर्शनस्येदंताया अधिष्ठानस्य च तस्मिन्नध्यस्तस्य रजतत्वादेस्तत्संबन्धस्य च समवायादेः सत्त्वं स्यात् । न चैतदिष्टं कस्यचिद्वादिनः । न चार्धजरतीयमुचितम् । न हि कुक्कुटया एको भागः पाकायापरो भागः प्रसवाय कल्यतामिति कल्प्यते । तस्मादध्यस्ताधिष्ठानतत्संबन्धदर्शनद्रष्टणां मध्य एकस्यानेकस्य वाऽसत्त्वे निषेधविषयत्वैन सर्वस्यासत्त्वं बलादापतेदिति भगवतोपदिष्टे माध्यमिकास्तावदुत्तमप्रज्ञा इत्थमचीकथन्–भिक्षुपादप्रसारणन्यायेन क्षण. भङ्गाद्यभिधानमुखेन स्थायित्वानुकूलवेदनीयत्वानुगतत्वसर्वसत्यत्वभ्रमव्यावर्तनेन सर्वशून्यतायामेव पर्यवसानम् । अतस्तत्त्वं सदसदुभयानुभयात्मकचतुष्कोटिविनिर्मुक्तं शून्यमेव । तथाहि-यदि घटादेः सत्त्वं स्वभावस्तर्हि कारकव्यापारवैयर्थ्यम् । असत्त्वं स्वभाव इति पक्षे प्राचीन एव दोषः प्रादुःष्यात् । यथोक्तम् न सतः कारणापेक्षा व्योमादेरिव युज्यते । कार्यस्यासंभवी हेतुः खपुष्पादेरिवासतः ॥ इति । विरोधादितरौ पक्षावनुपपन्नौ । तदुक्तं भगवता लङ्कवतारे- .. बुद्धों विविध्यमानानां स्वभावो नावधार्यते । अतो निरभिलप्यास्ते निःस्वभावाश्च दार्शिताः ।। इति । इदं वस्तुबलीयातं यद्दन्ति विपश्चितः । यथा यथार्थाश्चिन्त्यन्ते विशीयन्ते तथा तथा ॥ इति च । __ १ ख ..-च. विवर्तयिषूणां ते । २ घ. दुःखमि । ३ क. ख. ग. घ. किं तदि° । ४ ग. 'ष्टान्तैः क । ५ ख. ग. घ. °या स्वाल । ६ ग ड.-च. 'वात् । नैते । ७ ख. ड.-च. न्यमपि। ८ च. सर्वास । ९ क.-ग. ङ. च. तस। १० च. °मस्याऽऽव । ११ क. ख. ग. : "तुष्कोणवि । घ. "तुष्कवि । १२ क.- सत्स्व । घ. सावं भा° । च. °सत्त्वं सहाय इ। १३ ग. तदुक्तम् । १४ घ. ङ. भवो हे । १५ च. वदल । १६ क. ख. ग. ताऽलङ्काराव । १७ क.°ध्द्यादिवाच्य । १८ च. °च्य द्रष्टव्यः स्व । १९ च.वो नैव । २० ख. घ. भिलयास्ते । ग. °भिलपास्ते। २१ च. लाधीतं । २२ क. ख. घ. दस्ति वि। Page #34 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेन कचिदपि पक्षे व्यवतिष्ठत इत्यर्थः। दृष्टार्थव्यवहारश्च स्वमव्यवहारंवत्संवृत्या संगच्छते । अत एवोक्तम् परिव्राट्कामुकशुनामेकस्यां प्रमदातनौ । कुणपः कामिनी भक्ष्य इति तिस्रो विकल्पनाः ॥ इति । तदेवं भावनाचतुष्टयवशान्निखिलवासनानिवृत्तौ परनिर्वाणं शून्यरूपं सेत्स्यतीति वयं कृतार्था नास्माकमुपदेश्यं किंचिदस्तीति । शिष्यैस्तावद्योगश्वाऽऽचारश्चेति द्वयं करणीयम् । तत्राप्राप्तस्यार्थस्य प्राप्तये पर्यनुयोगो योगः। गुरूक्तस्यार्थः स्याङ्गीकरणमाचारः। गुरूक्तस्याङ्गीकरणादुत्तमाः पर्यनुयोगस्याकरणादधमाश्च । अतस्तेषां माध्यमिका इति प्रसिद्धिः। गुरूक्तं भावनाचतुष्टयं बाह्यार्थस्य शून्यत्वं चाङ्गीकृत्याऽऽन्तरस्य शून्यत्वं चाङ्गीकृतं कथमिति पर्यनुयोगस्य करणात्केषांचिद्योगाचारप्रथा । एषा हि तेषां परिभाषा-स्वयंवेदनं तावदङ्गीकार्यम् । अन्यथा जगदान्ध्यं प्रेसज्येत । तत्कीर्तितं धर्मकीर्तिना अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिध्यति । इति। . बाह्यं ग्राह्यं नोपपद्यत एव । विकल्पानुपपत्तेः । अर्थो ज्ञानग्रोह्यो भवन्नुत्पन्नो भवत्यनुत्पन्नो वा । न पूर्वः। उत्पन्नस्य स्थित्यभावात् । नापरः। अनुत्पन्नस्यासत्त्वात्। अथ मन्येथाः, अतीत एवार्थो ज्ञानग्राह्यस्तज्जनकत्वादिति । तदपि बालभाषितम् । वर्तमानतावभासविरोधात् । इन्द्रियादेरपि ज्ञानजनकत्वेन ग्राह्यत्वप्रसङ्गाच्च । किंच ग्राह्यः किं परमाणुरूपोऽर्थोऽवयविरूपो वा । न चरमः । कृत्स्नैकदेशविकल्पादिना तनिराकरणात् । न प्रथमः । अतीन्द्रियत्वात् । षट्केन युगपद्योगस्य बाधकत्वाच्च । यथोक्तम्-- ___ *षट्केन युगपद्योगात्परमाणोः षडंशता। तेपामप्येकदेशत्वे पिण्डः स्यादणुमात्रकः ॥ इति । तस्मात्स्वव्यतिरिक्तग्राह्यविरहात्तदात्मिका बुद्धिः स्वयमेव स्वात्मरूपप्रका ... * मनःसहितज्ञानेन्द्रियेणेति घ. पु. टिप्पण्याम् । १च. हारोऽव्यवहारश्च स्व । २ क.ख. घ.-च. श्च न स्व । ३ घ. "वत् । बुद्धिकल्पितमात्रेण न सत्यविषयं विना दृष्टव्यवहारोऽपि सत्यविषयको न स्वप्नवत्संवृत्या संगच्छत इत्यर्थः । अ । ४ घ. °देतदेवं । ५ घ. परं नि । ६ क. ग. रुक्तं भा। ७ च. °र इति प्र । ८ च. स्वसंवे। ९ च. प्रसझेत् । १० क.--. "ह्यो भावादुत्प। ११ क. ख. ग. घ. रूपार्थो । च. "रूपोऽर्थः किंवाऽवयविरूपः । न । Page #35 -------------------------------------------------------------------------- ________________ बौद्धदर्शनम् । शिकाप्रकाशवदिति सिद्धम् । तदुक्तम् नान्योऽनुभाव्यो बुद्धयाऽस्ति तस्या नानुभवोऽपरः। ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥ इति । ग्राह्यग्राहकयोरभेदश्वानुमातव्यः । यद्वेद्यते येन वेदनेन तत्ततो न भिद्यते यथा ज्ञानेनाऽऽत्मा । वैद्यन्ते तैश्च नीलादयः। भेदे हि सत्यधुनाऽनेनार्थस्य संब. न्धित्वं न स्यात् । तादात्म्यस्य नियमहेतोरभावात् । तदुत्पत्तेरनियामकत्वात् । यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिंश्चन्द्रमास द्वित्वावमास इव भ्रमः । अत्राप्यनादिरविच्छिन्नप्रवाहाँ भेदवासनैव निमित्तम् । यथोक्तम् सहोपलम्भनियमादभेदो नीलतद्धियोः । भेदश्च भ्रान्तिविज्ञानैदृश्येतेन्दाविवाद्वये ॥ इति । अविभागोऽपि बुद्धयात्मा विपर्यासितदर्शनैः। ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते ॥ इति च । न च रसवीर्यविपाकादि समानांशामोदकोपार्जितमोदकानां स्यादिति घेदितव्यम् । वस्तुतो वेद्यवेदकाकारविधुराया अपि बुद्धय॑वहर्तृपरिज्ञानानुरोधेन विभिन्नग्राह्यग्राहकाकाररूपवत्तया तिमिराग्रुपहताक्षणां केशोण्डुकनाडीशीनभेददनाद्युपप्लववासनासामर्थ्याव्यवस्थोपपत्तेः पर्यनुयोगायोगात् । यथोक्तम् अवेद्यवेदकाकारा यथा भ्रान्तैर्निरीक्ष्यते । विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा ॥ तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत् । • यदा तदा न संचोद्या ग्राह्यग्राहकलक्षणा ॥ इति । तस्माद्बुद्धिरेवानादिवासनावशादनेकाकाराऽवभासत इति सिद्धम् । ततश्च मागुक्तभावनाप्रचयबलानिखिलवासनोच्छेदविगलितविविधविषयाकारोपप्लवविशुद्धविज्ञानोदयो महोदय इति । अन्ये तु मन्यन्ते । यथोक्तं बाह्य वस्तुजातं नास्तीति तदयुक्तम् । प्रमाणाभावात् । न च सहोपलम्भनियमः प्रमाणमिति वक्तव्यम् । वेद्यवेदकयोरभेद १ क. ख. शिप्र । २ ग. प्रकाशिता । ३ क. ख. ग. घ. वेद्यते । ४ घ. संबन्धत्वं । ५ क. ग. यं प्राह । ६ च. त्वाभा । ७ क. हा वा । ख. °वाहे भे° । ग. °वाहभे । ८ घ. दृश्य इन्दोरिव द्व। ९ क. ग. °गो विबु । १० घ. 'मानं विद्यमानजडस्य चैतन्यात्मावभासनमित्याशा। ११ घ. कानामिदं स्या' । १२ च. पविप्लववत्त । १३ घ. वत्तायास्तिमि । १४ ग. घः केशेन्द्रना। च. केशोण्डकादिज्ञा। १५ड.-च. ज्ञानाभे । १६. च. वचना । १७ घ, ङ, गात् । १८घ, च्छेदो वि। Page #36 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- साधकत्वेनाभिमतस्य तस्याप्रयोजकत्वेन संदिग्धविपक्षव्यावृत्तिकत्वात् । ननु भेदे सहोपलम्भानियमात्मकं साधनं न स्यादिति चेन्न । ज्ञानस्यान्तर्मुखतयां ज्ञयस्य बहिर्मुखतया च भेदेन प्रतिभासमानत्वात् । एकदेशत्वैककालत्वलक्ष. णसहत्वनियमासंभवाच्चें । नीलाद्यर्थस्य ज्ञानाकारत्वेऽहमिति प्रतिभासः स्यात् । न विदमिति प्रतिपत्तिः । प्रत्ययादव्यतिरेकात् । अयोच्यते ज्ञानस्वरूपोऽपि नीलाकारो भ्रान्त्या बहिर्वद्भेदेन प्रतिभासत इति न च तत्राहमुल्लेख इति । तथोक्तम् परिच्छेदान्तराद्योऽयं भागो बहिरिव स्थितः । ज्ञानस्याभेदिनो भेदप्रतिभासोऽप्युपप्लवः ।। इति । . यदन्त यतत्त्वं तद्वहिर्वदवभासते ।। इति च । तदयुक्तम् । बाह्यर्थािभावे तद्व्युत्पत्तिरहिततया बहिर्वदित्युपमानोक्तरयुक्तेः । नहि व मित्रो वन्ध्यापुत्रवदवभासत इति प्रेक्षावानाचक्षीत । भेदप्रतिभासस्य भ्रान्तत्वेऽभेदप्रतिभासस्य प्रामाण्यं तत्प्रामाण्ये च भेदप्रतिभासस्य भ्रान्तत्व मिति परस्पराश्रयप्रसङ्गाच्च । अविसंवादानीलतादिकमेव संविदाना वाह्यमेवोपाददते जगत्युपेशन्ते चाऽऽन्तरमिति व्यवस्थादर्शनाच्च । एवं चायमभेदसाधको हेतुमियपायसीयन्यायवदाभासतां भजेत् । अतो बहिर्वदिति वदता बाह्य ग्राह्यमेवेति भावनीयमिति भवदीय एव बाणो भवन्तं प्रहरेत् । ननु ज्ञानाद्भिन्नकालस्यार्थस्य ग्राह्यत्वमनुपपन्नमिति चेत्तदनुपपन्नम् । इन्द्रियसंनिकृस्य विषयस्योत्पाचे ज्ञाने स्वाकारसमर्पकतया समर्पितेन चाऽऽकारेण तस्यार्थस्यानुमेयतोपपत्तेः । अत एव पर्यनुयोगपरिहारौ समग्राहिपाताम् भिन्नकालं कथं ग्राह्यमिति चेद्ग्राह्यतां विदुः । हेतुत्वमेव च व्यक्तेज्ञोनाकारार्पणक्षमम् ।। इति । १ ग. लम्भात्म । २ ख. घ. याऽर्थस्य । ३ क. ख. ग. च. नतयैक । ४ घ. °च्च किंच नी । ५ च.पि भ्रा । ६ क. कारभ्रा । ७ ख. ह्यार्थभा । ८ ङ.-च. तदुत्प० । ९ ख. °सुपुत्रो । १० क. ख. ग. घ. °ण्ये भे। ११ घ. लत्वादि । १२ ख. दानो बा । १३ च. ते महत्यु । १४ ग. °क्षतेऽवान्त । १५ ख. ड.-च. 'न्तेऽवान्त । १६ क. ख. °यवाय । १७ च. °यसन्या । १८ क. ख. ग. घ. 'जेत । अ । १९ च. ह्यं बाह्य । २० च. °ति गणनीयनियमतो गणनीयमेव । २१. ख. र्थबाह्य । २२ ग. °ष्टवि। २३ च. ये स्वा । २४ ग. °व व्यक्तित्वं ज्ञाना । च. व युक्ति. ज्ञा ज्ञा। Page #37 -------------------------------------------------------------------------- ________________ बौद्धदर्शनम् । तथा च यथा पुष्टया भोजनमनुमीयते यथा च भाषया देशो यथा का संभ्रमण स्नेहस्तथा ज्ञानाकारेण ज्ञेयम मेयम् । तदुक्तम् अर्थेन घंटेंयत्येनां नहि मुक्त्वाऽर्थरूपताम् । __तस्मात्प्रमेयाधिगतेः प्रमाणं मेयरूपता ।। इति ।। नहि वित्तिसत्तैव तद्वेदना युक्ता । तस्याः सर्वत्राविशेषात् । तां तु सारूप्यंमाविशत्सरूपयितुं घटयेदिति च । तथा बाह्यार्थसद्भावे प्रयोगः-ये यस्मिन्सत्यपि कादाचित्कास्ते सर्वे तदतिरिक्तसापेक्षाः । यथा-अविवक्षति अजिगमिषति माय वचनगमनप्रतिभासा विवक्षुजिगमिषुपुरुषान्तरसंतानसापेक्षाः । तथा च विवादाध्यासिताः प्रवृत्तिप्रत्ययाः सत्यप्यालयविज्ञाने कदाचिदेव नीलाऍल्लेखिन इति । तत्राऽऽलयविज्ञानं नामाहमास्पदं विज्ञानम् । नीलाघुल्लेखि च विज्ञानं प्रवृत्तिविज्ञानम् । यथोक्तम्-- . तत्स्यादालयविज्ञानं पद्भवेदहमास्पदम् । - तत्स्यात्प्रवृत्तिविज्ञानं यन्नीलादिकमुल्लिखेत् ।। इति । तस्मादालयविज्ञानसंतानातिरिक्तः कादाचित्कप्रवृत्तिविज्ञानहेतुर्बाह्योऽर्थो ग्राह्य एव न वासनापरिपाकप्रत्ययकादाचित्कत्वात्कदाचिदुत्पाद इति वेदितव्यम् । विज्ञानवादिनये हि वासना नामैकसंतानवर्तिनामालयविज्ञानानां तत्तत्प्रतिविज्ञानजननशक्तिः । तस्याश्च स्वकार्योत्पादं प्रत्याभिमुख्यं परिपाकः । तस्य च प्रत्ययः कारणं स्वसंत्तानवर्तिपूर्वक्षणः कक्षी क्रियते । संतानान्तरनिबन्धनत्यानङ्गीकारात् । ततश्च प्रवृत्तिविज्ञानजनकालयविज्ञानवर्तिवासनापरिपाकं प्रति सर्वेऽप्यालयविज्ञानवर्तिनः क्षणाः समर्था एवेति वक्तव्यम् । न चेदेकोऽपि न समर्थः स्यात् । आलयविज्ञान संतानवर्तित्वाविशेषात् । सर्वे समर्था इति पक्षे कालक्षेपानुपपत्तिः । ततश्च कादाचित त्वनिर्वाहाय शब्दस्पर्शरूपरसगन्धविषयाः सुखादिविषयाः षडपि प्रत्ययाश्चतुरः प्रत्ययान्प्रतीत्योत्पद्यन्त इति चतुरेणानिच्छताऽप्यच्छमतिना स्वानुभवमनाच्छाद्य परिच्छेत्तव्यम् ।। १ ख. यथा यथा । २ ख. ते तथा । ३ ख. °थाच ज्ञा। ४ घ. नुज्ञेय । ५ च. टधमेण नहि मुख्यार्थरू । ६ घ. °त् । तत्तत्सारूप्यमाविशती तत्तत्सरूपतां घट । ७ ख. विविक्षु । ८ क. रसत्तान । घ. °रसा । ९ ख. नीलोले । १० क. ग.-च. द्युल्लेखना इ° । ११ च. "ल्लेख च प्रवृत्तिविज्ञानं त° । १२ ग. ज्ञानासं । १३ च. नाप्र । १४ क. घ.-च. त्ययः का । १५ ख. °म् । दिव्यज्ञानवादिनं ये । १६ ख. लयं वि । १७ क. ग.-च. °त्तिज। १८ ख. च. कार्य प्र° । १९ घ. यः स्व. । २० ख. ग. त्वाङ्गी । २१ क.-ड. °त्तिज्ञानजननाल° । २२ च. 'नवृत्तिसंतानक्ष° । २३ ख. °को न। २४ ग. °नव । २५ क. ख. घ.च. कार्यक्षे । २६ च. कनि । Page #38 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेते चत्वारः प्रत्ययाः प्रसिद्धा आलम्बनसमनन्तरसहकार्यधिपतिरूपाः । तत्र ज्ञानपदवेदनीयस्य नीलाद्यवभासरय चित्तस्य नीलादालम्बनप्रत्ययानी. लाकारता भवति । समनन्तरप्रत्ययात्प्राचीनज्ञानाद्बोधरूपता । सहकारिप्रत्ययादालोकोत्स्पष्टता । चक्षुषोऽधिपतिप्रत्ययाद्विषयग्रहणप्रतिनियमः । उँदितस्य ज्ञानस्य रसादिसाधारण्ये प्राप्त नियामकं चक्षुरधिपतिर्भवितुमर्हति । लोके नियामकस्याधिपतित्वोपलम्भात्। एवं चित्तचैत्तात्मकानां सुखादीनां चत्वारि कारणानि द्रष्टव्यानि । सोऽयं चित्तचैत्तात्मकः स्कन्धः पञ्चविधो रूपविज्ञानवेदनासं. ज्ञासंस्कारसंज्ञकः । तत्र रूप्यन्त एभिर्विषया इति रूप्यन्त इति च व्युत्पत्त्या सविषयाणीन्द्रियाणि रूपस्कन्धः । आलयविज्ञानप्रवृत्तिविज्ञानप्रवाहो विज्ञान स्कन्धः । प्रागुक्तस्कन्धद्वयसंबन्धजन्यः सुखदुःखादिप्रत्ययप्रवाहो वेदनास्कन्धः । गौरित्यादिशब्दोल्लेखिसंवित्मवाहः संज्ञा. स्कन्धः । वेदनास्कन्धनिवन्धना रागद्वेषादयः क्लेशा उपक्लेशाश्च मदमानादयो. धर्माधर्मों च संस्कारस्कन्धः। तदिदं सर्वं दुःखं दुःखायतनं दुःखसाधनं चेति भावयित्वा तनिरोधोपायं तत्त्वज्ञानं संपादयेत् । अत एवोक्तं दुःख समुदायनिरोधमार्गाश्चत्वार आर्यबुद्धस्याभिमतानि तत्त्वानि । तत्र दुःखं प्रसिद्धम् । समुदायो दुःखकारणम् । तद्विविधं प्रत्ययोपनिबन्धनो हेतूपनिबन्धश्च । तत्र प्रत्ययोपनिवन्धनस्य संग्राहकं सूत्रम् - 'इदं प्रत्ययफलम् ' इति । इदं कार्य येऽन्ये हेतवः प्रत्ययन्ति गच्छन्ति तेषामयमानानां हेतूनां भावः प्रत्ययत्वं कारणसमवायः, तन्मात्रस्य फलं न चेतनस्य कस्यचिदिति सूत्रार्थः । यथा बीजहेतुरङ्कुरो धातूनां षण्णां समवायाज्जायते । तत्र पृथिवीधातरङ्कुरस्य काठिन्यं गन्धं च जनयति । अब्धातुः स्नेहं रसं च जनयति । तेजोधातू रूपमौज्यं च । वायुधातुः स्पर्शनं चलनं च। आकाशधातुरवकाशं शब्दं च । ऋतुधातुर्यथायोगं पृथिव्यादिकम् । हेतूपनिवधेनस्य संग्राहक सूत्रम्- उत्पादाद्वा तथा तानामनुत्पादाद्वा स्थितेषां धर्मा १ क. ख. ग. घ. °लादिभा" । २ च. "लाद्याल° । ३ घ. "नाद्वाध । ४ क.-ङ. काचक्षु । ५ क.-टु. विदि । ६ क. ग.-च. रण्यप्रा । ७ क. ख. ग. घ. चैत्यात्म । ८ क.-. "नि । एवं चि । ९ ख. दसंज्ञानसंज्ञानसंस्का । १० घ. 'ज्ञानसं । ११ च. प्य ए° । १२ च. दिप्रत्ययोल्ले । १३ क.-ध.. च. खिसविज्ञानप्र । १४ ख. ज्ञानस्क । १५ ख. त्वा वृत्तिरोधापा । १६ क - ग. इ. च. "यस्य बु । १७ क.-टु. बुद्धाभि । १८ घ. द्विधा । १९ ग. य अन्ये । २० घ. स्यचि । २१ ख. समुदायाज्जा । २२ ग. °न्धस्य । २३ ग. स्थिते चैषां। Page #39 -------------------------------------------------------------------------- ________________ बौद्धदर्शनम् । :१७ गांधर्मता धर्मस्थितिता धर्मनियामकता च प्रतीत्यसमुत्पादानुलोमता' इति । तथा. गतानां बुद्धानां मते धर्माणां कार्यकारणरूपाणी या धर्मता कार्यकारणभावरूपा एषोत्पादादनुत्पादाद्वा स्थिता। यस्मिन्सति यदुत्पद्यते यस्मिन्नसति यनोत्पद्यते तत्तस्य कारणस्य कार्यमिति । धर्मतेत्यस्य विवरणं धर्मस्थितितेत्यादि । धर्मस्य कार्यस्य काणानतिक्रमेण स्थितिः । स्वार्थिकस्तल्पत्ययः। धर्मस्य कारणस्य कार्य प्रति नियामकता । नन्वयं कार्यकारणभावश्चेतनमन्तरेण न संभवतीत्यत उक्तं प्रतीत्येति । कारणे सति तत्प्रतीत्य प्राप्य समुत्पादेऽनुलोमताऽनुसारिता या सैव धर्मतोत्पादादनुत्पादाद्वा धर्माणां स्थिता । न चात्र कश्चिचेतनोऽधिष्ठातो. पलभ्यत इति सूत्रार्थः । प्रतीत्यसमुत्पादस्य हेतूपनिबन्धो यथा-बीजादकरोऽ. डरात्काण्डं काण्डा मालो नालाद्गर्भस्ततः शूकं ततः पुष्पं ततः फलम् । न चात्र बाह्ये समुदाये कारणं बीजादि कार्यमडरादि वा चतयते-अहमङ्कुरं निवर्तयामि अहं बीजेन निर्वर्तित इति । एवमाध्यात्मिकेष्वपि कारणद्वयमवगन्तव्यम् । पुर:स्थिते प्रमेयाब्धौ ग्रन्थविस्तरभीरुभिः। इति न्यायेनोपरम्यते । तदुभनिरोधः, तदनन्तरं विमलज्ञानोदेयो वा मुक्तिः । तन्निरोधोपायो मार्गः । स च तत्त्वज्ञानम् । तच्च प्राचीनभावनाबला. द्भवतीति परमं रहस्यम् । सूत्रस्यान्तं पृच्छतां कथितं भवन्तश्च सूत्रस्यान्तं पृष्टवन्तः सौत्रान्तिका भवन्त्विति । भगवताऽभिहिततया सौत्रान्तिकसंज्ञा संजातेति। केचन बौद्धाः-बाह्येषु गन्धादिष्यान्तरेषु रूपादिस्कन्धेषु सत्स्वपि तत्रानास्थामुत्पादयितुं सर्व शून्यमिति प्राथमिकान्विनेयानचीकथद्भगवान् । द्वितीयांस्तु विज्ञानमात्रग्रहाविष्टोन्विज्ञानमेकं सदिति । तृतीयानुभयं सत्यमित्योंस्थिताविज्ञेयमनुमेयमिति । सेयं विरुद्धा भाषेति वर्णयन्तो वैभाषिकाख्यया ख्याताः । एषा हि तेषां परिभाषा समुन्मिषति । विज्ञयानुमेयत्ववादे प्रात्यक्षिकस्य कस्यचिदप्यर्थस्याभावेन व्याप्तिसंवेदनस्थानाभावेनानुमानप्रवृत्यनुपर्पत्तिः सकललोकानुभवविरोधश्च । ततश्चार्थो द्विविधः । ग्राह्योऽध्यवसेयश्च । तत्र ग्रहणं निर्विकल्पकरूपं प्रमाणम् । कल्पनापोढत्वात् । अध्यवसायः सविकल्पकरूपोऽ १ ख. ग. °णां ध । २ क. एवोत्पा । घ.एषामुत्पा । ३ घ. स्य कार्य । ४ ख. नन्वियं । ५ घ. कार' । ६ क. 'लभ्य इ । ७ च. °बन्धनः । बी । ८ क. ग. ङ.-च. चेतीयते । ख. चेतयन्ते । ९ क. ख. ग. तेऽपि । १० क.-ख. ग. उ. च. 'भिरुप । ११ ख. यविरो' । १२ च. °दया मु। १३ च.नचक । १४ ख. "नं । १५ क. "त्याशयस्थि । ग. "त्याह स्थि । च. 'त्यास्थाय स्थि। १६ क. घ.-च. पत्तेः स । १७ टु.-च. 'नाप्रोढ । घ. 'नादूरापेतत्वात् । । Page #40 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे प्रमाणम् । कल्पनाज्ञानत्वात् । तदुक्तम् कल्पनापोढमभ्रान्तं प्रत्यक्षं निर्विकल्पकम् । विकल्पो वस्तुनिर्भासादसंवादादुपप्लवः ॥ इति । ग्राह्यं वस्तु प्रमाणं हि ग्रहणं यदितोऽन्यथा । न तद्वस्तु न तन्मानं शब्दलिङ्गेन्द्रियादिजम् ॥ इति च ।' ननु सविकल्पकस्याप्रामाण्ये कथं ततः प्रवृत्तस्यार्थप्राप्तिः संवादचोपपद्येयातामिति चेन्न तद्भद्रम् । मणिप्रभाविषयमणिविकल्पन्यायेन पारम्पर्येणार्थप्रति. लम्भसंभवेन तदुपपत्तेः। अवशिष्टं सौत्रान्तिकप्रस्तावे प्रपश्चितमिति नेह प्रतन्यते । न च विनेयाशयानुरोधेनोपदेशभेदः सांप्रदायिको न भवतीति भाणतध्यम् । यतो भणितं बोधिचित्तविवरणे देशना लोकनाथानां सत्त्वाशयवशानुंगाः । भिद्यन्ते बहुधा लोक उपायैर्बहुभिः पुनः ॥ गम्भीरोत्तानभेदेन कचिच्चोभयलक्षणा । भिन्ना हि देशनाऽभिन्ना शून्यताऽद्वयलक्षणा ॥ इति । द्वादशायतनपूजा श्रेयस्करीति बौद्धनये प्रसिद्धम् अर्थानुपायं बहुशो द्वादशायतनानि वै । परितः पूजनीयानि किमन्यैरिह पूजितः ॥ ज्ञानेन्द्रियाणि पश्रेव तथा कर्मेन्द्रियाणि च । मनो बुद्धिरिति प्रोक्तं द्वादशायतनं बुधैः ॥ इति । विवेकविलासे बौद्धमतमित्थमभ्यधायि बौद्धानां सुगतो देवो विश्वं च क्षणभङ्गुरम् । आर्यसत्याख्यया तत्त्वचतुष्टयमिदं क्रमात् ॥ दुःखमायतनं चैव ततः समुदयो मतः। मार्गश्चेत्यस्य च व्याख्या क्रमेण श्रूयतामतः ।। दुःखं संसारिणः स्कन्धास्ते च पञ्च प्रकीर्तिताः । विज्ञानं वेदना संज्ञा संस्कारो रूपमेव च ।। पञ्चेन्द्रियाणि शब्दाद्या विषयाः पञ्च मानसम् । धर्मायतनमेतानि द्वादशायतनानि तु || १ क. 'ह्यव । २ क. °शिष्टसौ । ३ ग. °नुगा । भि । ४ ग. भिद्यते । ५. ख. घ. . किल । ६ मूलपु. क्षणाः । मि° । ७ घ. परीतः । *घ स्त्रीशिष्यादिभिरिति शेषः ।। Page #41 -------------------------------------------------------------------------- ________________ आहेतदर्शनम् । रागादीनां गणो यस्मात्समुदेति नृणां हृदि । आत्मात्मीयस्वभावाख्यः स स्यात्समुदयः पुनः ॥ क्षणिकाः सर्वसंस्कारा इति या वासना स्थिरा । स मार्ग इति विज्ञेयः स च मोक्षोऽभिधीयते ॥. प्रत्यक्षमनुमानं च प्रमाणद्वितयं तथा । 'चतुष्पस्थानिका बौद्धाः ख्याता वैभाषिकादयः॥ •अर्थो ज्ञानाधितो वैभाषिकेण बहु मन्यते । ... सौत्रान्तिकेन प्रत्यक्षग्राह्योऽर्थो न बहिमतः ॥ . आकारसहिता बुद्धिर्योगाचारस्य संमता। केवलां संविदं स्वस्थां मन्यन्ते मध्यमाः पुनः ॥ “रागादिज्ञानसंतानवासनोच्छेदसंभवा । .... चतुर्णामपि बौद्धानां मुक्तिरेषा प्रकीर्तिता ॥ .. कृत्तिः कमण्डलुमौण्ड्यं चीरं पूर्वाह्नभोजनम् । संघो रक्ताम्बरत्वं च शिश्रिये बौद्धाभक्षुभिः ॥ ( वि० वि० ८।२६५-२७५.) इति । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे बौद्धदर्शनम् ॥ अथाऽऽहंतदर्शनम् ॥ ३॥ ____ तदित्थं मुक्तकच्छानां मतमसहमाना विवसनाः कथांचरस्थायत्वमास्थाय क्षणिकत्वपक्षं प्रतिक्षिपन्ति । यद्यात्मा कश्चित्राऽऽस्थीयेत स्थायी तदेहलौकिकपारलौकिकफलसाधनसंपादनं विफलं भवेत् । नातत्संभवत्यन्यः करोत्यन्यो भुङ्क इति । तस्माद्योऽहं प्राकर्माकरवं सोऽहं संप्रति तत्फलं भुञ्ज इति पूर्वापर. कालानुयायिनः स्थायिनस्तस्य स्पष्टप्रमाणावसिततया पूर्वापरभागविकलकालकलावस्थितिलक्षणक्षणिकता परीक्षकैरर्हद्भिर्न परिग्रहाहीं । अथ मन्येथाः-प्रमाणववादायातः प्रवाहः केन वार्यते । १ क. ग.-च. °णोऽयं स्यात् ।२ च. °सनाच्छे । ३ क. "श्चित्स्थायी नाऽऽस्थीयेत त°। ख. "श्चिन्नास्थीयीत । ग. °श्चिन्नास्थीयेत स्थायी स्थायीमेत त° । ४ च. °त तदा येऽपि लौ । ५ कः-ड. संभविष्यति । ६ क. ग. पूर्वप' । ७ च. स्थितल° । ८ च. हद्भिः प० । ९ क.गंबलादा। । . .. . . . . .... Page #42 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- इति न्यायेन यत्सत्तक्षणिकमित्यादिना प्रमाणेन क्षणिकतायाः प्रमिततया तदनुसारेण समानसंतानवर्तिनामेव प्राचीनः प्रत्ययः कर्मकर्ता तदुत्तरः प्रत्ययः फलभोक्ता । न चातिप्रसङ्गः। कार्यकारणभावस्य नियामकत्वात् । यथा मधुरर. सभावितानामाम्रबीजानां परिकर्षितायां भूमाप्तानामङ्गुरकाण्डस्कन्धशाखापल्लवादिषु तद्वारा परम्परया फले माधुर्यनियमः। यथा वा लाक्षारसावसिक्तानां कासिबीजादीनामङ्कुरादिपारम्पर्येण कार्पासादौ रक्तिमनियमः । यथोक्तम् यस्मिन्नेव हि संतान आहिता कर्मवासना । फलं तत्रैव बध्नाति कापासे रक्तता यथा ॥ . कुसुमे बीजपूरादेर्यलाक्षाद्यवसिच्यते । शक्तिराधीयते तत्र काचित्तां किं न पश्यसि ॥ इति । तदपि काशकुशावलम्बनकल्पम् । विकल्पासहत्वात् । जलधरादौ दृष्टान्ते क्षणिकत्वमनेन प्रमाणेन प्रमितं प्रमाणान्तरेण वा । नाऽऽद्यः। भवदभिमतस्य क्षणिकत्वस्य कचिदप्यदृष्टचरत्वेन दृष्टान्तासिद्धावस्यानुमानस्यानुत्थानात् । न द्वितीयः । तेनैव न्यायेन सर्वत्र क्षणिकत्वसिद्धौ सत्त्वानुमानवैफल्यापत्तेः। अर्थक्रियाकारित्वं सत्त्वमित्यङ्गीकारे मिथ्यासर्पदंशादेरप्यर्थक्रियाकारित्वेन सत्त्वापाताच्च । अत एवोक्तम्-उत्पादव्ययध्रौव्ययुक्तं सदिति । अथोच्यते-साम र्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासात्तत्सिद्धिरिति सदसाधु । स्याद्वादिनामनेकान्ततावादस्येष्टतया विरोधासिद्धेः। यदुक्तं कार्पासादिदृष्टान्त इति तदुक्तिमात्रम् । युक्तरेनुक्तेः। तत्रापि निरन्वर्थनाशस्यानङ्गीकाराच्च । न च संतानिव्यतिरेकेण संतानः प्रमाणपदवीमुपारोढुमर्हति । तदुक्तम् सजातीयाः क्रमोत्पन्नाः प्रत्यासन्नाः परस्परम् । व्यक्तयस्तासु संतानः स चैक इति गीयते ॥ इति । न च कार्यकारणभावनियमोऽतिप्रसङ्ग भक्तुमर्हति । तथा छुपाध्यायबुद्धयनुभूतस्य शिष्यबुद्धिः स्मरेत्तदुपचितकर्मफलमनुभवेद्वा । तथा च कृतप्रणाशाकृताभ्यागमप्रसङ्गः। तदुक्तं सिद्धसेनवाक्य कारण सजा ..... १ ख. 'तताया । २ क.-जु. ती उत्त° । ३ ख. तथा । ४ च. कस्य। ५ च. 'धुत्वाद्वा । ६ ख. रयुक्तेः । घ. °रनुपपत्तेः । त° । ७ क. ग. च.यविना' । ८ च.- तान्यति । ९ ग, हति इति । त° । १० ग. यदुक्तम् । ११ घ. संतानी । १२ च. 'इंग भोक्तं प्रभवति । Page #43 -------------------------------------------------------------------------- ________________ आहेतदर्शनम् । कृतप्रणाशाकृतकर्मभो*गभवप्रमोक्षस्मृतिभङ्ग-दोषान् । . उपेक्ष्य साक्षात्क्षणभङ्गमिच्छन्नहो महासाहसिकः परोऽसौ ॥ (वी. स्तु. १८) इति । । 'किंच क्षणिकत्वपक्षे ज्ञानकाले ज्ञेयस्यासत्त्वेन ज्ञेयकाले ज्ञानस्यास. स्वेन च ग्राह्यग्राहकभावानुपपत्तौ सकललोकयात्राऽस्तमियात् । न च समसमयवर्तिता शङ्कनीया । सव्येतरविषाणवत्कार्यकारणभावासंभवेनाग्राह्यस्याऽऽलम्बनप्रत्ययत्वानुपपत्तेः । अथ भिन्नकालस्यापि तस्याऽऽकॉरापकत्वेन ग्राह्यत्वं तदप्यपेशलम् । क्षणिकस्य ज्ञानस्याऽऽकारार्पकताश्रयताया दुर्वचत्वेन साकारज्ञानवादप्रत्यादेशात् । निराकारज्ञानवादेऽपि योग्यतावशेन+. प्रतिकर्मव्यवस्थायाः स्थितत्वात् । तथाहि-प्रत्यक्षेण विषयाकाररहितमेव ज्ञानं प्रतिपुरुषमहमहमिकया घटादिग्राहकमनभूयते न तु दर्पणादिवत्पतिविम्बाकान्तम् । विषयाकारधारितत्वे च ज्ञानस्यार्थे दूरनिकटादिव्यवहाराय जलाञ्जलिवितीर्येत । न चेदमिष्टापादनमेष्टव्यम् । दवीयान्महीधरो नेदीयान्दी| बाहुरिति व्यवहारस्य निराबाधं जागरूकत्वात् । न चाराधायकस्य स्य दवीयस्त्वादिशालितया तथा व्यवहार इति कथनीयम् । दर्पणादौ तथाऽनुपलम्भात् । किंचार्थादुपजायमानं ज्ञानं यथा तस्य नीलाकारतामनुकरोति तथा यदि जडतामपि तयर्थवत्तदपि जडं स्यात् । तथा च वृद्धिमिष्टवतो मूलमपि ते नष्टं स्यादिति महत्कष्टमापनम् । अथैतदोषपरिजिहीर्षया ज्ञानं जडतां नानुक रोतीति ब्रूषे. हन्त तर्हि x तस्या ग्रहणं न स्यादित्येकमनुसंधिसतोऽपरं प्रच्यवत इति न्यायापातः । ननु मा भूज्जडाताया ग्रहणम् । किं नश्छिन्नम्। तदनहणेऽपि नीलाकारग्रहणे = तयोर्भेदोऽनेकान्तो वा भवेत् । नीलाकारग्रहणे * भवभङ्गः परलोकाभावप्रसङ्गः प्रमोक्षभङ्गः । अन्यः क्षणो बद्धः क्षणान्तरस्य मुक्तिरिति मोक्षाभावः स्मृतिभङ्गदोषः । नह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यत इति । + घ. प्रतिविषयव्यवस्थाया अयुक्तत्वात् । ४ जडतायाः घ. पुस्तके। : तदग्रहण इत्यत्र जडताया इति व्याख्या ग. पुस्तके । = नीलाकारजडतयोः । ॐ ग्रहणाग्रहणरूपः । ग. पुस्तके । १च. अपेक्ष्य । २ ख. °ले ज्ञेयस्या । ३ च. पत्तेः स । ४ ग. वेन ग्रा। ५ च. कामार्प । ६ च. कामाश्र । ७ ख. -ग. ङ. च. वादे प्रत्ययादेशेन नि । ८ च. नभेदे । ९ घ. स्थाया अस्थि । च. स्थायाः सिद्धत्वात् । १० क.-ड. दिज्ञानम° । ११ क. ख. घ.-च. बिम्बका। १२ क.- ङ. रित्वेन च । १३ च. विकीर्यत । १४ ख. घ. 'मिष्टमापा । १५ ग. कारोपधा । १६ ख. कस्य । १७ मू. पु. ङ. ते नेष्टं । १८ च. °णे नीलाकारस्यापि ग्रहणं न स्यादियेको दोषः । तदग्रहणेऽपि निराकारस्यापि । १९ ग. °रस्य न । २० घ. °न्तो भ। Page #44 -------------------------------------------------------------------------- ________________ २२ १४ सर्वदर्शनसंग्रहेचागृहीता जडता कथं तस्य स्वरूपं स्यात् । अपरथा गृहीतस्य स्तम्भस्यागृहीतं त्रैलोक्यमपि रूपं भवेत् । तदेतत्प्रमेयजातं प्रभाचन्दप्रभृतिभिरहन्मतानुसारिभिः प्रमेयकमलमार्तण्डादौ प्रबन्धे प्रपश्चितमिति ग्रन्थभूयस्त्वभयानोपन्यस्तम् । तस्मात्पुरुषार्थाभिलाषुकैः पुरुषः सौगती गतिर्नानुगन्तव्या । अपि त्वाईत्येवहिणीयां । अर्हत्स्वरूपं च हेमचन्द्रसूरिभिराप्तनिश्चयालंकारे निरटङ्किः । सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः ।। यथास्थितार्थवादी च देवोऽहन्परमेश्वरः ।। इति । न न कश्चित्पुरुषविशेषः सर्वज्ञपदवेदनीयः प्रमाणपद्धतिमध्यास्ते । तत्स. द्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भात् । तथा चोक्तं तौतातितः।। सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिः। दृष्टो न चैकदेशोऽस्ति लिङ्ग वा योऽनुमापयेत् ॥ न चाऽऽगमविधिः कश्चिनित्यसर्वज्ञबोधकः । न च तत्रार्थवादानां तात्पर्यमपि कल्प्यते ॥ न चान्यार्थप्रधानैस्तैस्तदस्तित्वं विधीयते । न चानुवदितुं शक्यः पूर्वमन्यैरवोधितः ॥ अनादेरागमस्यार्थो न च सर्वज्ञ आदिमान् । * कृत्रिमेण त्वसत्येन स कथं प्रतिपाद्यते ॥ अथ तद्वचनेनैव सर्वज्ञोऽज्ञैः प्रतीयते । प्रकल्प्येत कथं सिद्धिरन्योन्याश्रययोस्तयोः॥ सर्वज्ञोक्ततया वाक्यं सत्यं तेन तदस्तिता । कथं तदुभयं सिध्यत्सिद्धमूलान्तरादृते ॥ असर्वज्ञप्रणीतात्तु वचनान्मूलवर्जितात् । सर्वज्ञमवगच्छन्तः स्ववाक्याकिं न जानते ॥ - * ग. पुस्तक एतत्पङ्क्तित्रयं नास्ति । . १ क. ख.-च. तस्यानुरू° । २ ख. तस्यागृहीतं...मपि अनुरू° । ३ घ. °मप्यनुरू' । ४ च. रस्मन्म । ५ च. °भिः सूरिभिः प्र । ६ च. लक्षयमा । ७ घ. °तमति । ८ च वाऽऽ. श्रयणी । ९ घ. °या। आई । १० क. ख. °रूपमर्हच्चन्द्र । घ. रूपमर्हचन्द्र । ११ च. पं है। १२ क.ख. °नु क । १३ क.ग. ङ. च. स्ते। सद्भा । १४ ख. तौमातितेः । स । क. ग - तौतातिकैः । स । च. तातैः । स । १५ क. ख. ग. श्यतां ता । १६ क. नादिरा । १७ च. Page #45 -------------------------------------------------------------------------- ________________ .. आहेतदर्शनम् । सर्वज्ञसदृशं कंचिद्यदि पश्येम संप्रति । उपमानेन सर्वज्ञं जानीयाम ततो वयम् ॥ उपदेशोऽपि बुद्धस्य धर्माधर्मादिगोचरः। अन्यथा नोपपद्येत सार्वज्यं यदि नाभवत् ॥ एवमर्थापत्तिरपि प्रमाणं नात्र युज्यते । । उपदेशस्य सत्यत्वं यतो नाध्यक्षमीक्ष्यते ॥ इत्यादि । - अत्र प्रतिविधीयते । यदभ्यधायि तत्सद्भावग्राहकस्य प्रमाणपञ्चकस्य तत्रानुपलम्भादिति तदयुक्तम् । तत्सद्भावावेदकस्यानुमानादेः सद्भावात् । तथाहि-कश्चिदात्मा सकलपदार्थसाक्षात्कारी तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययत्वात् । यद्यग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्यय तत्तत्साक्षात्कारि । यथाऽपगततिमिरादिप्रतिबन्ध लोचनविज्ञानं रूपसाक्षात्कारि । तद्ग्रहणस्वभावत्वे सति प्रक्षीणप्रतिबन्धप्रत्ययश्च कश्चिदात्मा । तस्मात्सकलपदार्थसाक्षात्कारीति । न तावदशेषार्थग्रहणस्वभावत्वमात्मनोऽसिद्धम् । चोद. नाबलान्निखिलार्थज्ञानोत्पत्त्यन्यथानुपपत्त्या सर्वमनेकान्तात्मकं. सत्त्वादिति व्याप्तिज्ञानोत्पत्तेश्च । चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं व्यवहितं विपकटमित्येवजातीयकमर्थमवगमयतीत्येवंजातीयकरध्वरमीमांसागुरुभिर्विधिप्रतिषेधविचारणानिबन्धनं सकलार्थविषयज्ञानं प्रतिपद्यमानः सकलार्थग्रहणस्वभावकत्वमात्मनोऽभ्युपगतम् । न चाखिलार्थप्रतिबन्धकावरणप्रक्षयानुपपत्तिः । सम्यग्दर्शनादित्रयलक्षणस्याऽऽवरणप्रक्षयहेतुभूतस्य सामग्रीविशेषस्य प्रतीतत्वात् । अनया मुद्रयाऽपि क्षुद्रोपद्रवा विद्राव्याः । नन्वावरणप्रक्षयवशादशेषविषयं विज्ञानं विशदं मुख्यप्रत्यक्ष प्रभवतीत्युक्तं तदयुक्तम् । तस्य सर्वज्ञस्यानादिमुक्तत्वेनाऽऽवरणस्यैवासंभवादिति चेत्तन्न । अनादिमुक्तत्वस्यैवासिद्धेः । न सर्वज्ञोऽनादिमुक्तः । मुक्तत्वादितरमुक्तवत् । बद्धापेक्षया च मुक्त व्यपदेशः। तद्रहिते चास्याप्यभावः स्यादाकाशवत् । नन्वनादेः क्षित्यादिकार्य परम्परायाः कर्तृत्वेन तत्सिद्धिः । तथाहि-क्षित्यादिकं सक, .. १ च. भवेत् । २ क.-टु. ग. च. °यि सद्भा । ३ घ. °वादेवैक° । ङ. च. वादेक । ४ च. "हस्व । ५ च °ति साक्षात्कारि य । ६ च.त्कारी । य°1७ क. थाऽवग । ८३. बन्धलो ।९ध. 'त्कारी । त° । १०क. ज्ञानात् । नोत्पत्यन्य । ख. ज्ञानात् । नोत्पत्योन्य । ङ..-च: ज्ञानात् । नाप्यन्य । घ. ज्ञानात् । न च व्याप्तिघटकप्रतिबन्धके प्रक्षीणता ग्रहीतुं शक्या, उत्पत्यन्य । ११ घ. "ति, अनुमानेन व्या ।१२ ख. °मव । १३ ग. "तीयैर । घ. तीयकमध्व । Page #46 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेर्तृकं कार्यत्वाघटवदिति । तदप्यसमीचीनम् । कार्यत्वस्यैवासिद्धः । म च सावयत्वेन तत्साधनमित्यभिधातव्यम् । यस्मादिदं विकल्पजालमवतरति । सावयवत्वं किमवयवसंयोगित्वम्, अवयवसमवायित्वम् , अवयवजन्यत्वं, समवेतद्रव्य त्व, सावयवबुद्धिविषयत्वं वा । न प्रथमः । आकाशादावनैकान्त्यात् । न द्वितीयः । सामान्यादौ व्यभिचारात् । न तृतीयः । साध्याविशिष्टत्वात् । न चतुर्थः । विकल्पयुगलागेलग्रहगलत्वात् । समवायसंबन्धमात्रवद्रव्यत्वं समवेतद्रव्यत्त्वमन्यत्र समवेतद्रव्यत्वं वा विवक्षितं हेतू क्रियते । आधे गगनादौ व्यभिचारः । तस्यापि गुणादिसमवायवत्त्वद्रव्यत्वयोः संभवात् । द्वितीये साध्याविशिष्टता । अन्यशब्दार्थेषु समवायकारणभूतेष्ववयवेषु समवायस्य सापनीयत्वात् । अभ्युपगम्यैतदभाणि। वस्तुतस्तु समवाय एव न समस्ति । प्रमाणाभावात् । नापि पञ्चमः । आत्मादिनाऽनैकान्त्यात् । तस्य सावयवबुद्धिविषयत्वेऽपि कार्यत्वाभावात् । न च निरवयवत्वेऽप्यस्य सावयवार्थसंबन्धेन सावयवबुद्धिविषयत्वौपचारिकमित्येष्टव्यम् । निरवयवत्वे व्यापित्वविरोधात्परमाणुवत् । किंच किमेकः कर्ता साध्यते किंवाऽनेके । प्रथमे प्रासादादौ व्यभिचारः । स्थपत्या. दीनां बहूनां पुरुषाणां तत्र कर्तृत्वोपलम्भात् । द्वितीये बहूनां विश्वनिर्मातृत्वे तेषु मिथो वैमत्यसंभावनाया अनिवार्यत्वादेकैकस्य वस्तुनोऽन्यान्यरूपतया निर्माणे सर्वमसमञ्जसमापद्येत । सर्वेषां सामर्थ्य साम्ये कैनैव सकलजगदुत्प त्तिसिद्धावितरवैयर्थं च । तदुक्तं वीतरागस्तुतौ . कर्ताऽस्ति कश्चिजगतः स चैकः ___ स सर्वगः स स्ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्यु ___ स्तेषां न येषामनुशासकस्त्वम् ॥ ( ६ ) इति । अन्यत्रापि कर्ता न तावदिह कोऽपि यथेच्छया वा ___ दृष्टोऽन्यथा कटकृतावपि तत्प्रसङ्गः। कार्य किमत्र भवताऽपि च तक्षकाद्यै राहत्य च त्रिभुवनं पुरुषः करोति ।। इति । तस्मात्प्रागुक्त.कारणत्रितयबलादावरणप्रक्षये सार्वइयं युक्तम् । न चास्योपदेष्ट: न्तराभावात्सम्यग्दर्शनादित्रितयानुपपत्तिरिति भणनीयम् । पूर्वसर्वज्ञप्रणीतागमप्र १ ङ, णक्ष। Page #47 -------------------------------------------------------------------------- ________________ आहेतदर्शनम् । भवत्वादमुष्याशेषार्थज्ञानस्य । न चान्योन्याश्रयादिदोषः । आगमसर्वज्ञपरम्प राया बीजाकुरवदनादित्वाङ्गीकारादित्यलम् ।। रत्नत्रयपदवेदनीयतया प्रसिद्धं सम्यग्दर्शनादित्रितयमहत्प्रवचनसंग्रहपरे परमागमसारे प्ररूपितं सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति । विवृतं च योगदेवेन । येन रूपेण जीवाद्यर्थो व्यवस्थितस्तेन रूपेणार्हता प्रतिपादिते तत्त्वार्थे विपरीताभिनिवेशरहितत्वाद्यपरपर्यायं श्रद्धानं सम्यग्दर्शनम् । तथा च तत्त्वार्थ: मूत्रम्-तत्त्वार्थ श्रद्धानं सम्यग्दर्शनमिति । अन्यदपि रुचिर्जिनोक्ततत्त्वेषु सम्यक्श्रद्धानमुच्यते । जयते तनिसर्गेण गुरोरधिगमेन वा ॥ इति । परोपदेशनिरपेक्षमात्मस्वरूपं निसर्गः । व्याख्यानादिरूपपरोपदेशजनितं ज्ञान मधिगमः। येन स्वभावेन जीवादयः पदार्था व्यवस्थितास्तेन स्वभावेन मोहसंशयरहितत्वेनावगमः सम्यग्ज्ञानम् । यथोक्तम् यथावस्थिततत्त्वानां संक्षेपाद्विस्तरेण वा। योऽववोधस्तमत्राऽऽहुः सम्यग्ज्ञानं मनीषिणः ॥ इति । तज्ज्ञानं पञ्चविधं मतिश्रुतावधिमन:पर्यायकेवलभेदेन । तदुक्तम्-मतिश्रुतावधिमनःपर्यायकेवलानि ज्ञानमिति । अस्याः -ज्ञानावरणक्षयोपशमे सतीन्द्रियम. नसी पुरस्कृत्य व्यापृतः सन्यथार्थं मनुते सा मतिः । ज्ञानावणक्षयोपशमे सति मतिजनितं स्पष्टं ज्ञानं श्रुतम् । सम्यग्दर्शनादिगुणजनितक्षयोपशमनिमित्तमवच्छिन्नविषयं ज्ञानमवधिः । ईन्तिरायज्ञानावरणक्षयोपशमे सति परमनो. गतस्थार्थस्य स्फुट परिच्छेदकं ज्ञानं मनःपर्यायः। तपःक्रियाविशेषान्यदर्थ सेवन्ते तपस्विनस्तानमन्यज्ञानासंस्पृष्टं केवलम् । तत्राऽऽद्यं परोक्षं प्रत्यक्षमन्यत् । तदुक्तम् - विज्ञानं स्वपराभास प्रमाणं बाधवर्जितम् । प्रत्यक्षं च परोक्षं च द्विधा मेयविनिश्चयात् ।। इति । १ क.-ङ. श्रयणादि । २ घ. हद्वच । ३ ग. ग्रह पर ।४ क. ग. घ. °ण बीजाद्य । ५ ग. रीतभावनार । ६ ख. घ. °शपरत्वहि । ७ ख. त्वार्थसूत्राणां श्र। ८ क. ग. जानन्ते । ९ ग. च । १० ग. पेक्षात्म। ११ क. °न बीजाद। १२ ख. ग. पर्यय । १३ ग. पर्यय । १४ क. ख. ग. घ. °र्थः-मति । १५ ग. °रणीयो । १६ क. ख. ग. °तिः। श्रुतं ज्ञा। च. तिः। श्रुतज्ञा। १७ ग. °रणीयो । १८ क. घ.-ङ. °म् । अस । १९ ग. °त आवरणक्ष। २० ख. ग. °पर्ययः । २१ क. ग. °षाद्यद । २२ च.ज्ज्ञानं सं° । २३ क. त्राऽऽद्ये प° । Page #48 -------------------------------------------------------------------------- ________________ २६ सर्वदर्शनसंग्रहे--- अन्तर्गणिकभेदस्तु सविस्तरस्तत्रैवाऽऽगमेऽवगन्तव्यः । संसरणकर्मोच्छित्तावुद्यतस्य श्रद्दधानस्य ज्ञानवतः पापगमनकारणक्रियानि. वृत्तिः सम्यक्चारित्रम् । तदेतत्सप्रपञ्चमुक्तमर्हता सर्वथाऽवद्ययोगानां त्यागश्चारित्रमुच्यते । कीर्तितं तदहिंसादिवतभेदेन पञ्चधा ॥ अहिंसासूनृतास्ते यब्रह्मचर्यापरिग्रहाः । न यत्पमादयोगेन जीवितव्यपरोपणम् । चराणां स्थावराणां च तदहिंसाव्रतं मतम् ॥ । प्रियं पथ्यं वचस्तथ्यं सूनृतं व्रतमुच्यते । तत्तथ्यमपि नो तथ्यमप्रियं चाहितं च यत् ।। अनादानमदत्तस्यास्तेयव्रतमुदीरितम् ।। बाह्याः प्राणा नृणाम हरता तं हता हि ते ।। दिव्यौदरिककामानां कृतानुमतकारितैः । मनोवाकायतस्त्यागो ब्रह्माष्टादशधा मतम् ॥ x सर्वभावेषु मूर्छायास्त्यागः स्यादपरिग्रहः । यदसत्स्वापि जायेत मूर्छया चित्तविप्लवः ।। भावनाभिर्भावितानि पञ्चभिः पञ्चधा क्रमात । महाव्रतानि लोकस्य साधयन्त्यव्ययं पदम् ॥ इति । भावनापश्चकप्रपश्चनं च प्ररूपितम् हास्यलोभभय क्रोधप्रत्याख्याननिरन्तरम् । . आलोच्य भाषणेनापि भावयेत्सूनृतं व्रतम् ॥ इत्यादिना । एतानि सम्यग्दर्शनज्ञानचारित्राणि मिलितानि मोक्षकारणं न प्रत्येकम् । यथा रसायनम्। तथा चात्र ज्ञानश्रद्धानाचरणानि संभूय फलं साधयन्ति न प्रत्येकम् । x घ. पु. टि.-सर्वभावविषयकवृद्धेस्त्यागः । मूर्छितं तम इत्यादी मूर्छाशब्दस्य वृद्ध्यर्थकत्वदर्शनात् । १च. संसारक । २ ग. सासत्यमस्ते । ३ घ. तव्याप। ४ च. र्थो हारितात हिता। ५* घ. रणातहिताहितैः। दि । ६ क. ग.--- सर्वाभा । ७ ख. "हः । सद। ८ च. °ञ्चनस्य निरू । ९ क. ख. घ.--टु. °नावर । * घ.पु.टि.-हरणार्तहिताहितैः सहितानां नृणां सतामेवमुत्तरत्रापि कायत इति तृतीयाबहुवचनार्थे तसिस्तत्सहितस्त्यागः । तथा च बाह्यादित्यागगता अष्टादश असुचर्या ब्रह्मचर्या । Page #49 -------------------------------------------------------------------------- ________________ आहेतदर्शनम् । - २७ . अत्र संक्षेपतस्तावज्जीवाजीवाख्ये द्वे तत्त्वे स्तः । तत्र बोधात्मको जीवः । अबोधात्मकस्त्वजीवः । तदुक्तं पद्मनन्दिना चिदचिवे परे तत्त्वे विवेकस्तद्विवचनम् । उपादेयमुपादेयं हेयं हेयं च कुर्वतः ॥ हेयं हि कर्तरागादि तत्कार्यमविवेकिता । उपादेयं परं ज्योतिरुपयोगैकलक्ष गम् ॥ इति । सहजचिद्रूपपरिणति स्वीकुर्वाणे ज्ञानदर्शने उपयोगः । स परस्परप्रदेशानां प्रदेशबन्धात्कर्मणकीभूतस्याऽऽत्मनोऽन्यत्वप्रतिपत्तिकारणं भवति । सकलजीवसाधारणं चैतन्यमुपशमक्षयक्षयोपशमवशादौपशमिकक्ष यात्मकक्षायोपशमिकभावेन कर्मोदयवशात्कलुषान्याकारेण च परिणतजीवपर्यायविवक्षायां जीवस्वरूपं भवति । यदवोचद्वाचकाचार्य:-औपशमिकक्षायिकी भावौ मिश्रश्व जीवस्य स्वतत्त्वमौदयिकपारिणामिको चेति (त० सू०२।१)। * अनुदयप्राप्तिरूपे कर्मण उपशये सति जीवस्योत्पद्यमानो भाव औपशमिकः। यथा पैड कलुषतां कुर्वति कतकादिद्रव्यसंबन्धादध:पतिते जलस्य स्वच्छता । आईततत्त्वानुसंधानवशाद्रागादिपक्षालनेन निर्मलतापादकः क्षायिको भावः। कर्मणः क्षये सति जायमानो भावः क्षायिकः । यथा पङ्कात्पृथग्भूतस्य निर्मलस्य स्फटिकादिभाजनान्तगतस्य जलस्य स्वच्छता । यथा मोक्षः। उभयात्मा भावो मिश्रः। यथा जलस्याधस्वच्छता । कर्मोदये सति भवन्भाव औदयिकः । कर्मोपशमाद्यनपेक्षः सहजो भावश्चेतनत्वादिः पारिणामिकः । तदेतद्यथासंभवं भव्यस्याभव्यस्य वा जीवस्य स्वरूपामिति सूत्रार्थः । तदुक्तं स्वरूपसंबोधने ज्ञानाद्भिन्नो में नाभिन्नो भिन्नाभिन्नः कथंचन । ज्ञानं पूर्वापरीभूतं सोऽयमात्मेति कीर्तितः ॥ इति । ननु भेदाभेदयोः परस्परपरिहारेणावस्थानादन्यतरस्यैव वास्तवत्वादुभयात्मकत्व. मयुक्तमिति चेत्तदयुक्तम्। बाधे प्रमाणाभावात् । अनुपलम्भो हि बाधकं प्रमाणम् । न । . * घ. पु. टि.-संसारप्राप्तिरूपे । १ ख. ग. घ. गः प० । २ क.ग. च. णं लक्षणं भ' । ३ ख. °ववि । ४ च. क्षाथिको । ५ ख. पङ्कलुषान्तां । ६ घ.ता। अनुदयप्राप्तिकर्मणोऽर्धक्ष। ७ ख. मणोपशमक्ष । ८ च. उत्पद्यमानो। ९ ख. घ. भावो मि। १० ङ. क्षयिकः। ११ च. °था कर्मणः क्षयोपशमे सति जायामनो भा। १२ ख. स्यार्थे स्व । १३ ख. हजश्वेतत्वादिपा । १४ क. ग. °न वाभि । ङ.-च. न चाभिन्नो । १५ ख. °म् । बोधप्र । Page #50 -------------------------------------------------------------------------- ________________ २८ सर्वदर्शनसंग्रहे सोऽस्ति । समस्तेषु वस्तुष्वनैकान्तात्मकत्वस्य स्याद्वादिनो मते सुप्रसिद्धत्वादित्यलम् । अपरे पुनर्जीवाजीवयोरपरं प्रपञ्चमाचक्षते । जीवाकाशधर्माधर्मपुद्गलास्तिकायभेदात् । एतेषु पञ्चसु तत्त्रेषु कालत्रयसंबन्धितयांऽस्तीतिस्थितिव्यपदेशः । अनेकप्रदेशत्वेन शरीरवत्कायव्यपदेशः । तत्र जीवा द्विविधाः संसारिणो मुक्तार्थं । भवाद्भवान्तरप्राप्तिमन्तः संसारिणः । ते च द्विविधाः समनस्का अमनस्काश्च । तत्र संज्ञिनः समनस्कः | शिक्षाक्रियालापग्रहण रूपा संज्ञा । तद्विधुरास्त्वमनस्काः । ते चामनस्का द्विविधाः । सस्थावरभेदात् । तत्र द्वीन्द्रियादयः शङ्खगण्डोलकप्रभृतयश्चतुर्विधा स्त्रसाः । पृथिव्यप्तेजोवायुवनस्पतयः स्थावराः । तत्र मार्गगतधूलिः पृथिवी । इष्टकादिः पृथिवीकायः । पृथिवी कायत्वेन येन गृहीता स पृथिवीकायिकः । पृथिवीं कायत्वेन यो ग्रहीष्यति स पृथिवीवः । एवमादिष्वपि भेदचतुष्टयं योज्यम् । तत्र पृथिव्यादि कार्यत्वेन गृहीतवन्तो ग्रहीष्यन्तश्च स्थावरा गृह्यन्ते न पृथिव्यादिपृथिवीकायादयः । तेषामजीवत्वात् । ते च स्थावराः स्पर्शनै केन्द्रियः । भवान्तरप्राप्तिविधुरा मुक्ताः । धर्माधर्माकाशास्तिकायास् एकत्वशालिनो निष्क्रियाश्च द्रव्यस्यै देशान्तरप्राप्तितव: । तत्र धर्माधर्मौ प्रसिद्धौ । आलोकेनाविच्छिन्ने नभसि लोकाकाशपदवेदनीये तयोः सर्वत्रावस्थितिः । गतिस्थित्युपग्रहो धर्माधर्मयो रुपकारः । अत एव धर्मास्तिकायः प्रवृत्त्यनुमेयः । अधर्मास्तिकायः स्थित्यनुमेयः । अन्यवस्तुप्रदेशमध्येऽन्यस्य वस्तुनः प्रवेशोऽवगाहः । तदाकाशकृत्यम् । स्पर्शरसगन्धवर्णवन्तः पुद्गलाः ( त० सू० ५ । २४ ) । ते च द्विविधा अणवः स्कन्धाश्च । भोक्तुमशक्या अणवः । द्व्यणुकादयः स्कन्धाः । तत्र द्वयणुकादिस्कन्धभेदादण्वादिरुत्पद्यते । अण्वादिसंघातद्व्यणुकादिरुत्पद्यते । कचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः ( त० सू० ५ | २६ ) । अत एव पूरयन्ति गलन्तीति पुद्गलाः । कालस्यानेक प्रदेशत्वाभावेनास्तिका यत्वाभावेऽपि द्रव्यत्वमस्ति । तल्लक्षणयोगात् । तदुक्तम् - गुणपर्यायवद्द्रव्यमिति (त० सू० ५ । ३८ ) । 59 93 १ क. ग. – ङ. नेकरसात्म' । ख. 'नेकतात्म । २ घ. याsस्तिव्य । क. ग. ङ. या स्थि । ३ च. 'श्च । भावाद्भावा ं । ४ च. 'स्काः । भिक्षा' । ५ ६. रूपसं । ६ ङ. त्रयस्था' । च त्रस्तस्था । ७ च. स्रस्ताः । पृ॰ । ८ ङ. तेषां जी । ख तेषां जीवादयस्तेषां जी । च तेषामनेकत्वा' । ९ च. 'याश्च । भावा । १० ग. 'स्य प्रदे' । ११ ख. ङ. - च हेतुः । त । १२ ख. धर्माधर्मास्तिकायः स्थित्य - नुमेयः । अन्यधर्मास्तिकायः स्थित्यनुमेयः । १३ च ' शो विभागः । त । १४ ग. वकाशः । त° । १५ ख. °ते। क्व ै । १६ क. 'तात्तत्र द्वयणुकादिस्कन्धभेदादण्वादि । १७ ख. घ. पूयन्ति । १८ च. न्ति ग्रसन्ती । Page #51 -------------------------------------------------------------------------- ________________ आर्हतदर्शनम् । २९ द्रव्याश्रया निर्गुणा गुणा: ( त० सू० ५ | ४९ ) । यथा जीवस्य ज्ञानत्वादिधर्मरूप: पुद्गलस्य रूपत्वादिसामान्य स्वभवाः । धर्माधर्माकाशकालान यथासंभवं गतिस्थित्यवगह्वर्त नाहेतुत्वादिसामान्यानि गुणाः । तस्य द्रव्यस्थी - क्तरूपेण भवनं पर्याय: । उत्पादस्तद्भावः परिणामः पर्याय इति पर्यायाः । यथा जीवस्य घटादिज्ञानसुखक्लेशादयः । पुद्गलस्य मृत्पिण्डघटादयः । धर्मादीनां गत्यादिविशेषाः । अत एव षड्द्रव्याणीति प्रसिद्धिः । केचन सप्त तत्त्वानीति वर्णयन्ति । तदाह - जीवाजीवास्रवबन्ध संवर निर्जरमोक्षास्तत्त्वानीति ( त० सू० १ । ४ ) । तत्र जीवाजीवौ निरूपितौ | आस्रवो निरूप्यते— औदारिकादिकायादिचलनद्वारेणाऽऽत्मनश्चलनं योगपदवेदनीयमा - स्रवः । यथा सलिलावगाहि द्वारं जलाद्यात्रणकारणत्वादास्रव इति निगद्यते, तथा योगप्रणाडिका कर्माssस्रवतीति स योग आस्रवः । यथाऽऽर्द्र वस्त्रं समन्ताद्वावानीतं रेणुजातमुपादत्ते तथा कषायजलाई आत्मा योगानीतं कर्म सर्वप्रदेशैर्गृह्णाति । यथ वा निष्टप्ता यः पिण्डो जले क्षिप्तोऽम्भः समन्तागृह्णाति तथा कषायोष्णो जीवो योगानीतं कर्म समन्तादादत्ते । कैंपति हिनस्त्यात्मानं कुगतिप्रापणादिति कषायः क्रोधो मानो माया लोभश्च । स द्विविधः । शुभाशुभभेदात् । अत्राहिंसादिः शुभः काययोगः । सत्यमितहितभाषणादिः शुभो बाग्योगः | अर्हत्सिद्धाचार्योपाध्याय साधुनामधेय पञ्चपरमेष्ठिभक्तितपो रुचिश्रुतविनयादिः शुभो मनोयोगः । एतद्विपरीतस्त्व शुभस्त्रिविधो योगः । तदेतदास्स्रवभेर्देमभेदजातं कायवाङ्मनःकर्मयोगः । स आस्रवः । शुभः पुण्यस्यै । अशुभः पापस्य ( त० सू० ६ । १- 2) इत्यादिना सूत्रसंदर्भेण ससंरम्भमाणि । अपरे त्वेवं मेनिरे – आस्रवयति पुरुषं विषयेष्विन्द्रियप्रवृत्तिरास्रवः । इन्द्रियद्वारा हि पौरुषं ज्योतिर्विषयान्स्पृशद्रूपादिज्ञानरूपेण परिणमतं इति । -- मिथ्यादर्शनाविरतिप्रमादक पायवशाद्योगवशाचाऽऽत्मा सूक्ष्मैकक्षेत्रावहिनामनन्तमदेशानां पुद्गलानां कर्मबन्धयोग्यानामादानमुपश्लेषणं यत्करोति स १ क.—ङ. ॰दिसामान्यरू° । २ घ. 'पाः स्वभावाः । तथा पु। ३ ख. ग. घ. 'भावः । धं । ४ क.-ङ. ॰कायानां । ५ क. - ङ. 'गाहहेतुत्वसा । ६ च. 'स्योत्तररू' । ७ घ. 'ययार्थः । य । ८ च °त्पिण्डाद ं । ९ क. ॰णाऽऽत्मनश्चलनद्वारेणाऽऽत्म' । १० ख.घ.-च. रं नया' । ११ च. 'वर्ण कारौं । १२ ख. °ति संयो' । १३ ग. था नि । १४ घ. कर्षति । १५ क. ङ 'गः । त । १६ ख. 'दजा' । १७ च. 'स्पा' । १८ क. ण सं । १९ ग. ममाभा । २० ग. परु । २१ घ. 'दविक्षेपव' । २२ घ. ॰हिनां भवान्तरप्र ं । २३ क. 'ततत्प्रदे' । ङ. 'नन्तान्त' । च. 'नन्तानन्त' । 1 Page #52 -------------------------------------------------------------------------- ________________ ३० सर्वदर्शनसंग्रहे— बन्धः । तदुक्तम्–सकषायत्वाज्जीवः कर्मभावयोग्यान्पुद्गलानादत्ते स बैन्धः ( त० सू० ८ । २ ) इति । तत्र कषायग्रहणं सर्वबन्धहेतूपलक्षणार्थम् । बन्धेहेतून्पपाठ वाचकाचार्य:- मिध्यादर्शनाविरतिप्रमादकपाय योगा बन्धहेतवः (त० सू० ८ । १ ) इति । मिथ्यादर्शनं द्विविधम् । मिथ्या कर्मोदयात्परो देशानपेक्षं श्रद्धानं नैसर्गिकमेकम् । अपरं परोपदेशजम् । पृथिव्यादिषट्कोपादानं पडिन्द्रियासंयमनं चाविरतिः । पञ्चसमितित्रिगुप्तिष्वनुत्साहः प्रमादः । कषायः क्रोधादिः । तत्र कषायान्ताः स्थित्यनुभववन्यहेतवः प्रकृतिप्रदेशबन्ध हेतुर्योग इति विभागः । बन्धश्चतुर्विध इत्युक्तं - प्रकृतिस्थित्यनुभवप्रदेशास्तद्विधयः ( त० सू० ८ । ३ ) इति । यथा निम्बगुडादेस्तिक्तत्वमधुरत्वादिस्वभाव एवमावरणीयस्य ज्ञानदर्शनावरणत्वमादित्यमभीच्छाद काम्भोध खत्मदीपप्रभातिरोधायककुम्भवच्च । सदसद्वेदनीयस्य सुखदुःखोत्पादकत्वमसिधारामधुलेहनबत् । दर्शने मोहनीयस्य तत्त्वर्थाश्रद्धानकारित्वं दुर्जनसङ्गवत् । चारित्र मोहनीयस्यासंयमँहेतुत्वं भैद्यमदवत् । आयुषो देहबन्धकर्तृत्वं जलत् । नाम्नो विचित्रनामकारित्वं चित्रिकवत् | गोत्रस्योच्चनीचकारित्वं कुम्भकारवत् । दानादीनां विघ्ननिदानत्वमन्तरायस्यै स्वभावः कोशाध्यक्षवत् । सोऽयं प्रकृतिबन्धोऽविधो द्रव्यकर्मावान्तरभेद मूलप्रकृतिवेदनीयः । तथाऽवोचदुमास्वीतिवाचकाचार्य:-आद्यो ज्ञान दर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः ( त० सू० ८ । ४ ) इति । तद्भेदं च समगृह्णात्पञ्चनवद्वद्यष्टाविंशति चतुर्द्विचत्वारिंशदद्विपञ्चभेदा यथा क्रममिति ( त० सू० ८ । ५ ) । एतच्च सर्वं विद्यानन्दादिभिर्विवृतमिति विस्तरभयान्न प्रस्तूयते । यथऽजागोमहिष्या दिक्षीराणामेतावन्तमनेहसं माधुर्यस्वभा वादमच्युतिस्थितिस्तथा ज्ञानावरणादीनां मूलप्रकृतीनामादितस्तिसृणामन्तरा. यस्य च त्रिंशत्सागरोपमकोटिकोट्यः परा स्थिति ( त० सू० ८ । १४ ) १५ २२ રઢ १ ग. वद्धः । २ च. ' न्धनार्थ प' । ३ च 'वार्था । ४क. ग. ङ. च षट्कापादानकं । ५ . ' समित्रिगु' । ख. घ. 'संविगुप्ति' । ६ च. 'तित्रिगुप्तिप्रमृतिष्व । ७ घ. 'नभव' । ८ घ. ॰गः । स बौं। ९ ग. 'द्विषयः । १० च दित्याच्छाप्रभोच्छा' । ११ ख. घ. 'भातिरोधायका । १२ ग. 'रप्रदी° । १३ च 'वार्थ । १४ च. 'रित्रमो' । १५ ग. मनहे' । १६ ग. मदव ं । १७ . ' तत्व जलत्वात् । जिनाम्रो । १८ क. 'वर्तिनाम्नो । १९ ङ. चित्रक' । २० ग. ॰यस्व ं । २१ ग. मन्त' । २२ च. 'तिपदवे' । २३ च. 'स्वामिव । २४ ग. ज्ञानं द° । २५ क. ख. र वे ं । २६ ख. समागृ॰ । २७ ख. ञ्चदशा मे । २८ ख. 'भिर्नित्र । २९ ख. 'थाऽजगो' । ३० घ. 'धुर्यमाधुर्य । Page #53 -------------------------------------------------------------------------- ________________ आहेतदर्शनम् । इत्याद्युक्तं कॉल* दुर्दान्तवेत्स्वीयस्वभावादप्रच्युतिस्थितिः । यथाऽजागोमहिप्यादिक्षीराणी तीव्रमन्दादिभावेन स्वकार्यकरणे सामर्थ्य विशेषोऽनुभावस्तथा कर्मपुद्गलानां स्वकार्यकरणे सामर्थ्यविशेषोऽनुभावः । कर्मभावपरिणतपुद्गलस्कन्धानामनन्तान्तप्रदेशीनामात्मप्रदेशानुप्रवेशः प्रदेशबन्धः। ___ आस्रवनिरोधः संवरः । येनाऽऽत्मनि प्रविशकर्म प्रतिषिध्यते स गुप्तिसमित्यादिः संवरः। संचारकारणाद्योगात्मनो गोपनं गुप्तिः । सा त्रिविधा । काय. वामनोनिग्रहभेदात् । प्राणिपीडापरिहारेण सम्यगयनं समितिः । सेर्याभाषादिभेदात्पश्चधा । पश्चितं च हेमचन्द्राचार्य: लोकातिवाहिते मार्गे चुम्बिते भास्वदंशुभिः । जन्तुरक्षार्थमालोक्य गतिरीर्या मता सताम् ॥ अनवद्यमृतं सर्वजनीनं मितभाषणम् । मिंया वाचंयमानां सा भाषासमितिरुच्यते ॥ *द्विचत्वारिंशता भिक्षादोनित्यमदूषितम् । मुनिर्यदन्नमादत्ते सैषणासमितिर्मता ॥ आसनादीनि संवीक्ष्य प्रतिलध्य च यत्नतः । गृह्णीयानिक्षिपद्धयायेत्साऽऽदानसमितिः स्मृती ।। क.फमूत्रमलपायैर्निर्जन्तुजगतीतले। यत्नाद्यदुत्सृगेत्सोधुः सोत्सर्गसमितिर्भवेत् ॥ अत एव-- आस्रवः स्रोतसो द्वार संवृणोतीति संवर इति निराहुः । तदुक्तमभियुक्तैः आस्रवो भवहेतुः स्यात्संवरो मोक्षकारणम् । इतीयमाईती सृष्टिरन्यदस्याः प्रपञ्चनम् ।। * घ. पु. टि.-दुरुद्धरागमस्वभावात् । + घ. पु. टि.-द्विचत्वारिंशत्संख्यायुक्ता आसमन्ताद्भिक्षादोषास्तैरित्यर्थः। १ घ. इत्युक्तं । २ ग. कालाद्दुर्दा । ३ ख. "दुर्धानरचेवंगमस्व । च. दुर्धावगमः । स्वी । ४ क. °व स्वीय । घ. °वस्वैगमस्व । ५ क. घ. तिपरास्थि । ६ क. ग. °णां तावदिष्यते ती । -च.र्यकार। ८ ख. घ. शेषान १९ ख. ग. घ. नभवः। १० क.ख. घ. शेषानु। ११ ख. ग. घ. °नुभवः । १२ ख. °शानुप्रवे । १३ च. °नुबन्धः । प्र । १४ क. ख. ग. च. संसार । १५ च. 'तिः । सा संसारस्येा । १६ ग. भास्करांशु । १७ ग. ह.-च. राम° । १८ घ. अपद्यपगतासार्व' । क. °तासर्व । १९ घ. नीनाभितमत्यणा । प्रि । २० ख. प्रविल° । २१ क. ग. घ. पे ध्यायन्सा । २२ च. °ता । निजमू । २३ ग. साध्वः सो° । २४ क. ख. घ.-टु. मोहका । २५ क.-ड. ती मुष्टि । २६ क. ख. घ. म् । आर्जि। Page #54 -------------------------------------------------------------------------- ________________ ३२ सर्वदर्शनसंग्रहे अर्जितस्य कर्मणस्तपःप्रभृतिभिनिर्जरणं निर्जराख्यं तत्रम् । चिरकालमवृत्तकषायकलापं पुण्यं सुखदुःखे च देहेन जरयति नाशर्यतीति केशोल्लुश्चनादिकं तप उच्यते । सा निर्जरा द्विविधा । यथाकालौपक्रमिकभेदात् । तत्र प्रथमा यस्मिन्काले यत्कर्म फलप्रदत्वेनाभिमतं तस्मिन्नेव काले फलदानावैन्ती निर्जरा कामादिपाकजेति च जेगीयते । यत्कर्म तपोबलात्स्व का मनयोदयावलिं प्रवेश्य प्रपद्यते सौपक्रमिकनिर्जरों । यदाह— संसारबीजभूतानां कर्मणां जरणादिह । 1 निर्जरा संमता द्वेधा सकामाकामनिर्जरा || स्मृता सकामा यमिनाकामा त्वन्यदेहिनाम् || इति । मिथ्यादर्शनादीनां बन्धहेतूनां निरोधेऽभिनवकर्माभावान्निर्जराहेतु संनिधानेनार्जितस्य कर्मणो निरसनादात्यन्तिककर्ममोक्षणं मोक्षैः । तदाह - बन्धहेत्वभा वहेतु निर्जराभ्यां कृत्स्नकर्मविप्रमोक्षणं मोक्षः (त० सू० १० । २) इति । तदन. न्तरमूर्ध्व गच्छत्या लोकान्तात् ( त ० सू०१० | ५) । यथा हस्तदण्डादिभ्रमिमेरितं कुला. लचक्रमुपरतेऽपि तस्मिंस्तैद्रलादेवाऽऽसंस्कारक्षयं भ्रमति, तथा भवस्थेनाऽऽ त्मनाऽपवर्गप्राप्तये बहुशो यत्कृतं प्रणिधानं मुक्तस्य तदभावेऽपि पूर्वसंस्का रादालोकान्तं गमनमुपपद्यते । यथ वा मृत्तिकालेपकृतैगौरव मला बुद्रव्यं जलेऽधः पतति पुनरपेतमृत्तिकाबन्धमूर्ध्वं गच्छति, तथा कर्मरहित आत्मा, असङ्गत्वादूर्ध्वं गच्छति । बन्धेच्छेदादेरण्डवीजन चोर्ध्व गतिस्वभावाच्चाग्निशिखावत् । अन्योन्यं प्रदेशानुप्रवेशे सत्यविभागेनावस्थानं बन्धः । परस्परमाप्तिमात्रं सः । तदुक्तं - पूर्व प्रयोगादङ्गत्वा द्वन्धच्छेदात्तथा गतिपरिणामाच्च (त० सू० १० | ६ ) । आविद्धकुलालचक्रवद्व्यपगतले पाला बु वदेरण्डवी जवदनिशिखावच्च ( त० सू० १० । ७ ) इति । अत एव पठन्ति — १६ गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः । अद्यापि न निवर्तन्ते त्वलोकाकाशमागताः || ( प०न० ) इति । सुखैकतानस्याss अन्ये तु गत समस्त क्लेशतद्वासनस्यानावरणज्ञानस्य मन उपरिदेशावस्थानं मुक्तिरित्यास्थिपत । एवमुक्तानि सुखदुःखसाध १ क. ख. घ.—च. 'यति । २ घ 'लञ्छना' । ३ क. ख. घ. 'वति नि । ४ घ. ते तत्कर्मोपक्रमनि ं । ५ च. 'रा द्वितीया । य । ६ क ख ग घ ङ. संस्मृता । ७ क. ख. ग. 'भा रान्नि ं । ८ ग. ॰संधा ं । ९ क. - ङ. क्षः । बन्धहेतुभवनि । १० ग. स्तभ्र । ११ ग. स्तद्व शादे' । १२ ग. 'था मृ' । १३ क. ङ. 'तम' । १४ ख 'न्धदण्डादे' । १५ घ. 'न्योन्यप्र १६ च. 'जं प° । १७ च सङ्गतं त । १८ घ. 'विरुद्धाकु' । १९ ङ. च. ' न्ते वलो' । Page #55 -------------------------------------------------------------------------- ________________ w. . ताया आहेतदर्शनम् । नाम्यां पुण्यपापाभ्यो सहितानि नव पदार्थान्केचनाङ्गी चक्रुः । तदुक्तं सद्धान्ते-जीवाजीवौ पुण्यपांपैयुतावास्रवः संवरो निर्जरणं बन्धों मोक्षश्च नव तत्त्वानीति । संग्रहे प्रवृत्ता वयमुपरताः स्मः । अत्र सर्वत्र सप्तभङ्गिनयाख्यं न्यायमवतारयन्ति जैनाः । स्यादस्ति स्यानास्ति स्यादस्ति च नास्ति च स्यादवक्तव्यः स्यादस्ति चावक्तव्यः स्यानास्ति .चावक्तव्यः स्यादस्ति च नास्ति चावक्तव्य इति । तत्सर्वमनन्तवीर्यः प्रत्यपीपदत् तद्विधानविवक्षायां स्यादस्तीति गतिर्भवेत् । स्यानास्तीति प्रयोगः स्यात्तनिषेधे विवक्षिते ॥ क्रमेणोभयवाञ्छायां प्रयोगः समुदायभाक् । युगपत्तद्विवक्षायां स्यादवाच्यमशक्तितः ।। आद्यावाच्यविवक्षायां पश्चमो भङ्ग इष्यते । अँन्त्यावाच्यविवक्षायां षष्ठभङ्गासमुद्भवः ॥ समुच्चयेन युक्तश्च सप्तमो भङ्ग उच्यते ।। इति । स्याच्छब्दः खल्वयं निपातस्तिङन्तप्रतिरूपकोऽनेकान्तद्योतकः । यथोक्तम् वाक्येष्वनेकान्तद्योती गम्यं प्रति विशेषणम् । स्यानिपातोऽर्थयोगित्वात्तिङन्तप्रतिरूपकः । इति । यदि पुनरकान्तद्योतकः स्याच्छदोऽयं स्यात्तदा स्यादस्तीति वाक्ये स्यात्प. दमनर्थक स्यात् । अनेकान्तद्योतकत्वे तु स्यादस्ति कथंचिदस्तीति स्यात्पदीस्कथंचिदित्ययमों लभ्यत इति नाऽऽनर्थक्यम् । तदाह स्याद्वादः सर्वथैकान्तत्यागातिकत्तचिद्विधेः । सप्तभङ्गिन्नयापेक्षो हेयाँदेयविशेषकृत् ॥ इति । १ ख. पापान । २ घ. पता । ३ च. वयं विस्तरभयादुप। ४ घ... स्म । ५ च. 'यार्थ न्या । ६ च. पर्यपी' । ७ क. ख. घ. अन्यावा । ८ क. ख. पातेऽर्थ । ग. घ. पातार्थ । ९ घ. "दि अभिमतस्त्वेकान्तवादः सर्वथा। १० क. ख. ग. नरनेका । ११ क. ख. ग. घ. दो न स्या। १२ घ. दादय । १३ क. ख. ग. चिदस्तीत्य । १४ क. ख. ग. °मर्थ उपल° । १५ ङ. वृततद्वि। १६ क. ग. त्तताद्वधे । च. त्ततद्धितौ । स । १७ ग. °याहेय । Page #56 -------------------------------------------------------------------------- ________________ ३४ सर्वदर्शनसंग्रहेयदि वस्त्वस्त्येकान्ततः सर्वथा सर्वदा सर्वत्र सर्वात्मनाऽस्तीति नोपादित्साजिहासाभ्यां कचित्कदाचित्केनचित्प्रवर्तेत निवर्तेत वा । प्राप्तापापणीयत्वादहेयहानानुपपत्तेश्च । अनेकान्तपक्षे तु कथंचित्कचित्केनचित्सत्त्वेन हानोपादाने प्रेक्षावतामुपपद्यते । किंच वस्तुनः सत्त्वं स्वभावोऽसत्त्वं वेत्यादि प्रष्टव्यम् । न तावदस्तित्वं वस्तुनः स्वभाव इति *समस्ति । घटोऽस्तीत्यनयोः पर्यायतया युगपत्मयोगायोगात् । नास्तीति प्रयोगविरोधाच्च । एवमन्यत्रापि योज्यम् । यथोक्तम् घटोऽस्तीति न वक्तव्यं सन्नेव हि यतो घटः। . नास्तीत्यपि न वक्तव्यं विरोधात्सदसत्त्वयोः ॥ इत्यादि । तस्मादित्थं वक्तव्यं सदसत्सदसदनिर्वचनीयवादभेदेन प्रतिवादिनश्चतुर्विधाः। पुनरप्यनिर्वचनीयमतेन मिश्रितानि सदसदादिमतानीति त्रिविधाः। तान्प्रति किं वस्त्वस्तीत्यादिपर्यनुयोगे कथंचिदस्तीत्यादिप्रतिवचनसंभवेन ते वादिनः सर्वे निर्विण्णाः सन्तस्तूष्णीमासत इति संपूर्णार्थविनिश्चायिनः स्याद्वादमङ्गीकुर्वतस्तत्र तत्र विजय इति सर्वमुपपन्नम् । यदवोचदाचार्यः स्याद्वादमञ्जाम् अनेकान्तात्मकं वस्तु गोचरः सर्वसंविदाम् । एकदेशविशिष्टोऽर्थो नयस्य विषयो मतः ॥ न्यायानामेकनिष्ठानां प्रवृत्तौ श्रुतवम॑नि । संपूर्णार्थीवनिश्चापि स्याद्वस्तु श्रुतमुच्यते ॥ इति । अन्योन्यपक्षप्रतिपक्षभावाद्यथा परे मत्सरिणः प्रवादाः। नयानशेषानावशेषमिच्छन्न पक्षपाती समयस्तथा+ऽऽहेतः ॥ ( हेमचन्द्रकृतद्वितीयद्वात्रिंशिका वी० स्तु० श्लो०३०)। जिनदत्तसूरिणा जैनं मतमित्थमुक्तम् बलभोगोपयोगानामुभयोर्दानलाभयोः । अन्तरायस्तथा निद्री भीरज्ञानं जुगुप्सितम् ॥ तवत्मान। * घ. पु. टि.-संभवतीत्यर्थकम् । + स्याद्वादमञ्ज- ' तथा ते ' इति पाठः। १ घ. पादानजि । २ क. ख. ग. घ. "त्वात् हे । ३ च. °यभाना । ४ घ. 'चित्स । ५ क. ख. ग. घ. °नीयं वा पद । ६ ग. °न वा प्र । ७ क. ङ.-'तेनाऽऽमि । ८ च. विषण्णाः सन्तीति तूष्णी । ९ स. च. शिष्टार्थो । १० च. °नलोभ । ११ क. ख. द्राभिर । घ. द्रातमोऽज्ञानजु । Page #57 -------------------------------------------------------------------------- ________________ आहेतदर्शनम् । हिंसा रत्यरती रागद्वेषावविरतिः स्मरः। शोको मिथ्यात्वमेतेऽष्टादश दोषा न यस्य सः ।। जिनो देवो गुरुः सम्यक्तत्त्वज्ञानोपदेशकः । ज्ञानदर्शनचारित्राण्यपर्गस्य वर्तनी ॥ स्याद्वादस्य प्रमाणे द्वे प्रत्यक्षमनुमाऽपि च । नित्यानित्यात्मकं सर्व नव तत्त्वानि सप्त वा ।। जीवाजीवौ पुण्यपाँपे चाऽऽस्रवः संवरोऽपि च । बन्धो निर्जरणं मुक्तिरेषां व्याख्याऽधुनोच्यते ॥ चेतनालक्षणो जीवः स्यादजीवस्तदन्यकः । सत्कर्मपुद्गलाः पुण्यं पापं तस्य विपर्ययः ॥ आस्रवः स्रोतसो द्वारं संवृणोतीति संवरः । प्रवेशः कर्मणां बन्धो निर्जरस्तद्वियोजनम् ॥ .. अष्टकर्मक्षयान्मोक्षोऽथान्तर्भावश्च कैश्चन । पुण्यस्य संवरे पापस्याऽऽस्रवे क्रियते पुनः॥ लब्धानन्तचतुष्कस्य लोकागूढस्य चाऽऽत्मनः । क्षीर्णाष्टकर्मणो मुक्तिनिर्यावृत्तिर्जिनोदिता ॥ * सरजोहरणा भैक्षभुजो लुञ्चितमूर्धनाः । =श्वेताम्बराः क्षमाशीला निःसङ्गा जैनसाधवः ॥ लुञ्चिताः पिच्छिकाहस्ताः पाणिपात्रा दिगम्बराः । ऊ शिनो गृहे दातुर्द्वितीयाः स्युर्जिनर्षयः॥ भुङ्क्ते न केवली न स्त्री मोक्षमेति दिगम्बरः । प्राहुरेषामयं भेदो महाश्वेताम्बरैः सह ॥ इति । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रह आहेतदर्शनम् ॥ अथ रामानुजदर्शनम् ॥ ४ ॥ तदेतदार्हतमतं प्रामाणिकगर्हणमर्हति । न ह्येकस्मिन्वस्तुनि परमार्थे * घ. पु. टि.-हरणायोग्याः सरजा मलिनवस्त्रा इत्यर्थः । = घ. पु. टि.-गौरिकाहिना रजनीवर्जिता इत्यर्थः। १ घ. जीनो । २ क. ख. ग. गुरुं । ३ क. ख. ग. °शकम् । ४ घ. पापावास्र । ५ घ. 'गलः पु। ६ घ. आस्रावः । ७ ग. जरा तद्वि। ८ ग, लोकगू। ९ ख. °णास्तकर्मणा मु। १० ग. पिञ्छिका। Page #58 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेसति परमार्थसतां युगपत्सदसत्त्वादिधर्माणां समावेशः संभवति । न च सदस. त्वयोः परस्परविरुद्धयोः समुच्चयासंभवे विकल्पः किं न स्यादिति वदितव्यम् । क्रिया हि विकल्प्यते न वस्त्विति न्यायात् । न च 'अनेकान्तं जग. त्सर्वं हेरम्बनरसिंहवत् । इति दृष्टान्तावष्टम्भवशादेष्टव्यम् । एकस्मिन्देशे गजत्वं सिंहत्वं वाऽपरस्मिन्नरत्वमिति देशभेदेन विरोधाभावेन तस्यैकस्मिन्देश एव सत्त्वांसत्त्वादिनाऽनेकान्तत्वाभिधाने दृष्टान्तानुपपत्तेः । ननु द्रव्यात्मना सत्त्वं* पर्यायात्मना तदभाव इत्युभयमप्युपपन्नामति चेन्मैवम् । कालभेदेन हि कस्यचित्सत्त्वमसत्त्वं च स्वभाव इति न कश्चिद्दोषः । न चैकस्य ह्रस्वत्वदीर्घत्ववदनेकान्तत्वं जगतः स्यादिति वाच्यम् । + प्रतियोगिभेदेन विरोधाभावात् । तस्मात्प्रमाणाभावाद्युगपत्सत्त्वासत्त्वे परस्परविरुद्ध नैकस्मिन्वस्तुनि वस्तुं युक्ते । एवमन्यासामपि भङ्गीनां भङ्गोऽवगन्तव्यः । किंच सर्वस्यास्य मूलभूतः सप्तभङ्गिनयः स्वयमेकान्तोऽनेकान्तो वा । आद्ये सर्वमनेकान्तमिति प्रतिज्ञाव्याघातः। द्वितीये विवक्षितार्थासिद्धिः । अनेकान्तत्वेनासाधकत्वात् । तथा चेयमुभयत:पाशा रज्जुः स्याद्वादिनः स्यात् । अपि च नवत्वसप्तत्वादिनिर्धारणस्य फलस्य तनिर्धारयितुः प्रमातुश्च तत्करणस्य प्रमाणस्यं प्रमेयस्य च नवत्वादेरनियमे साधु समर्थितमात्मनस्तीर्थकरत्वं देवानांप्रियेणाऽऽर्हतमतप्रवर्तकेन । तथा जीवस्य देहानुरूपपरिमाणत्वाङ्गीकारे योगबलादनेदेहपरिग्राहकयोगिशरीरेषु प्रतिशरीरं जीवविच्छेदः प्रसज्येत । मनुजशरीरपरिमाणो जीवो मतङ्गजदेहं कृत्स्नं प्रवेष्टुं न प्रभवेत् । किंच गजादिशरीरं परित्यज्य पिपीलिकाशरीरं विशतः प्राचीनशरीरसंनिवेशविनाशोऽपि प्राप्नुयात् । न च यथा प्रदीपप्रभाविशेषः = प्रपाप्रासादायुदरवर्तिसंकोचविकाशवांस्तथा जीवोऽपि मनुजमतङ्ग-जादिशरीरेषु स्यादित्येषितव्यम् । प्रदीपवदेव सविकारत्वेनानित्यत्वप्राप्तौ कृतप्रणाशाकृताभ्यागमप्रसङ्गात् । एवं प्रधानमल्लनिबर्हणन्यायेन जीवपदार्थदूषणाभिधानादशाऽन्यत्रापि दूषणमुत्प्रेक्षणीयम् । तस्मान्नित्यनिर्दोषश्रुतिविरुद्धत्वादिदमुपादेयं * घ. पु. टि.-परिगत आत्मा पर्यात्मा अनुयोग्यात्मना तदभाव इत्यर्थः । + घ. पु. टि.-निरूपकभेदेन । = प्रपा पानीयशालिकेत्यमरः । १ ग. वक्तव्यम् । २ ग. °त्वादि । ३ च. टान्तत्वानु। ४ क. °स्मिन्वस्तुं। ५ ख. तत्कार । च. तत्कारणस्य प्रमातुश्च तत्कारणस्य प्रमा । ६ ख. घ. °स्य तद्विषयस्य प्र।च. °स्य तत्प्रमे । ७ च. वरूपस्य । ८ ख. °माणाङ्गी । ९क.ख. ङ.-च. °कप । १० ख. 'हना । ११ क.ङ. गिजीवेषु । १२ घ. प्रसज्जेत् । १३ ख. °षः प्रा । १४ च. सर्वावि । १५ क. ग. घ. दार्थे दू । Page #59 -------------------------------------------------------------------------- ________________ रामानुजदर्शनम् । न भवति । तदुक्तं भगवता म्यासेन-नैकस्मिन्नसंभवात् (ब्र० सू०२ । २।३१) इति । रामानुजेन च जैनमतनिराकरणपरत्वेन तदिदं सूत्रं व्याकारि । एष हि तस्य सिद्धान्तः--चिदचिदीश्वरभेदेन भोक्तृभोग्यनियामकभेदेने च व्यवस्थितास्त्रयः पदार्था इति । तदुक्तम्--- ईश्वरश्चिदचिच्चेति पदार्थत्रितयं हरिः। ईश्वरश्चिदिति प्रोक्तो जीवो दृश्यमचित्पुनः ॥ इति । अपरे पुनरशेषविशेषप्रत्यनीकं चिन्मानं ब्रह्मैव परमार्थः । तच्च नित्यशुद्धबुद्धमुक्तस्वभावमपि 'तत्त्वमसि' (छा० ६। ८ । ७) इत्यादिसामानाधिकरण्याधिगतजीवैक्यं बंध्यते मुच्यते च । तदतिरिक्तनानाविधभोक्तभोक्तव्यादिभेद: प्रपञ्चः सर्वोऽपि तस्मिन्नविद्यया परिकल्पित : ‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्' ( छा० ६ । २ । १ ) इत्यादिवचननिचयप्रामाण्यादिति ब्रुवाणाः 'तरति शोकमात्मवित्' (छा० ७।१ । ३) इत्यादिश्रुतिशिरःशतवशेन निर्वि. शेषब्रह्मात्मैकत्वविद्ययाऽनाद्यविद्यानिवृत्तिमङ्गीकुर्वाणाः ' मृत्योः स मृत्युमामोति य इह नानेव पश्यति' (का० २ । १) इति भेदनिन्दाश्रवणेन पारमार्थिक भेदं निराचक्षाणा विचक्षणंमन्यास्तमिमं विभागं न सहन्ते । तत्रायं समाधिरभिधीयते । भवेदेतदेवं यद्यविद्यायां प्रमाणं विद्येत । नन्विदमनादि भावरूपं ज्ञाननिवर्त्यमज्ञानमहमज्ञो मामन्यं च न जानामीति प्रत्यक्षप्रमाणसिद्धम् । तदुक्तम् अनादि भावरूपं यद्विज्ञानेन विलीयते । तदज्ञानमिति प्राज्ञा लक्षणं संप्रचक्षते ॥ (चित्सु० १ । १) इति । न चैतज्ज्ञानाभावविषयमित्याशङ्कनीयम् । को ह्येवं ब्रूयात्नभाकरकरावलम्बी भट्टदचहस्तो वा । नाऽऽद्य: स्वरूपपररूपाभ्यां नित्यं सदसदात्मके । वस्तुनि ज्ञायते किंचित्कैश्चिद्रूपं कदाचन ॥ १ ख. त्वेनेदं । २ क. ख. घ.--च. °न व्य। ३ क. ख. घ. °षप्र । ४ ख. °ण्याग । च. °ण्यावग° । ५ घ. बुध्यते । ६ ग. °क्तभोग्यादि । ७ च. °तीयं ब्रह्मेत्या । ८ च. °दिश्रुतिव । ९ ग. विषया। १० क. ख. घ.--च. नचैवम । ११ ग. 'नमज्ञो । १२ ग. मन्योऽहम । १३ च.--'न्यच्च न । १४ ख. को हि कमेवं ब्रू । घ. को टकं ब्रू। १५ क. ख. ग. घ. प्राभा । Page #60 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेभावान्तरमभावो हि कयाचित्तु व्यपेक्षया । भावान्तरादभावोऽन्यो न कश्चिदनिरूपणात् ॥ इति वदता भावव्यतिरिक्तस्याभावस्थानभ्युपगमात् । न द्वितीयः । अभा. वस्य षष्ठप्रमाणगोचरत्वेन ज्ञानस्य नित्यानुमेयत्वेन च तदभावस्य प्रत्यक्षविष यत्वानुपपत्तेः । यदि पुनः प्रत्यक्षाभाववादी कश्चिदेवमाचक्षीत तं प्रत्याचक्षीत। अहमज्ञ इत्यस्मिन्ननुभवेऽहमित्यात्मनोऽभावधर्मितया ज्ञानस्य प्रतियोगितया चावगतिरस्ति न वा । अस्ति चेद्विरोधादेवं न ज्ञानाभावानुभवसंभवः । न चेद्धर्मिप्रतियोगिज्ञानसापेक्षो ज्ञानाभावानुभवः सुतरां न संभवति । तस्याज्ञानस्य भावरूपत्वे प्रागुक्तदूषणाभावादयमनुभवो भावरूपाज्ञानगोचरे एवाभ्युपगन्तव्य इति । तदेतद्गगनरोमन्थायितम् । भावरूपस्याज्ञानस्य ज्ञानाभावेन समानयोगक्षेमत्वात् । तथा हि-विषयत्वेनाऽऽश्रयत्वेन चाज्ञानस्य व्यावर्तकतया प्रत्यगर्थः प्रतिपन्नो न वा । प्रतिपन्नश्चेत्स्वरूपज्ञाननिवर्यं तदज्ञानमिति तस्मिन्प्रतिपन्ने कथंकारमवतिष्ठते । अप्रतिपन्नशेव्यावर्तकाश्रयविषयेशून्यमज्ञानं कथमनुभूयेत । अथ विशदः स्वरूपावभास एवाज्ञानविरोधी नाज्ञानेन सह भासत इत्याश्रयविषयज्ञाने सत्यपि नाज्ञानानुभवविरोध इति हन्त तर्हि ज्ञानाभावेऽपि समानमेतत् । * अन्यत्राभिनिवेशात् । तस्मादुभयाभ्युपगतज्ञानाभाव एवाहमज्ञो मामन्यं न जानामीत्यनुभवगोचर इत्यभ्युपगन्तव्यम् । अस्तु तेर्वानुमानं मान-विवादास्पदं प्रमाणज्ञानं स्वप्रागौवव्यतिरिक्तस्वविषयावरणस्वनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकमप्रकाशितार्थप्रकाशकत्वादन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । तदपि न क्षोदक्षमम् । अज्ञानेऽप्यनभिमताज्ञानान्तरंसाधनेऽपसिद्धान्तापातात् । + तदसाधनेऽनैकान्तिकत्वात् । दृष्टान्तस्य साधन___ * घ. पु. टि.-विशदस्वरूपावभासस्याज्ञानविरोधित्वं नाविशदस्वरूपावभासरयोत चेज्ज्ञानाभावेऽपि विशदस्वरूपावभास एव विरोधी नाविशदस्वरूपावभास इति तुल्यमतो भावरूपाज्ञानस्य ज्ञानाभावसमानयोगक्षेमत्वं तर्हि वादिप्रतिवादिनोरैकमत्ये क विरोध इति चेदन्यत्राज्ञानपदार्थत्वेनाभिमतयो वरूपत्वाभावरूपत्वयोरनैकमत्याग्रहादितरांशतौल्येऽपि न वादविच्छित्तिरिति भावः। + घ. पु. टि.-तस्मिन्नज्ञानविषयकप्रमाणज्ञाने साध्यस्यासाधने। १ ख. °स्यानुप० । २ क.ग. ङ. °त् । अ° । ३ ख. °न त° । ४ ख. °धर्मत्वेन ज्ञा। ५ ख. °व ज्ञा। ६ च. चेत्थं तत्प्रति । ७ च. ज्ञानभा । ८ च. गनोन्मथितं। ९क.-ङ. भावस। १० च. नस्याव्या । ११ ग.- यं यद । १२ च. यज्ञा । १३ ख. भूयते। १४ ख. ग. °नेन भा । क. ङ.-च. °नेनाऽऽभासित । १५ क. "पि ज्ञा' । १६ ख. °ति चेत् हौं । १७ च.ज्ञानभा । १८ ग. च जा । १९ च. तर्हि तत्रानु । २० क.-ग. ङ. °नं वि°। २१ ख. भावाति । २२ ख. "नेऽसि । Page #61 -------------------------------------------------------------------------- ________________ रामानुजदर्शनम् । विकलत्वाच्च । न हि प्रदीपप्रभाया अप्रकाशितार्थप्रकाशकत्वं संभवति । ज्ञानस्यैव प्रकाशकत्वात् । सत्यपि प्रदीपे ज्ञानेन विषयप्रकाशसंभवात् । प्रदीपप्रभायास्तु चक्षुरिन्द्रियस्य ज्ञानं समुत्पादयतो विरोधिसतमसनिरसनद्वारेणोपकारकस्वैमात्रमेवेत्यलमतिविस्तरेण । प्रतिप्रयोगश्च विवादाध्यासितमज्ञानं न ज्ञानमात्रब्रह्माश्रितम् । अज्ञानत्वाच्छुक्तिकाद्यज्ञानवदिति । ननु शुक्तिकाद्यज्ञानस्याऽऽश्रयस्य प्रत्यगर्थस्य ज्ञानमात्रस्वभावत्वमेवेति चेन्मैवं शङ्किष्ठाः । अनुभूतिर्हि स्वसद्भावेनैव कस्यचिद्वस्तुना व्यवहारानुगुणत्वापादनस्वभावो ज्ञानावगतिसंविदाद्यपरनामा सकर्मकोऽ. नुभवितुरात्मनो धर्मविशेषः । अनुभवितुरात्मत्वमात्मवृत्तिगुणविशेषस्य ज्ञानत्वमित्याश्रयणात् । ननु ज्ञानरूपस्याऽऽत्मनः कथं ज्ञानगुणकत्वमिति चेत्तदसारम् । यथा हि मणिधुमणिप्रभृति तेजोद्रव्यं प्रभाद्रूपेणावतिष्ठमानं प्रभारूपगुणाश्रयः । स्वाश्रयादन्यत्रापि वर्तमानत्वेन रूपवत्त्वेन च प्रभा द्रव्यरूपाऽपि तच्छेषत्वनिबन्यनगुणव्यवहारा । एवमयमात्मा स्वप्रकाशचिद्रूप एव चैतन्यगुणः। तथा च श्रुतिः- स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवैवं वा अरेऽयमात्माऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन एव । (घृ० ४।५।१३ )। ' अत्रायं पुरुषः स्वयंज्योतिर्भवति' (बृ० ४।३।९) । न हि विज्ञातुविज्ञातेर्विपरिलोपो विद्यते ' (बृ० ४।३।३०) । ' अथ यो वेदेदं जिघ्राणीति स आत्मा ' ( छा० ८।१२।४ ) । ' योऽयं विज्ञानमयः प्राणेषु हृद्यन्तज्योतिः पुरुषः । (बृ० ४।३।७)। 'एष हि द्रष्टा स्पष्टा श्रोता घाता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । (प्र० ४।९) इत्यादिका । . न च ' अनुतेन हि प्रत्यूढाः ' ( छा० ८।३।२) इति श्रुतिरविद्यायां प्रमाणमित्याश्रयितुं शक्यम् । ऋतेतरविषयो ह्यनृतशब्दः । ऋतशब्दश्च १ ध. शत्वा । २ ख. निरासद्वा । ३ ख. त्वमे' । ४ ग. त्रमित्य । ५ च. 'तिप्रपच्छेन । प्र । ६ क. तियो । ७ च. ह्याश्रयम् । ८ ख. 'बमे । ९ ख. घ.-च. °भावाज्ञा । १० क. ग. ङ.-च. तिसंगतिवि' । ११ क. ङ.-मकानु । घ. °कर्मिका । १२ क.-ग. ङ. च. "त्मत्वं ज्ञा । १३ ख. चेद । १४ क. ख. घ.-च. यदा । १५ क. ग. हिमम । १६ ख. °वरूपे । १७ च. न रू° । १८ क. ख. घ. 'श्रयम् । १९ ग. °न्धगु । २० च. दिना श्रुतिरविद्यायाः श्रुतिः प्रमा । २१ ग. योऽन् । २२ ख. °ब्दश्च क । Page #62 -------------------------------------------------------------------------- ________________ ४० सर्वदर्शनसंग्रहे ४ कर्मवचनः । ‘ऋतं पिवन्तौ' ( का० ३ | १ ) इति वचनात् । ऋतं कर्म फलाभिसंधिरहितं परमपुरुषाराधनंवेषं तत्प्रतिफलम् । अत्र तद्व्यतिरिक्तं सांसारिकाल्पफलं कर्मानृतं ब्रह्मप्राप्तिविरोधि । 'य एतं ब्रह्मलोकं न विन्दन्ति अनृतैन हि प्रत्यूढा: ' ( छा०८ । ३ । २ ) इति वचनात् । 'मायां तु प्रकृतिं विद्यात्' (श्वे ० ४ । १० ) इत्यादी मायाशब्दो विचित्रार्थसर्गकरत्रिगुणात्मकम कृत्य • भिधायको नानिर्वचनीयाज्ञानवचनः । तेन माया सहस्रं तच्छम्बरस्याऽऽशुगामिना । बालस्य रक्षता देहमेकैकांशेन सूदितम् || (वि० पु० १ । १९ । २०) इत्यादौ विचित्रार्थसर्गसमर्थस्य पारमार्थिकस्यैव सुराद्यस्त्रविशेषस्यैव मायाशब्दाभिधेयत्वोपलम्भात् । अतो न कदाचिदपि श्रुत्याऽनिर्वचनीयाज्ञानप्रति पादनम् । नाप्यैक्योपदेशान्यथानुपपत्त्या । तत्त्वंपदयोः सविशेषब्रह्माभिधेयवत्वेन वि रुंद्धयोर्जीवपरयोः स्वरूपैक्यैस्य प्रतिपत्तुमशक्यतयाऽर्थापत्तेरनुदयदोषदूषितत्वात् । तथा हि-तत्पदं निरस्त समस्त दोषमनवधिकौतिशया संख्येये कल्याणगुणास्पदं जगदुदयविभवलयलीलं ब्रह्म प्रतिपादयति । 'तदैक्षत बहु स्यां प्रजायेय' ( छा० ६ । २ । ३ ) इत्यादिषु तस्यैव प्रकृतत् । तत्समानाधिकरणं स्वपदं चाचिद्विशिष्टजीवशरीरकं ब्रह्माऽऽचष्टे । प्रकारद्वयविशिष्टकवस्तुपरत्वात्सामानाधिकर १५ 99 व्यस्य । 1 ननु सोऽयं देवदत्त इतिवत्तत्त्वमिति पदयोर्विरुद्ध भागत्यागलक्षणया निर्विशेषस्वरूपमात्मैक्यं सामानाधिकरण्यार्थः किंन स्यात् । यथा सोऽयमित्यत्र तच्छब्देन देशान्तरकालान्तरसंबन्धी पुरुषः प्रतीयते । इदंशब्देन संनिहितदेशवर्तमानकाल संबन्धी । तयोः सामानाधिकरण्येनैक्यमवगम्यते । तत्रैकस्यै युगपद्विरुद्धदेशका लभतीतिर्न संभवतीति द्वयोरपि पदयोः स्वरूपपरेत्वे स्वरूपस्य चैक्यं प्रतिपत्तुं शक्यम् । एवमत्रापि किंचिज्ज्ञत्व सर्वज्ञत्वादिविरुद्धांश महणेनाखण्डस्वरूपं लक्ष्यत इति चेत् — विषमोऽयमुपन्यासः । दृष्टान्तेऽपि विरोधधुर्येण लक्षणागन्धासंभवात् । एकस्य तावद्भुतवर्तमानकालदयसंबन्धो न १ ख. ग. ङ.-च. 'नतयैव त। घ.' नमेव त । २ क. ख. ग. प्राप्यं फ । ३ख. 'फलकं क । ४ घ. -च. विदन्ति । ख. विन्दति । ५ ख. 'ते प्र। ग. 'तेन हि प्रत्येथा इ' । ६ ख. त्रि ं । ७ क. च. 'कैकश्येन धूलितम्। ८ ग. 'कस्यासु । ९ घ. 'वास्त्र । १० ख. घ. ङ. श्रुतावनि । ११ क. ख. ध.—च. "शानु ं । १२ क॰ ॰क्यपरस्य । १३ ग. कानति । १४ च. 'यगु° । १५ क. ग. °विल' ।१६ क. -ङ० 'त्वात्समा ं । १७ ग. घ. दं च चि° । १८ च. 'रीरं व्याच । १९ ख. 'शिष्टकवस्तुविषयत्वा'सामा' । २० ख. 'इत्यादिवत् । २१ ख. न । २२ ख. 'स्य विरु । २३ . ग. रत्वं स्व' । २४ ख. 'हारेणाख' । Page #63 -------------------------------------------------------------------------- ________________ ورو रामानुजदर्शनम् । विरुद्धः। देशान्तरस्थितिभूता संनिहितदेशस्थितिवर्तत इति देशभेदसंबन्धविरो. धश्च कालभेदेन परिहरणीयः । लक्षणापक्षेऽप्येकस्यैव पदस्य लक्षणत्वाश्रयणेन विरोधपरिहारे पदद्वयस्य लाक्षणिकत्वस्वीकारो न संगच्छते। इतरथैकस्य वस्तु. नस्तत्तेदंताविशिष्टत्वावगाहनेन प्रत्यभिज्ञायाः प्रामाण्यानङ्गीकारे स्थायित्वासिद्धौ क्षणभङ्गवादी बौद्धो विजयेत । एवमत्रापि जीवपरमात्मनोः शरीरात्मभावेन तादात्म्यं न विरुद्धमिति प्रतिपादितम् । जीवात्मा हि ब्रह्मणः शरीरतया प्रकारत्वाद्ब्रह्मात्मकः । 'य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्याऽऽत्मा शरीरम् (बृ० मा० पा० ३ । ७ । २२) इति श्रुत्यन्तरात् । - अत्यल्पमिदमुच्यते। सर्वे शब्दाः परमात्मन एव वाचकाः । न च पर्यायत्वम् । दारभेदसंभवात्। तथा हि-जीवस्य शरीरंतया प्रकारभूतानि देवमनुष्यादिसंस्था नानीव सर्वाणि वस्तूनीति ब्रह्मात्मकानि तानि सर्वाणि । अतः देवो मनुष्यो यक्षो वा पिशाचोरगराक्षसाः । पक्षी वृक्षो लता काष्ठं शिला तृणं घटः पटः॥ इत्यादयः सर्वे शब्दाः प्रकृतिप्रत्यययोगेनाभिधायकत या प्रसिद्धा लोके तद्वाच्यतया प्रतीयमानतत्तत्संस्थानवद्वस्तुमुखेन तदभिमानिजीवतदन्तर्यामिपरमात्मपर्यन्तसंघातस्य वाचकाः । देवादिशब्दानां परमात्मपर्यन्तत्वमुक्तं तत्त्वमु तावल्यां चतुर्थसरे। , जीवं देवादिशब्दो वदति तदपृथक्सिद्धभावाभिधानानिष्कर्षासावयुक्तो बहुरिह च दृढो लोकवेदप्रयोगः । आत्मासंबन्धकाले स्थितिरनवगता देवमादिमूर्तेजीवात्मानुप्रवेशाज्जगति विभुरपि व्याकरोनामरूपे ॥ . . . (तत्त्वमु०४ । ८२) इति । अनेन देवादिशब्दानां शरीरविशिष्टजीवपर्यन्तत्वं प्रतिपाद्य संस्थानक्याद्यभावे ( तत्त्वमु० ४ । ८३ ) इत्यादिना शरीरलक्षणं दर्शयित्वा शब्देस्तन्वं १ क. बन्धावि । २ ख. क्षणाश्र' । ३ क. रोधिप । ४ ख. 'त्वपक्षीका । ग. घ. 'त्वकक्षीका । ५ घ. 'दात्म्यमवि । ६ ग. रण। ७ घ. स्थानीनि व। ८ क. 'नानि स । ख. 'नानि व । ग. नानि सर्वाणि च व । ९ क. °नि इति ता । ख. नि स । १० ग. गरक्षसः । ११ घ. तृणध । १२ ख. खे त । १३ क.--. संस्थानस्य । १४ क. ग. वलीये च । ख. 'वल्या जी । १५ क. ग. चतुरुत्तरे । ख. रु. चतुरन्तरे च । घ. चतुरे। च. चतुर्थे सर्गे । जी । १६ क.- 'षोकूतयु। १७ ख. प्रसाध। .... . .... ................" Page #64 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेशरूपप्रभृतिभिः ( तत्त्वमु० ४ । ८४ ) इत्यादिना विश्वस्येश्वरादपृथक्सिद्धत्वमुपपाद्य निष्कर्षाकूत ( तत्त्वमु० ४ । ८५ ) इत्यादिना पद्येन सर्वेषां शब्दानां परमात्मपर्यन्तत्वं प्रतिपादितं तत्सर्वं तत एवावधार्यम् । अयमेवार्थः समर्थितो वेदार्थसंग्रहे नामरूपश्रुतिव्याकरणसमये रामानुजेन । किंच सर्वप्रमाणस्य सविशेषविषयतया निर्विशेषवस्तुनि न किमपि प्रमाणं समस्ति । निर्विकल्पकप्रत्यक्षेऽपि सविशेषमेव वस्तु प्रतीयते । अन्यों सविफल्पके सोऽयमिति पूर्वप्रतिपन्नप्रकारविशिष्टप्रतीत्यनुपपत्तेः । किंच तत्त्वमस्यादिवाक्यं न प्रपञ्चस्य बाधकम् । भ्रान्तिमूलकत्वात् । भ्रान्तिप्रयुक्तरज्जुसर्पवाक्यवत् । नापि ब्रह्मात्मैक्यज्ञानं निवर्तकम् । तत्र प्रमाणाभावस्य प्रागेवोपपादनात् । न च प्रपञ्चस्य सत्यत्वप्रतिष्ठापनपक्ष एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाव्याकोपः । प्रकृतिपुरुषमहदहंकारतन्मात्रभूतेन्द्रिय चतुर्दशभुवनात्मकब्रह्माण्डतदन्तर्वतिदेवतिर्यङ्मनुष्यस्थावरादिसर्वप्रकारसंस्थानसंस्थितं कार्यमपि सर्व ब्रह्मैवेति कारणभूतब्रह्मात्मज्ञानादेव सर्वविज्ञानं भवतीत्येकविज्ञानेन सर्वविज्ञानस्योपपन्नतरत्वात् । अपि च ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वे सर्वस्यासत्त्वादेवैकविज्ञानेन सर्वविज्ञानप्रतिज्ञा बाध्येत । नामरूपविभागानहसूक्ष्मदशावत्प्रकृतिपुरुषशरीरं ब्रह्म कारणावस्थम् । जगत*. स्तदापत्तिरेव प्रलयः । नामरूपविभागविभक्तस्थूलचिदचिद्वस्तुशरीरं ब्रह्म कार्यावस्थम् । ब्रह्मणस्तथाविधस्थूलभावश्च सृष्टिरित्यभिधीयते । एवं च कार्यकारणयोरनन्यत्वमप्यारम्भणाधिकरणे प्रतिपादितमुपपन्नतरं भवति । निर्गुणवादाश्च प्राकृतहेयगुणनिषेधविषयतया व्यवस्थिताः । नानात्व. निषेधवादाश्चैकस्यैव ब्रह्मणः शरीरतया प्रकारभूतं सर्व चेतनाचेतनात्मकं वस्त्विति सर्वस्याऽऽत्मतया सर्वप्रकारं ब्रह्मेवावस्थितमिति सर्वात्मकब्रह्मपृथग्भूतवस्तुसद्भावनिषेधपरत्वाभ्युपगमेन प्रतिपादिताः। किमत्र तत्त्वं भेदोऽभेद उभयात्मकं वा । सर्व तत्त्वम् । तत्र सर्वशरीरतया सर्वप्रकारं ब्रह्मैवावस्थितमित्यभेदोऽभ्युपेयते । एकमेव ब्रह्म नानाभूतचिदचित्प्रकारान्नानात्वेनावस्थितमिति भेदाभेदौ । चिदचिदीश्वराणां स्वरूपस्व * घ. पु. टि. ब्रह्मापत्तिः। १ क. ख. ग. घ। प्रकृति । ङ. प्रतिकृति । २ ग. 'कूतरीताविला । ३ ग. था सो ४ च. 'प्रवृत्य । ५ च. तिक्षेपपक्ष ए° । ६ क. ग. प. किंच । ७ क. स. घ.-च. 'ज्ञानं बा। ८ ग. 'गासहसूक्ष्मदशापनप्रकृ । ९ क. ख. ग. २ का । 1. ग. स्वस्वरू। ११ च. 'पप्रभा। Page #65 -------------------------------------------------------------------------- ________________ रामानुजदर्शनम् । भाववैलक्षण्यादसंकराच्च भेदः । तत्र चिद्रूपाणां जीवात्मनामसंकुचितापरिच्छिन्ननिर्मलज्ञानरूपाणामनादिकर्मरूपाविद्यावोष्टतानां तत्तत्कर्मानुरूपज्ञानसंकोचविकाशौ भोग्यभूताचित्संसर्गस्तदनुगुणसुखदुःखोपभोगद्वयरूपा भोक्तृता भगवत्पतिपत्तिर्भगवत्पदप्राप्तिरित्यादयः स्वभावाः । अचिद्वस्तूनां तु भोग्यभूतानामचेतनत्वमपुरुषार्थत्वं विकारास्पदत्वमित्यादयः । परमेश्वरस्य भोक्तभोग्ययोरन्तर्यामिरूपेणावस्थानमपरिच्छेद्यज्ञानेश्वर्यवीर्यशक्तितेजःप्रभृत्यनवधिकातिशयासंख्येयकल्याणगुणगणता स्वसंकल्पमत्तस्वेतरसमस्तचिदचिद्वस्तुजातता स्वाभिमतस्वानुरूंपैकरूपदिव्यरूपनिरतिशयविविधानन्तभूषणतेत्यादयः । वेङ्कटनायेन त्वित्थं निरसैङ्कि पदार्थविभाग: द्रव्याद्रव्यप्रभेदीन्मितमुभयविधं तद्विदस्तत्त्वमाहुद्रव्यं द्वेधा विभक्तं जडमजडमिति प्राच्यमव्यक्तकालौ। अन्त्यं प्रत्यक्पराक्च प्रथममुभयथा तत्र जीवेशभेदानित्या भूतिर्मतिश्चेत्यपरमिह जैडामादिमां केचिदाहुः॥ (तत्त्वमु० १ । ६)। द्रव्यं नानादशावत्प्रकृतिरिह गुणैः सत्त्वपूर्वैरुपेता कालोऽब्दाघाकृतिः स्यादणुरवगतिमाञ्जीव ईशोऽन्य आत्मा । संमोक्ता नित्यभूतिस्त्रिगुणसमधिका सत्त्वयुक्ता तथैव ज्ञातु यावभासो मतिरिति कथितं संग्रहाद्रव्यलक्ष्म ।। (तत्त्वमु०१ । ७) इत्यादिना । तत्र चिच्छन्दवाच्या जीवात्मानः परमात्मनः सकाशाद्भिमा नित्याश्च । सथाच श्रुतिः-'द्वा सुपर्णा सयुजा सखाया' (मु०३।१।१।०४।६) इत्यादिका । अत एवोक्तम्-नानात्मानो व्यवस्थातः (वै० सू० ३ । २। २०) इति । तन्नित्यत्वमपि श्रुतिप्रसिद्धम् न जायते म्रियते वा विपश्चिन्नायं भूत्वा भविता वा न भूयः । अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥ (का० २ । १८) इति । १ ग. कर्मावि । २ क. ख. ग. घ. भोज्यभू । ३ क. 'त्वपु । ४ ख. घ. ग्ययोरुभयोर। ग. ग्योभयोर । ५ क. ख. घ.-च. वस्थितिका । ६ ग. कानति । ७ क. वृत्यस्वे । ख. घ. वृत्या स्वे । ८ ख. रूप्यैक । ग. रूपदि। ९ क. ख. घ.-च. निराट । १० क. दाभिमत। ख. घ. दामित° । ग. °दाभिमतमुभयधं । ङ. दायित। ११ घ. अन्ते। १२ क. ख घ. °डा वादिनः के ग. °डामादिकां के । १३ घ. °णुरग° । १४ च. हाद्दिव्य । १५ ग. वा कदाचित्रा। घ. वाऽपि कश्चि। Page #66 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- अपरथा कृतप्रणाशाकृताभ्यागमप्रसङ्गः । अत एवोक्तम्-वीतरागजन्मादर्शनादिति ( न्या० सू० ३ । १ । २५) । तदणुत्वमपि श्रुतिप्रसिद्धम् बालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवः स विज्ञयः स चाऽऽनन्त्याय कल्पते॥ (श्वे०५।९) इति । 'आराममात्रः पुरुषः' (श्वे० ५। ८) " अणुरात्मा चेतसा वेदितव्यः" (मु० ३६१।९) इति च । अचिच्छब्द वाच्यं दृश्यं जडं जगत्रिविधं भोग्य भोगोपकरणभोगायतनभेदात् । तस्य जगतः कर्तोपादानं चेश्वरपदार्थः पुरुषोत्तमो वासुदेवादिपदवेदनीयः । तदप्युक्तम् वासुदेवः परं ब्रह्म कल्याणगुणसंयुतः । भुवनानामुपादानं कर्ता जीवनियामकः ।। इति । स एव वासुदेवः परमकारुणिको भक्तवत्सलः परमपुरुषस्तदुपासकानुगुणतत्तत्फलप्रदानाय स्वलीलावशाद विभवव्यूहसूक्ष्मान्तर्यामिभेदेन पञ्चधाऽवतिष्ठते । तत्रार्चा नाम प्रतिमादयः । रामायवतारो विभवः । व्यूहश्चतुर्विधो वासुदेवसंकर्षणप्रद्युम्नानिरुद्धसंज्ञकः । सूक्ष्मं संपूर्णषड्गुणं वासुदेवाख्यं परं ब्रह्म । गुणा अपहतपाप्मत्वादयः । 'सोऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः' (छा० ८७३ ) इति श्रुतेः । अन्तर्यामी सकलजीवनियामकः । ' य आत्मनि तिष्ठन्नात्मानमन्तरो यमयति । (बृ० मा० पा० ३ । ७ । २२ ) इति श्रुतेः । तत्र पूर्वपूर्वमूर्युपासनया पुरुषा. र्थपरिपन्थिदुरितनिचयक्षये सत्युत्तरोत्तरमूर्युपास्त्यधिकारः । तदुक्तम् वासुदेवः स्वभक्तेषु वात्सल्यात्तत्तदीहितम् । अधिकार्यानुगुण्येन प्रयच्छति फलं बहु ॥ तदर्थ लीलया स्वीयाः पञ्च मूर्तीः करोति वै । प्रतिमादिकमर्चा स्यादवतारास्तु वैभवाः ॥ संकर्षणो वासुदेवः प्रद्युम्नश्वानिरुद्धकः । व्यूहश्चतुर्विधो ज्ञेयः सूक्ष्मं संपूर्णषड्गुणम् ।। १ ख. अन्यथा । २ क. ख. ग. घ. °रुष एषोऽणु । ३ ङ.-च. °क्ष्मं सुपर्ण ष । ४ क. ख. ग. संपूर्ण ष । ५ ग. °ति । अन्तरात्मा स । ६ घ. च. मी अन्तरात्मा स । ७ ग. तक्ष। ८ च. रोत्यसौ । प्र। Page #67 -------------------------------------------------------------------------- ________________ रामानुजदर्शनम् । तदेव वासुदेवाख्यं परं ब्रह्म निगद्यते । अन्तर्यामी जीवसंस्थो जीवप्ररेक ईरितः ॥ य आत्मनीति वेदान्तवाक्यजालैर्निरूपितः।। अर्थोपासनया क्षिप्ते कल्मषेऽधिकृतो भवेत् ॥ विभवोपासने पश्चाद्व्यूहोपास्तौ ततः परम् । सूक्ष्मे तदनु शक्तः स्यादन्तर्यामिणमीक्षितुम् ॥ इति । .. तदुपासनं च पञ्चविधमभिगमनमुपादानामिज्या स्वाध्यायो योग इति श्रीपञ्चरात्रेऽभिहितम् । तत्राभिगमनं नाम देवतास्थानमार्गस्य संमार्जनोपलेपनादि । उपादानं गन्धपुष्पादिपूजासाधनसंपादनम् । इज्या नाम देवतापूजनम् । स्वाध्यायो नामार्थानुसंधानपूर्वको मन्त्रजपो वैष्णवसूक्तस्तोत्रपाठो नामसंकीर्तनं तत्त्वप्रतिपादकशास्त्राभ्यासश्च । योगो नाम देवतानुसंधानम् । - एवमुपासनाकर्मसमुच्चितेन विज्ञानेन द्रष्टदर्शने नष्टे भगवद्भक्तस्य तन्निष्ठस्य भक्तवत्सलः परमकारुणिकः पुरुषोत्तमः स्वयाथात्म्यानुभवानुगुणनिरवधिकानन्दरूपं पुनरावृत्तिरहितं स्वपदं प्रयच्छति । तथाच स्मृतिः मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् । नाऽऽप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ॥ (भ० गी०८।१५) इति । स्वभक्तं वासुदेवोऽपि संप्राप्याऽऽनन्दमक्षयम् । पुनरावृत्तिरहितं स्वीयं धाम प्रयच्छति ॥ इति च । तदेतत्सर्वं हृदि निधाय महोपनिषन्मतावलम्बनेन भगवदोधायनाचार्यकृतां ब्रह्मसूत्रवृत्ति विस्तीर्णामालक्ष्य रामानुजः शारीरकमीमांसाभाष्यमकार्षीत् । तत्राथातो ब्रह्मजिज्ञासा (ब्र० सू० १।१।१ ) इति प्रथममूत्रस्यायमर्थ:-अत्राथशब्दः पूर्वप्रवृत्तकर्माधिगमनानन्तर्यार्थः । तदुक्तं वृत्तिकारण-वृत्तात्कर्माधिगमादनन्तरं ब्राँ विविदिषतीति । अतःशब्दो हेत्वर्थः । अधीतसाङ्गवेदस्या. धिगततदर्थस्य विनश्वरफलात्कर्मणो विरक्तत्वाद्धेनोः स्थिरमोक्षाभिलाषुकस्य तदुपायभूतब्रह्मजिज्ञासा भवति । ब्रह्मशब्देन स्वभावतो निरस्तसमस्तदोषानवधिकातिशयासंख्येयकल्याणगुणः पुरुषोत्तमोऽभिधीयते । एवं च कर्मज्ञानस्य तदनुष्ठानस्य च वैराग्योत्पादनद्वारा चित्तकल्मषापनयद्वारा च ब्रह्मज्ञानं १५. नसाकल्ये कल्पितेऽधि । २ ग. र्गस्थ सं । ३ ख. ग. वृ। ४ ग. 'ह्मजिज्ञासा भवती । Page #68 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेप्रति साधनत्वेन तयोः कार्यकारणत्वेन पूर्वोत्तरमीमांसयोरेकशास्त्रत्वम् । अत एव वृत्तिकारा एकमेवेदं शास्त्रं जैमिनीयेन षोडशलक्षणेनेत्याहुः। ___ कर्मफलस्य क्षयित्वं ब्रह्मज्ञानफलस्य चाक्षयित्वं 'परीक्ष्य लोकान्कर्मचिता. ब्राह्मणो निर्वेदमायानास्त्यकृतः कृतेन ' (मु० १।२।१२) इत्यादिश्रुतिभिरनु. मानार्थापत्त्युपबंहिताभिः प्रत्यपादि । एकैकनिन्दया कर्मविशिष्टस्य ज्ञानस्य मोक्षसाधनत्वं दर्शयति श्रुतिः अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायां रताः ॥ . (बृ. ४ । ४ । १० । ई० ९)। विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीत्वा विद्ययाऽमृतमश्नुते ॥ (ई०११) इत्यादि। तदुक्तं पाश्चरात्ररहस्ये स एव करुणासिन्धुर्भगवान्भक्तवत्सलः । उपासकानुरोधेन भजते मूर्तिपञ्चकम् ॥ तदर्चाविभवव्यूहसूक्ष्मान्तर्यामिसंज्ञकम् । यदाश्रित्यैव चिद्वर्गस्तत्तज्ज्ञेयं प्रपद्यते ॥ पूर्वपूर्वोदितोपास्तिविशेषक्षीणकल्मषः । उत्तरोत्तरमूर्तीनामुपास्त्यधिकृतो भवेत् ॥ एवं ह्यहरहः श्रौतस्मार्तधर्मानुसारतः । उक्तोपासनया पुंसां वासुदेवः प्रसीदति ॥ प्रसन्नात्मा हरिभक्त्या निदिध्यासनरूपया। अविद्यां कर्मसंघातरूपां सद्यो निवर्तयेत् ॥ ततः स्वाभाविकाः पुंसां ते संसारतिरोहिताः । आविर्भवन्ति कल्याणाः सर्वज्ञत्वादयो गुणाः ॥ एवं गुणाः समानाः स्युर्मुक्तानामीश्वरस्य च । सर्वकर्तत्वमेवैकं तेभ्यो देवे विशिष्यते ॥ मुक्तास्तु शेषिणि ब्रह्मण्यशेषे शेषरूपिणः । सर्वानश्नुवते कामान्सह तेन विपश्चिता ॥ इति । तस्मात्तापत्रयातुरैरमृतत्वाय पुरुषोत्तमादिपदवेदनीयं ब्रह्म जिज्ञासितव्यमित्युक्तं भवति । प्रकृतिप्रत्ययौ प्रत्ययार्थप्राधान्येन सह ब्रूत इतः सनोऽन्यत्रेति १च. °धकत्वे । २ °क्षणमित्या । ३ घ. त्ययादिति । ए" । ४ ङ.-च. तदा । ५ ग. 'स्युभक्का । ६ . 'त्ययैः प्र। Page #69 -------------------------------------------------------------------------- ________________ रामनुजदर्शनम् । ४७ वचनबलादिच्छाया इष्यमाणप्रधानत्वादिष्यमाणं ज्ञानमिह विधेयम् । तथ ध्यानोपासनादिशब्दवाच्यं वेदनं न तु वाक्यजन्यमापातज्ञानम् । पदसंदर्भश्रावणो व्युत्पन्नस्य विधानमन्तरेणापि प्राप्तत्वात् । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य:' ( बृ० २/४/५ ) | 'आत्मेत्येवोपासीत ' ( बृ० १/४/७ ) | 'विज्ञाय प्रज्ञां कुर्वीत ' ( वृ० ४/४/२१ ) । ' अनुविध विजानाति' ( छा० ८|१२|६ ) इत्यादिश्रुतिभ्यः । अत्र श्रोतव्य इत्यनुवादः । अध्ययनविधिना साङ्गस्य स्वाध्यायस्य ग्रहणेऽधीतवेदस्य पुरुषस्य प्रयोजनवदर्थदर्शनात्तनिर्णयाय स्वरसत एव श्रवणे प्रवर्तमानतया तस्यं प्राप्तत्वात् । मन्तव्य इति चानुवादः । श्रवणप्रतिष्ठार्थत्वेन मननस्यापि प्राप्तत्वात् । अप्राप्ते शास्त्रमर्थवदिति न्यायात् । ध्यानं च तैलधारावदविच्छिन्न स्मृतिसंतान रूपम् । ध्रुवां स्मृतिः स्मृतिप्रतिलम्भे सर्वग्रन्थीनां विममोक्ष इति ध्रुवायाः स्मृतेरेव मोक्षोपायत्वश्रवणात् । सा च स्मृतिर्दर्शनसमानाकारा । भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे || ( मु० २|२८ ) इत्यनेनैकवाक्यत्वात् । तथा च ' आत्मा वा अरे द्रष्टव्यः ' ( बृ० २/४/५ ) इत्यनेनास्या दर्शनरूपता विधीयते । भवति च भावनाप्रकर्षात्स्मृतेर्दर्शन रूपत्वम् । वाक्यकारेणैतत्सर्वे प्रपञ्चितं वेदनमुपासनं स्यादित्यादिना । तदेव ध्यानं विशिनष्टि श्रुतिः 1 नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्म विवृणुते तनूं स्वाम् || ( कठ० २ । २३ ) इति । प्रियतम एव हि वरणीयो भवति । यथाऽयं प्रियतम आत्मानं प्राप्नोति तथा स्वयमेव भगवान्प्रयतत इति भगवतैवाभिहितम् — तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते । ( भ० गी० १० । १० ) इति । * घं. पु. टि. तस्य श्रवणस्य प्राप्तत्वात् । १ ख. 'र्थज्ञाना' । २ क. ग. तस्याः । ३ ख इत्यनुवादमात्रं श्र° । ४ क. पि अप्रा । ५ क. ख. म. घ. रूपा ध्रुवा । ६ ख. मोक्षहेतुत्व' । ७ क. ख. घ. - च. 'कत्वा ं । ८ ख. ग. घ. 'त्मावृ । Page #70 -------------------------------------------------------------------------- ________________ ४८ सर्वदर्शनसंग्रहे.. पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया ॥ . (भ० गी० ८ । २२ ) इति च । . भक्तिस्तु निरतिशयानंन्दप्रियानन्यप्रयोजनसकलेतरवैतृष्ण्यवज्ज्ञानविशेष एव । तत्सिद्धिश्च विवेकादिभ्यो भवतीति वाक्यकारेणोक्तम्-तल्लब्धिर्विवेकविमोकाभ्यासक्रियाकल्याणानवसादानुद्धर्षेभ्यः संभवान्निर्वचनाचेति । तत्र विवेको नामादुष्टादन्नात्सत्त्वशुद्धिः । अत्र निर्वचनम्-आहारशुद्धः सत्त्वशुद्धिः सत्त्वशुद्धया ध्रुवा स्मृतिरिति । विमोकः कामानभिष्वङ्गः । शान्त उपासीतेति निर्वचनम् । पुनः पुनः संशीलनमभ्यासः । निर्वचनं च स्मार्तमुदाहृतं भाष्यकारेण- सदा तद्भावभावितः ( गी० ८ । ६ ) इति । श्रौतस्मातकर्मानुष्ठानं शक्तितः क्रिया । क्रियावानेष ब्रह्मविदां वरिष्ठ इति निर्वचनम्। सत्यार्जवदयादानादीनि कल्याणानि । सत्येन लभ्यत इत्यादि निर्वचनम् । दैन्यविपर्ययोऽ. नवसादः। 'नायमात्मा बलहीनेन लभ्यः' (मु० ३ । २। ४) इति निर्वचनम् । * तद्विपर्ययजा तुष्टिरुद्धर्षः । तद्विपर्य योऽनुद्धर्षः । शान्तो दान्त इति निर्वचनम् । . तदेवमेवंविधनियमविशेषसमासादितपुरुषोत्तमप्रसादविध्वस्ततमःस्वान्तस्यानन्यप्रयोजनानवरतनिरतिशयप्रियविशदात्मप्रत्ययावभासतापन्नध्यानरूपया भक्त्या पुरुषोत्तमपदं लभ्यत इति सिद्धम् । तदुक्तं यामुनेन-उभयपरिकमितस्वान्तस्यैकान्तिकात्यन्तिकभक्तियोगो लभ्य इति । ज्ञानकर्मयोगसंस्कृतान्त:करणस्येत्यर्थः। किं पुनर्ब्रह्म जिज्ञासितव्यमित्यपेक्षायां लक्षणमुक्तम् ' जन्माद्यस्य यतः । (ब्र० सू० १ । १ । २) इति । जन्मादीति सृष्टिस्थितिप्रलयम् । तद्गुणसं. विज्ञानो बहुव्रीहिः । अस्याचिन्त्यविविधविचित्ररचनस्य नियतदेशकालेभोगब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रस्य जगतो यतो यस्मात्सर्वेश्वरान्निखिलहेयप्रत्य. नीकस्वरूपात्सत्यसंकल्पाद्यनवधिकातिशयासंख्येयकल्याणगुणात्सर्वज्ञात्सर्वशः तेः पुंसः सृष्टिस्थितिपलयाः प्रवर्तन्त इति सूत्रार्थः। इत्यंभूते ब्रह्मणि किं प्रमाणमिति जिज्ञासायां शास्त्रमेव प्रमाणमित्युक्तं * घ. पु. टि.-दैन्यविपर्ययजा । १ ख. शयति । २ क. ग. नप्रि । ३ च. °मानामाभि । ४ घ. °ति च नि । ५ च. 'स्तध्वान्त । ६ क.-टु. यदात्म । ७ च. "त्मकभासतापन्नस्य ध्या । ८ क. ख. ग. घ. स्वातन्यै । ग. लफलभो । १० ग, "कानति, Page #71 -------------------------------------------------------------------------- ________________ रामानुजदर्शनम् । ४९ 'शास्त्रयोनित्वात् ' ( ब्र० सू० १ । १ । ३) इति । शास्त्रं योनिः कारणं . प्रमाणं यस्य तच्छास्त्रयोनि । तस्य भावस्तत्त्वं तस्मात् । ब्रह्मज्ञानकारणत्वाच्छास्त्रस्य तद्योनित्वं ब्रह्मण इत्यर्थः । न च ब्रह्मणः प्रमाणान्तरगम्यत्वं शङ्कितुं शक्यम् । अतीन्द्रियत्वेन प्रत्यक्षस्य तत्र प्रवृत्त्यनुपपत्तेः । नापि महाणेवादिकं सकर्तकं कार्यत्वाद्घटवदित्यनुमानम् । तस्य पूतिकूष्माण्डायमानत्वात् । तल्लक्षणं ब्रह्म ' यतो वा इमानि भूतानि (०२।१।१) इत्यादिवाक्यं प्रतिपादयतीति स्थितम् । यद्यपि ब्रह्म प्रमाणान्तरगोचरतां नावतरति तथाऽपि प्रवृत्तिनिवृत्तिपरत्वाभावे सिद्धरूपं ब्रह्म न शास्त्रं प्रतिपादयितुं प्रभवतीत्येतत्पर्यनुयोगपरिहारायोक्तं ' तत्तु समन्वयात् ' (ब्र० सू० १ । १ । ४) इति । तुशब्दः प्रसक्ता. शङ्काव्यावृत्त्यर्थः । तच्छास्त्रप्रमाणकत्वं ब्रह्मणः संभवत्येव । कुतः । समन्वयात् । परमपुरुषार्थभूतस्यैव ब्रह्मणोऽभिधेयतयाऽन्वयादित्यर्थः । न च प्रवत्तिनिवृत्त्योरन्यतरविरहिणः प्रयोजनशून्यत्वम् । स्वरूपपरेष्वपि पुत्रस्ते जातो नायं सर्प इत्यादिषु हर्षप्राप्तिभयनिवृत्तिरूपप्रयोजनवत्वं दृष्टमेवेति न किंचिदनुपपन्नम् । दिङ्मात्रमत्र प्रदर्शितम् । विस्तरस्त्वाकरादेवावगन्तव्य इति विस्तरभीरुणोदास्यत इति सर्वमनाकुलम् । " इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रामानुजदर्शनम् ।। अथ पूर्णप्रज्ञदर्शनम् ॥ ५ ॥ . तदेतद्रामानुजमतं जीवाणुत्वदासत्ववेदापौरुषेयत्वसिद्धार्थबोधकत्वस्वतःप्रमाणत्वप्रमाणत्रित्वपश्चिरात्रोपजीव्यत्वप्रपञ्चभेदसत्यत्वादिसाम्येऽपि परस्परवि. रुद्धभेदादिपक्षत्रयकक्षीकारण क्षपणकपक्षनिक्षिप्तमित्युपेक्षमाणः 'स आत्मा तत्त्वमसि' (छा० ६ । ८ । ७) इत्यादेर्वेदान्तवाक्यजातस्य भङ्गन्यन्तरेणार्थान्तरपरत्वमुपपाद्य ब्रह्ममीमांसाविवरणव्याजेनाऽऽनन्दतीर्थः प्रस्थानान्तरमास्थिषत । तन्मते हि द्विविधं तत्त्वम् । स्वतन्त्रपरतन्त्रभेदात् । तदुक्तं तत्त्वविवेके-- १क. ख. ग. घ. च. नहि । २ च. पक्षेऽपि । ३ क. ख. घ.-च. र्षभ । ४ क. ख. ग.घ. कर एवा । ५ क. °सत्वे वे । ६ क. ग. पञ्च । ७ ग. त्यादिवेदा । ८ ग. °साव्या । ९ च. रमकार्षीत् । अस्मिन्म ।१० क. ख. घ.-च. 'तन्त्रास्वत । . Page #72 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेस्वतन्त्रं परतन्त्रं च द्विविधं तत्त्वमिष्यते । स्वतन्त्रो भगवान्विष्णुनिदोषोऽशेषसद्गुणः ॥ इति। . ननु सजातीयविजातीयस्वगतनानात्वशून्यं ब्रह्मतत्त्वमिति प्रतिपादकेषु वेदान्तेपु जागरूकेषु कथमशेषसद्गुणत्वं तस्य कथ्यत इति चेन्मैवम् । भेदप्रमापकबहुप्रमाणविरोधेन तेषां तत्र प्रामाण्यानुपपत्तेः । तथाहि- प्रत्यक्षं तावदिदमस्माद्भिन्नमिति नीलपीतादेर्भेदमध्यक्षयति । अथ मन्येथाः-किं प्रत्यक्षं भेदमेवावगाहते किंवा धर्मिप्रतियोगिघटितम् । न प्रथमः । धर्मिप्रतियोगिप्रतिपत्तिमन्तरेण तत्सापेक्षस्य भेदस्यासक्या. ध्यवसायत्वात् । द्वितीयेऽपि धर्मिप्रतियोगिग्रहणपुरःसरं भेदग्रहणमथवा युगपत्तत्सर्वग्रहणम् । न पूः । बुद्धषिरम्य व्यापाराभावात् । अन्योन्याश्रयमसङ्गाच्च । नापि चरमः । कार्यकारणबुद्धयोर्योगपद्याभावात् । धर्मितीतिर्हि भेदप्रत्ययस्य कारणम् । एवं प्रतियोगिप्रतीतिरपि । संनिहितेऽपि धर्मिणि व्यवहितप्रतियोगिज्ञानमन्तरेण भेदस्याज्ञातत्वेनान्वयध्यतिरेकाभ्यां कार्यकारणभावारगमात् । तस्मात्र भेदप्रत्यक्षं सुप्रसरामिति चेतिक वस्तुस्वरूपभेदवादिनं प्रतीमानि दूषणान्युद्घष्यन्ते किंवा धर्मभेदवादिनं प्रति । प्रथमे घोरापराधान्माण्डव्यनिग्रहन्यायापातः । भवदभिधीयमानदूषणानां तदविषयत्वात् । ननु वस्तुस्वरूपस्यैव भेदचे प्रतियोगिसापेक्षत्वं न घटते घटवत् । प्रतियोगिसापेक्ष एव सर्वत्र भेदः प्रथत इति चेन्न । प्रथम सर्वतो विलक्षणतया वस्तुस्वरूपे *ज्ञायमाने +ातियोग्यपेक्षया विशिष्टव्यवहारोपपत्तेः । तथाहि-परिमाणघटितं वस्तुस्वरूपं प्रथममवगम्यते । पश्चात्पति. योगिविशेषापेक्षया हस्त्वं दीर्घमिनि तदेव विशिष्य व्यवहारभाजनं भवति । तदुक्तं विष्णुतत्त्वनिणेये-न च विशेषणविशेष्यतया भेदसिद्धिः। विशेषणविशेष्यभानश्च भेदापेक्षः । धर्मिप्रतियोग्यपेक्षया भेदसिद्धिः। भेदापेक्षं च धर्मिप्रतियोगित्वमित्यन्योन्याश्रयतया भेदैस्यायुक्तिः । पदार्थस्वरूपत्वा दस्य-इत्यादिना। अत एव ___* घ. पु. टि.-ज्ञानविषये । + घ. पु. टि.-जाते सत्यनन्तरमिति शेषः । ४ यतः सर्वतो विश. क्षणतत्तद्रस्तुस्वरूपज्ञानं तत्तद्वस्तुनो विशिष्टव्यवहार कारणमत एवं गवार्थिनो लक्षणगवयति वस्तज्ञानसस्वेऽपि न गोविषयकविशिष्टव्यवहाररूपप्रवृत्यादिः संभवतीत्यर्थः । १ क. ख. घ. च. 'तन्त्रमस्वत । २ ग. 'र्दोषाशे । ३ कै. ख. षषड्गु । ४ख. °धु जा' ५५.-च. 'तीयोऽपि । ६ य. प्रतियोगिप्रतिपत्तिभे । ७ क.ग. ६. च. 'रणं स । ८ घ. त छ । ९ क. चेनैत:सारं स । १० च.--भेदासि । ११ टु.-च. 'दस्य यु। घ. °दस्यायुक्तत्वं Page #73 -------------------------------------------------------------------------- ________________ पूर्णप्रज्ञदर्शनम् । गवार्थिनी गवयदर्शनान प्रवर्तन्ते गोशब्दं च न स्मरन्ति । न च नीरक्षीरादौ । स्वरूपे गृह्यमाणे भेदप्रतिभासोऽपि स्यादिति भणनीयम् । समानाभिहारादिप्रतिबन्धकबलाद्भेदभानव्यवहाराभावोपपत्तेः । तदुक्तम् अतिदूरात्सामीप्यादिन्द्रियघातान्मनोनवस्थानात् । सौम्यायवधानादभिभवात्समानाभिहाराच्च । (सांख्यका०७) इति । अतिदूरागिरिशिखरवर्तितर्वादी, अतिसामीप्यालोचनाञ्जनादौ, इन्द्रियघाताद्विघुदादौ मनोनवस्थानात्कामायुपप्लुतमनस्कस्य स्फीतालोकवानि घटादौ सौक्ष्म्यात्परमावादी व्यवधानात्कुड्योद्यन्तर्हिते, अभिभवादिवा प्रदीपप्रभादौ समानाभिहारानीरक्षीरादौ यथावग्रहणं नास्तीत्यर्थः । भवतु वा धर्मभेदवादस्तथाऽपि न कश्चिद्दोषः । धर्मिप्रतियोगिग्रहणे सति पश्चाघटितभेदग्रहणोपपत्तेः । न च परस्पराश्रयप्रसङ्गः । पराननपेक्ष्य प्रभेदशालिनो वस्तुनो ग्रहणे सति धर्मभेदभानसंभवात् । न च धर्मभेद॑वादे तस्य तस्य भेदस्य भेदान्तरभेद्यत्वेनानवस्था दुरवस्था स्यादित्यास्थेयम् । भेदान्तप्रसक्ती {लाभावात् । भेदभेदिनौ मिन्नाविति व्यवहारादर्शनात् । न चैकदवलेनान्यभेदानुमानम् । * दृष्टान्तभेदाविघातेनोत्याने दोषाभावात् । सोऽयं पिण्यायाचनार्थ गतस्यै खारिकातैलदातृत्वाभ्युपगम इव दृष्टान्तभेदविमर्दे त्वनुत्थानमेव । न हि वरविघाताय कन्योद्वाहः । तस्मान्मूलक्षयाभावादनवस्था नै दोषाय । अनुमानेनापि भेदोऽवसीयते । परमेश्वरो जीवाद्भिन्नः । तं प्रति सेव्यत्वात् । यो यं प्रति सेव्यः स तस्माद्भिन्नः। यथा भृत्याद्राजा । न हि सुख मे स्यादुःखं में न मनागपीति पुरुषार्थमर्थयमानाः पुरुषाः स्थपतिपदं कामयमांनाः सत्कारभाजो भवेयुः । प्रत्युत सर्वानर्थभाजनं भवन्ति । यः स्वस्याऽऽत्मनो हीनत्वं परस्य गुणोत्कर्ष च कथयति स स्तुत्यः प्रीतः स्तावकस्य तस्याभीष्टं प्रयच्छति । तदाह-- * धर्मभेदवति धर्मिणि धर्मभेदसिद्धिबलेन भेदान्तरानुमानं बिमतो धर्मभेदो भेदान्तरभेद्यो भेदत्वाद्धर्मिविशेषणीभूतभेदवदित्यनुमानं दृष्टान्तभेदाविघातकं विघातकं वेति विकल्प्याऽऽद्य निराचष्टेदृष्टान्तेति । द्वितीयं निराचष्टे-दृष्टान्तभेदविमर्दै त्विति । १°पेण गृ । २ क. ग. घ. ड्यान्त । ३ ख. मैवा । ४ क.-टु. °ति ध° । ५ च. "नप्रसङ्गात् । ६ च. °दभानवा । ७ ग. रमस । ८ ख. मूलभा । ९. घ. नाच । न चैतद्वले. नान्यभेदान्तरानु। १० क. ग. न च भे° । ११ क. ख. ग. घ. कपाच । १२ च. 'स्य भौतिकस्य खा। १३ च. न तेषामावहति । अ० । १४ क. ग. मे म । १५. च. मे नाभूदिति । १५ ख. ग. गपि पु। १६ घ. °रुषास्तस्य स्थविष्ठप । १७ च. घ. माना मानस । १. च. दानमानभाजी। १९ घ. जना भवेयुः । यः । २० ग. स्वस्थात्म । Page #74 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेघातयन्ति हि राजानो राजाऽहामति वादिनः। ददत्यखिलमिष्टं च स्वगुणोत्कर्षवादिनाम् ॥ इति । एवं च परमेश्वराभेदतृष्णया विष्णोर्गुणोत्कर्षस्य मृगतृष्णिकासमत्वाभिधानं विपुलकदलीफललिप्सया जिह्वाच्छेदमनुहरति । एतादृशविष्णुविद्वेषणादन्धत. मसप्रवेशप्रसङ्गात् । तदेतत्प्रतिपादितं मध्यमन्दिरेण महाभारततात्पर्यनिर्णये अनादिद्वेषिणो दैत्या विष्णो द्वेषो विवर्धितः । तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् .। (१ । १११)इति । सा च सेवा-अङ्कननामकरणभजनभेदात्रिविधा । तत्रानं नारायणायुधादीनां तद्रूपस्मरणार्थमपेक्षितार्थसिद्धयर्थं च । तथा च शाकल्यसंहितापरिशिष्टम् - . चक्रं बिभर्ति पुरुषोऽभितप्तं बलं देवानाममृतस्य विष्णोः । स याति नाकं दुरितावधूय विशन्ति यद्यतयो वीतरागाः ॥ देवासो येन विधृतेन बाहुना सुदर्शनेन प्रयाँतास्तमायन् ।। येनाङ्किता मनवो लोकसृष्टिं वितन्वन्ति ब्राह्मणास्तद्हन्ति ॥ तद्विष्णोः परमं पदं येन गच्छन्ति लाञ्छिताः।। उरुक्रमस्य चिह्लरङ्किता लोके सुभगा भवामः ॥ इति । . • अतप्ततनून तदामो अश्नुते श्रितास इद्वहन्तस्तत्समासत' (तै० आ० १ । ११ ) इति तैत्तिरीयकोपनिषच्च । स्थानविशेषश्वाऽऽग्नेयपुराणे दर्शितः दक्षिणे तु करे विप्रो बिभृयाच्च सुदर्शनम् । सव्येन शङ्ख बिभृयादिति ब्रह्मविदो विदुः ॥ इति । अन्यत्र चक्रधारणे मन्त्रविशेषश्च दर्शित: सुदर्शन महाज्वाल कोटिसूर्यसमप्रभ । अज्ञानान्धस्य मे नित्यं विष्णोर्मार्ग प्रदर्शय ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे । नमितः सर्वदेवैश्च पाञ्चजन्य नमोऽस्तु ते ।। इति । नामकरणं पुत्रादीनां केशवादिनाम्ना व्यवहारः सर्वदा तन्नामानुस्मरणार्थम् । भजनं दशविधम-वाचा सत्यं हितं प्रियं स्वाध्यायः । कायेन दानं १ घ. यातयन्ति । च. विघातयन्ति । २ घ. 'दिनम् । द°। ३ घ. 'दिनम् । इ । ४ च. विफल । ५ घ. °सति । ६ ख. 'तं मेध्य । ७ घ. विष्णोर्टेषविवृद्धितः। ८ क. ख. ग. पातयन्ति । ९ ग. "नन्धविनिश्चया इ°। १० ग. थे त°। ११ ङ. वाश्च ये । १२ घ. दर्शेन । १३ च. याताः स्वर्गमा । १४ घ. येनाऽऽग । १५ च. त्र मृद्धारणे । १६ ख. घ. च. निर्मितः। Page #75 -------------------------------------------------------------------------- ________________ पूर्णमज्ञदर्शनम् । परित्राणं परिरक्षणम् । मनसा दया स्पृहा श्रद्धा चेति । अत्रैकैकं निष्पाद्य नारायणे: समर्पणं भजनम् । तदुक्तम् अडूनं नामकरणं भजनं दशधा च तेत् । इति । एवं ज्ञेयत्वादिनाऽपि भेदोऽनुमातव्यः । तथा श्रुत्याऽपि भेदोऽवगम्यः । सत्यमेनमनु विश्वे मदन्ति राति देवस्य गृणतो मघोनः । सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये | सत्य आत्मा सत्यो जीवः सत्यं भिंदा सत्यं भिदा सत्यं भिदा मैवारुण्यो मैवारुवण्यो मैवारुवण्य इति मोक्षानन्दभेदप्रतिपादकश्रुतिभ्यः । इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः । सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ॥ ( भ० गी० १४ । २ ) । जगव्यापारर्वेर्जम् । ' प्रकरणादसंनिहितत्वाच्च ' ( ब्र० सू० ४ । ४ । १७१८ ) इत्यादिभ्यश्च । न च ' ब्रह्म वेद ब्रह्मैव भवति ' ( मु० ३/२/९ ) इति श्रुतिबलाज्जीवस्य पारमैर्श्वर्य शक्यशङ्कम् । संपूज्य ब्राह्मणं भक्त्या शूद्रोऽपि ब्राह्मणो भवेत् । इतिवदबृंहितो भवतीत्यर्थपरत्वात् । ननु - प्रपञ्चो यदि विद्येत निवर्तेत न संशयः । मायामात्रमिदं द्वैतमद्वैतं परमार्थतः ॥ ( मा० का ० १।१७ ) इति वचनाद्वैतस्य कल्पितत्वमवगम्यत इति चेत्सत्यम् । भावमनभिसंधायाभिधानात् । तथा हि-यद्ययमुत्पद्येत तर्हि निवर्तेत न संशयः । तस्मादनादि - रेवायं प्रकृष्टः पञ्चविधो भेदप्रपञ्चः । न चायमविद्यमानः । मायामात्रत्वात् । मायेति भगवदिच्छोच्यते । 1 महामायेत्यविद्यति नियतिर्मोहिनीति च । प्रकृतिर्वासनेत्येव तवेच्छाऽनन्त कथ्यते ॥ प्रकृतिः प्रकृष्ट करणाद्वासना वासयेद्यतः । अ इत्युक्तो हरिस्तस्य मायाऽविद्येति संज्ञिता । मायेत्युक्ता प्रकृष्टत्वात्प्रकृष्टे हि मयाभिधा । विष्णोः प्रज्ञप्तिरेवैका शब्दैरेतैरुदीर्यते ॥ प्रज्ञप्तिरूपो हि हरिः सा च स्वानन्दलक्षणा || १ क. ग. घ. परित्राणनं । २ क. ख. ग. सा । इ° । ३ च. 'नन्तरमे । ४ च. 'वर्ज्यम् । प्रभुहितो भ° । ५ ङ. च. प्रभुकरणासं । ६ घ श्वर्यमशक्य' । ७ क. ग. 'त्पद्यते त' । ८ क. ख. ग. "मानमा° । ९ क. ख. ग. 'वत्संज्ञोच्य' । च. 'वत्प्रज्ञोच्य । १० ख त्वदिच्छा। Page #76 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेइत्यादिवचननिचयमामाण्यवलात् । सैव प्रज्ञा मानत्राणकी च यस्य तन्माया. मात्रम् । ततश्च परमेश्वरेण ज्ञातत्वादक्षितवाच न द्वैत भ्रान्तिकल्पितम् । न हघिरे सर्वस्य भ्रान्तिः संभवति । विशेषादर्शननिबन्धनत्वाद्धान्तेः । तर्हि तद्यपदेशः कथमित्यत्रोत्तरमद्वैतं परमार्थत इति । परमार्थत इति परमार्थापेक्षया। तेन सर्वस्मादुत्तमस्य विष्णुतत्त्वस्य समाभ्यधिकशून्यत्वमुक्तं भवति । तथा च परमा श्रुतिः जीवेश्वरभिदा चैव जडेश्वरभिदा तथा। जीवभेदो मिथश्चैव जडजीवभिदा तथा ॥ मिथश्च जडभेदो य: प्रपश्चो भेदपञ्चकः । सोऽयं सत्योऽप्यनादिश्व सादिश्चन्नाशमाप्नुयात् ॥ न च नाशं प्रयात्येष न चासौ भ्रान्तिकल्पितः । कल्पितश्चेन्निवर्तेत न चासौ विनिवर्तते ।। द्वैतं न विद्यत इति तस्मादज्ञानिनां मतम् । मतं हि ज्ञानिनामेतन्मितं जातं हि विष्णुना ॥ तस्मान्मात्रमिति प्रोक्तं परमो हरिरेव तु ॥ इत्यादि । तस्माद्विष्णोः सर्वोत्कर्ष एव तात्पर्य सर्वागमानाम् । एतदेवाभिसंधाया. भिहितं भगवता द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभत्र्यव्यय ईश्वरः ।। यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ यो मामेवमसंमूढो जानाति पुरुषोत्तमम् । स सर्वविद्भजति मां सर्वभावेन भारत । इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । एतबुद्ध्वा बुद्धिमानस्यात्कृतकृत्यश्च भारत ।। (भ० गी० १५ । १६–२० ) इनि । १ ख. दिलक्षणव । २ ख. °माण्यात् । ३ घ. मात्रं त्रा। ४ घ. तन्मतं । Page #77 -------------------------------------------------------------------------- ________________ पूर्णप्रज्ञर्दशनम्। महावराहेऽपि मुख्यं च सर्ववेदानां तात्पर्य श्रीपतौ परे । उत्कर्षे तु तदन्यत्र तात्पर्य स्यादवान्तरम् ॥ इति । मुक्तं च विष्णोः सर्वोत्कर्षे महातात्पर्यम् । मोक्षो हि सर्वपुरुषार्थोत्तमः । धमार्थकामाः सर्वेऽपि न नित्या मोक्ष एव हि । नित्यस्तस्मात्तदाय यतेत मतिमान्नरः ॥ इति भाल्लवेयश्रुतेः। मोक्षश्च विष्णुप्रसादमन्तरेण न लभ्यते । यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नौपरेण । नारायणोऽसौ परमो विचिन्त्यो मुमुक्षुभिः कर्मपाशादमुप्मात् ॥ इति नारायणश्रुतेः। तस्मिन्प्रसन्ने किमिहास्त्यलभ्यं सर्वार्थकामेरलमल्पकास्ते । समाश्रिताड्रह्मतरोरनन्तानिःसंशयं मुक्तिफलं प्रयान्ति ॥ (१ । १७ । ९१) इति विष्णुपुराणोक्तेश्च । प्रसादश्च गुणोत्कर्षज्ञानादेव नाभेदज्ञानादित्युक्तम् । न च तत्त्वमस्यादितादात्म्यव्याकोपः । श्रुतितात्पर्यापरिज्ञानविजृम्भणात् । आह नित्यपरोक्षं तु तच्छब्दो ह्यविशेषतः। त्वंशब्दश्चापरोक्षार्थ तयोरैक्यं कथं भवेत् ॥ आदित्यो यूप इति षत्सादृश्यार्थी तु सा श्रुतिः ।। इति । तथाच परमा श्रुतिः जीवस्य परमैक्यं तु बुद्धिसारूप्यमेव तु । एक स्थाननिवेशो वा व्यक्तिस्थानमपेक्ष्य सः ।। न स्वरूपैकता तस्य मुक्तस्यापि विरूपतः । स्वातन्यपूर्णतेऽल्पत्वपारतन्त्र्ये विरूपते ॥ इति । अथवा तत्त्वमसीत्यत्र स एवाऽऽत्मा स्वातन्त्र्यादिगुणोपेतत्वात् । अतत्त्व मसि त्वं तन भवसि तद्रहितत्वादित्येकत्वमतिशयेन निराकृतम् । तदाह १च. पार्थेषूत्त । २ च. 'मास्वरू । ३ घ. °पान्मुक्तस्तस्मा । ४ च. स्मात्प्रसादान्मु । ५ क.-. नावरे सुसनाराधयन्तोऽसौ । ६ च. भ्यं धर्मार्थ । ७ क. . ङ. प. शोषितः । क. ग.त् । त° । ख. त् । तत। Page #78 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- अतत्त्वमिति वा छेदस्तेनैक्यं सुनिराकृतम् । इति । तस्मादृष्टान्तनवकेऽपि स यथा शकुनिः सूत्रेण प्रबद्धः ( छा० ६। ८।२) इत्यादिना भेद एव दृष्टान्ताभिधानान्नायमभेदोपदेश इति तत्त्ववादरहस्यम् । तथाच महोपनिषत् यथा पक्षी च सूत्रं च नानावृक्षरसा यथा । यथा नद्यः समुद्राश्च यथा जीवमहीरुहो ।। यथाऽणिमा च धाना च शुद्धोदलवणे यथा । चोरापहार्यों च यथा यथा पुंविषयावपि । यथाऽज्ञो जीवसंघश्च प्राणादेश्च नियामकः । तथा जीवेश्वरौ भिन्नौ सर्वदैव विलक्षणौ ॥ तथाऽपि सूक्ष्मरूपत्वान्न जीवात्परमो हरिः। भेदेन मन्ददृष्टीनां दृश्यते प्रेरकोऽपि सन् ।। लक्षण्यं तयोर्ज्ञात्वा मुच्यते बध्यतेऽन्यथा ॥ इति । ब्रह्मा शिवः सुराद्याश्च शरीरक्षरणाक्षराः । लक्ष्मीरक्षरदेहत्वादक्षरा तत्परो हरिः॥ स्वातन्त्र्यशक्तिविज्ञानसुखाचैरखिलैगुणैः । निःसीमत्वेन ते सर्वे तदशाः सर्वदैव च ॥ इति । विष्णुं सर्वगुणैः पूर्ण ज्ञात्वा संसारवर्जितः । निर्दुःखानन्दभुङ्नित्यं तत्समीपे स मोदते ॥ मुक्तानां चाऽऽयो विष्णुरधिकोऽधिपतिस्तथा । तदशा एव ते सर्वे सर्वदेव स ईश्वरः ।। इति च । एकविज्ञानेन सर्वविज्ञानं च प्रधानत्वकारणत्वादिना युज्यते न तु सर्वमिध्यात्वेन । न हि सत्यज्ञानेन मिथ्याज्ञानं संभवति । यथा प्रधानपुरुषाणां ज्ञानाज्ञानाभ्यां ग्रामो ज्ञातोऽज्ञात इत्येवमादिव्यपदेशो दृष्ट एव । यथा च कारणे पितरि ज्ञाते जानात्यस्य पुत्रमिति । यथा वा सादृश्यादेकस्त्रीज्ञानादन्यस्त्रीज्ञानमिति । तदेव सादृश्यमत्रापि विवक्षितं यथा सोम्यैकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञातं स्यादित्यादिना । अन्यथा सोम्यकेन मृत्पिण्डेन सर्व मृन्मयं विज्ञात. मित्यत्रैकपिण्डशब्दो वृथा प्रसज्येयाताम् । मृदा विज्ञातयेत्येतावतैव वाक्यस्य १.- तत्तस्मा । २ क.ग. ङ च. 'ण ब° । ३ क घ.-च. 'नायाय । ४ ख. 'न भेदहः । ५.ख.. वैदैव वा । इ । क. ग. .-च. वदेवताः । इ । ६ च. ज्ञात आहूत । ७ च. 'नाम्यस्य । ८ ख. घ. °ब्दौ न प्रयुज्येया। Page #79 -------------------------------------------------------------------------- ________________ पूर्णमज्ञदर्शनम् । 3 पूर्णत्वात् । न च वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमित्येतत्कार्यस्य मिथ्यात्वमाचष्ट इत्येष्टव्यम् । वचारम्भणं विकारो यस्य तदविकृतं नित्यं नामधेयं मृत्तिकेत्यादिकमित्येतद्वचनं सत्यमित्यर्थस्य स्वीकारात् । अवस्था नामधेयमितिशब्दयोर्वैयर्थ्यं प्रसज्येत । अतो न कुत्रापि जगतो मिथ्यात्वसिद्धिः । ५७ किंच प्रपञ्चो मिथ्येत्यत्र मिथ्यात्वं तथ्यमतथ्यं वा । प्रथम संत्याद्वैतभङ्गप्रसङ्गः । चरमे प्रपश्च सत्यत्वापातः । नन्वनित्यत्वं नित्यमनित्यं वा । उभयथाऽप्यनुपपत्तिरित्याक्षेपवदयमपि निर्त्य समजातिभेदः स्यात् । तदुक्तं न्यायनिर्माणवेधसा - नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्य समः । (गौ० सू० ५ । १ । ३५ ) इति । तार्किकरक्षायां च - धर्मस्य तदतदूपविकल्पानुपपतितः । धर्मिणस्तद्विशिष्टत्व भङ्गने नित्यसमो भवेत् ॥ इति । १२ 93 अस्याः संज्ञाया उपलक्षणत्वमभिप्रेत्याभिहितं प्रबोधसिद्धावन्वर्थित्वात्तू परञ्जकंधर्मसमेति । तस्मादसदुत्तरमेतदिति चेदशिक्षितत्रासनमेतत् । दुष्टत्वमूलानिरूणात् । तद्विविधं साधारणमसाधारणं च । तत्राऽऽयं स्वव्याघातकम् । द्वितीयं त्रिविधं • युक्तान्ही त्वमयुक्ताङ्गाधिकत्वमविषयवृत्तित्वं चेति । तत्र साधारणमसंभावि तमेव । उक्तस्याऽऽक्षेपरूप स्वात्मव्यापनानुपलम्भात् । एवमसाधारणमपि । घटस्य नास्तितयां नास्तितोक्तावस्तित्ववत्य कृते ऽप्युपपत्तेः । ननु प्रपश्वस्य मिध्यात्वमभ्युपेयते नासत्त्वमिति चेत्तदेतत्सोऽयं शिरश्छेदेऽपि शतं न ददाति विंशतिपञ्चकं तु प्रयच्छतीति शाकटिकवृत्तान्तमनुहरेत् । मिथ्यात्वासत्त्वयोः पर्यायस्वादित्यलमतिमँपञ्चेन । सत्राथातो ब्रह्म जिज्ञासेति ( ब्र० स० १।१।१) प्रथमसूत्रस्यायमर्थः । तत्राथ * घ. पु. टि. अयमपि मिथ्यात्वरूपधर्मोऽपि । १ क. ख. ग. वाचनमार' । २ घ चावचनमरम्भगं रम्भणं विकारो न रम्भणमरम्भणं 'तथा च विंकारः अ' । ३ ख. ग. 'रोऽविक्कू' । ४ क. ख. ग. घ. 'कमेवेत्ये' । ५ ख. °पि मि' । ६ घ. पक्षे सत्याद्वैतभङ्गः । ७ क. सत्यद्वैतभङ्गः । ८ ग. 'यम' । ९ ख नित्यं भ° । १० कं. ख. घ. -च. 'नित्यनि । ११६. व. 'स्मात्सदु° । १२क. ख. ग. घ. °क्षितेत्रा । १३ क. ख. ' विधमा । १४ ग. 'नम' । १५ ङ. 'स्तितो' । १६ क. ख. ग. घ. 'ताया ना । १७ च. प्रसङ्गेन । Page #80 -------------------------------------------------------------------------- ________________ ५८ सर्वदर्शनसंग्रहेशब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च स्त्री क्रियते । अतःशब्दो हेत्वर्थः । तदुक्त गारुडे अथातःशब्द पूर्वाणि सत्राणि निखिलान्यपि । भारभ्यन्ते नियत्यैव तकिमत्र नियामकम् ।। कश्वार्थस्तु तपोर्विद्वन्कथमुत्तमता तयोः । एतदाख्याहि मे ब्रह्मन्यथा ज्ञास्यामि तत्त्वतः ।। एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः । आनन्तर्याधिकारे च मङ्गलार्थे तथैव च ॥ अथशब्दस्त्वतःशब्दो हेत्वर्थे समुदीरितः ॥ इति ।. यतो नारायणप्रसादमन्तरेण न मोक्षो लभ्यते प्रसादश्च ज्ञानमन्तरेणातो ब्रह्मजिज्ञासा कर्तव्योति सिद्धम् । जिज्ञास्यब्रह्मणो लक्षणमुक्तम्-जन्मायस्य यतः (ब्र० सू० १।१।२) इति । सृष्टिस्थित्यादि यतो भवति तद्ब्रह्मेति वाक्यार्थः । तथा च स्कान्दं वचः उत्पत्तिस्थितिसंहारा नियतिनिमावृतिः । बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट् ॥ इति। यतो वा इमानीत्यादिश्रुतिभ्यश्च ।। तत्र प्रमाणमप्युक्तम् - शास्त्रयोनित्वात् (ब्र० स० १११॥३) इति । नावेद. विन्मनुते तं बृहन्तम् (त० ब्रा०३ । १२।९।७) तं त्वौपनिषदम् (बृ. ३।९।२६) इत्यादिश्रुतिभ्यस्तस्याऽऽनुमानिकत्वं निराक्रियते । न चानुमानस्य स्वातन्त्र्येण मामाण्यमस्ति । तदुक्तं को श्रुतिसाहाय्यरहितमनुमानं न कुत्राचेत् । निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च ॥ श्रुतिस्मृतिसहायं यत्प्रमाणान्तरमुत्तमम् । प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा ॥ इति । शास्त्रस्वरुपमुक्तं स्कान्दे ऋग्यजुः सामार्वा च भारतं पाश्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥ . यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवम तत् ॥ इति । १क.-ग. ङ. व. रभेत । २ क.--. ङ. च. विद्वान्क । ३ च. 'त्तरता। Page #81 -------------------------------------------------------------------------- ________________ ५९ पूर्णप्रज्ञदर्शनम् । तदनेनानन्यलभ्यः शास्त्रार्थ इति न्यायेन भेदस्य प्राप्तत्वेन तत्रं न तात्पर्य किंत्वन एव वेदवाक्यानां तात्पर्यमित्यदैतंत्रादिनां प्रत्याशा प्रतिक्षिप्ता । अनुमानादीश्वरस्थ सिद्धयभावेन तद्भदस्यापि ततः सिद्धयभावात् । तस्मान भेदानुवादकत्वमिति तत्परत्वमवगम्यते । अत एवोक्तम् सदागमैकविज्ञेयं समतीतक्षराक्षरम् । नारायणं र.दा वन्दे मर्दोषाशेषसद्गुणम् ॥ (वि०त०१ )इति । शास्त्रस्य तत्र प्र.माण्यमुपपादितम्-तत्तु समन्वयात् (ब्र० मू०१।१ । ४) इति । समन्वय उपक्रमादिलिङ्गम् । तदुक्तं बृहत्संहितायाम् उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ इति । एवं वेदान्ततात्पर्यवशात्तदेव ब्रह्म शास्त्रगम्यमित्युक्तं भवति । दिमात्रमत्र प्रादर्शि । शिष्टमानन्द तीर्थभाष्य व्याख्यानादौ द्रष्टव्यम् । ग्रन्थबहुत्वाभियो. परम्यते। 'एनच्च रहस्य पूर्णप्रशेन मध्यमन्दिरण वायोस्तृतीयावतारमन्पेन निरूपिता - प्रथमस्तु हनूमानस्याद्वितीयो भीम एव च । पूर्णप्रशस्तृतीयश्च भगवत्कार्यसाधकः ॥ इति । ए दे भिमेत्य तत्र तत्र प्रन्थसमाप्त विदं पधं लिख्यते यस्य त्रीण्युदितानि देदवचने दिव्यानि रूपाण्यलं षट् तदर्शतमित्थमेव निहितं वेदस्यं भगों महत्। .. वायो रामवचीनयं प्रथमकं प्रक्षो द्वितीयं वपु. मध्वो यस्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ (म० भा० ता० ३२ । १८१)। एतत्पद्यार्थस्तु ' बळित्या तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतोऽजनि' (ऋ० सं० म० १ ० १४१ ) इत्यादिश्रुतिपर्यालोचनयाऽवगम्यत इति । तस्मात्सर्वस्य शास्त्रस्य विष्णुतत्त्वं सर्वोत्तममित्यत्र तात्पर्यमिति सर्व निरवद्यम् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शनम् ।। ==== * घ. पु. टि-शास्त्रस्य । १ ग. त्र ता । २ क.-ङ. 'तप्र । ३ ख. न तद्भेदा । ४ क. ख. घ. मेध्य' । ५ घ: "न्दिरमपुत्रेण । ६ ख. °स्य मार्गे म । ग. 'स्य गर्भो म । क, घ,-ड. रय गर्भे महः । ७ क.-. वृक्षो । ८ च. केशव । ९ च. मिति नियूंढम् । Page #82 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेअथ नकुलीशपाशुफ्तदर्शनम् ॥ ६ ॥ .. तदेतद्वैष्णवमतं दासत्वादिपदवेदनीयं परतन्त्रत्वं दुःखावहत्वाम दुःखान्तादीप्सितास्पदमित्यरोचयमानाः पारमैश्वर्यं कामयमानाः पराभिमता मुक्ता न भवन्ति परतन्त्रत्वात् , पारमैश्वर्यरहितत्वादस्मदादिवत् , मुक्तात्मानश्च परमेश्वरगुणसंबन्धिनः पुरुषन्वे सति समस्त दुःखैबीजविधुरत्वात्परमेश्वरवत्- इत्याउनु मानं प्रमाण प्रतिपद्यमानाः केचन माहेश्वराः परमपुरुषार्थसाधनं पश्चार्थप्रपश्चन: परं पाशुपत शास्त्रमाश्रयन्ते । तत्रेदमादिसूत्रम्-अथातः पशुपतेः पाशुपतयोगविधिं व्याख्यास्याम इति। अस्याः -अत्राथशब्दः पूर्वप्रकृतापेक्षः । पूर्वप्रकृतश्च गुरुं प्रति शिपास्य प्रश्नः । गुरुस्वरूपं गणकारिकायां निरूपितम् पञ्चकास्त्वष्ट विज्ञेया गणश्चैकस्त्रिकात्मकः । वेत्ता नगणस्यास्य संस्कर्ता गुरुरुच्यते ॥ इति । ... लाभा मला उपायाश्च देशावस्थाविशुद्धयः । . दीक्षाकारिबलान्यष्टौ पञ्चकास्त्रीणि वृत्तयः ।। इति । तिस्रो वृत्तय इति प्रयोक्तव्ये त्रीणि वृत्तय इति च्छान्दसः प्रयोग. . ... विधीयमानमुपायफलं लाभः । ज्ञानतपानित्यत्वस्थितिशुद्धिभेदात्पश्चविधः । . तदाह हरदत्ताचार्यः ज्ञानं तपोऽथ नित्यत्वं स्थितिः शुद्धिश्च पश्चमम् । इति । आत्माश्रितो दुष्टभावो मलः । स मिथ्याज्ञानादिभेदात्पश्चविधः। तदप्यार मिथ्याज्ञानमधर्मश्च सक्तिहेतुश्च्युतिस्तथा। पशुत्वमलं पञ्चैते तन्त्रे हेया विविक्तितः ॥ इति । साधकस्य शुद्धिहेतुरुपायो वासचर्यादिभेदात्पञ्चविधः । तदप्याह वासचर्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा । १च. °मतरीत्या दा।२ ग. °नीयपरतन्त्रं दुः।३ क.-टु न्त्रदुः१४ च."हत्वं न दुःखान्तादिपदास्पदमि । ५ क. ग. घ. 'नाः पर। ६ घ. 'भिका मु । ङ. 'भिहता। ७ क. ग. महेश्वराः । ८ क. ग.-च. धनप । ९ ङ. 'तयाग । १० ग. ° गुण । ११ क.-. °कत्रिरात्म। १२ ख. °वगुण । १३ क. ङः-च. पोदेवनि । ग. पोऽथ नि। १४ च. ह- ज्ञानं धर्मश्च नित्यत्वं स्थितिः सिद्धिश्च पञ्चममिति । प० । १५ च. तन्त्रभेदा विवर्जिता इति । १६ च. धनस्य शुद्धिवृद्धिहे। Page #83 -------------------------------------------------------------------------- ________________ नकुलीशपाशुपतदर्शनम् । अंपत्तिश्चेति लाभानामुपायाः पञ्च निश्चिताः ॥ इति । येनानुसंधानपूर्वकं ज्ञानतपोवृद्धी प्रामोति स देशी गुरुजनादिः । यदाह गुरुजनो गुहादेशः श्मशानं रुद्र एव च । इति । आ लाभप्राप्तेरेकैमर्यादावस्थितस्य यदवस्थानं साऽवस्था व्यक्तादिविशेषेण विशिष्टा । तदुक्तम् ध्यक्ताऽव्यक्ता जया दानं निष्ठा चैव हि पञ्चमम् । इति । मिथ्याज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः । सा प्रतियोगिभेदात्पञ्चविधा । अज्ञानस्याप्यधर्मस्य हानिः सङ्गकरस्य च । न्युतीनेः पशुत्वस्य शुद्धिः पश्वविधा स्मृता ।। इति । दीक्षाकारिपञ्चकं चोक्तम् द्रव्यं कालः क्रिया मूर्तिगुरुश्चैव हि पञ्चमः । इति । : बलपश्चकं च-गुरुभक्तिः प्रसादश्च मतेद्वजयस्तथा । . धर्मश्चैवाप्रमादश्च बलं पञ्चविधं स्मृतम् ॥ इति । पश्चमललघूकरणाथेमागमाविरोधिनोऽन्नार्जनोपाया वृत्तयो भक्ष्योत्सृष्टयः थालब्धाभिधा इति । शेषमशेषमाकर एवावगन्तव्यम् । __ अतिःशब्देन दुःखान्तस्य प्रतिपादनम् । आध्यात्मिकादिदुःखत्रयव्यपो: हप्रश्नार्थत्वात्तस्य । पशुशब्देन कार्यस्य । परतन्त्रवचनत्वात्तस्य । पतिशब्देन कारणस्य । ईश्वरः पतिरीशितेति जगत्कारणीभूतेश्वरवचनत्वात्तस्य । योगविधी तु प्रसिद्धौ । ___ तत्र दुःखान्तो द्विविधः- अनात्मकः सात्मकश्चेति । तत्रानात्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । सात्मकस्तु दृक्रियाशक्तिलक्षणमैश्वर्यम् । तत्र हक्शक्तिरेकाऽपि विषयभेदात्पञ्चविधोपचर्यते । दर्शनं. श्रवणं मननं विज्ञानं सर्वज्ञत्वं चेति । तत्र सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पर्शादिविषयं ज्ञानं दर्शनम् । अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम् । समस्तचिन्ताविषयं सिद्धिज्ञानं मननम् । निरवशेषशास्त्रविषयं ग्रन्थतोऽर्थतश्च सिद्धिज्ञानं विज्ञानम् । १ क.-ग. ङ. च. प्रतिपत्तिश्च ला । २ च. 'नार्थेन साधकः शुद्धिवृ। ३ क.-.'कत. मादौ य । ४ ङ.-च. जपादा । ५ च. तु पञ्चमीति । ६ क.-ङ. 'प्यसङ्गस्य । ७ ग. ह.-च. च्युतिौं । ८ क.--. °णार्थ मानामानवि । ९ क.-ग.-ङ, च. 'आथश।१० क.-ङ. खव्य। ११ च. °स्य तत्र प°१२ च. °स्तु दुःखक्रि ।१३ ङ. °क्तिक्ष। च. "क्तिबरलक्ष । १४ घ, ङ. यत्र। Page #84 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- स्वशास्त्रं येनोच्यते । उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतश्च तत्व व्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वमित्येषा धीशक्तिः। क्रियाशक्तिरेकाऽपि त्रिविधोपचर्यते । *मनोजवित्वं कामरूपित्वं विकरणधर्मित्वं चेति । तत्र निरतिशयशीघ्रकारित्वं मनोजवित्वम् । कर्मादिनिरपेक्षस्य स्वेच्छयैवानन्तसलक्षणविलक्षणसरूपकरणाधिष्ठातृत्वं कामरूपित्वम् । उपसंहृतकरणस्यापि निरतिशयैश्वर्यसंब. धित्वं विकरणधर्मित्वमित्येषा क्रियाशक्तिः । __ अस्वतन्त्रं सर्व कार्यम् । तत्रिविधं विद्या कला पशुश्चेति । एतेषां ज्ञानात्संशयादिनिवृत्तिः । तत्र पशुगुणो विद्या । साऽपि द्विविधा-बोधाबोधस्वभावभेदात् । बोधस्वभावा विवेकाविवेकप्रत्तिभेदाद्विविधा । सा चित्तमित्युच्यते । चित्तेन हि सर्वः प्राणी बोधात्मकप्रकाशानुगृहीतं सामान्येन विवेचितमविवेचित चार्थ चेतयत इति । तत्र विवेकप्रवृत्तिः प्रमाणमात्रव्यङ्गया। पश्वर्थधर्माधर्मिका पुनर. बोधात्मिका विद्या । चेतनपरतन्त्रत्वे सत्यचेतना कला । साऽपि द्विविधाकार्याख्या कारणाख्या चेति । तत्र कार्याख्या दशविधा-पृथिव्यादीनि पञ्च तत्त्वानि, रूपादयः पञ्च गुणाश्चेति । कारणाख्या त्रयोदशविधा-ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकम् , अध्यवसायाभिमानसंकल्पाभिवृत्तिभेदाढुद्धयहंकारमनोलक्षणमन्तःकरणत्रयं चेति । पशुत्वसंबन्धी पशुः । सोऽपि द्विविधःसाञ्जनो निरञ्जनश्चेति । तत्र साञ्जनः शरीरेन्द्रियसंबन्धी । निरञ्जनस्तु द्रहितः । तत्प्रपञ्चस्तु पश्चार्यभाष्यदीपिकादौ द्रष्टव्यः। समस्तसृष्टिसंहारानुग्रहकारि कारणम् । तस्यैकस्यापि गुणकर्मभेदापेक्षया विभाग उक्तः पतिः सौद्य इत्यादिना । तत्र पतित्वं निरतिशय हक्क्रयाशक्तिमत्त्वं तेनैश्वर्येण नित्यसंबन्धित्वम् । आयत्वमनागन्तुकैश्वर्यसंबन्धित्वमित्यादर्शकारादिभिस्तीर्थकरैर्निरूपितम् । * घ. पुस्तके मनोजयित्वमित्याप । १च. विस्तार । २ क.--. विक्रमण । ३ च. °तकार । ४ क.-ङ. विक्रमण । ५ च. 'तिः शब्दस्वरूपं तत् । यदस्व । ६ क.-ङ. °ति । त° । ७ घ. दाद्विधा । ८ च. °न सर्वसंमतं वि' । ९ ङ. 'चितश्चार्थे । १० च. लक्ष्यम । ११ च. तत्संबन्धहीनः । १२ च. मवि । १३ च. सान्ना इ । १४ क. 'शयिह । ग. शयिकाक्रि । १५ घ. शक्तिः सत्वं । क. ग. शक्ति. सत्त्वं । १६ च. यविभवसंपन्नं तत्संब। Page #85 -------------------------------------------------------------------------- ________________ नकुलीशपाशुपतदर्शनम् । चित्तद्वारेणाऽऽत्मेश्वरसंबन्धहेतुर्योगः । स च द्विविधः-बि.यालक्षणः क्रियोपरमलक्षणश्चति । तत्र जपध्यानादिरूपः क्रियालक्षणः । क्रियोपरमलक्षणस्तु निष्ठासंविद्गत्यादिसंज्ञितः। धर्मार्थसाधकव्यापारो विधिः । स च द्विविधः-प्रधानभूतो गुणभूतश्च । तत्र प्रधानभूतः साक्ष द्धमहेतुश्चर्या । सा द्विविधा-व्रतं द्वाराणि चेति । तत्र भस्मस्नानशयनोपहारजपप्रदक्षिणानि व्रतम् । तदुक्तं भगवता नकुलीशेन-भस्मना त्रिषवणं स्नायीत भस्मनि शयीतेति । अत्रोपहारो नियमः । स च षडङ्गः । तदुक्तं सूत्रकारेण-हसितगीतनृत्यहुडुकारनमस्कारजप्यषडङ्गोपहारेणोपतिष्ठतेति । तत्र हसितं नाम कण्ठोष्ठपुटविस्फूर्जनपुरःसरमहहहेत्यट्टहासः । गीतं गान्धर्वशास्त्रसम. यानुसारेण महेश्वरसंबन्धिगुणधर्मादिनिमित्तानां चितनम् । नाट्यमपि नाट्यशास्त्रानुसारेण हस्तपादादीनामुत्क्षेपणादिकमङ्गप्रत्यङ्गोपाङ्गसहित भावाभावसमेतं च प्रयोक्तव्यम् । हडुकारो नाम जिह्वातालुसंयोगानिष्पाप्रमानः पुण्यो वृषनादसदृशो नादः । हुडुगिति शब्दानुकारो वषडितिवत् । यन्त्र लौकि. फा भवन्ति तत्रैतत्सर्वं गूढं प्रयोक्तव्यम् । शिष्टं प्रसिद्धम् । द्वाराणि | कायनस्पन्दैनमन्दनशृङ्गारणावितत्करणावितद्भाषणांनि । तत्रासुप्तस्यैव सुप्तलिङ्गदर्शनं काथनम् । वायवभिभूतस्येव शरीरावयवानां कम्पनं स्पन्दनम् । उपहतपादेन्द्रियस्येव गमनं मन्दनम् । रूपयौवनसंपनी कामिनीमवलोक्याऽऽत्मानं कामुकमिव यौर्षिलासैः प्रदर्शयति तच्छृङ्गारणम् । कार्याकार्यविवेकविकलस्थेव लोकनिन्दितकर्मकरणमवितत्करणम् । व्याहतापार्थकादिशब्दोच्चारणमवितद्भाषणमिति । गुणभूतस्तु विधिश्चर्यानुग्राहकोऽनुस्नानादिभैक्ष्योच्छिष्टादिनिर्मितायोग्यताप्रत्ययनिवृत्त्यर्थः । तदप्युक्तं सूत्रकारेण-अनुस्नाननिर्माल्यलिङ्गधारीति । तत्र समासो नाम धर्मिमात्राभिधानन् । तच्च प्रथमसूत्र एव कृतम् । पञ्चानां पदार्थानां प्रमाणतः पञ्चाभिधानं विस्तरः। स खलु राशीकरभाष्ये द्रष्टव्यः । १च. णः । नित्यः क्रि । २ क. जन्यध्या । ग. डा. जप्यध्या । ३ च. णः । ब्राह्मणायै. एनुष्ठीयमानः फलप्रदः । क्रि । ४ क.-हु. °स्तु सं । ५ घ. तु च। ६ च.तं पारायणं चे। ७ ग. स्मश्मशानश । ८ क.-टु. शय्योप । ९ ख. त्यद्भद्भक्का । ग. त्यहुड्क्का । १० ख. 'हहे । ११ क. ख. घ. ङ. च.म् । नृत्यम । १२ च. शास्त्रसमयानु । १३ ख.-च. दीनां सं. क्षेप । १४ च. तु कायस्पर्शनमादानशू । १५ घ. नमादन । १६ च. तस्कर । १७ च. णादि। त। १८ च. °गप्रदर्शनं कायका । १९ घ. मादनम् । २० च. प्रकाशयति । २१ क. घ. च. 'भक्षोच्छि । २२ ख. रणभा । Page #86 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- एतेषां यथासंभवं लक्षणतोऽसकरेणाभिधानं विभागः । स तु विहित एव । शास्त्रान्तरेभ्योऽभीषां गुणातिशयेन कथनं विशेषः । तथाहि-अन्यत्रं दुःखनिवृत्तिरेव दुःखान्तः । इह तु पारमैश्वर्यप्राप्तिश्च । अन्यत्राभूत्वा भावि कार्यम् । इह तु नित्यंपश्चादि । अन्यत्र सापेक्षं कारणम् । इह तु निरपेक्षो भगवानेव । अन्यत्र कैवल्यादिफलको योगः । इह तु पारमैश्वर्यदुःखान्तफलकः। अन्यत्र पुनरावृत्तिरूपस्वर्गादिफलको विधिः । इह पुनरपुनरावृत्तिरूपसामीप्यादिफलकः । .. ननु महदेतदिन्द्रजालं यन्निरपेक्षः परमेश्वरः कारणमिति । तथात्वे कर्मवै. फल्यं सर्वकार्याणां समसमयसमुत्पादश्चेति दोषद्वयं प्रादुःष्यात् । मैवं मन्येथाः। व्यधिकरणत्वात् । यदि निरपेक्षस्य भगवतः कारणत्वं स्यात्तर्हि कर्मणो वैफल्ये किमायांतम् । प्रयोजनाभाव इति चेत्कस्य प्रयोजनाभावः कर्मवैफल्ये कारणम् । किं कर्मिणः किंवा भगवतः । नाऽऽद्यः । ईश्वरेच्छानुगृहीतस्य कर्मणः सफलत्वोपपत्तेः । तदैननुगृहीतस्य ययातिप्रभृतिकर्मवत्कदाचिन्निष्फलत्वसंभबाच्च । न चैतावता कर्मस्वप्रवृत्तिः । कर्षकादिवदुपपत्तेः । ईश्वरेच्छायत्तत्वाञ्च पशूनां प्रवृत्तेः । नापि द्वितीयः । परमेश्वरस्य पर्याप्तकामत्वेन कर्मसाध्यायोजनापेक्षाया अभावात् । यदुक्तं समसमयसमुत्पाद इति तदप्ययुक्तम् । अचिन्त्यशक्तिकस्य परमेश्वरस्येच्छानुविधायिन्योऽव्याहतक्रियाशक्त्या कार्यकारित्वाभ्युपगमात् । तदुक्तं संप्रदायविद्भिः कर्मादिनिरपेक्षस्तु स्वेच्छाचारी यतो ह्ययम् । तत: कारणतः शास्त्रे सर्वकारणकारणम् ॥ इति । ननु दर्शनान्तरेऽपीश्वरज्ञानान्मोक्षो लभ्यत एवेति कुतोऽस्य विशेष इति चेन्मैवं वादीः। विकल्पानुपपत्तेः। किमीश्वरविषयज्ञानमात्रं निर्वाणकारणं किंवा साक्षात्कारः, अथवा यथावत्तत्त्वनिश्चयः । नाऽऽद्यः । शास्त्रमन्तरेणापि प्राकृतजनवदेवानामधिपो महादेव इति ज्ञानोत्पत्तिमात्रेण मोक्ष सिद्धौ शास्त्राभ्यास. १क. ख. घ. तोऽभिधानमसंकरेण वि' । २ घ. 'हितः । शा। क.-ग. ङ. हितशा । ३. ख. ग. ङ. च. न्तरोक्तपदार्थे गु । ४ च येनाभिधानं । ५ ख. ५ गुणनि । ६ क. ख. ग. करणम् । च. कारकम् । ७ क.-इ. °दि । ६० । ८ के. ख. ग. घ. यमु । ९ ख. वैकल्ये । १० ख. वैकल्ये । ११ ख. 'श्वरानु । १२ च. °दनु। १३ क. लत्वाभाषा । ग. घ. लत्व. भावा । १४ ख. नाकाङ्क्षाया। १५ ख. न्याऽह । १६ च. °च्छाकारी यथोचितम् । ततः कर्ये स्मृतः शा। १७ क. नातः। १८ च. "रकका । १९ क. °णकामता ग. । णता मता। Page #87 -------------------------------------------------------------------------- ________________ शैवदर्शनम् । वैफल्यप्रसङ्गात् । नापि द्वितीयः । अनेकमलपचयोपचितानां पिशितलोचनाना पशूनां परमेश्वरसाक्षात्कारानुपपत्तेः । तृतीयेऽस्मन्मतापातः । पाशुपतशास्त्रमन्तरेण यथावत्तत्त्वनिश्चयानुपपत्तेः । तदुक्तमाचार्य: ज्ञानमात्रे वृथा शस्त्रं साक्षादृष्टिस्तु दुर्लभा । पश्चार्थीदन्यतो नास्ति यथावत्तत्त्वनिश्चयः ।। इति । तस्मात्पुरुषार्थकामैः पुरुषधौरेयः पश्चार्थप्रतिपादनपरं पाशुपतशास्त्रमाश्रय गीर्यम् । इति श्रीमरसायणमाधवीये सर्वदर्शनसंग्रहे नकुलीशपाशुपतदर्शनम् ॥ अथ शैवदर्शनम् ॥ ७ ॥ तमिम परमेश्वरः कर्मादिनिरपेक्षः कारणमिति पक्ष वैषम्यनघण्यदोषदूषितस्वात्मतिक्षिपन्तः केचन माहेश्वराः शैवागमसिद्धान्ततत्त्वं यथावदीक्षमाणाः कर्मादिसापेक्षः परमेश्वरः कारणमिति पक्षं कक्षीकुर्वाणाः पक्षान्तरमुपक्षिपन्ति पति शुपाशभेदाघ्रयः पदार्था इति । तदुक्तं तन्त्रतत्त्वज्ञैः त्रिपदार्थ चतुष्पादं महातन्त्रं जगद्गुरुः। . . . सूत्रेणकेन संक्षिप्य प्राह विस्तरतः पुनः ॥ इति । . . . भस्यार्थः- उक्तास्त्रयः पदार्था यस्मिन्सन्ति तत्रिपदार्थ विद्याक्रियायोगचर्यारूपाश्चत्वारः पादा यस्मिंस्तच्चतुश्चरणं महातन्त्रमिति । तत्र पशूनामस्वतन्त्रत्वात्पा. शानामचैतन्यात्तद्विलक्षणस्य पत्युः प्रथममुद्देशः । चेतनत्वसाधात्पशूनां तदा. नन्तर्यम् । अवशिष्टानां पाशानामन्ते विनिवेश इति मनियमः । दीक्षायाः परमपुरुषार्थहेतुत्वात्तस्याश्च पशुपाशेश्वरस्वरूपनिर्णयोपायभूतेन मन्त्रमन्त्रेश्वरादिमाहात्म्यनिश्चायकेन ज्ञानेन विना निष्पादयितुमशक्यत्वात्तदवबोधस्य विद्यापादस्य प्राथम्यम् । अनेकविधसागन्दीक्षाविधिप्रदर्शकस्य क्रियापादस्य तदानन्तर्यम् । योगेन विना नाभिमतप्राप्तिरिति साङ्गयोगज्ञापकस्य योगपादस्य तदुत्तरत्वम् । विहिताचरणनिषिद्धवर्जन चर्या विना योगोऽपि न १ ख. वैकल्य । २ घ. तानामपि पिशीत° । ३ क.-. 'त्रे यथाशा । ४ च. °यमिति रमणीयम् । ५ ग, शूनां स्व । ६ ग. अविशि । ७ ख. °न्ते नि । ८ क. ख. क्रमं नियमदी । प. क्रम नियमयन्दीक्षा । ९ च. त्रतन्त्रे । १० च. 'थम्यादने । ११ च. ति सांख्ययो । १२ च. योगेनापि । Page #88 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहनिर्वहतीति तत्प्रतिपादकस्य चर्यापादस्य चरमत्वमिति विवेकः ।.. __तत्रं पतिपदार्थः शिवोऽभिमतः । मुक्तात्मनां विद्येश्वरादीनां च यद्यपि शिवत्वमस्ति तथाऽपि परमेश्वर पारतम्च्यात्स्वातन्त्र्यं नास्ति । ततश्च तनुकरणभुवनादीनां भावानां संनिवेशविशिष्टत्वेन कार्यत्वमवगम्यते । तेन च कार्यत्वेनैषां बुद्धिमत्पूर्वकत्वमनुमीयत इत्यनुमानवशात्परमेश्वरप्रसिद्धिरुपपद्यते । ननु देहस्यैव तावत्कार्यत्वमासिद्धम् । न हि कचित्केनचित्कदाचिदेहः क्रियमाणो दृष्टचरः । सत्यम् । तथाऽपि न केनचित्क्रियमाणत्वं देहस्य दृष्टमिति कर्तृदर्शनापह्नवो न युज्यते । तस्यानुमेयत्वेनाप्युपपत्तैः। तथाहि-देहादिकं कार्य भवितुमर्हति संनिवेशविशिष्टत्वाद्विनश्वरत्वाद्वा घटादिवत् । तेन च कार्य: स्वेन बुद्धिमत्पूर्वकत्वमनुमातुं सुकरमेव । विमतं सकर्तृकं कार्यत्वाद्घटवत् । यदुक्तसाधनं तदुक्तसाध्यं यथाऽर्थादि। न यदेवं न तदेवं यथाऽऽत्मादि । परमे. श्वरानुमानप्रामाण्यसाधनमन्यत्राकारीत्युपरम्यते । .. अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा ।। इति न्यायेन प्राणिकृतकर्मापेक्षया परमेश्वरस्य कर्तृत्वोपपत्तेः । न च स्वातच्यविहतिरिति वाच्यम् । कारणापेक्षया. कर्तुः स्वातन्त्र्यविहतेरनुपलम्भात् । कोषाध्यक्षापेक्षस्य राज्ञः प्रसादादिना दानवत् । यथोक्तं सिद्धगुरुभिः *स्वतन्त्रस्याप्रयोज्यत्वं करणादिप्रयोक्तृता। .. कर्तुः स्वातन्त्र्यमेतद्धि न कर्माचनपेक्षता ॥ इति । तथा च तत्तकौशयवशाद्भोगतत्साधनतदुपादानादिविशेषेज्ञः कर्ताऽनुमाना. दिसिद्ध इति सिद्धम् । तदिदमुक्तं तत्रभवद्भिहस्पतिभिः इह भोग्यभोगसाधनतदुपादानादि यो विजानाति । . तमृते भवेन्नहींदं पुंस्काशयविपाकज्ञम् ।। इति । अन्यत्रापि * घ. पु. टि.-अप्रयोज्यत्वमविवातकत्वम् । १ ख. द्धिपूर्व । २ क. ख. वो यु । ३ क.-इ. 'तेः । दे । ४ क. ख. °न का । ५ च. 'मत्कार्यत्वानुमानं सु । ६ ख. ग. 'मानं सु । घ. °माने सु°। ७ क.-. साधनं य । ८ घ. तोऽ. गच्छत्स्व । ९ च. वा दुःखमे । १० च. मन्तव्यम् । ११ ङ.-तथो । १२ क न कार्याद्यनपेक्षिता । १३ ख. °द्यनपेक्षया । १४ ख. सतिश । १५ क. ख. ग. प. पतः । Page #89 -------------------------------------------------------------------------- ________________ शेवदर्शनम् । विवादाध्यासितं सर्वं बुद्धिभेत्कर्तपूर्वकम् । कार्यत्वादावयोः सिद्धं कार्य कुम्भादिकं यथा ।। इति । सर्वकर्तृत्वादेवास्य सर्वज्ञत्वं सिद्धम् । अज्ञस्य करणासंभवात् । उक्तं च श्रीपन्यूगेन्द्रः - अन्यत्रापि -- सर्वज्ञः सर्वकर्तृत्वात्साधनाङ्गफलैः सह । जानाति कुरुते स देवति सुस्थितम् । इति । ११ अस्तु तर्हि स्वतन्त्र ईश्वरः कती । स तु नाशरीरः । घटादिकार्यस्य शरी रक्ता कुलालादिना क्रियमाणत्वदर्शनात् । शरीरवस्त्रे चास्मदादिवेदीश्वरः क्लेशयुक्तोऽसर्वज्ञः परिमितशक्तिं प्राप्नुयादिति चेन्मैवं मंस्थाः । अशरीरस्याप्यात्मनः स्वशरीरस्पन्दादौ कर्तृत्वदर्शनात् । अभ्युपगम्यापि ब्रूमहे । शरीरवस्वेऽपि भगवतो न प्रागुक्तदोषानुषङ्गः । परमेश्वरस्य हि मलकर्मादिपाशजालासंभवेन प्राकृतं शरीरं न भवति । किंतु शाक्तम् । शक्तिरूपैरीशानादिभिः पञ्चभिर्मन्त्रैर्मस्तकादिकल्पनायामीशानंमस्त कस्तत्पुरुषवक्त्रोऽघोरहृदयो वामदेवगुह्यः सद्योजातपाद ईश्वर इति प्रसिद्धया यथाक्रमानुग्रहतिरोभावादानलक्षणस्थितिलक्षणोद्भव लक्षणकृत्य पञ्चककारणं स्वेच्छा निर्मितं तच्छरीरं न चास्मच्छरीरसदृशम् । तदुक्तं श्रीमन्मृगेन्द्रः लाय संभवाच्छावता प्रभोः ॥ इति ६७ अन्यत्रापि - तद्वपुः पञ्चभिर्मन्त्रैः पञ्चकृत्योपयोगिभिः । ईशतत्पुरुषाघोरवामाद्यैर्मस्तकादिमत् । इति । 98 ननु पञ्चवक्त्रस्त्रिपञ्च दृगित्यादिनाऽऽगमेषु परमेश्वरस्य मुख्यत एव शरीरेन्द्रियादियोगः श्रयत इति चेत्सत्यम् । निराकारे ध्यानपूजाथ संभवेन भक्तानुग्रहकरणाय तत्तदाकारग्रहणाविरोधात् । तदुक्तं श्रीमत्पौष्करे-साधकस्य तु रक्षार्थं तस्य रूपमिदं स्मृतम् । इति । आकारवांस्त्वं नियमादुपास्यो न वरत्वनाकारमुपैति बुद्धिः ॥ इति । १ क. - ग. ङ. च. मत्पूर्वकर्तृकम् । २ क. - ङ. सर्वात्मकत्वा' । ३ ख. अन्यस्य कार° । ४ क॰ 'गेन्द्रे । ५ क. ग. घ. यो यं जाना । ६ क. ग. तदेवैति । ख तदैवेति । ७ च. 'र्ता नसतावदश ं । ८ क. 'माणकर्तृत्व' । ९ च. 'वदनीश्व' । १० क. ख. ग. घ. शक्तिः । ११ ख. 'न्मैव । १२ ख. 'र्माशयजा° । १३ घ. 'गेन्द्रे । १४ ख. ग. मूला । १५ च पपादिभिः । १६ च दिभि रिति । Page #90 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेकृत्यपञ्चकं च प्रपश्चितं भोजराजेन पञ्चविधं तत्कृत्यं सृष्टिस्थितिसंहारतिरोभावः । । तदनुग्रहकरणं प्रोक्तं सततोदितस्यास्य ।। इति । एतच्च कृत्यपञ्चकं शुद्धाध्वविषये साक्षाच्छिवकर्तृकं कृच्छ्राध्वविषये त्वनन्तादिद्वारेणेति विवेकः । तदुक्तं श्रीमत्करणे शुद्धेऽध्वनि शिवः कर्ता प्रोक्तोऽनन्तोऽहिते प्रभोः ॥ इति । एवं च शिवशब्देन शिवत्वयोगिनां मन्त्रमन्त्रेश्वरमहेश्वरमुक्तात्मशिवानां सवा. चंकानां शिवत्वप्राप्तिसाधनेन दीक्षादिनोपायकलापेन सह पतिपदार्थे संग्रहः कृत इति बोद्धव्यम् । तदित्थं पतिपदार्थों निरूपितः। संप्रति पशुपदार्थो निरूप्यते-अनणुः क्षेत्रज्ञादिपदवेदनीयो जीवात्मा पशुः । न च चार्वाकादिवदेहादिरूपः । नान्यदृष्टं स्मरत्यन्य इति न्यायेन प्रतिसं. धानानुपपत्तेः । नापि नैयायिकादिवत्प्रकाश्यः । अनवस्थाप्रसङ्गात् । तदुक्तम्... आत्मा यदि भवेन्मेयस्तस्य माता भवेत्परः । पर आत्मा तदानीं स्यात्स परो यदि दृश्यते ॥ इति । ' न च जैनघदव्यापकः । नापि बौद्धवक्षणिकः । देशकालाभ्यामनवछिन्नत्वात् । तदप्युक्तम् अनवच्छिन्नसद्भावं वस्तु यद्देशकालतः । तन्नित्यं विभु चेच्छन्तीत्यात्मनो विभुनित्यता ॥ इति । नाप्यद्वैतवादिनामिवैकः । भोगप्रतिनियमस्य पुरुषबहुत्वज्ञापकस्य संभवात् । नापि सांख्यानामिवाकर्ता । पाशजालापोहने नित्यनिरतिशय हक्कक्रियारूपचैतन्यात्मकशिवत्वश्रवणात् । तदुक्तं श्रीमन्मृगेन्द्रः-पाशान्ते शिवताश्रुतेः ॥ इति । चैतन्यं दृक्रियारूपं तदस्त्यात्मनि सर्वदा । ___सर्वतश्च यतो मुक्तौ श्रूयते सर्वतोमुखम् ॥ इति । तत्त्वप्रकाशेऽपि मुक्तात्मानोऽपि शिवाः कित्वेते यत्प्रसादतो मुक्ताः । सोऽनादिमुक्त एको विज्ञेयः पञ्चमन्त्रतनुः ॥ इति । १ च. कृष्णाध्व। २ च. मन्त्रे । ३ च. धकेन । ४ घ. दार्थसं । ५ क. ख. ग. घ. अणुक्षे । ६ क. ख. घ. तिबन्धानु। ७ ख. 'यिकमतव । ८ ग. नामेवा । ९ ग. घ. च, गेन्द्रे । Page #91 -------------------------------------------------------------------------- ________________ शैवदर्शनम् । पशुविविधः । विज्ञानाकलप्रलयाकलसकलभेदात् । तत्र प्रथमो विज्ञानयोगसंन्यास गेन वा कर्मक्षये सति कर्मक्षयार्थस्य कलादिभोगबन्धस्याभावास्केव. लैमलमात्रयुक्तो विज्ञानाकल इति व्यपदिश्यते । द्वितीयस्तु प्रलयेर्ने कलादेशपसंहारान्मलकर्मयुक्तः प्रलयाकल इति व्यवहियते । तृतीयस्तु मलमायाकर्मात्मकबन्धत्रयसहितः सकल इति xसंलप्यते । सत्र प्रथमो द्विप्रकारो भवति समाप्तकलुषासमाप्तकलुषभेदात् । तत्राऽऽया. कालुष्यपरिपाकवतः पुरुषधौरेयानधिकारयोग्याननुगृह्यानन्तादिविधेश्वराष्टपदं पापयति । तद्विद्येश्वराष्टकं निर्दिष्टं बहुदैवत्ये. अनन्तश्चैव सूक्ष्मश्च तथैव च शिवोत्तमः । एकनेत्रस्तथैकरुद्रश्चापि त्रिमूर्तिकः ॥ श्रीकण्ठश्च शिखण्डी च प्रोक्ता विद्येश्वरा इमे ॥ इति। अन्यान्सप्तकोटिसंख्यातान्मन्त्राननुग्रहकरणान्विधत्ते । तदुक्तं तत्वप्रकाशे पशवस्त्रिविधाः प्रोक्ता विज्ञानप्रलयकेवलौ सकलः। मलयुक्तस्तत्राऽऽयो मलकर्मयुतो द्वितीयः स्यात् ॥ .... मलमायाकर्मयुतः सकलस्तेषु द्विधा भवेदाद्यः। . आद्यः समाप्तकलुषोऽसमाप्तकलुषो द्वितीयः स्यात् ॥ आद्याननुगृह्य शित्रो विद्येशत्वे नियोजयत्यष्टौ । . मन्त्रांश्च करोत्यपरास्ते चोक्ताः कोटयः सप्त ॥ इति । सोमशंभुनाऽप्यभिहितम् विज्ञानाकलनामैको द्वितीयः प्रलयाकलः। . तृतीयः सकलः शास्त्रेऽनुग्राह्यस्त्रिविधो मतः ॥ तत्राऽऽद्यो मलमात्रेण युक्तोऽन्यो मलकर्मभिः । कलादिभूमिपर्यन्ततत्त्वैस्तु सकलो युतः ।। इति । प्रलयाकलोऽपि विविधः-पकपाशद्वयस्तद्विलक्षणश्च । तत्र प्रथमो मोक्षं पामोति । द्वितीयस्तु पुर्यष्टकयुतः कर्मवशान्नानाविधजन्मभाग्भवति । तदप्युक्तं तत्त्वप्रकाशे x घ. पु. टि.-सम्यगुच्यते । १च. 'सैर्योगे । २ ग. वा कर्मक्षया । ३ क. ख. ग. "लमा । ४ क. ख. ग. °न काला। ५ ख. 'प्य त° । ६ ख. 'ज्ञानाप्र । ७ घ. 'त्रान्यो म । ८ क. ख. ग. युक्तो द्वि' । ९ स. युतस। १.क.-.च. ज्ञानक । Page #92 -------------------------------------------------------------------------- ________________ ७ सर्वदर्शनसंग्रहे- मलयालेषु येषामपैकमकर्मणी व्रजन्त्येते । पर्यटक देहयुक्ता योनिषु निखिला कर्मवशात् ॥ इति । पुर्यष्टकमपि तत्रैव निर्दिष्टम् — 1 - स्यात्पर्यष्टकमन्तःकरणं धीकर्म करणाने । इति । विवृतं चाघोरशिवाचार्येण - पुर्वष्टकं नाम प्रतिपुरुषं नियतः सर्गादारभ्य कल्पान्तं मोक्षान्तं af स्थितः पृथिव्यादिकलापर्यन्तस्त्रिशतस्वात्मकः सूक्ष्मो देहः । तथा चोक्तं तत्त्वसंग्रहे वसुधाद्यस्तस्वगणः प्रतिपुंनियतः कलान्तोऽयम् । पर्यटति कर्मवशाद्भुवनज देहेष्वयं च सर्वेषु ।। इति । तथा चायमर्थः समपद्यत - अन्तःकरणशब्देन मनोबुद्ध यहंकारचित्तवाचिनान्यान्यपि पुंसो भोगक्रियायामन्तरङ्गाणि कलाकालनियतिविद्यार। गप्रकृतिगुणाख्यानि सप्त तत्त्वान्युपलक्ष्यन्ते । धीकर्मशब्देन ज्ञेयानि पञ्च भूतानि तस्कर णानि च तन्मात्राणि वित्रक्ष्यन्ते । करणशब्देन ज्ञानकर्मेन्द्रियदशकं संगृह्यते । ननु श्रीमत्कालोत्तरे शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चकम् । बुद्धिर्माः पूर्वमुदाहृतम् ॥ १५. इति श्रूयते । तत्कथमन्यथा कथ्यते । अद्धा । अत एव च तत्रभवता रामकाण्डेन तत्सूत्रं त्रिंशत्तत्वपरतया व्याख्यायीत्यलमतिप्रपञ्श्चन । तथाऽपि कथं पुनरस्य पुर्यष्टकत्वम् । भूततन्मात्र बुद्धीन्द्रियकर्मेन्द्रियान्तःकरणसंज्ञः पञ्चभिर्वर्गैस्तत्कारणेन प्रधानेन कलादिपञ्चकात्मना वर्गेण चाऽऽरब्धत्वादित्यविरोधः । तत्र पुर्यष्टकयुतान्विशिष्टपुण्यसंपन्नान् कांश्चिदनुगृह्य भुवनपतिमंत्र महेश्वरोऽनन्तः प्रयच्छति । तदुक्तम्- कश्विदनुगृह्य वितरति भुवनपतित्वं महेश्वरस्तेषाम् ।। इति । सकलोऽपि द्विविधः । पक्क कलुषा पक्कक लुषभेदात् । तत्राऽऽद्यान्परमेश्वरस्तस्परिपाकपरिपाट्या तदनुगुणशक्तिपातेन मण्डल्याद्यष्टादशोत्तरशतं मन्त्रेश्वरपदं १ घ. “पक्वे मलकर्मणी । ईशप्रेरणविवशा जन्ममृती पुनर्ब्रजन्त्यन्ये । पुरौं। २ क. ख. ग. मणि पुनर्व्रजन्त्यन्ये । पु° । ३ घ. रणधीकर्मकार । ४ च क्लान्तं । ५ क. ग. घ. वाऽवस्थि' । ६ घ. 'वा' । ७ क ख ग घ कलनि । ८ क. 'यतवि' । ९ च लभ्यन्ते । १० ख. घ. 'कार' | ११ क. ख. ग. घ. ॰न्ते | कार । १२ ख. संग्राह्य' । १३ घ. रूपरसौ गरौं । १४ क. ख. ग. घ. ङ. रामकण्ठेन । च. रामकर्णेन १५ घ. सत्तवप । चत्र त्रिंशत्त ववाचकत । १६ घ. – च. ° कर १७ क. ख. ग. ध. ञ्चक कञ्चुका' । १८ क. ग. 'मन्त्रम । १९ ग. काश्चि । २० ख. 'महेश्वर ं । २१ क. ग. 'शतम ं । Page #93 -------------------------------------------------------------------------- ________________ प्रापयति । तदुक्तम्- शैवदर्शनम् । शेषा भवन्ति सकलाः कला दियोगादहमुखे काले | शतमष्टादश तेपां कुरुते स्वयमेव मन्त्रेशान् ।। तत्राष्टौ मण्डलिनः क्रोधाद्यास्तत्समाश्च वीरेशः । श्रीकण्ठः शतरुद्राः शतमित्यष्टादशाभ्यधिकम् । इति । 208 तत्परिपाकाधिक्यनिरोधेन शक्त्युपसंहारेण दीक्षाकरणेन मोक्षप्रदो भवत्याचार्यमूर्तिमास्थाय परमेश्वरः । तदयुक्तम् परिपकमला नेतानुत्सादने हेतु शक्तिपातेन । योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः ॥ इति । श्रीमन्मृगेन्द्रेऽपि — पूर्व व्यत्यासितस्याणोः पाशजालमपोहति ॥ इति । व्याकृतं च नारायणकण्ठेन । तत्सर्वं तत एवावधार्यम् । अस्माभिस्तु विस्तरभिया न प्रस्तूयते । अपक्क कलुषान्बद्धानणून् भोगभाजो विधत्ते परमेश्वरः कर्मवशात् । तदप्युक्तम्— बद्धाशे पानपरा विनियुङ्क्ते भोगभुक्तये पुंसः । तत्कर्मणामनुगमादित्येवं कीर्तिताः पशवः । इति । अथ पापदार्थः कथयते । पाशचतुर्विधः । मलकर्ममायाध शक्तिभेदात् । ननु - शैत्रागमेषु मुख्यं पतिपशुपाशा इति क्रमाच्चितयम् । तत्र पतिः शिव उक्तः पशवो ह्यणवोऽर्थपञ्चकं पाशाः ॥ इति पाश: पञ्चविधः कथ्यते । तत्कथं चतुर्विध इति गण्यते । उच्यते— विन्दोमयात्मनः शिवतत्वपदवेदनीयस्य शिवपदप्राप्तिलक्षणपरममुक्त्यपेक्षया पाशत्वेऽपि तद्योगस्य विद्येश्वरादिपदमाप्तिहेतुत्वेनापरमुक्तित्वात्पाशत्वेनानुपादानमित्यविरोधः । अत एवोक्तं तत्वप्रकाशे पाशाश्चतुर्विधाः स्युरिति । श्रीमन्मृगेन्द्रेऽपि -- प्रावृतीशौ बैलं कर्म मायाकार्यं चतुर्विधम् । जलं समासेन धर्मा नाचैव कीर्तिताः ॥ इति । अस्वार्थ: - प्रावृगोति प्रकर्षेणाऽऽच्छादयत्यात्मनः स्वाभाविक्यों दृक्रिये १ घ. शतरुद्रः । २ङ 'नश' । ३ क. ग. घ. कीर्त्यते । ४ग, पदाप्रा । ५ का ख. 'तीशो ब' । च. 'ती शबले क° । ६ क. बले । ७ग. 'जालस' । ८ घ. र्तितम् । Page #94 -------------------------------------------------------------------------- ________________ ७२ . सर्वदर्शनसंग्रहेइति प्राईतिरशुचिर्मलः । स च ईष्टे स्वातन्त्र्येणेति ईशः । तदुक्तम् एको ह्यनेकशक्तिदृक्रिययोश्छादको मलः पुंसः । तुषतण्डुलवज्ज्ञेयस्ताम्राश्रितकालिकावद्वा ।। इति । बलं रोधशक्तिः । अस्याः शिवशक्तेः पाशाधिष्ठानेन पुरुषतिरोधायकत्वादुपचारेण पाशत्वम् । तदुक्तम् तासामहं वरा शक्तिः सर्वानुग्राहिका शिवा । धर्मानुवर्तनादेव पाश इत्युपचर्यते ॥ इति । ' क्रियते फलार्थिभिरिति कर्म धर्माधर्मात्मकं बीजाकुरवत्मवाहरूपेणानादि । यथोक्तं श्रीमत्किरणे यथाऽनादिर्मलस्तस्य कर्माल्पकमनादिकम् । यद्यनादि न संसिद्धं वैचित्र्यं केन हेतुना ॥ इति । मात्यस्यां शक्त्यात्मना प्रलये सर्व जगत्सृष्टी व्यक्तिमायातीति माया । ययोक्तं श्रीमस्सौरभेये शक्तिरूपेण कार्याणि तल्लीनानि महाक्षये । विकृती व्यक्तिमार्योति सा कार्येण कलादिना ।। इति । यद्यप्यत्र बहु वत्त.व्यमस्ति तथाऽपि ग्रन्थभूयस्त्वभयादुपरम्यते । तदित्यं पतिपशुपक्षपदार्थास्त्रयः प्रदर्शिताः। . पतिविधे तथाऽविद्या पशुः पाशश्च कारणम् । तन्निवृत्ताविति प्रोक्ताः पदार्थाः षद् समासतः ॥ इत्यादिना प्रकारान्तरं वानरत्नावल्यादौ प्रसिद्धम् । सर्व तत एवावगन्तव्यमिति सर्व समञ्जसम् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे शैवदर्शनम् ।। अथ प्रत्यभिज्ञादर्शनम् ॥ ८॥ अत्रापेक्षाविहीनानां जडानां कारणत्वं दुप्पतीत्यपरितुष्यन्तो मतान्तरमविष्यन्तः परमेश्वरेच्छावशादेव जगन्निर्माणं परिघुष्यन्तः स्वसंवेदनोपपत्त्याऽऽ. १ घ. 'वृत्तिर । २ क. ख. घ.-च योच्छाद । ३ च. 'म् । तस्मान्माहेश्वरी शक्तिः । ४ ख. घ. क्रियाफ । ५ घ. मात्म । ६ क. ख. मकर । ७ क.--. 'दिरसं सि । ८ च. 'त्यस्य श। ९ ख. घ. 'यान्ति सा । १० क ख ग. प्रादर्शिषत। Page #95 -------------------------------------------------------------------------- ________________ प्रत्यभिज्ञादर्शनम् । गमसिद्धप्रत्यगात्मतादात्म्ये नानाविधमानमेयादिभेदाभेदशा लिपरमेश्वरोऽनत्यमुखप्रेक्षित्वलक्षणस्वातन्त्र्यभाक्स्वात्मदर्पणे भावान्प्रतिबिम्बवदवभासयतीति भणन्ती बाह्याभ्यन्तरचर्या प्राणायामादि क्लेशम या सकलीपवैधुर्येण सर्वसुलभमभिनवं प्रत्यभिज्ञामात्रं परापर सिद्धयुपायमभ्युपगच्छन्तः परे माहेश्वराः मत्यभिज्ञाशास्त्रर्मेभ्यस्यन्ति । तस्येयत्ताऽपि न्यरूपि परीक्षकैः सूत्रवृत्तिर्विवृतिर्लघ्वी बृहतीत्युभे विमर्शिन्यौ । प्रकरणविवरणपञ्चकमिति शास्त्रं प्रत्यभिज्ञायाः ॥ इति । ९७३ तत्रेदं प्रथमं सूत्रम्~~ 3. कथंचिदासाद्य महेश्वरः स्याद्दास्यं जनस्याप्युपकार मिच्छन् । समस्तसंपत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि || इति । कथंचिदिति । परमेश्वराभिन्न गुरुचरणारविन्दयुगल समाराधनेन परमेश्वरघदितेनैवेत्यर्थः । आसाद्येति । आ समन्तात्परिपूर्णतया सादयित्वा स्वात्मोपभोगतां निरर्गला गमयित्वा । तदनेन विदितवेद्यस्वेन प्रार्थश। स्त्रकरणेऽधिकांसे दर्शितः । अन्यथा प्रतारणमेव सजेत् । मायोत्तीर्णा अपि महामायाधिकृता विष्णुविरिञ्च्याद्या यदीयैश्वर्य लैशेनेश्वरीभूताः भगवाननवच्छिन्नप्रकाशानन्दस्वातन्त्र्य परमार्थो महेश्वरः तस्य F ン स्यम् । दीयतेऽस्मै स्वामिना सर्वे यथाभिलषितमिति दासः रूपस्वातन्यपात्रमित्यर्थः । जनशब्देनाधिकारिविपयनिय परमेश्वर स्व प्रादर्श | यस्य यस्य हीदं स्वरूपकथनं तस्य तस्य महाफलं भवति । प्रज्ञानस्यैव परमाफलस्वार । `तथोपदिष्टं शिवष्ष्टौ परमगुरुभिर्भगवत्सोमानन्दनाथपादैः १० एकवार प्रमाणेन शास्त्राद्वा गुरुवाक्यतः ११ १३१४: "ज्ञाते शिवत्वे सर्वस्थ प्रतिपच्या दृढात्मना । करणेन नास्ति कृत्यं कापि भावनयोऽपि वा । ज्ञाते सुर्वर्णे करणं भवनों का परित्यजेत् ।। इति । अपिशब्देन स्वात्मनस्तदभिन्नतामाविष्कुर्वता पूर्णत्वेन स्वात्मानं परार्थसंपुत्यतिरिक्तप्रयोजनान्तरावकाशश्च पराकृतः । परार्थश्च प्रयोजनं भवत्येव । 1 १ क. 'रो नान्य' । २ क- ड. 'वात्प्रति' । ३ क. - ग. ङ. च. 'लावै । ४ घ. मभ्यासते ५ क. ग. ॰स्यन्त । ख. 'स्यन्तः त' । ६ ग. 'भिन्नागु । ७ कः स्वात्मीयभो । ८ क ग प्रसज्येत । ९ क. ख. दास्याद्दीय' । १० च. मा 'क' । १३ स्व. वनाऽपि व्रजेत् । इ । ध हसो । १९ क. - ङ. 'या सकृत् । १२ च. ' वनाऽपि व्रजेदिति । १४ च. 'नां व्रजे । १० Page #96 -------------------------------------------------------------------------- ________________ ७४ . सर्वदर्शनसंग्रहे-- तल्लक्षणयोगात् । न ह्ययं देवशापः स्वार्थ एव प्रयोजनं न परार्थ इति । अत एवोक्तमक्षपादेन--यमर्थमधिकृत्य प्रवर्तते तत्प्रयोजनम् (गौ सू० १।१ २४ ) इति । उपशब्दः सामीप्यार्थः । तेन जनस्य परमेश्वरसमीपताकरणमात्र फलम् । अत एवाऽऽह समस्तति । परमेश्वरतालाभे हि सर्वाः संपदस्तनिष्यन्दमय्यः संपन्ना एव रोहणाचललाभे रत्नसंपद इव । एवं परमेश्वरतालाभे किमन्यत्मार्थनीयम् । तदुक्तमुत्पलाचा: भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् । एतया वा दरिद्राणां किमन्यदपयाचितम् ॥ इति । . . इत्थं षष्ठीसमासपक्षे प्रयोजनं निर्दिष्टम् । बहुव्रीहिपक्षे तूंपपादयामः । समस्तस्य बाबाभ्यन्तरस्य नित्यसुखादेर्या संपत्सिाद्धस्तथात्वप्रकाशस्तस्याः सम्यगवाप्तिर्यस्याः प्रत्यभिज्ञाया हेतुः सा तथोक्ता । तस्य महेश्वरस्य प्रत्यभिज्ञा प्रत्या. भिमुख्येन ज्ञानम् । लोके हि स एवायं चैत्र इति प्रतिसंधानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यवहियते । इहापि प्रसिद्धपुराणसिद्धागमानुपानादिज्ञातपरिपूर्णशक्ति के परमेश्वरे सति स्वात्मन्यभिमुखीभूते तच्छक्तिमतिसंधानेन ज्ञानमुदेति नूनं स एवेश्वरोऽहमिति । तामेतां प्रत्यभिज्ञामुपपादयामि । उपपत्तिः संभवः । संभवतीति * तत्समर्थाचरणेन प्रयोजनव्यापारण संपा. दयामीत्यर्थः । यदीश्वरस्वभाव एवाऽऽत्मा प्रकाशते तहि किमनेन प्रत्यभिज्ञापदर्शनप्रया. सेनेति चेत्तप्रायं समाधिः--स्वप्रकाशतया सततमवभासमानेऽप्यात्मनि मायापशाद्भांगेन प्रकाशमाने पूर्णतावभाससिद्धये हक्रियात्मकशक्त्याविष्करणेन प्रत्यभिज्ञा प्रदर्यते । तथा च प्रयोगः- अयमात्मा परमेश्वरो भवितुमर्हति । ज्ञानक्रियाशक्तिमत्वात् । यो यावनि ज्ञाता को च स तावतीश्वरः प्रसिद्धे. ___ * घ. पु. टि.- तत्समर्थाचरणेनेत्यस्य विवरणं प्रयोजनति । प्रयोजनयुक्तो व्यापारः प्रयोजनध्यापारः । सफलानुष्ठानेनेत्यर्थः । १च. 'रधर्मसमीपः शर । २ क. ग. पदः । ए' । ३ घ. 'व । ४ क. स. प.-. एनया। च. अनया । ५ के.-. डा. च. तूपायः स । ६ क. नातिस । ङ.- नित्यासु । ग. नीतसु । ७ ख. घ. 'स्तत्त्वप्र । ८ के.-ग. ङ. 'तिमाभि । च 'तिपाभि । ९ च. °द्धान्तागमानादिपरिज्ञा । १० क. ख. 'दिपरिज्ञा । ग. 'दिपरिज्ञातं प० । घ. 'दिपरिज्ञाते प। ११ क.-ग. च. मेनां प्र । १२ क. ग. वन्तीति। १३ च. प्रत्यभिज्ञाव्या । १४ क. ग.-च शने । १५ क ख. °सनसि । १६ ख. त्मश । १७ ख. प्रसिद्धः प्र। . Page #97 -------------------------------------------------------------------------- ________________ प्रत्यभिज्ञादर्शनम् । ७५ परवद्राजवता । आत्मा च विश्वज्ञाता कर्ता च । तस्मादीश्वरोऽयमिति । अवयवपञ्चकस्याऽऽश्रयणं मायावदेव नैयायिकैमतस्य + कक्षीकर गात् । तदुक्तमुदैयकरमूनुना कर्तरि ज्ञातरि स्वात्मन्यादिसिद्ध महेश्वरे । अंजडास्मा निषधं वा सिद्धिं वा विदधीत कः॥ . किंतु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदयते ।। तथाहि-सर्वेषामिह भूतानां प्रतिष्ठा + जीवदाश्रया । ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम् ॥ तत्र ज्ञानं स्वतःसिद्धं क्रिया कार्याश्रिता सती । =परैरप्युपलक्ष्येत तोऽन्यज्ञानमुच्यते ॥ इति । या चैषां प्रतिभा तत्तत्पदार्थक्रमलैपिना । अक्रमानन्दचिद्रूपः प्रमाता स महेश्वरः ॥ इति च । सोमानन्दनाथपादैरपि सदा शिवात्मना वेत्ति सदा वेत्ति मैदात्मना ॥ इत्यादि । शामाधिकारपरिसमाप्तावपि तदैक्येन विना नास्ति संविदा लोकपद्धतिः । प्रकाशैक्यात्तदेकत्वं मातैकः स इति स्थितिः। स एव विमृशत्वेन नियतेन महेश्वरः। विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः ॥ इति । विहतं चाभिनवगुप्तौंचायः । तमेव भान्तमनुभाति सर्व तस्य भासा. सर्व मिदं विभाति ' (का०.२.२ ) इति श्रुत्या प्रकाशचिद्रूपमहिन्ना सर्वस्य भाव ___+ घ. पु. टि.- तस्य पञ्चावयवानुमानस्य कक्षीकरणादङ्गीकारात् । * घ. पु. टि.--जडता. सिद्धिम् । + घ. पु. टि.-जीयतामाश्रयो जीवदाश्रयः। = घ. पुटि.-तयाऽपरैरप्यात्मोपलक्ष्येत तस्याः। ४ प. पु. टि.--काश्याश्रिता प्रकाशाश्रिता सती वर्तते। . १ क. ग. श्वत्र ज्ञा । ख. घ. श्वस्य ज्ञा । २ ग.-च. यावादेन नै । ३ ख. 'कवत्तस्य । च. °कपदस्य । ४ घ. °क्षीकारात् । ५ क. ख. ग. दयाक° । ६ च. अयमात्मा । ७ ख. घ. 'भिज्ञा प्रद। ८ घ. 'श्रयः । ९ च. वनिर्मित । १० क.--. x °या काश्यानि । ११ क. ग.-च. तयाऽन्यज्ज्ञा । १२ क. ख. घ. रूषिता। १३ घ. महात्मना । १४ क. ग.-च. स्थितः। १५ क. ख. घ. एवाथ भृश । ग. °एवावभृश । ङ.- एवार्थमृश । १६ ड.-च. "प्तायः । १७ क. ख. ग. त्या च प्र। Page #98 -------------------------------------------------------------------------- ________________ .' ETC सर्वदर्शनसंग्रहेजातस्य भासकत्वमभ्युपेयते । नतश्च विषयप्रकाशस्य नीलप्रकाशः पीतप्रकाश इति विषयोपरागभेदाभेदः । वस्तुतस्तु देशकालाकारसंकोचवैकल्यांदभेद एवं। स एव चैतन्यरूपः प्रकाशः प्रमातेत्युच्यते । तथा च पठितं शिवसूत्रेषु चैतन्यमात्मेति । तस्य चिद्रूपत्वमनच्छिन्नविमर्शत्वमनन्योन्मुखत्वमानन्दैकघनत्वं माहेश्वर्यमिति पर्यायः । स एव हयं भावात्मा विमर्शः शुद्ध पारमार्थिक्यौ ज्ञानक्रिये । तत्र प्रकाश रूपता ज्ञानम् । स्वतो जगन्निर्मातृत्व क्रिया । तच्च निरूपित क्रियाधिकारे--- एष चाऽऽनन्दशक्तित्वोदेवमाभासयत्यमून् । भावानिच्छाव शादेषां क्रिया निर्मातॄताऽस्य सा ॥ इति । उपसंहारेऽपि इत्थं तथा घट:टाद्याकारजगदात्मना । तिष्ठासोरेवमिच्छैव हेतुकर्तृकृता क्रिया ॥ इति । तस्मिन्सतीदमस्तीति कार्यकारणताऽपि या । । साऽप्यपेक्षाविहीनानां जडानां नोपपद्यते :: .... इति न्यायेन यतो जडस्य न कारणता न वाऽनीश्वरस्य चेतनस्यानि तस्मात्तेन तेन जगद्गतजन्मस्थित्यादिभावविकारतत्तद्भेदक्रियासमन्त्ररूपेण धातुमिच्छो स्वतन्त्रस्य भगवतो महेश्वरस्येच्छवोत्तरोत्तरमुच्छूनस्वभाँचा क्रिया विश्वकर्तृत्वं वोच्यत इति । इच्छामात्रेण जगन्निर्माणमित्यत्र दृष्टान्तोऽपि स्टुं निर्दिष्टः योगिनामपि मुद्धीजे विनैवेच्छावशेन यत् । । घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम् ।। इति । यदि घटादिकं प्रति मृदायेव परमार्थतः कारणं स्याताई कथं योगीच्छा मात्रेण-घटादिजन्म स्यात् । अथोच्येतान्य एव मृद्धीजादिजन्या घटाडारादयो योगीच्छाजन्यारत्वन्य एवोते तत्रापि बोध्यसे-सामग्रीभेदात्तावत्कार्यभेद इति सर्वजनप्रसिद्धम्। . . ........ ये तु वर्णयन्ति नोपादानं विना घटायुत्पत्तिरिति योगी विच्छया परमा णून्व्यापारयन्संघटयतीति तेऽपि बोधनीयाः । यदि परिदृष्टकार्यकारणभावविपर्ययो न लभ्येत तर्हि घटे मद्दण्डचक्रादि देहे स्त्री पुरुषसंयोगादि सर्व १ च. °स्य विमर्शरूप । २ च. त्वसुखत्वमा । ३ ख. एवाहं भा' । ४ क. ग घ. ह्यहंभा । ५ ख. "तृतोऽस्य । च. तताऽस्य ते । उ० । ६ ख. °न ज । ७ घ. भावक्रिया । ८ च. "स्वात्मक्रियात्मकमिति । ९ .-न्यास्त्वन्या ए° । च. न्यास्तदन्या ए° । १० ख. °त्विच्छाप । ११ च. 'दृश्यका। Page #99 -------------------------------------------------------------------------- ________________ प्रत्यभिज्ञादर्शनम्। मपेक्ष्येत । तथा च योगीच्छासमनन्तरसंजातघटदेहादिसंभवो दुःसमर्थः एवं स्यात् । चेतन एव तु तथा भाति भगवान्भूरिभगो महादेवो नियत्यनुवर्तनोल्लङ्घनघनतरस्वातन्त्र्य इति पक्षे न काचिदनुपपत्तिः । अत एवोक्तं वसुगुप्ताचार्य:-- निरुपादानसंभारेमभित्तावेव तन्वते । जगचित्रं नमस्तस्मै कलानाथाय शूलिने ॥ इति । ननु प्रत्यगात्मनः परमेश्वराभिन्नत्वे संसारसंबन्धः कथं भवेदिति चेत्तप्रोक्तमागमाधिकारे~ * एष प्रमाता मायान्धः संसारी कर्मबन्धनः । विद्यादिज्ञापितश्वर्यश्विद्घनो मुक्त उच्यते ॥ इति । ननु प्रमेयस्य प्रमात्रभिन्नत्वे बद्धमुक्तयोः प्रमेयं प्रति को विशेषः । अत्रा प्युत्तरमुक्तं तत्त्वार्थसंग्रहाधिकारे-- मेयं साधारणं मुक्तः स्वात्माभेदेन मन्यते । महेश्वरो यथा बद्धः पुनरत्यन्तभेदवत् ।' इति । नन्वात्मनः परमेश्वरत्वं स्वाभाविकं चेन्नार्थः प्रत्यभिप्रार्थनया । न हि बीजमप्रत्यभिज्ञातं सति सहकारिसाकल्येऽङ्कुर नोत्पादयति । तस्मात्कस्माद्वाऽऽस्मप्रत्यभिज्ञाने निबन्ध इति चेदुच्यते । शृणु तावदिदं रहस्यम् । द्विविधा ह्यर्थक्रिया बाह्याऽङ्कुरादिका प्रमातृविश्रान्तिचमत्कारसारा प्रीत्यादिरूपा च । तत्राऽऽद्या प्रत्यभिज्ञानं नापेक्षते । द्वितीया तु तदपेक्षत एव । इहाम्यहमीश्वर इत्येवंभूतचमत्कारसारा परापरसिद्धिलक्षणजीवात्मैकत्वशक्तिविभूतिरूपार्थक्रियेति स्वरूपपत्यभिज्ञानमपेक्षणीयम् । ननु प्रमातृविश्रान्तिसाराऽर्थक्रिया प्रत्यभिज्ञानेन विनाऽदृष्टी सती तस्मिन्दृष्टेति क दृष्टम् । अत्रोच्यते । नायकगुणगणसंश्रवणमद्धानुरागा काचन कामिनी मदनविह्वला विरहक्लेशमसहमाना मद. नलेखावलम्बनेन स्वावस्थानिवेदनानि विधत्ते । तथा वेगात्तनिकटमन्त्यपि तस्मिन्नवलोकितेऽपि तदवलोकनं तदीयगुणपरामर्शाभावे जनसाधारणत्वं प्राप्ते १च. °ति भर्गो भूरिभाग इति भर्गो म । २ ख. भागो । ३ ख. यन्त्यानु । ४ घ. 'तनमुल्लङ्घ्य घ । ५ घ. 'रस्वभि । ६ ख. 'मसितावेद्यत । ७ ङः-च. लाइलाध्याय । ८ च विज्ञानज्ञा । ९ क. ग.-च. बन्धमु । १० ख. 'योः को । ११ ख. मुच्यते । १२ ख. ज्ञाप्रथमया । १३ ख. ज्ञाते स । १४ क. 'बन्धन इ° । ग. निबन्धन इ । १५ ख. 'टा सा त। १६ ख. °णसं । १७ ख. ग. ङ.-च. 'टत्यपि । १८ क. पि तदी' । ख. °पि ते तदः । घ. •पि तमलों। Page #100 -------------------------------------------------------------------------- ________________ सर्पदर्शनसंग्रहेहृदयंगमभाव न लभते । यदा तुं * दूनीवचनात्तदीयगुणपरामर्श करोति तदा तत्क्षणमेव पूर्णभावमभ्येति । एवं स्वात्मनि विश्वेश्वरात्मना भासमानेऽपि तन्निर्भासनं तदीयगुणपरामर्शविरहसमये पूर्णभावं न संपादयति । यदा तु गुरुखचनादिना सर्वत्विसर्वकर्तृत्वादिलक्षणपरमेश्वरोत्कर्षपरामर्शो जायते तदा तत्क्षणमेव पूर्णात्मतालाभः । तदुक्तं चतुर्थे विमर्श तैस्तैरप्युपयाचितैरुपनतस्तस्याः स्थितोऽप्यन्ति के कान्तो लोकसमान एवमपरिज्ञातो न रन्तुं यथा। . लोकस्यैष तथाऽनवेक्षितगुणः स्वात्माऽपि विश्वेश्वरो । नैवायं निजवैभवाय तदियं तत्प्रत्यभिज्ञोदिता ।। इति । अभिनवगुप्तादिभिराचार्यैर्विहितप्रतानोऽप्ययमर्थः संग्रहमुपक्रममाणैरस्माभिर्विस्तरभिया न प्रनानित इति सर्व शिवम् । . इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे प्रत्यभिज्ञादर्शनम् ॥. अथ रसेश्वरदर्शनम् ॥ ९ ॥ - अपरे माहेश्वराः परमेश्वर तादात्म्यवादिनोऽपि पिण्डस्थैर्ये सर्वाभिमता जीवन्मुक्ति सेत्स्यतीत्यास्थाय पिण्डस्थोपायं पारदादिपदवेदनीयं रसमेव संगि . रन्ते । रसस्य पारदत्वं संसारपरपारपापणहेतुत्वेन । तदुक्तम् - संसारस्य परं पारं दत्तेऽसौ पारदः स्मृतः ॥ इति । रसार्णवेऽपि पारदो गदितो यस्मात्परार्थ साधकोत्तमैः । सुप्तोऽयं मत्समो देवि मम प्रत्यङ्गसंभवः । .... मम देहरसो यस्माद्रसस्तेनायमुच्यते ।। इति । ननु प्रकारान्तरेणापि जीवन्मुक्तियुक्तों नेयं वाचोयुक्तियुक्तिमतीति चेन्न । * घ. पु. टि.-निकटवर्तिसख्यादिवचनाद्वा । ...१ ख. घ. वं ल° । २ क.-ङ. तु मूर्तिव । ३ क. ख. ग. घ. °नादिना तदी । ४ क.-ग. ङ. मत्येति । ५ क. ख. ग. घ. ज्ञत । ६ घ. पूर्णता । ७ च. 'ताभावः । त° । ८ ख. नतं तस्याः 1९ ङ.-च. मैव । १० च दिदं त । ११ क. °मर्थसं । १२ क. घ. "भिज्ञानद । १३ घ. पायपा। Page #101 -------------------------------------------------------------------------- ________________ रसेश्वरदर्शनम् । ७५ पट्स्वपि दर्शनेषु देहपातानन्तरं मुक्तरुक्ततया तत्र विश्वासानुपपत्त्या निर्विचिकित्सप्रवृत्तेरनुपपत्तेः । तदप्युक्तं तत्रैव षड्दर्शनेऽपि मुक्तिस्तु दर्शिता पिण्डपातने । करामलकवत्साऽपि प्रत्यक्षा नोपलभ्यते । तस्मात्तं रक्षयेत्पिण्डं रसैश्चैव रसायनैः ॥ इति । गोविन्दभगवत्पादाचारपि . इति धनशरीरभोगान्मत्वा नित्यान्सदैव यतनीयम् । . मुक्तौ सा च ज्ञानात्तचाभ्यासात्स च स्थिरे देहे ॥ इति । ननु विनश्वरतया दृश्यमानस्य देहस्य कथं नित्यत्वमवसीयत इति चेन्मैवं मंस्थाः । षाटकौशिकस्य शरीरस्यानित्यत्वेऽपि रसाभ्रकपदाभिलप्यहरगौरीसृ. ष्टिजातस्य नित्यत्वोपपत्तेः । तथा च रसहृदये ये चात्यक्त शरीरा हरगौरीसृष्टिजां तनुं प्राप्ताः। मुक्तास्ते रससिद्धा मन्त्रगणः किंकरो येषाम् ॥ (१।७)इति । तस्माज्जीवन्मुक्तिं समीहमानेन योगिना प्रथमं दिव्यतनुर्विधेया। हरगौरी. सृष्टिसंयोगजनितत्वं च रसस्य हरजत्वेनाभ्रकस्य गौरीसंभवत्वेन तत्तदात्मकत्वमुक्तम्- -- अभ्रकस्तव बीजं तु मम बीजं तु पारदः । अनयमिलनं देवि मृत्युदारिद्यनाशनम् ॥ इति । अत्यल्पमिदमुच्यते । देवदैत्य मुनिमानवादिषु बहवो रससामर्थ्यादिव्यं देहमाश्रित्य जीवन्मुक्तिमाश्रिताः श्रूयन्ते रसेश्वरसिद्धान्ते देवाः केचिन्म हशाया दैत्याः काव्यपुरःसराः । मुनयो वालखिल्याद्या नृपाः सोमेश्वरादयः ॥ गोविन्द भगवत्पादाचार्यो गोविन्दनायकः। चर्वटिः कपिलो व्यालिः कापालिः कन्दलायनः ।। एतेऽन्ये बहवः सिद्धा जीवन्मुक्ताश्चरन्ति हि । तनुं रसमयीं प्राप्यं तदात्मककथाचणाः ॥ इति । अयमेवार्थः परमेश्वरेण परमेश्वरी प्रति प्रपश्चित: कर्मयोगेण देवेशि प्राप्यते पिण्डधारणम् । १क -ग. इ. च. ताः । वन्द्यास्ते । च. ताः। बन्धास्ते। २ घ.ष्टि जान्तरत्वं हरगौरीसंयोगजनितत्वं । ३ च 'योऽमी वसिष्ठाद्या । ४ च. पर्पटिः । ५ च. कपालिः । ६ घ. "प्य तपात्मानोऽथ चारणाः। ई । ७ क -ग. ङ, च. वास्यार्थः । Page #102 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- रसश्च पवनश्चेति कर्मयोगो द्विधा स्मृतः ॥ मर्छितो हरति व्याधीन्मतो जीवयति स्वयम् । बद्धः खेचरतां कुर्याद्रसो वायुश्च भैरवि ॥ इति । मूर्छितस्वरूपमुक्तम् नानावों भवेत्सूतो विहाय घनचापलम् । लक्षणं दृश्यते यस्य मूर्छितं तं वदन्ति हि ॥ आर्द्रत्वं च घनत्वं च तेजो गौरव चापलम् । . ... यस्यैतानि न दृश्यन्ते तं विद्यान्मृतसूतकम् ॥ इति । • अन्यत्र बद्धस्वरूपमप्यभ्यधायि...., अक्षतश्च लघुद्रावी तेजस्वी निर्मलो गुरुः । . . स्फोटनं पुनरावृत्ती बद्धसूतस्य लक्षणम् ।। इति । ननु हरगौरीसृष्टिसिद्धौ पिण्डस्थैर्यमास्थातुं पार्यते । तत्सिद्धिरेव कथमिति -चेन्न । अष्टादशसंस्कारवशात्तदुपपत्तेः । तदुक्तमाचार्य: तस्य प्रसाधनविधौ मुधिया प्रतिकर्मनिमलाः प्रथमम् । .... अष्टादश संस्कारा विज्ञातव्याः प्रयत्नेन ॥ इति । ते च संस्कारां निरूपिताः स्वेदनमर्दनमूर्छनस्थापनपातननिरोधनियमाश्च । दीपनगगनग्रासप्रमाणमथ जारणपिधानम् ॥ गर्भद्रुतिबाह्यद्रुतिक्षारणसंरागसारणाश्चैव। . . क्रामणवेधौ भक्षणमष्टादशधेति रसकर्म ॥ इति । तस्मपश्चस्तु गोविन्दभगवत्पादाचार्य सर्वज्ञरामेश्वरभट्टारकप्रभृतिभिः प्राचीनैराचार्यनिरूपित इति ग्रन्थभूयस्त्वमयादुदास्यते । न च रसशास्त्रं धातुवादार्थमेवेति मन्तव्यम् । देहवेधद्वारा मुक्तेरेव परमप्रयोजनत्वात् । तदुक्तं रसाणवे - लोहवेधस्त्वया देव यदर्थमुपवर्णितः । तं देहवेधमाचक्ष्व येन स्यात्खेचरी गतिः ॥ पथा लोहे तथा देहे कर्तव्यः सूतकः संता । समानं कुरुते देवि प्रत्येयं देहलोहयोः । पूर्व लोहे परीक्षेत पश्चाद्दे प्रयोजयेत् ॥ इति । - १ के. खं. तस्य । २ च. म ख्यातुं । ३ घ. "मलः प्रथमः । अ । ४ क. 'ताः । तदुक्तमाचार्यैः । तथाहि-स्वे' । ५ क. ग. दु । ६ क. ख. घ. 'गक्षार' । ७ घ. यद्दत्तः परमीशितः । क-ग. इ. यहतं प । ८ क सताम् । ९ ख. त्यहं दे। Page #103 -------------------------------------------------------------------------- ________________ रसेश्वरदर्शनम् | ८१ ननु सच्चिदानन्दात्मक परतत्त्वस्फुरणादेव मुक्तिसिद्धौ किमनेन दिव्यदेह संपादनमयासेनेति चेत्तदेतद्बार्तम् । अवार्तशरीरालाभे तद्वार्ताया अंयोगात् । तदुक्तं रसहृदये गलितानल्पविकल्पः सर्वाध्वविवक्षितश्चिदानन्दः । स्फुरितोऽप्यस्फुरिततनोः करोति किं जन्तुवर्गस्य ।। (१।२० ) इति । यज्जरया जर्जरितं कासश्वासादिदुःखविशदं च । योग्यं तन्न समाधौ प्रतिहत बुद्धीन्द्रियप्रसरम् || (१।२९ ) बालः षोडशवर्षो विषयरसास्वादलम्पटः परतः । यातविवेको वृद्धो मर्त्यः कथमाप्नुयान्मुक्तिम् ।। इति । ननु जीवत्वं नाम संसारित्वम् । तद्विपरीतत्वं मुक्तत्वम् । तथा च परस्पर विरुद्धयोः कथमेकायतनत्वमुपपन्नं स्यादिति चेत्तदनुपपन्नम् । विकल्पानुपपत्तेः । मुक्तिस्तावत्सर्वतीर्थंकरसंमता । सा किं ज्ञेयपदे निविशते न वा । चरमे शशविषाणकल्पा स्यात् । प्रथमे न जीवन वर्जनीयम् । अजीवतो ज्ञातृत्वानुपपत्तेः । तदुक्तं रसेश्वर सिद्धान्ते ४ रसाडूमेयमागतो जीवमोक्षोऽन्यथा तु न । प्रमाणान्तरवादेषु युक्तिभेदावलम्बिषु ॥ ज्ञातृज्ञेयमिदं विद्धि सर्वतन्त्रेषु संमतः । नाजीवज्ञास्यति ज्ञेयं दतोऽस्त्येव जीवनम् ॥ इति । 94 न चेदमष्दृष्टचरमिति मन्तव्यम् । विष्णुस्वामिमतानुसारिभिर्नृपञ्चास्यैशरीरस्य नित्यत्वोपपादनात् । तदुक्तं साकारसिद्धौ सचिनित्यनिजा चिन्त्यपूर्णानन्दैकविग्रहम् । नृपञ्चमहं वन्दे श्रीविष्णुस्वामिसंमतम् || इति । नन्वेतत्सावयवं रूपवदवभासमानं नृकण्ठीरवाङ्ग सदिति न संगच्छत इत्यादिनाऽक्षेपपुरःसरं सनकादिप्रत्यक्ष सहस्र वर्षा पुरुषः ( ० ३ | १४ ) १७ इत्यादिश्रति १ ख. अलाभात् । २ क. -ग ङ. च. 'ति । यं जर । ३ क. ख. ग. 'कायन । ४ ख. ग. घ. जी । ५ग. 'नं न वर्जनीयनजीविनो ज्ञा । ६ क. ग. वनो ज्ञा' । ख 'वने ज्ञा' । ७ङ - च. 'क्षोऽस्त्यधोमनाः । प्र' । ख. क्षोऽस्त्यधर्मनः । प्र । क ग. क्षोऽस्त्यधो मनः । प्र । ८ घ °षु मुक्ति° । ९ ख. सिद्धिस' । १० क - ग. ङ. 'र्वमन्त्रे' । ११ 'स्यसि ज्ञे' । १३ ग. ज्ञेये । १४ ख प्रद° । १५ क. ख. विद्युस्वा ख. 'तिमत्तम' । ग. व. 'तिः । तम' । घ. 'तिसंमतं - त' । ङ. -च. 'म् । न जी । १२ घ. । १६ घ. 'स्यनित्य । १७ क. ११ Page #104 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- तमद्भुतं बालकमम्बुजेक्षणं चतुर्भुज शङ्खगदायुदायुधम् । ( भा० द० पू० ३ । ९) इत्यादिपुराणलक्षणेन प्रमाणत्रयेण सिद्धं नृपश्चाननाङ्गं कथमसत्स्यादिति सदादीनि विशेषणानि गर्भश्रीकान्तमिश्रीर्वष्णुस्वामिचरणपरिणतान्तःकरणैः प्रतिपादितानि । तस्मादस्मदिष्टदेहनित्यत्वमत्यन्तादृष्टं न भवतीति पुरुषार्थकामुकैः पुरुषैरेष्टव्यम् । अत एवोक्तम् आयतनं विद्यानां मूलं धर्मार्थकाममोक्षाणाम् । श्रेयः परं किमन्यच्छरीरमजरामरं विहायकम् ।। इति । . अजरामरीकरणसमर्थश्च रसेन्द्र एव । तदाह एकोऽसौ रसराजः शरीरमजरामरं कुरुते ॥ इति । किं वय॑ते रसस्य माहात्म्यम् । दर्शनस्पर्शनादिनाऽपि महत्फलं भवति । तदुक्तं रसार्णवे दर्शनात्स्पर्शनात्तस्य भक्षणात्स्मरणादपि । xपूजनाद्रसदानाच्च दृश्यते षड्विधं फलम् । केदारादीनि लिङ्गानि पृथिव्यां यानि कानिचित् । तानि दृष्ट्वा तु यत्पुण्यं तत्पुण्यं रसदर्शनात् ॥ इत्यादिना । . अन्यत्रापि काश्यादिसर्वलिङ्गभ्यो रसलिङ्गार्चनाच्छिवः। . . प्राप्यते येन तल्लिङ्ग भोगारोग्यामृतपदम् ॥ इति । . रसनिन्दायाः प्रत्यवायोऽपि दर्शितः प्रमादाद्रसनिन्दायाः श्रुतावेनं स्मरेत्सुधीः । द्राक्त्यजेन्निन्दकं नित्यं निन्दया पूरिताशुभम् ॥ इति । तस्मादस्मदुक्तया रीत्या दिव्यं देहं संपाद्य योगाभ्यासवशात्परतत्त्वे दृष्टे पुरुपार्थप्राप्तिर्भवति । तदा भ्रूयुगमध्यगतं यच्छिखिविद्युत्सूर्यवज्जगद्भासि । केषांचित्पुण्यदृशामुन्मीलति चिन्मयं ज्योतिः ॥ x घ. पु. टि.- पूजनाद्धारणाच्चास्य । - १५ °माणेन च सि । २ ख. कामैः पु । ३ घ. हत्पूजितज्योतिर्लिङ्गादिदर्शनादि । ४ क. ख. ग. 'नि च । ५ घ. नाचना वरा । इति । प्रा । ६ क.—ग. ङ. च. चनं शिवम् । इति । प्रा । ७ च. तन्नित्यं बोधारों । ८ क. मृतामरम् । इ । ९ क. ग. °न्दायां श्रु। १० ख. घ. निरया । Page #105 -------------------------------------------------------------------------- ________________ रसेश्वरदर्शनम् । परमानन्दैकरसं परमं ज्योतिःस्वभावमाविकल्पम् । विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम् ।। तस्मिनाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् । उत्सनकर्मबन्धो ब्रह्मत्वामिहैव चाऽऽनोति ॥ (रसह० १ । २१-२३) श्रुतिश्च-रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति (तै० २-७-१) इति । तदित्यं भवदैन्यदुःखभैरतरणोपायो रस एवेति सिद्धम् । तथा च रसस्य पर. ब्रह्मणा साम्यमिति प्रतिपादकः श्लोकः यः स्यात्यावरणाविमोचनधियां साध्यः प्रकृत्या पुनः संपन्नः सह सेन दीव्यति परं वैश्वानरे जाग्रति । ज्ञातो यद्यपरं न वेदयति च स्वस्मात्स्वयं द्योतते यो ब्रमेव स दैन्यसंसृतिभयात्पायादसौ पारदः ॥ इति । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रसेश्वरदर्शनम् ।। अथौलूक्यदर्शनम् ॥ १० ॥ इह खलु निखिलप्रेक्षावानिसर्गप्रतिकूलवेदनीयतयाँ निखिलात्मसंवेदनसिद्ध दुःखं जिहासुस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायाकलयति । यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः । तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ इत्यादिवचनविचयप्रामाण्यात् । परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभि. ीवनीयः । यदाह आगैमेनानुमानेन ध्यानाभ्यासबलेन च। त्रिधा प्रकल्पयन्प्रज्ञा लभते योगमुत्तमम् ॥ इति । तत्र मननमनुमानाधीनम् । अनुमानं च व्याप्तिज्ञानाधीनम् । व्याप्तिज्ञानं च पदार्थविवेकसापेक्षम् । अतः पदार्थषट्कम् – अथातो धर्म व्याख्यास्यामः १ घ. रमज्यों । २ ख. स्वयं वे । ३ क. ख. बद्धो ब । ४ ग. ङ.-च. भवेदन्यौं । घ. भवे दै' । ख. भवेदन्यभवदुः । ५ घ. °भवत । ६ ख. इ.-च. °क्षावन्नि । ७ च. या पर। ८ क. ग. ६ जि । ९ क. ग. घ. "हासतस्त । डा.-च. हासुस्त । १० क. 'ज्ञासोः प० । ११ उ.-च. 'माकलति । ख. 'माकर्णयति । १२ क. ग. नीयम् । य । १३ क. ग. गमो ना । १४ घ. 'ल्पयेत्प्रज्ञां। Page #106 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे(क० सू० १ । १ । १) इत्यादिकायां दशलक्षण्या कणभक्षेण भगवत, व्यवस्थापितम् । तत्राऽऽह्निक द्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनमकारि । तत्रापि प्रथमाह्निके जातिनिरूपणम् । द्वितीयाह्निके जातिविशेषयोनिरूपण । आह्निकद्वययुक्ते द्वितीयेऽध्याये द्रव्यनिरूपणम्। तत्रापि प्रथमाह्निके भूतविशेषलक्षणम् । द्वितीये दिक्कालप्रतिपादनम् । आह्निक द्वययुक्ते तृतीय आत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणं प्रथमे । द्वितीयेऽन्तःकरणलक्षणम् । आह्निकद्वययुक्तं चतुर्थे शरीरतदुपयोगिविवेचनम् । तत्रापि प्रथम तदुपयोगि. विवेचनम् । द्वितीये शरीरविवेचनम् । आह्निकद्वयवति पञ्चमे कर्मप्रतिपादनम् । तंत्रापि प्रथमे शरीरसंवन्धिकर्मचिन्तनम् । द्वितीये मार्नेसकर्मचिन्तनम् । आह्निकद्वयशालिनि षष्ठे श्रीतधर्मनिरूपणम् । तत्रापि प्रथमे दानप्रतिग्रहधर्मविवेकः । द्वितीये चातुराश्रभ्योचितधर्मनिरूपम् । तथाविधे सप्तम गुणसमवाय. प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनम् । द्वितीये तत्सापेक्षगु. णप्रतिपादनं समवायप्रतिपादनं च । अष्टमे निर्विकल्पकसविकल्पकप्रत्यक्षपमा. णचिन्तनम् । नवमे बुद्धिविशेषप्रतिपादनम् । दशमेऽनुमानभेदप्रतिपादनम् । तत्रोद्देशो लक्षणं परीक्षा चेति त्रिविधाऽस्य शास्त्रस्य प्रवृत्तिः । ननु विभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति चेन्मेवं मंस्थाः। विभागस्य विशेषोदशरूपत्वादुद्देश एवान्तर्भावात् । तत्र द्रव्यगुणकर्मसामान्यधिशेषसम्बायाँ इति षडेव ते पदार्था इत्युद्दशः । किमत्र क्रमनियमे कारणम् । उच्यते-समस्तपदार्थायतनत्वेन प्रधानस्य द्रव्यस्य प्रथममुद्देशः। अनन्तरं गुणत्त्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य । तदनु सामान्यवत्त्वाम्यात्कर्मणः । पश्चात्तत्रितयाश्रितस्य सामान्यस्य । तदनन्तरं समवायाधिकरणस्य विशेषस्य । अन्तेऽवशिष्टस्य समवायस्येति। ननु षडेव पदार्था इति कथं कथ्यते । अभावस्यापि सद्भावादिति चैन्मैवं वोचः। नर्थानुल्लिखितधीविषयतयाँ भावरूपतया षडेवेति विवक्षितत्वात् । तथाऽपि कथं षडेवेति नियम उपपद्यते । विकल्पानुपपत्तेः । तथाहि-नियमव्य. वच्छेद्यं प्रमितं न वा । प्रमितत्वे कथं निषेधः । अपमितत्वे कथंतराम्। न हि १ घ. ये भूतविशेषदिक्कालप्रतिपादनम् । त° । २ ङ. तथाऽपि । ३ घ. ये साधारणक' । ४ क. ग. °नसादिक । ५ क ख. ग. "द्देशरूपत्वोद्देश° । ङ.-"द्देश ए°। च. देशरूपत्वेनोद्देश ए° । ६ घ. ङ. °याभावा इ° , ७ क. दार्थोपपतनत्ये। ख. दार्थायतत्वे । ८ ख. साध ात्क । ९ क. ग.-च. ति क्रमनियमः । न । १० क. °चः । तत्रार्था । घ. 'चः । तत्राथोल्लि । ११ कु.--च. या ष। Page #107 -------------------------------------------------------------------------- ________________ औलूक्यदर्शनम् । कंचित्प्रेक्षावामूषिकावषाणं प्रतिपेढुं यतते । ततश्चानुपपनों लियम इति चेन्मैवं भाषिष्ठाः । सप्तमतया प्रमिते*ऽन्धकारादौ भावत्वस्य भावतंया पमित शक्तिसादृश्यादौ सप्तमत्वस्य च निषेधादिति कृतं विस्तरेण | TER तत्र द्रव्यादित्रितयस्य द्रव्यस्वादिजातिलक्षणम् । द्रव्यत्वं नाम मंगः नारविन्दसमवेतत्वे सति नित्यत्वे सति गन्धासमवेतत्वम् । गुणस्त्वं नाम सर्मवा. यिकारणासमवेतासमवायिकारणभिन्नसमवेतसत्तासाक्षाव्याप्यजातिः । कमी नाम नित्यासमवेतत्वसहितसत्तासाक्षाघाप्यजातिः। सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम् । विशेषो नामान्योन्याभावाविरोधिसामान्यरहितः समवेतः।। समवायस्तु समवायरहितः संबन्ध इति षण्णां लक्षणानि व्यवस्थितानि । - द्रव्यं नवविधम्। पृथिव्यप्तेजोवारवाकाशकालदिगात्ममनासीति । तत्र पृथि. व्यादिचतुष्टयस्य पृथिवीत्वादिजातिर्लक्षणम् । पृथिवीत्वं नाम पाकरूपसमा नाधिकरणद्रव्यत्वसाक्षाद्वयाप्यजातिः। अप्त्वं नाम सरित्सागरसमवेतत्त्वे सति ज्वलनासमवेत सामान्यम् । तेजरत्वं नाम चन्द्रचाफिरसमवेतत्वे सात साल लासमवेतं सामान्यम् । वायुत्वं नाम त्वगिन्द्रिय समवेतद्रव्यत्वसाक्षाद्वयाप्यजातिः । आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशः कालो दिगिति । संयोगार्जन्यजन्यविशेषगुणसमानाधिकरण. विशेषाधिकरणमाकाशम् । विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधि. करणः कालः । अकालत्वे सत्यविशेषगुणा महती दिक् । आत्ममनसोगुल्मत्वमनस्त्वे । आत्मत्वं नामामूर्तसमवेतद्रव्यत्वापरजातिः। मनस्त्वं नाम द्रव्यसमा यिकारणत्वरहिताणुसमवेतद्रव्यत्वापरजातिः । रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखद खेच्छाद्वेषप्रयत्नाश्च कण्ठोक्ताः सप्तदश चशब्दसमुचिता गुरुत्वद्वत्वनइस स्कारा+दृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिर्गुणाः । तत्र रूपादिशब्दान्तानां रूपवादिजातिर्लक्षणम् । रूपत्वं नाम नीलसमवेतगुणत्वापरजातिः । अनन्या दिशा शिष्टानां लक्षणानि द्रष्टव्यानि । PANTFN * सप्तमभावपदार्थमाशक्य निराकरोति-अन्धकारादावित्यादि । + अदृष्टं धर्माधमौं। १ ख. ग. यतेत । २ घ. त्वस्याभा । ३ क-ग. ङ. च. "क्तिसंख्यादौ ।४ च. 'रणम। ५ क. °रणास । घ. ग. रणस। ६ च. नामानि । ७ क. ख ङ.-च. नित्यस1८ च. त्वरहि। ९ ख. °ति द्रव्यस। १० क. 'ति ज्ञानस । ख. ति ज्ञानास । घ. "ति ज्वालास । ११ ग. 'तले सति द्र । १२ ग. जन्मज । १३ क. ग. घ. "त्मम । १४ ख. ग. मूर्तास । १५ क. म.. तद्रव्यत्वा । Page #108 -------------------------------------------------------------------------- ________________ ' सर्पदर्शनसंग्रहकर्म पञ्चविधम् । उत्क्षेपणापक्षेपणाकुश्चनप्रसारणगमनभेदात् । भ्रमणरेचनादीनां गमन एवान्तर्भावः । उत्क्षेपणादीनामुत्क्षेपणत्वादिजातिर्लक्षणम् । तंत्रोत्क्षेपणत्वं नामोर्ध्वदेशसंयोगासमवायिकारणसमवेतकर्मत्वापरजातिः । एव. भपक्षेपणत्वादीनां लक्षणं कर्तव्यम् । .. सामान्यं द्विविधं परमपरं च । परं सत्ता द्रव्यगुणसमवेता। अपरं द्रव्यत्वादि । तल्लक्षणं प्रागेवोक्तम् । - विशेषाणामनन्तत्वात्समवायस्य चैकवाद्विभागो न संभवति । तल्लक्षणं च प्रागेवावादि। . द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । ....यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥ इत्यांभाणकस्य सद्भावाद्वित्वाद्युत्पत्तिप्रकारः प्रदर्यते । तत्र प्रथममिन्द्रियार्थः सनिकर्षः । तस्मादेकत्वसामान्यज्ञानम् । ततोऽपेक्षाबुद्धिः । तती द्वित्वोत्पत्तिः । ततो द्वित्वत्वसामान्यज्ञानम् । तस्माद्वित्वगुणज्ञानम् । ततो द्वे द्रव्ये इति धीः। ततः संस्कारः । तदाह आदाविन्द्रियसंनिकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते । द्वित्वत्वामितिस्ततो नु परती द्वित्वप्रमाऽनन्तरं दे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिया ॥ इति । द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम् । अत्राऽऽहुराचार्याः-अपेक्षाबुद्धिदित्वादेरुत्पादिका भवितुमर्हति । व्यञ्जकत्वानुपपत्तौ तेनानुविधीयमानस्वात् । शब्दं प्रति संयोगवदिति । वयं तु ब्रूमः-द्वित्वादिकमेकत्वद्वयविषया. नित्यबुद्धिव्यङ्गयं न भवति । अनेकाश्रितगुणत्वात्पृथक्त्वादिवदिति । निवृत्तिक्रमो निरूप्यते-अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वोत्पत्तिसमकालं निवृत्तिः । अपेक्षाबुद्धेद्वित्वत्वसामान्यज्ञानाद्वित्वगुणबुद्धिसमसमयम् । द्वित्वस्यापेक्षाबुद्धिनिवृत्ते व्यबुद्धिसमकालमगुणवु द्रव्यबुद्धितः संस्कारोत्पत्तिसमकालम् । द्रव्यर्बुद्धस्तदनन्तरं संस्कारोंदिति । तथा च संग्रहश्लोकाः , १ -च. णावक्षे । २ ख. योगस । ३ क. ख. °णप्रत्ययस । ङ-च. °णप्रमेयस । ४ घ.--च. मवक्षे। ५ ख. ग. घ. 'णकर्मस । ६ ख. ग. "त्वात्तद्वि। ७ घ. वादीत् । ८ क. ख. ग. तो द्वित्वसा । ९ घ. द्वित्वसामान्यज्ञानमुत्पद्यते । ततो द्वित्वनिर्विकल्पकज्ञानं तस्मा'। १० च "ते । एकत्वम । ११ क. रतौ द्वि । १२ ङ. च. पत्तेः । ते । १३ क. ख. शवं प्र । १४ च 'कत्वासा । १५ घ. °मकालम् । द्वि । १६ क. ङ.- कालगु । १७ घ. 'बुद्धितो गुणबुद्धिसं° १८ प. बुद्धितः, द्रव्यबुद्धस्त° । १९ घ. रादीति । Page #109 -------------------------------------------------------------------------- ________________ औलूक्यदर्शनम् । आदावपेक्षाबुद्धया हि नश्येदेकत्वजातिधीः । द्वित्वोदयसमं पश्चात्सा च तज्जातिबुद्धितः ॥ द्वित्वाख्यगुणधीकाले ततो द्वित्वं निवर्तते । अपेक्षाबुद्धिनाशेन द्रव्यधीजन्मकालतः॥ गुणबुद्धिद्रव्यबुद्धया संस्कारोत्पत्तिकालतः। द्रव्यबुद्धिश्च संस्कारादिति नांशक्रमो मतः ॥ इति । बुद्धेर्बुद्धयन्तरविनाश्यत्वे संस्कारविनाश्यत्वे च प्रमाणम्-विवादाध्यासितानि ज्ञानान्युत्तरोत्तरकार्यविनाश्यानि । क्षणिकविभुविशेषगुणत्वात् । शब्द वत् । कचिद्रव्यारम्भकसंयोगप्रतिद्वंद्विविभागजनककर्मसमकालमेकत्वसामा. न्यचिन्तयाऽऽश्रयनिवृत्तेरेव द्वित्वानिवृत्तिः। कर्मसमकालमपेक्षाबुद्धिचिन्तनादु. भाभ्यामिति संक्षेपः। अपेक्षाबुद्धिर्नाम विनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम् । ___ अथ द्वयणुकनाशमारभ्य कतिभिः क्षणः पुनरन्यद्वयणुकमुत्पर्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारः कथ्यते-नोदनादिक्रमेण द्वयणुकनाशः। नष्टे व्यणुके परमाणावनिसंयोगाच्छयामादीनां निवृत्तिः । निवृत्तेषु श्यामादिषु पुनरन्यस्मादनिसंयोगाद्रक्तादीनामुत्पत्तिः । उत्पन्नेषु रक्तादिष्वदृष्टवदात्मसंयोगात्परमाणी द्रव्यारम्भणाय क्रिया । तया पूर्वदेशाद्विभागः । विभागेन पूर्वदेशसंयोगानवृत्तिः । तस्मिनिवृत्ते परमाण्वन्तरेण संयोगोत्पत्तिः । संयुक्ताभ्यां परमाणुभ्यां यगुकारम्भः । आरब्धे द्वयणुके कारणगुणादिभ्यः कार्यगुगादीनां रूपादीनामुत्पत्तिरिति यथाक्रमं नव क्षणाः । दशक्षणादिप्रकारान्तरं विस्तरभयानेह प्रतन्यते । इत्थं पीलुपाकप्रक्रिया । पिठरपाकप्रक्रिया तु नैयायिकधीसमता । विभागजविभागो द्विविध:-कारणमात्रविभागजः कारणाकारणविभागजश्च । तत्र प्रथमः कथ्यते-कार्यव्याप्ते कारणे कर्मोस्पन्नं यंदाऽवयवान्तरी. द्विभागं विधत्ते न तदाऽऽकाशादिदेशाद्विभागः । यदा त्वाकाशादिदेशादिभागो न तदाऽवयवान्तरादिति स्थितिनियमः । कर्मणो गगनविभागाकर्तृत्वस्य द्रव्यारम्भकैसंयोगविरोधिविभागारम्भकत्वेन धूमस्य धूमध्वजवर्गणेव व्यभिचारी १ च. नामक' । २ क. °षणगु । ३ च. 'न्यज्ञानचि । ४ प. 'नादेकत्वसामान्यचि. न्तायास्ते परस्परं सुन्दोपसुन्दन्यायेनोभा। ५ क. °भ्य पुनः क । ६ ख. ध क्रियादि । घ. 'य पाकादि । ७ च. प्रदर्यते । ८ क. घ.°णानां रू। ९ क ख. ग. यदव। घ. यदवयव्यन्तराविभाः। १. घ. तदवयव्यन्तरादिस्थि । ११ क. भागः क । ख. ग. घ. °भागक । १२ च. 'कत्वे । १३ क. ख. घ. वर्गव्य । च. वर्गवन्द्यभि ।। Page #110 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेनुपलम्भात् । ततश्चावयवकर्मावयवान्तरादेव विभागं करोति नाऽऽकाशादिदेशात् । तस्माद्विभागाद्व्यारम्भसंयोगनिवृत्तिः। ततः कारणाभावात्कार्याभाव इति न्यायादवयविनिवृत्तिः । निवृत्तेऽवयविनि तत्कारणयोरवयवयोर्वर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वाऽवयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकांशदेशाद्विभागमारभते न निष्क्रियस्य । कारणाभावात् । द्वितीयस्तु हस्ते कर्मोत्पन्नमवयवान्तराद्विभागं कुर्वदाकाशादिदे. होमो विभागानारभते । ते कारणाकारणविभागाः कर्म यां दिशं प्रति कार्याअस्माभिमुखं तामपेक्ष्य कार्याकार्यविभागमारभन्ते । यथा हस्ताकाशविभागा सफाशविभागः । न चासौ शरीरक्रियाकार्यः । तदा तस्य निष्क्रियत्वात् । सापि हस्तक्रियाकार्य: । व्यधिकरणस्य कर्मणो विभागकर्तृत्वानुपपत्तेः । अतः पारिशेष्यात्कारणाकारणविभागस्तस्य कारणमङ्गीकरणीयम् । पदवादि-अन्धकारादौ भावत्वं निषिध्यत इति । तदसंगतम् । तत्र चतुर्धा विवादसंभवात् । तथाहि-द्रव्यं तम इति भाटा वेदान्तिनश्च भणन्ति । आरोअपितं नीलरूपमिति श्रीधराचार्याः। आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः । आलोकाभाव इति नैयायिकादय इति चेत्तत्र द्रव्यत्वपक्षो न घटते । विकल्पानुपपयो । द्रव्य भवदन्धकाराख्यं पृथिव्यायन्यतममन्यद्वा । नाऽऽद्यः । न्यत्रान्तभावोऽस्य तस्य यावन्तो गुणास्तावद्गुणकत्वप्रसङ्गात् । न द्वितीयः । निर्गुणस्य वस्य द्रव्यत्वासंभवेन द्रव्यान्तरत्वस्य सुतरामसंभवात् । ननु तमालश्यामलत्वे'नोपलभ्यमानं तमः कथं निर्गुगं स्यादिति चेत्तदसारम् । गन्धादिव्याप्तस्य लीलरूपस्य तन्निवृत्तौ निवृत्तेः । अथ नीलं तम इति गतेः का गतिरिति चेनीलं नभ इतिवद्भ्रान्तिरेवेत्यलं वृद्धवीवधया । अत एव नाऽऽरोपितरूपं तमा अधिष्ठानप्रत्ययमन्तरेणाऽऽरोपायोगात् । बाह्यालोकसहकारिरहितस्य चक्षुषो पारोपे सामर्थ्यानुपलम्भाच्च । न चायमचाक्षुषः प्रत्ययः । तदनुविधानस्यानप्रभासिद्धत्वात् । अत एव नाऽऽलोकज्ञानाभावः। अभावस्य प्रतियोगिग्राहके. .: १ ख. 'कसिद्धौ नि । १५. काशाद्विभागदे । ३ घ. "ते। कारणाकारणविभागः क । क.-ध. च. 'मुखता । ५ घ. कारणाकारगवि । ६ घ. °न्ते। तो दिशं प्रति कार्याकार्यवि. भागमारमते । य । ७ च. गस्य । ८ घ. °ति प्रभा । ९ क. ग. ङ.--च. कार द्रव्या' । १० च. सत्र । ११ क.- कु. ति नील न । १२ च. द्धपडिया। १३ घ. 'तनीलरू । १४ क. गिनि ग्रा Page #111 -------------------------------------------------------------------------- ________________ औलूक्यदर्शनम् । न्द्रियग्राह्यत्वनियमेने मानसत्वप्रसङ्गात् । तस्मादालोकाभाव एव तमः । न च * विधिप्रत्ययवेद्यत्वेनाभावत्वायोग इति सांप्रतम् । प्रलयविनाशावसानादिषु व्यभिचारात् । न चाभावे भावधर्माध्यारोपो दुरुपपादः । दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभागत्वाभिमानस्य च दृष्टत्वात् । न चाऽऽलोकाभावस्य घटाद्यभाववद्रूपवदभावत्वेनाऽऽलोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वं स्यादित्येषितव्यम् । यदग्रहे यदपेक्षं चक्षुस्तदभावग्रहेऽपि तदपेक्षत इति न्यायेनाऽऽलोकग्रह आलोकापेक्षाया अभावेन तदभावग्रहेऽपि तदपेक्षाया अभावात् । न चाधिकरणग्रहणावश्यंभावः । अभावप्रतीतावधिकरणग्रहणावश्यंभावानङ्गीकारात् । अपस्था निवृत्तः कोलाहल इति शब्दप्रध्वंसः प्रत्यक्षो न स्यादित्यप्रामाणिक परवचनम् । तत्सर्वमभिसंधाय भगवान्कणादः प्राणिनाय सूत्रम्-द्रव्यगुणकर्मनिष्पत्तिवैध-दभावस्तमः ( क ० सू० ५। २ । १९) इति । - अभावस्तु निषेधमुखप्रमाणगम्यः सप्तमो निरूप्यते-स xचासमवायत्ते सत्यसमवायः । संक्षेपतो द्विविधः । संसगीभावान्योन्याभावभेदात् । संसर्गाभावोऽपि त्रिविधः । प्र.क्मध्वंसात्यन्ताभावभेदात् । तत्रानित्योऽनादितमः प्रागभावः । उत्पत्तिमानविनाशी प्रध्वंसः । प्रतियोग्याश्रयोऽभावोऽत्यन्ताभावः । अत्यन्ताभावव्यतिरिक्तत्वे सत्यनवघिरभावोऽन्योन्याभावः । नन्वन्योन्याभाव एवात्यन्ताभाव इति चेदहो राजमार्ग एव भ्रमः । अन्योन्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः। यथा घटः पटात्मा न भवतीति । संसर्गप्रतियोगिकः प्रतिषेधोऽत्यन्ताभावः । यथा वायौ रूपसंबन्धो नास्तीति । न चास्य पुरुषार्थापयिकत्वं नास्तीत्याशङ्कनीयम् । दुःखात्यन्तोच्छेदापरपर्यायनिःश्रेयसरूपत्वेन परमपुरुषार्थत्वात् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रह औलूक्यदर्शनम् ।। * घ. पु. टि.-विमतं तमः भावो भवितुमर्हति न जानुलिखितप्रत्ययवेद्यत्वाद्धटवादति । ४ घ. पु. टि.-समवायादिसंबन्धशून्यत्वे सति संबन्धवानित्यर्थः । घ. पु. टि.-भावनिरूपितः । १च. 'नास । २ क. °द्यत्वं न । अयोगाभाव इ । ग. °द्यत्वं योगो भाव इ । घ. °द्यत्वेन आलोका इ° । ङ.-- °द्यत्वायोगो भाव इ° । च द्यत्वं न चात्र प्रयोगाभावादिति। ३ ख. घ. वधानेषु । ङ. °वधाना । ४ घ. °हेऽपि य । ५ च. °णप्रत्ययत्वादङ्गस्यान । ६ क. ख. घ. "णिकत्वव । ७ क. ग. घ. काणादः । ८ क. ख. ग.: °ाद्भाव । ९ क ख. र्गान्यो । १२ Page #112 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- अथाक्षपाददर्शनम् ॥ ११ ॥ __तत्त्वज्ञानाद्दुःखात्यन्तच्छेद लक्षणं निःश्रेयसं भवतीति * समानतन्त्रेऽपि प्रतिपादितम् । तदाह सूत्रकार:-प्रमाणप्रमेयेत्यादितत्त्वज्ञानानिःश्रेयसाधिगम इति । इदं न्यायशास्त्रस्याऽऽदिम सूत्रम् । न्यायशास्त्रं च पञ्चाध्यायात्मकम् । तत्र प्रत्यध्यायमाह्निकद्वयम् । तत्र प्रथमाध्यायस्य प्रथमाह्निके भगवता गौतमेन प्रमाणादि पदार्थनवकलक्षणनिरूपणं विधाय द्वितीये वादादिसप्तपदार्थलक्षणनिरूपणं कृतम् । द्वितीयस्य प्रथपे. संशयपरीक्षणं प्रमाण चतुष्टयामामाण्यशङ्कगनिराकरणं च । द्वितीयेऽर्थापत्त्यादेरन्तर्भावनिरूपणम् । तृतीयस्य प्रथम आत्मशरीरेन्द्रियार्थपरीक्षणम् । द्वितीये बुद्धिमनःपरीक्षणम् । चतुर्थस्य प्रथमे प्रवृत्तिदोपप्रेत्यभावफलदुःखापवर्मपरीक्षणम् । द्वितीये दोषनिमित्तकत्वनिरूपणमवयव्यादिनिरूपणं च । पञ्चमस्य प्रथमे जातिभेदनिरूपणम् । द्वितीये निग्रहस्थानभेदनिरूपणम् । . मानाधीना मेरसिद्धिरिति न्यायेनं प्रमा.स्य प्रथनमुद्देशे तदनुसारेण लक्षा णस्य कथनीयतया प्रथमोद्दिष्टस्य प्रमाणस्य प्रथमं लक्षणं कथ्यते—(१) साधना श्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तं प्रमाणम् । एवं च प्रतितन्त्र सिद्धान्तसिद्ध परमेश्वरप्रामाण्य संगृहीतं भवति । यदचक थत्सूत्रकार:-मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यादिति ( गौ० सू० २ । १ । ६७) । तथा च न्याथनयपारावारपारदृश्वा विश्वविख्यातकीर्तिरुदयनाचार्योऽपि न्यायकुसुमाञ्जली चतुर्थे स्तबके मितिः सम्यकपरिच्छित्तिस्तद्वत्ता न प्रमातृता । तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ।। ( ४ । ५) इति । साक्षात्कारिणि नित्ययोगिनि परद्वाररानपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताविवस्तुक्रमः । लेशादृष्टिनिमितदुष्टिविगमप्रभ्रष्टशङ्कगतुषः शङ्कगेन्मेपकलङ्किभिः किमपरैस्तन्मे प्रमागं शिवः ।। ( ४ । ६ ) इति । तंञ्चतुर्विध प्रत्यक्षानुमानोपमानशब्दभेदात् । ( २ ) प्रमायां यद्धि प्रतिभासते. * घ. पु. टि-न्यायतन्त्रे। • १ ख. दकल । २ ग. °माणाप्र । ३ क.ग. ङ. च. यस्याऽऽहनि । ४ क. ख. घ. °णम् । द्वि' । ५ घ. °यप्र । ६ ख. °षं प्रत्य । ७ ख. °न प्रथ। ८ ख. घ. 'माणव्या । ९ च. 'रमप्रा । १० ङ.-च. यपा। ११ ग. तस्फातिरु । १२ क-ङ. °पि कु । १३ घ. स्तानिके वस्तुनि । ले । १४ क. °स्तु कर्म। ले । ख. "स्तुनिः ले । ग. स्तुत्करे।ले । १५ घ. त्तदृष्टि । १६ क.-ङ. त् । प्रमेयं द्वा । Page #113 -------------------------------------------------------------------------- ________________ अक्षपाददर्शनम् । तत्पमेयम् । तच्च द्वादशप्रकारम् । आत्मशरीरन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदात् । (३) अनवधारणात्मकं ज्ञानं संशयः। स त्रिविधः । साधारणधर्मासाधारणधर्मविप्रतिपत्तिलक्षणभेदात् । ( ४ ) यमधिकृत्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनम् । तद्विविधम् । दृष्टादृष्टभेदात् । ( ५ ) व्याप्तिसंवेदनभूमिदृष्टान्तः । स द्विविधः ।. साधर्म्यवधर्म्यभेदात् । ( ६ ) प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः । स चतुर्विधः । सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमभेदात् । ( ७ ) परार्थानुमानवाक्यैकदेशोऽवयवः । स पञ्चविधः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात् । ( ८ ) व्याप्यारोपेण व्यापकारोपस्तर्कः । स चैकादशविधः । व्याघातात्माश्रयेतरेतराश्रयचक्रकाश्रयानवस्थाप्रतिबन्धिकल्पनौलाघवकल्पनागौरवोत्सर्गापवादवैजात्यभेदात् । (९) यथार्थानुभवपर्याया प्रमितिनिर्णयः । स चतुर्विधः । साक्षात्कृत्य नुमित्युपमितिशाब्दभेदात् । (१०) तत्त्वनिर्णयफलः कथाविशेषो वादः । ( ११ ) उभय साधनवती विजिगीषुकथा जल्पः । ( १२ ) स्वपक्षस्थापनहीनः कथाविशेषो वितण्डा । कथा नाम वादिप्रतिवादिनोः पक्षमतिपक्षपरिग्रहः। (१३) असाधको हेतुत्वेनाभिमतो हेत्वाभासः । स पञ्चविधः । सव्यभिचारविरुद्धप्रकरणसमसाध्य समातीतकालभेदात् । (१४) शब्दवृत्तिव्यत्य येन प्रतिषेधहेतु इछलम् । तत्रिविधम् । अभिधानतात्पर्योपचारवृत्तिव्यत्ययभेदात् ।(१५) स्वव्या घ तकमुत्तरं जातिः । सा चतुर्विशति विधा। साधर्म्यवैधम्र्योत्कर्षापकर्षावर्ण्यविकल्पसाध्यप्राप्तयप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्य विशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्य कार्यसमभेदात् । (१६) पराजयनिमित्तं निग्रहस्थानम् । द्वाविंशतिप्रकारम् । प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञा. संन्यासहेत्वन्तरार्थान्तरनिरर्थकाविज्ञातापार्थकाप्राप्तकालन्यूनाधिकपुनरुक्ताननुभाषणाज्ञानाप्रतिभाविक्षेपमतानुज्ञापर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगापसिद्धान्तहेत्वाभासभेदात् । अत्र सर्वान्तणिकस्तु विशेषस्तत्र शास्त्रे विस्पष्टोऽपि विस्तरभिंया न प्रस्तूयते । . नन प्रमाणादि पदार्थषोडशके प्रतिपाद्यमाने कथमिदं न्यायशास्त्रमिति व्यपदिश्यते । सत्यम् । तथाऽप्यसाधारण्येन व्यपदेशा भवन्तीति न्यायेन - १ च णकारणभे । २ क. ङ.-च. पे व्या । ३ ख. नागौ । ४ क.-ग. ङ. च. पनाही । ५ घ. हीनक । ६ क.-ग. ङ. च ,ब्दवृ । ७ क. °शतिधा। ख. ग. घ. शतिः। सा । ८ १. °वणावर्णवि । ९ क. घ.-च. 'रणाहे । १० घ. 'यभे । ११ ख. ज्योऽनु । - - - Page #114 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे— ९२ न्यायस्य परार्थानुमानापरपर्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया प्रधानत्वेन तथा व्यपदेशो युज्यते । तथाऽमाणि सर्वज्ञेन सोऽयं परमो न्याय विप्रतिपन्नपुरुषं प्रति प्रतिपादकत्वात् । तथा प्रवृत्तिहेतुत्वाच्चेति ( गौ० सू० (० वा० १|११ ) | पक्षिलस्वामिना च सेयमान्वीक्षिकीविद्या प्रमाणादिभिः पदार्थः प्रविभज्यमाना - 心 प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणान् । आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षिता । (न्या० सू० भा० १ । १ । १ ) इति । ननु तत्त्वज्ञानान्निःश्रेयसं भवतीत्युक्तम् । तत्र किं तत्त्वज्ञानादनन्तरमेव निःश्रेयसं संपद्यते । नेत्युच्यते । किंतु तत्त्वज्ञानादुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति । तत्र मिथ्याज्ञानं नामानात्मनि देहादावात्म बुद्धिः । तदनुकूलेषु रागः । तत्प्रतिकूलेषु द्वेषः । वस्तुतस्त्वात्मनः प्रतिकूलमनुकूलं वा न किंचिद्वस्त्वस्ति । परस्परानुबन्धित्वाच्च रागादीनां मूढो ज्यति रक्तो मुह्यति मूढः कुप्यति कुपितो मुह्यतीति । ततस्तैर्दोष: प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति । वाचाऽनृतादीनि । मनसा परद्रोहादीनि । सेयं पापरूपा प्रवृत्तिरधर्मः । शरीरेण प्रशस्तानि दानपरपरित्राणादीनि । वाचा हितसत्यादीनि । मनसाऽजिघांसादीनि । सेयं पुण्यरूपा प्रवृत्तिधर्मः । सेयमुभयैी मनृत्तिः । ततः स्वानुरूपं प्रशस्तं निन्दितं वा जन्मे पुनः शरीरींदेः प्रादुर्भावः । तस्मिन्सति प्रतिकूलवेदनीयतय बाधनात्मकं दुःखं भवति । न ह्यप्रवृत्तस्य दुःखं प्रत्यापद्यत इति कचित्पद्यते । त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन प्रवर्तमानाः संसारशब्दार्थो घटीचक्रवनि धिरनुवर्तते । यदा कश्चित्पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादाचार्योपदेशेन सर्वमिदं दुःखार्थैतनं दुःखानुषक्तं च पश्यति तदा तत्सर्वं हेयत्वेन बुध्यते । ततस्तन्निर्वर्तकमविद्यादि निवर्तयितुमिच्छति । तन्निवृत्युपायश्च तत्त्वज्ञानमिति । कॅस्यचिच्चतसृभिर्विधाभिर्विभक्तं प्रमेयं भावयतः सम्यग्दर्शन पदवेदनी १ ख. घ. 'था च स । २ घ 'यो निरूपितः । वि । ३ ख रुषार्थप्रतिपा । क. ग. ङ. -च. 'रुषप्रतिपा' । ४ ख. विद्याद्दे । ५ क. ग. 'चित्स्वमस्ति । ख चित्तत्त्वमस्ति । ङ. - च 'चित्समस्ति । ६ क. ख. ग. घ. रञ्जति । ७ ६. धर्मोऽनुकूलरागादिभिस्तैः प्रेरितो धर्ममावहति । श० । ८ ङ. - च. 'साऽहिंसा' । ९ क. ग ङ. - च. यी वृ° । १० ख. ग. वृत्तिः । स्वा' । घ. 'वृत्तिः । स्वा' । ११ च. ● न्म संपायति पु° । १२ च. 'रादेर्जन्म प्रा । १३ क. - ङ. या वासना' । १४ क. ख. घ. त्प्रत्याप' । १५ च. 'टीयन्त्रव' । १६ क. ग. 'यत्तं दुः । १७ ख. वा । १८ क. ख. ग. घ. कञ्चिच्च । Page #115 -------------------------------------------------------------------------- ________________ ९३ अक्षपाददर्शनम् । यतया तत्त्वज्ञानं जायते । तत्त्वज्ञानामिथ्याज्ञानमपैति । मिथ्याझानापाये दोषा अपयान्ति । दोषापाये प्रवृत्तिरपैति । प्रवृत्त्यपाये जन्मापैति । जन्मापाये दुःखमत्यन्तं निवर्तते । साऽऽत्यन्तिकी दुःखनिवृत्तिरपवर्गः । निवृत्तेरात्यन्तिकत्वं नाम निवर्त्य सजातीयस्य पुनस्तत्रानुत्पाद इति । तथा च पारमर्ष सूत्रम्-दुःखजन्ममवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्त पार्योदपवर्ग: ( गौ० सू० १।१।२) इति । ननु दुःखात्यन्तोच्छेदोऽपवर्ग इत्येतद्यापि * कॅफोणिगुडायितं वर्तते । तत्कथं सिद्धवत्कृत्य व्यवाहियत इति चेन्मैवम् । सर्वेषां मोक्षवादिनामपवर्गदशायामात्यन्तिको दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्वतन्त्र सिद्धान्तसिद्धतया घण्टापथत्वात् । तथाहि-आत्मोच्छेदो मोक्ष इति माध्यमिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदविवादम् । अथ मन्येथा:-शरीरादिवदात्माऽपि दुःखहेतुत्वादुच्छेद्य इति तन्न संगच्छते । विकल्पानुपपत्तेः । किमात्मा ज्ञानसंतानो विवक्षितस्तदतिरिक्तो वा । प्रथमे न विप्रतिपत्तिः । कः खल्वनुकूलमाचरति प्रतिकूलमाचरेत् । द्वितीये तस्य नित्यत्वे निवृत्तिरशक्यविधानैव । अनित्यत्वे प्रवृत्त्यनुपपत्तिः । व्यवहारानुपपत्तिश्चाधिकं दृषणम् । न खलु कश्चित्प्रेक्षावानात्मनस्तु कामाय सर्वं प्रियं भवतीति सर्वतः प्रियतमस्याऽऽत्मनः समुच्छेदाय प्रयतते । सर्वो हि प्राणी सति धर्मिणि मुक्त इति व्यवहरति नैनु । धर्मिनिवृत्ती निर्मलज्ञानोदयो महोदय इति विज्ञानवादिवादे + सामय्यभावः सामानाधिकरण्यानुपपत्तिश्च । भावनाचतुष्टयं हि तस्य कारणमभीष्टम् । तच्च क्षणभङ्गपक्षे स्थिरैकाधारासंभवाल्लङ्घनाभ्यासादिवदनासादितप्रकर्ष न स्फुटमभिज्ञानमभिजनयितुं प्रभवति । सोपप्लवस्य ज्ञानसंतानस्य बद्धत्वे निरुपलवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इति सामानाधिकरण्यं न संगच्छते । आवरणमुक्तिर्मुक्तिरिति जैनजनाभिमतोऽपि मार्गों न निसर्गतो निरर्गलः । अङ्ग भवान्पृष्टो व्याचेष्टां किमावरणम् । धर्माधर्मभ्रान्तय इति चेदिष्टमेव । अथ देहमेवाऽऽवरणम् । तथा च तनिवृत्तौ पञ्जरान्मुक्तस्य भुकस्येवाऽऽत्मनः सततोर्ध्वगमनं मुक्तिरिति चेत्तदा वक्तव्यम् । किमयमात्मा मूर्तोऽमूतों वा । * घ. पु. टि.- कया युक्त्या । अत्यन्तगूढायितम् । + घ. पु. टि.- सामग्यभावे । १ क.-ड. की नि । २ ख. निवृत्यस' । ३ क.-. "राभावाद । ४. ख. ग. घ. 'यादिति दुः। ५ घ. दभिधायिकपोणागु । ६ ख. कपोणायितं प्रव। ७ च. 'वं शकिष्टाः । स । ८ क.-. 'त्तिश्वा । ९ क.-ह. °णी मु । १० ख. 'क्तये व्य । ११ क. ख. ग. घ. न तु । १२ घः °वज्ञा । १३ घ. ° ! निसर्गतो न नि' । १४ क. ग.-च. निर्ग° । १५ ख. चष्टा कि। . Page #116 -------------------------------------------------------------------------- ________________ ९४ . सर्वदर्शनसंग्रहेप्रथमे निरवयवः सावयंवो वा । निरवयवत्वे निरवयवो मूर्तः परमाणुरिति परमाणुलक्षणापत्त्या परमाणुधर्मवदात्मधर्माणामतीन्द्रियत्वं प्रसजेत् । सावयवत्वे यत्सावयवं तदनित्यमिति +व्याप्तिबलेनानित्यत्वांपत्तौ कृतप्रणाशाकृताभ्यागमा निष्प्रतिबन्धौ प्रसरताम् । अमूर्तत्वे गमनमनुपपत्रमेव । चलनात्मिकाया: क्रियाया * मूर्नत्वप्रतिबन्धात् । पारतन्त्र्यं बन्धः स्वातन्त्र्यं मोक्ष इति चार्वाकपक्षेऽपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेदविवादः । ऐश्वर्य चेत्सातिशयतया सहक्षतया च प्रेक्षावती नाभिमतम् । प्रकृतिपुरुषान्यत्वख्याती प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिरिति सांख्याख्यातेऽपि पक्षे दुःखोच्छेदोऽस्त्येव । विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेत्येतावदवशिष्यते । तत्र पुरुषांश्रयामिति न श्लिष्यते । पुरुषस्य कोटरथ्याँवस्थाननिरोधापातात् । नापि प्रकृत्याश्रयः । अचेतनत्वात्तस्याः । किंच प्रकृतिः प्रवृत्तिस्वभाषा निवृत्तिस्वभावा वा । आधेऽनिर्मोक्षः । स्वभावस्यानपायात् । द्वितीये संप्रति संसारोऽस्तमियात् । नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरित भट्टसर्वज्ञाद्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव । परंतु नित्यसुखं न प्रमाणपद्धतिमध्यास्ते । श्रुतिस्तत्र प्रमाणमिति चेन । योग्यानुपलब्धियाधिते तदनवकाशात् । अवकाशे वा ग्रावेप्लवेऽपि तथाभावप्रसङ्गात् । ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारः क्षीरं विहायारोचकग्रस्तस्य = सौवीररुचिपनुभावयतीति चेत्तदेवन्ना. टकपक्षपतितं त्वद्वच इत्युपेक्ष्यते । सुखस्य सातिशयतयाँ सदृक्षतया बहुमत्यनीकाक्रान्ततया साधनप्रार्थनापरिक्लिष्टतया च दुःखाविनाभूतत्वेन विषानुषक्तमधुवदुःखपक्षनिक्षेपात् । नन्वेकमनुसंधिसतोऽपरं प्रच्यवत इति न्यायेन दुःखवन्सुरखमप्युच्छिद्यत इत्यकाम्योऽयं पक्ष इति चेन्मेवं मंस्थाः । सुखसंपादने दुःखसाधनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्धया प्रवर्तमानेन साम्यापातात् । तथाहि- न्यायोपार्जितेषु विषयेषु कियन्तः सुखखद्योताः कियन्ति दःखदुर्दिनानि । अन्यायोपार्जितेषु तु यद्भविष्यति तन्मनसाऽपि * घ. पु. टि.--मूर्तसंबन्धात् । = घ. पु. टि:--आरनालक सौवीरमित्यमरः। । १ ख. वा.निरवयवो । २ ख. प्रसंजेत। घ. प्रसज्येत। ३ घ. दृशत। ४ घ. वद्विकल्पासहतया मुक्तेदुनिरूपत्वापत्तेः। प्र। च. वदनुपादेयतयैव स्यात् । प्र°1५ क. "तामभि । ६ क. घ.--च. दोऽभ्युपेयते । वि° । ७ क.--ग ङ. च. "स्थ्यात्स्था । ८ क. ति भावस । ख. ग. °ति भाट्टस । घ. "ति भगवत्सर्व । ९ क.-ग. ङ. च. °वप्लवे । १० घः तथोपलम्भावकाशप ११ क.-ग. ङ. °नुभवती । च. "नुसरती । १२ ङ.-च. 'या प्रत्यक्ष । १३ ख. ग. र्थनप १४ क. ग. ङ-च. खमित्युच्छि। Page #117 -------------------------------------------------------------------------- ________________ अक्षपाददर्शनम् । ३५ चिन्तयितुं न शक्यमित्येतत्स्वानुभव मे प्रच्छादयन्तः सन्तो विदांकुर्वन्तु विदां वरा भवन्तः । तस्मात्परिशेषात्परमेश्वरानुग्रहवशाच्छ्रवणादिक्रमेणाऽऽत्मतत्त्वसा क्षात्कारवतः पुरुषधौरेयस्य दुःखनिवृत्तिरात्यन्तिकी निःश्रेयसमिति निरवद्यम् । 1 नन्वीश्वरसद्भात्रे किं प्रमाणं प्रत्यक्षमनुमानमागमो वा । न तावदत्र प्रत्यक्षं क्रमते । रूपादिरहितत्वेनातीन्द्रियत्वात् । नाप्यनुमानम् । तद्वय सलिङ्गाभावात् । नाऽऽगमः । विकल्पासहत्वात् । किं नित्योऽवगमयत्यनित्यो वा । आद्येऽपसिद्धान्तापातः । द्वितीये परस्पराश्रयापतिः । उपमानादिकमशैक्यशङ्कम् | 'नियतविषयत्वात् । तस्मादीश्वरः शशविषाणायत इति चेत्तदेतन्न चतुरचेतसां चेतसि चमत्कारमाविष्करोति । विवादास्पदं नगसागरादिकं सकर्तृकं कार्यत्वात्कुम्भवत् । ने चायमसिद्धो हेतुः । सावयवत्वेन तस्य सुसाधनत्वात् । ननु किमिदं सावयवत्वम् । अवयवसंयोगित्वमवयवसमवायित्वं वा । नाऽऽद्यः । गगनादौ व्यभिचारात् । न द्वितीयः । तन्तुत्वादावनैकान्त्यात् । तस्मादनुपपन्नमिति चेन्नैवं वादीः | समवेतद्रव्यत्वं सावयवत्वमिति निरुक्तेर्वक्तुं शक्यत्वात् । अवान्तरमहत्त्वेन वा कार्यत्वानुमानस्य सुकरत्वात् । नापि विरुद्ध हेतुः । साध्यविपर्ययंव्याप्तेरभावात् । नाप्यनैकान्तिकः । पक्षादन्यत्र वृत्तेरदर्शनात् । नापि कालात्ययापदिष्टः । बाधकानुपलम्भात् । नापि सत्प्रतिपक्षः । प्रतिभटादर्शनात् । ननु नगादिकमव र्तृकं शरीराजन्यत्वाद्गगनवदिति चेनैतत्परीक्षा क्षमभीक्ष्यते । न हि कठोरकण्ठीरवस्य कुरङ्गे शात्रः प्रतिभटो भवति । अजन्यत्वस्यैव ! समर्थतया शरीरविशेष- वैदर्थ्यात् । तर्ह्य जन्यत्वमेव साधनमिति चेन्न । असिद्धेः। नापि सोपाधिकत्वशङ्कनकलङ्काङ्कुरः संभवी । अनुकूलतर्कसंभवात् । यद्ययमकर्तृकः स्यात्कार्यमपि न स्यात् । इह जगति नास्त्येव तत्कार्य नाम यत्कारक चक्रमबंधी र्याऽऽत्मानमासादयेदित्येतदविवादम् । तच्च सर्वे कर्तृविशेषोपहितमर्यादम् | कर्तृत्वं चेतरकारकाप्रयोज्यत्वे सति सकलकारकमयोक्तुस्वलक्षणं ज्ञानचिकीर्षामयत्नाधारत्वम् । एवं च कर्तृव्यावृत्तेस्तदुपहित समस्तकारकव्यावृत्तावकारणककार्योत्पादप्रसङ्ग इति स्थूलः प्रमादः । तथाँ निरटङ्कि शंकर किंकरेण— १० । १ ख. 'मवच्छा' । २ ख. 'स्मात्परमे .0 । ३ क. 'द्वयाप्तिलि । ४ घ. 'शङ्कनीयमतद्विष । । ५ ख. 'शङ्कमवि' । ६ ख. घ. 'स्य सा ॰ष्टः साध° । घ. ॰ष्टः साध्याभावसा । ९ च ७ क. ग. ङ. च. त्ययोप । ८ क. ख. ग. ङ्गभावः । १० क. ख. 'सिद्धे ना। गः 'सिद्धेमा' | ११ च 'वसेयमात्मा' । १२ ख. घ. शेषाहि । १३ ख . ' थाहि नि । Page #118 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- अनुकूलेन तर्केण सनाथे सात साधने । साध्यव्यापकताभङ्गात्पक्षे नोपाधिसंभवः ॥ इति । यदीश्वरः कर्ता स्यात्तर्हि शरीरी स्यादित्यादिप्रतिकूलतर्कजातं जागर्तीति चेदीश्वरसिद्धयसिद्धिभ्यां व्याघातः । तदुदितमुदयनेन आगमादेः प्रमाणत्वे बाधनादनिषेधनम् । आभासत्वे तु सैव स्यादाश्रयासिद्धिरुद्धता॥ (न्या०कु०३।५) इति । न च विशेषविरोधः शक्यशङ्कः । ज्ञातत्याज्ञातत्वविकल्पपराहतत्वात् । स्यादेतत् । परमेश्वरस्य जगन्निर्माणे प्रवृत्तिः किमर्था । स्वार्था परार्था वा । आयेऽपीष्टप्राप्त्यर्थाऽनिष्टपरिहारार्था वा । नाऽऽद्यः। अवाप्तसकलकामस्य तदनुपपत्तेः । अत एव न द्वितीयः । द्वितीये प्रवृत्त्यनुपपत्तिः । कः खलु परार्थ प्रवर्तमानं प्रेक्षावानित्याचक्षीत । अथ करुणया प्रवृत्त्युपात्तिरित्याचक्षीत कश्चित्तं प्रत्याचक्षीत । तर्हि सर्वान्पाणिनः सुखिन एव सृजेदीश्वरः । न दुःखशबलान् । करुणाविरोधात् । स्वार्थमनपेक्ष्य परदुःखहाणेच्छा हि कारुण्यम् । तस्मादीश्वरस्य जगत्सर्जन न युज्यते । तदुक्तं भट्टाचार्य: प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते । जगच्च सृजतस्तस्य किं नाम न कृतं भवेत् ।। इति । अत्रोच्यते । नास्तिकशिरोमणे तावदीकिषायिते चक्षुषी निमील्य परि. भावयतु भवान् । करुणया प्रवृत्तिरस्त्येव । न च निसर्गतः सुखमयसर्ग: प्रसङ्गः । सृज्यमाणिकृतसुकृतदुष्कृतपरिपाकविशेषाद्वैषम्योपपत्तेः । न च स्वातन्त्र्यभङ्गः शङ्कनीयः । स्वाङ्ग स्वव्यवधायकं न भवतीनि न्यायन प्रत्युत तनिर्वाहात् । एक एव रुद्रो न द्वितीयोऽवतस्थे (ले० सं० १। ८ । ६) इत्यादिरागमस्तत्र प्रमाणम् । यद्येवं तर्हि परस्पराश्रयबाधव्याधि समाधत्स्वोत चेत्तस्यानुत्थानात् । किमुत्पत्तौ परस्पराश्रयः शङ्कन्यते ज्ञप्तौ वा । नाऽऽद्यः । आगमस्येश्वराधीनोत्पत्तिकत्वेऽपि परमेश्वरस्य नित्यत्वेनोत्पत्तेरनुपपत्तेः । नापिज्ञप्तौ । परमेश्वरस्योऽऽगमाधीनज्ञप्तिकत्वेऽपि तस्यान्यतोऽवगमात् । नापि तदनित्यत्वज्ञतौ । आगमानित्यत्वस्य तीवादिधर्मोपेतत्वादिना सुगमत्वात् । तस्मानिवतकधर्मानुष्ठानवशादीश्वरप्रसादसिद्धावमिमतेष्टसिद्धिरिति सर्वमवदातम् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहेऽक्षपाददर्शनम् ॥ १ क. ख. घ. "रुच्यते । इ । २ क.-ग. च. तः स्य त् । तदे । घ. °हतेः । स्या। ३ च. भङ्गार्था । ४ ङ. प्रहरणे । ५ ङ.-च. °न्दो हि प्र। ६ क ग. घ. गच्चास । ७ ख. °म् । एवं । ८ ख. घ. 'रमानाधी । ग. °रमायाधी । ९ च. 'स्याऽऽत्माधी । Page #119 -------------------------------------------------------------------------- ________________ जैमिनिदर्शनम् । अथ जैमिनिदर्शनम् ॥ १२ ॥ ननु धर्मानुष्ठानवशादभिमतधर्मसिद्धिरिति जेगीयते भवता । तत्र धर्मः किंलक्षणकः किंममाणक इति चेदुच्यते । श्रूयतामवधानेन । अस्य प्रश्नस्य प्रतिवचनं प्राच्यां मीमांसायां प्रादर्शि जैमिनिना मुनिना । सा हि मीमांसा द्वादशलक्षणी। तत्र प्रथमेऽध्याये विध्यर्थवादमन्त्रस्मृतिनामधेयार्थकस्य शब्दराशेः प्रामाण्यम् । द्वितीये कर्मभेदोपोद्घातप्रमाणापवादप्रयोगभेदरूपोऽर्थः । तृतीये श्रुतिलिङ्गवाक्यादिविरोधप्रतिपत्तिकर्मानारभ्याधीतबहुप्रधानोपकारकायाजादियाजमानचिन्तनम् । चतुर्थे प्रधानप्रयोजकत्वाप्रधानप्रयोजकत्वजुहूंपर्णतादिफलराजसूयगतजघन्याङ्गाक्षयूतादिचिन्ता । पञ्चमे श्रुत्यादिक्रमतद्विशेषवृद्ध्यवर्धनप्राबल्यदौर्बल्यचिन्ता । षष्ठेऽधिकारितद्धर्मद्रव्यप्रतिनिध्यर्थलोपनप्रायश्चित्त सत्रदेयवह्निविचारः । सप्तमे प्रत्यक्षवचनातिदेशशेषनामलिङ्गातिदेशविचारः । अष्टमे स्पष्टास्पष्टप्रबललिङ्गातिदेशापवादविचारः । नवम ऊहविचारारम्भसामोहमरोहतत्प्रसङ्गमगतविचारः । दशने बाधहेतुद्वारलोपविस्तारबाधकारणकार्थकत्वसमुच्चयग्रहादिसामप्रकीर्णनबर्थविचारः । एकादशे तन्त्रोपोद्घाततन्त्रावापतन्त्रप्रपञ्चनीवापप्रपश्चनचिन्तनानि । द्वादशे प्रसङ्गन्तन्त्रिनिर्णयसमुच्चयविकल्पवि. चारः। . तत्राथातो धर्मजिज्ञासेति ( जै० मू० १।१।१) प्रथममधिकरणं पूर्वमीमांसारम्भोपपादनपरम् । अधिकरणं च पश्चावयवमाचक्षते परीक्षकाः । ते च पश्चावयवा विषयसंशयपूर्वपक्षसिद्धान्तसंगतिरूपाः । तत्राऽऽचार्यमतानुसारेणाधिकरणं निरूप्यते । स्वाध्यायोऽध्येतव्य इत्येतद्वाक्यं विषयः । चोदनालक्षणोऽर्थो धर्मः ( जै० सू० १।१।२ ) इत्यारभ्यान्याहार्ये च दर्शनात् ( जै० सू० १२।४।४० ) इत्येतदन्तं जेमिनीयं धर्मशास्त्रमनारभ्यमारभ्यं वेति संदेहः । अध्ययनविधेरदृष्टार्थत्वदृष्टार्थत्वाभ्याम् । तत्रानारभ्यमिति पूर्वः पक्षः । अध्ययनविधेरर्थावबोधलक्षणदृष्टफलकत्वानुपपत्तेः । अर्थावबोधार्थमध्ययनविधिरिति वदन्वादी प्रष्टव्यः-किमत्यन्तमप्राप्तमध्ययनं विधीयते किंवा पाक्षिकमवघातवनियम्यत इति । न तावदाद्यः। विवादपदं वेदाध्य ख. 'तसि । २ क. ग. तिमन्त्रना। ३ ख. °मानं चि । ४ च. 'हपूर्ण । ५ ख. ल्यचि । ६ क. ग.-च. 'त्यक्षाव । ७ ख. हत। ८ च. न्त्रोऽन्यत । ९ घ. नाम । १०. र्थह। ११ घ. वादास्पदं । Page #120 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- यनमर्थावबोधहतुरध्ययनत्वाद्भारताध्ययनवदित्यनुमानेन विध्यनपेक्षतया प्राप्तत्वात । अस्तु तर्हि द्वितीयो यथा नख विदलनादिना तण्डुलनिष्पत्तिसंभवात्पाक्षिकोऽवघातोऽवश्यं कर्तव्य इति विधिना नियम्यते । तथा लिखितपाठे. नार्थज्ञानसंभवा-पाक्षिकमध्ययनं विधिना नियम्यत इति चेन्नैतच्चतुरस्रम् । दृष्टान्तदान्तिकयोधर्म्यसंभवात् । अवघातनिष्पन्नैरेव तण्डुलैः पिष्टपुरोडाशादिकरणेऽवान्तरापूर्वद्वारा दर्शपूर्णमासौ परमापूर्वमुत्पादयतो नापरथा। अतोऽपूर्वमवघातस्य नियमहेतुः । प्रकृते लिखितपाठजन्येनाध्य यनजन्येन वाऽर्थावबोधेन क्रत्वनुष्ठानसिद्धेरध्ययनस्य नियमहेतुनास्त्येव । तस्मादर्थावबोधहेतुविचारशास्त्रस्य वैधत्वं नास्तीति । तर्हि श्रूयमाणस्य विधेः का गतिरिति चेत्स्वर्गफलकोऽक्षरग्रहणमात्रविपिरिति भवान्परितुष्यत । विश्वजिन्न्यायेनाश्रुतस्यापि स्वगस्य कल्पयितुं शक्यत्वात् । यथा स स्वर्गः सर्वान्प्रत्यविशिष्टत्वात् ( जै.. सू. ४।३।१३ )इति विश्वजित्यश्रुतमप्यधिकारिणं संपादयता तद्विशेषणं स्वर्ग: फलं युक्त्या निरणायि तद्वदध्ययनेऽप्यस्तु । तदुक्तम्-: . ___ विनाऽपि विधिना दृष्टलाभान्न हि तदर्थता । । कल्प्यस्तु विविसामर्थ्यात्स्वर्गो विश्वजिदादिवत् ।। इति । एवं च सति वेदमधीत्य स्नायादिति स्मृतिरनुगृहीता भवति । अत्र हि वेदा. ध्ययनसमावर्तनयोरव्यवधानमवगम्यते । तावके मते त्वधीतेऽपि वेदे धर्मविचाराय गुरुकुले वस्तव्यम् । तथा सत्यव्यवधानं बांध्येत । तस्माद्विचारशा. स्त्रस्य वैधत्वाभावात्पाठमात्रेण स्वर्गसिद्धेः समावर्तनशास्त्राच्च धर्मविचारशास्त्रमनारम्भणीयमिति पूर्वपक्षसंक्षेपः। सिद्धान्तस्त्वन्यतः प्राप्तत्वादमाप्तविधित्वं माऽस्तु । नियमविधित्वपक्षस्तु वज्रहस्तेनापि नापहस्तयितुं पार्यते । तथाहि-स्वाध्यायोऽध्येतव्य इति तव्यप्रत्ययः प्रेरणापरपर्यायां पुरुषप्रवृत्तिरूपार्थभावनामाव्यामभिवाभावना* प्रत्याययति । सा ह्यर्थमायनी भाव्यमाकाङ्क्षति । न तावत्समानपदोपात्तमध्ययनं भाव्यत्वेन परिरमते । अध्ययन शब्दार्थस्य स्वाधीनोचारणक्षमत्वस्य वाङ्मनसव्यापारस्य क्लेशार्थकस्य नाव्यत्वासंभवात् । नापि समानवाक्योपात्तः * घ. पु. टि.-शाब्दी भावनाम् । १ व. 'हेत्वध्य । २ क.-ङ. वात् । । ३ ख. रमपू। ४ ख. नास्त्येव । ५ क. ख. ग. णवि । ६ ग. बाध्यते । ७ क. °वनां साऽपि भा। ग. वना साऽपि भा । ८ घ. नाभा । ९ क.. ङ. च. यनभाव्यं प० । १० स. ग. च. न भाव्यभावं प०। ११ ख. ग. भाव्यभावास। घः भाव्यास । Page #121 -------------------------------------------------------------------------- ________________ जैमिनिदर्शनम् । स्वाध्यायः । स्वाध्यायशब्दार्थस्य वर्णराशेनित्यत्वेन विभुत्वेन चोत्पत्त्यादीनां च. तुर्णा क्रियाफलानामसंभवात् । तस्मात्सामर्थ्यप्राप्तोऽवबोधो भाव्यत्वेनावतिष्ठते । अर्थी समर्थों विद्वानधिक्रियत इति न्यायेन दर्शपूर्णमासादिावधयः स्वविषयावघोधमपेक्षमाणाः स्वार्थबोधे स्वाध्यायं विनियुञ्जते । अध्ययनविधिश्च लिखितपाठादिव्यावृत्त्याऽध्ययनसंस्कृतत्वं स्वाध्यायस्यावगमयति । तथा च यथा दर्शपूर्णमासादिजन्यं परमापूर्वमवघातादिजन्यस्यावान्तरापूर्वस्य कल्पकं तथा समस्तक्रतुजन्यमपूर्वजातं क्रतुज्ञानसाधनाध्ययननियमजन्यमपूर्वं कल्पयिष्यति । नियमादृष्टानिष्टौ विधिश्रणवैफल्यमापयेत । न च विश्वजिन्न्यायेन फलकल्पनाऽवकल्प्यते । अर्थावबोधे दृष्टे फले सति फलान्तरकल्पनाया अयोगात् । तदुक्तम् लभ्यमाने फले दृष्टे नादृष्टफलकल्पना । विधेस्तु नियमार्थत्वान्नाऽऽनर्थक्यं भविष्यति ॥ इति । ननु वेदमात्राध्यायिनोऽर्थावबोधानुदयेऽपि साङ्गवेदाध्यायिनः पुरुषस्यार्थावबोघसंभवाद्विचारशास्त्रस्य वैफल्यमिति चेत्तदसमञ्जसम् । बोधमात्रसंभवेऽपि निर्णयस्य विचाराधीनत्वात् । तद्यथा- अक्ताः शर्करा उपदधाति ( तै० ब्रा० ३-१२-५) इत्यत्र घृतेनैव न तैलादिनत्ययं निर्णयो व्याकरणेन निगमेन निरुक्तेन वा न लभ्यते । विचारशास्त्रेण तु तेजो वै घृतमिति वाक्यशेषवशादर्थनिर्णयो लभ्यते । तस्माद्विचारशास्त्रस्य वैधत्वं सिद्धम् । न च वेदमधीत्य स्नायादिति शास्त्रं गुरुकुलनिवृत्तिपरं व्यवधानप्रतिबन्धकं बाध्येतेति मन्तव्यम् । स्नात्वा भुङ्क्त इतिवत्पूर्वापरीभावसमानकर्तृकत्वमात्रप्रतिपत्त्याऽध्ययनसमावर्तनयो रन्तर्याप्रतिपत्तेः। तस्माद्विधिसामर्थ्यादेवाधिकरणसहस्रात्मकं पूर्वमीमांसाशास्त्रमारम्भणीयम् । इदं चाधिकरणं शास्त्रेणोपोद्घातत्वेन संबध्यते । तदाह चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं प्रचक्षते ॥ इति । • इदमेवाधिकरणं गुरुमतमनुसृत्योपन्यस्यते-अष्टवर्ष ब्राह्मणमुपनयीत तमध्यापयीतेत्यत्राध्यापनं नियोगविषयः प्रतिभासते । नियोगश्च नियोज्यमपेक्षते । कश्चात्र नियोज्य इति चेदाचार्यककाम एव । संमानन (पा० सू० १३३६) ...१ क.-ड. विष । २ ख. पयस्वविषया । घ. °षयः स्वविषया । ३ घ. 'माणाः स्वाववो । ङ-च. माणास्तत्त्वबो । ४ ख. च द’। ५ क. ख. वणं वै०१६ घ.-. °स्याव' । ७ क.-ग. छ. च. . 'त्यर्थनि । ८ ङ. °न्तर्यप्र । ९ ख. पनविनि। . . . Page #122 -------------------------------------------------------------------------- ________________ १०० सर्वदर्शनसंग्रहेइत्यादिना पाणिन्यनुशासनेनाऽऽचार्य के गम्यमाने नयतेर्धातोरात्मनेपदस्य विधानात् । उपनयने यो नियोज्यः स एवाध्यापनेऽपि । तयोरेकप्रयोजनत्वात् । अत एवोक्तं मनुनों मुनिना उपनीय तु यः शिष्यं वेदमध्यापयेदिङ्गः । साङ्गं च सरहस्यं च तमाचार्य प्रचक्षते ।। (म० स्मृ० २ । १४० ) इति । ततश्चाऽऽचार्यकर्तृकमध्यापनं माणवककतृकेणाध्ययनेन विना न सिध्यतीत्यध्यापनविधिप्रयुक्त्यैवाध्ययनानुष्ठानं सेत्स्यति । प्रयोज्यव्यापारमन्तरेण प्रयोजकन्यापारस्यानिर्वाहात् । त_ध्येतव्य (तै० आ०२।१५) इत्यस्य विधित्वं में सिध्यतीति चेन्मा सैत्सीत्का नो हानिः । पृथगध्ययनविधेरभ्युपगमे प्रयोजनाभावात् । विधिवाक्यस्य नित्यानुवादत्वेनाप्युपपत्तेः । तस्मादध्ययनविधि' मुपजीव्य पूर्वमुपन्यस्तौ पूर्वोत्तरपक्षी प्रकारान्तरेण प्रदर्शनीयौ। विचारशास्त्रमवैधत्वेनानारब्धव्यमिति पूर्वपक्षो वैधत्वेनाऽऽरब्धव्यमिति राद्धान्तः । तत्र वैधत्वं वदता वदितव्यं किमध्यापनविधिर्माणवकस्यार्थावबोधमपि प्रयुङ्क्ते किंवा पाठमात्रम् । नाऽऽद्यः । विनाऽप्यर्थावबोधेनाध्यापनसिद्धः। न द्वितीयः । पाठमात्रे विचारस्य विषयप्रयोजनयोरसंभवात् । आपाततः प्रतिभातः संदिग्धोऽर्थो विचारशास्त्रस्य विषयो भवति । तथा सति यत्रीर्थावग: तिरेव नास्ति तत्र संदेहस्य का कथा । विचारफलस्य निर्णयस्य प्रत्याशा दूरत एव । तथा च यदसंदिग्धमप्रयोजनं न च तत्प्रेक्षावत्मतिपित्सागोचरैः । समनस्केन्द्रियसंनिकृष्टः स्पष्टालोकमध्यमध्यासीनो घट इति न्यायेन विषयप्रयोजनयोरसंभवेन विचारशास्त्रमनारभ्यमिति पूर्वः पक्षः।। अध्यापनविधिनाऽर्थावबोधो मा प्रयोजि । तथाऽपि साङ्गग्वेदाध्यायिनो गृहीतपदपदार्थसंगतिकस्य पुरुषस्य पौरुषेयेष्विव प्रबन्धेष्वान्नायेऽप्यर्थावबोधः प्रामोत्येव । ननु यथा विषं भुक्ष्वेत्यत्र प्रतीयमानोऽप्यों न विवक्ष्यते माऽस्य गृहे भुक्था इति भोजनप्रतिषेधस्य मातृवाक्यतात्पर्यविषयत्वात् । तथाऽऽम्नायार्थस्याविवक्षायां विषयावभावदोषः प्राचीनः प्रादुःध्यादिति चेन्मेवं १ . °ना । उ॰ । २ च. जः । सकल्पं स । ३ घ. युक्तैवा । ४ च. न प्रसि । ५ क-ह. धित्वस्य । ६ च. पूर्वपक्षसिद्धान्तौ । ७ च. धनम । ८ क. ग. घ. प्रयुञ्जते । ख. च. प्रयुज्यन्ते । ९ च.नाध्ययन। १० क.-ङ. स्त्रवि । ११ च. त्राव । १२ क.-ग. .च. 'दिग्धः । १३ घ. ङ. च. °रः । यथा स । १४ ख. अध्ययन । Page #123 -------------------------------------------------------------------------- ________________ जैमिनिदर्शनम् । घोषः । दृष्टान्तदाष्टन्तिकयौपम्यसंभवात् । विषभोजनवाक्यस्याऽऽतमणीतस्वेन मुख्यार्थपरिग्रहे षाधः स्यादिति विवक्षा नाऽऽधीयते । अपौरुषेये तु वैदे प्रतीयमानोऽर्थः कुतो न विवक्ष्यते । विवक्षिते घ वेदार्ये यत्र यत्र पुरुषस्य संदेहः स सर्वोऽपि विचारशास्त्रस्य विषयो भविष्यति । तनिर्णयच प्रयोजनम् । तस्मादध्यापनविधिप्रयुक्तेनाध्ययनेनावगम्यमानस्यार्थस्य विचाराईत्वादिचार शास्त्रस्य वैधत्वेन विचारशास्त्रमारम्भणीयमिति राद्धान्तसंग्रहः।। स्यादेतत् । वेदस्य कथमपौरुषेयत्वमभिधीयते । तत्प्रतिपादकप्रमाणाभावात् । अथ मन्येथा अपौरुषेया वेदाः संप्रदायाविच्छेदे सत्यस्मर्यमाणकर्तृः कत्वादात्मवदिति । तदेतन्मन्दम् । विशेषणासिद्धः । पौरुषेयवेदवादिभिः प्रलये संप्रदायविच्छेदस्य कक्षीकरणात् । किंच किमिदमस्मर्यमाणकर्तृकत्वं नामा: भीयमागकर्तकत्वमस्मरणगोचरकर्तकत्वं वा । न प्रथमः कल्पः । परमेश्वरस्य कर्तुः प्रमितेरभ्युपगमात् । न द्वितीयः । विकल्पासहत्वात् । तथाहि-किमेकेनास्मरणमभिप्रेयते सर्वैर्वा । नाऽऽद्यः । यो धर्मशीलो जितमानरोष इत्यादिषु मुक्तकोक्तिषु व्यभिचारात् । न द्वितीयः । सर्वास्मरणस्यासर्वज्ञदुर्बानत्वात् । पौरुषेयत्वे प्रमाणसंभवाच । वेदवाक्यानि पौरुषेयाणि वाक्यत्वात्कालिदासादिवाक्यवत् । वेदवाक्याँन्याप्तप्रणीतानि प्रमाणत्वे सति वाक्यत्वान्मन्वादिवा. क्यवदिति । ननु वेदस्याध्ययनं सर्व गुर्वध्ययनपूर्वकम् । वेदाध्ययनसामान्यादधुनाध्ययनं यथा ॥ . इत्यनुमानं प्रतिसाधनं प्रगल्भत इति चेत्तदपि न प्रमाणकोटि प्रवेष्टुमीष्टे । भारताध्ययनं सर्व गुर्वध्ययनपूर्वकम् । भारताध्ययनत्वेन सांप्रताध्ययनं यथा ॥ इत्याभाससमानयोगक्षेमत्वात् । ननु तत्र व्यासः कर्तेति स्मयते । ... को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद्भवेत् । इत्यादाविति चेत्तदसारम् । 'ऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माय. जुस्तस्मादजायत ' (ते. आ० ३ । १२) इति पुरुषसूक्ते वेदस्य सर्तकतामतिपादनात् । किंचानित्यः शब्दः सामान्यवत्त्वे सत्यस्मदादिब ोन्द्रियग्राह्यत्वाघटवत् । नन्विदमनुमानं स एवायं गकार इति प्रत्यभिज्ञाप्रमाणप्रतिहत १ ख. "नस्याप्यप्र। २ क.-T. ङ. च. कथं । ३ घ. क्षीकारात् । ४ क.-ड. प्रतीय। ५ घ. 'त् । नापि द्वि । ६ ख. 'ल्पानुपपत्तेः । त° । ७ च. 'क्यान्यप्र । ८ च. नवाच्यत्वाद । ९ च.' 'प्रतिप्रग । १० घ. त्यादिवचनेनेति ।...................... ... Page #124 -------------------------------------------------------------------------- ________________ सर्पदर्शनसंग्रहेमिति चेत्तदतिफल्गु । ठूनपुनर्जातकेशंदलितकुन्दादाविव प्रत्यभिज्ञायाः सामान्य विषयत्वेन बाधकत्वाभावात् । नन्वशरीरस्य परमेश्वरस्य तास्वादिस्थानाभावेन वर्णोधारणासंभवात्कथं तत्पणीतत्वं वेदस्य स्यादिति चेन्न तद्भद्रम् । स्वभावतोऽभरीरस्यापि तस्य भक्तानुग्रहार्थं लीलाविग्रहग्रहणसंभवात् । तस्मादिस्यापौरुपेयर्ववाचोयुक्तिर्न युक्तेति चेत्तत्र समाधानमभिधीयते । किमिदं पौरुषेयस्वं सिषाधयिषितम् । पुरुषादुत्पन्नत्वौत्रं यथाऽस्मदादिभिरहरहरुच्चार्यमाणस्य बंदस्य । प्रमाणान्तरेणार्थमुपलभ्य तत्प्रकाशनाय रचितत्वं वा यथाऽस्मदादिभिरेव निबध्यमानस्य प्रबन्धस्य । प्रथमे न विप्रतिपत्तिः । चरमे किमनुमानबलात्तत्साधनमागमबलाद्वा । नाऽऽद्यः । मालतीमाधवादिवाक्येषु सव्यभिचारस्वात् । अथ प्रमाणत्वे सतीति विशिष्यत इति चेत्तदपि न विपधितो मनसि वैशयमापद्यते । प्रमाणान्तरागोचरार्थपतिपादकं हि वाक्यं वेदवाक्यम् । तत्प्रमाणान्तरगोचरार्थप्रतिपादकमिति साध्यमाने मम माता वन्ध्येति व्याघातापातात् । ... . किंच परमेश्वरस्य लीलाविग्रहपरिग्रहाभ्युपगमेऽप्यतीन्द्रियार्थदर्शनं न संजाघटीति । देशकालस्वभावविप्रकृष्टार्थग्रहणोपायाभावात् । न च तच्चक्षुरादिकमेवं तादृक्प्रतीतिजननक्षममिति मन्तव्यम् । दृष्टानुसारेणैव कल्पनाया आश्रयणीयत्वात् । तदुक्तं गुरुभिः सर्वज्ञनिराकरणवेलायाम् यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मादिदृष्टौ स्यान्न रूपे श्रोत्रवृत्तिता ।। इति । अत एव नाऽऽगमबलात्तत्साधनम् । यथा-तेन प्रोक्तमिति ( पा० सू० ४ । ३ १०१) पाणिन्यनुशासने जाग्रत्यपि काठककालापतैत्तिरीयमित्यादिसमाख्याऽ. ध्ययनसंप्रदायप्रवर्तकविषयत्वेनोपपद्यते । तद्वदत्रापि संप्रदायपवर्तकविषयत्वेनाप्युपपद्यते । न चानुमानबलाच्छब्दस्यानित्यत्वसिद्धिः। प्रत्यभिज्ञाविरोधात् । न चासत्ययकत्वे सामान्यनिबन्धनं तदिति सांप्रतम् । सामान्यनिबन्धनत्वमस्य बलब द्वाधकोपनिपातादास्थीयते कचिद्वयभिचारदर्शनाद्वा । तत्र कचिद्वयभिचारदर्शने तदुत्प्रेक्षायामुक्तं स्वतःप्रामाण्यवादिभिः- ... । १ घ. °ल्गु पु । २ च. शकालिकाण्डाद्वावि । ३ च. न त्वश° । ४ घ. 'हसं° । ५ ग. 'यत्वं सि । ६ घ. "त्ववचो । ७ क. ख. घ. चेदत्र। ८ घ. मात्रम् । अथवाऽस्म । ९ ग. 'काशाय । १० ख.ग. घ. 'शिष्ट इ । ११ क. ख. घ. वैषम्य । १२ घ. हि वे। १३ घ. दृग्ज्ञानक्ष। १४ । क. ख. °तिज्ञानक्ष । १५ क. °व्यम् । न्यायात् । दृ । १६ च. °क्तं भट्टाचार्यैः । स । Page #125 -------------------------------------------------------------------------- ________________ जैमिनिदर्शनम् । उत्प्रेक्षेत हि यो मोहादज्ञातमपि बाधनम् । . . स सर्वव्यवहारेषु संशयात्मा विनश्यति ।। इति । नन्विदं प्रत्यभिज्ञानं गत्वादिजातिविषयं ने गादिव्यक्तिविषयम् । तासांप्रतिपुरुषं भेदोपलम्भात् । अन्यथा सोमशर्माऽधीत इति विभागो न स्यादिति चेत्तदपि शोभा न बिभर्ति। गादिव्यक्तिभेदे प्रमाणाभावेन गत्वादिजातिविषयकल्पनाया प्रमाणाभावात् । यथों गोत्वमजानत एकमेव भिन्नदेशपरिमाणसंस्थानव्यक्त्गुपधानवशाद्भिन्नदेशमिवॉल्पमिव महादिव दीर्घमिव वामनमिव प्रथते तथा गव्यक्तिमजानत एकाऽपि व्यञ्जक भेदात्तत्तद्धर्मानुबन्धिनी प्रतिभासते । एतेन विरुद्धधर्माध्यासाझेदसिद्धिरिति अत्युक्तम् । तत्र किं स्वाभाविको विरुद्धधर्माध्यासो भेदसाधकत्वेनाभिमतः प्रातीतिको वा । प्रथमेऽसिद्धिः। अपरथा स्वाभाविकभेदाभ्युपगमे दश गकारादचारयच्चैत्र इति प्रतिपत्तिः स्यान्न तु दशकृत्वो गकार इति । द्वितीये तु न स्वाभाविकभेदसिद्धिः । न हि परोपाधिभेदेन स्वाभाविकमक्यं विहन्यते । = मा भन्नभसोऽपि कुम्भाधुपाधिभेदात्स्वाभाविको भेदैः । तत्र व्यावृत्तव्यवहारो नादनिदानः । तदुक्तमाचार्य: - प्रयोजनं तु यज्जातेस्तद्वर्णादेव * लप्स्यते । व्यक्तिलभ्यं तु नादेभ्य इति गत्वादिधीवृथा ।। इति । । तथा च मत्यभिज्ञा यदा शब्दे जागर्ति निरवग्रहा। अनित्यत्वानुमानानि सैव सर्वाणि बाधते ॥ एतेनेदमपास्तं यदवादि वागीश्वरेण मानमनोहरे-अनित्यः शब्द इन्द्रियग्राह्यविशेषगुणत्वाचक्षुरूपवदिति । शब्दद्रव्यत्ववादिनं प्रत्यसिद्धः । ध्वन्यंशे सिद्धसाधनत्वाच्च । अश्रावणवोपाधिबाधितत्वाच्च । उदयनस्तु आश्रयाप्रत्यक्षत्वेऽप्यभावस्य प्रत्यक्षता महता प्रबन्धने प्रतिपादयभित्तः कोलाहल उत्पन्नः = इत आरभ्य यज्जातेरित्यन्तो ग्रन्थो घ. पुस्तके न विद्यते। * घ. पु. टि.--ततः स्वाभाविकमैक्यं वर्णादेव। १ ग. न गोदि । २ घ. या गादिव्यक्तिविषयता संभवति । तासां प्रतिपुरुषं भेदे प्र। ३ क. था गोश्रत्वम । ङ.-च. °था गत्व । ४ घ. रिणामसं° । ५ च.-- वाकल्प । ६ क. ख. ग. "क्तिराजा । ७ च. प्रयुक्तम् । ८ ङ. च. °दसमावि । ९ घ. °तः प्रती । १० ग. मेऽतिद्धः । अं। ११ ग. °नुच्चार । १२ क. ग. विको में। ख. विकी में° . १३ क. ख. ग. ते प्र । १४ च. 'दः । तेन तत्र व्यावृत्तनिनादो ना। १५ घ. ते । ताराद्यभिव्यक्तिस्तु ना। १६ क. ग.-च. दिनां प्रत्यक्षसि । १७ घ. °नां शब्दे विशेषगुणत्वासिद्धः । प्रत्यक्षसिद्धध्व । Page #126 -------------------------------------------------------------------------- ________________ १०४ सर्वदर्शनसंग्रहे-- शब्द इति व्यवहाराचरणे कारणं प्रत्यक्षं शब्दानित्यत्वे प्रमाणयति स्म । सोऽपि विरुद्धधर्मसंसर्गस्यौपाधिकत्वोपपादनन्यायेन दत्तरक्तबलिवेतालसमः । यो हि नित्यत्वे सर्वदोपलब्ध्यनुपलब्धिप्रसङ्गो न्यायभूषणकारोक्तः सोऽपि ध्वनिसंस्कृतस्योपलम्भाभ्युपगमात्प्रतिक्षिप्तः । यत्तुं युगपदिन्द्रियसंबन्धित्वेन प्रतिनियतसंस्कारकसंस्कार्यत्वाभावानुमानं तदात्मन्यनैकान्तिमित्यलमतिकलहेन । ततश्च वेदस्यापौरुषेयतया निरस्तसमस्तशङ्काकलङ्कगफूरत्वेन स्वतःसिद्धं धर्मे प्रामाण्यामिति सुस्थितम् । स्यादेतत् । प्रमाणत्वाप्रमाणत्वे स्वतः सांख्याः समाश्रिताः। .. नैयायिकास्ते पर: सौगताश्चरमं स्वतः ॥ प्रथमं परतः पाहुः प्रामाण्यं वेदवादिनः । प्रमाणत्वं स्वतः माहुः परतश्चाप्रमाणताम् ।। इति षादिविवाददर्शनात्कथंकारं स्वतःसिद्धं धर्म प्रामाण्यमिति सिद्धवत्कृत्य स्वी क्रियते । किंच किमिदं स्वतः प्रामाण्यं नाम । किं स्वत एव प्रामाण्यस्य जन्म । आहोस्वित्स्वाश्रयज्ञानजन्यत्वम् । किमुत स्वाश्रयज्ञानसामग्रीजन्यत्वम् । उताहो ज्ञानसामग्रीजन्यज्ञानविशेषाश्रितत्वम् । किंवा ज्ञानसामान्यसामग्रीमात्रजन्यज्ञानविशेषाश्रितत्वम् । तत्राऽऽद्यः सावधः । कार्यकारणभावस्य भेदसमानाधिकरणत्वेनैकस्मिन्नसंभवात् । नापि द्वितीयः । गुणस्य सतो ज्ञानस्य प्रामाण्यं प्रति समवायिकारणतया द्रव्यत्वापातात् । नापि तृतीयः। प्रामाण्यस्योपाधित्वे जातित्वे वा जन्मायोगात् । स्मृतित्वानधिकरणस्य ज्ञानस्य बाधा. त्यन्ताभावः प्रामाण्योपाधिः । न च तस्योत्पत्तिसंभवः । अत्यन्ताभावस्य नित्यत्वाभ्युपगमात् । अत एव न जातेरपि जनियुज्यते । नापि चतुर्थः । ज्ञानविशेषो ह्यपी । विशेषसामय्यां च सामान्यसामयनुपविशति शिशपासाम १. ग. हारवारणे का । ख. 'हारका । घ. हारः का । २५. 'त्यक्षश। ३ च. "लिरेव भेतालः । ४ क. ख. वेतालमयोऽपि नि । ग. °वेतालसमयो हि । घ. 'वेतालमय एतेनापि नि । ५ घ. °सङ्गति न्या । ६ घ. "रोक्तपक्षः सो । ७ घ. निकृतत्वोप । ८ ग. 'तु यदि । ९ ख. घ. रसं । १० च. कमसति कलकले। त° । घ. °कमित्यलमतिकलकलेन । ततो वे । ११ ख. स्तश। १२ ङ. 'वत्वस्य । १३ ख. 'धिकत्वे । १४ ग.घ. भधी । अ । १५ घ. शेषे हि प्रामाण्यम् । प्रामाण्यवि । १६ क. ख. माणवि। Page #127 -------------------------------------------------------------------------- ________________ जैमिनिदर्शनम् । १०५ ध्यामिव वृक्षसामग्री । * अपरथा +तस्याऽऽकस्मिकत्वं प्रसज्येत । तस्मात् =परतस्त्वेन स्वीकृताप्रामाण्य विज्ञानसामान्यसामग्रीजन्याश्रितमित्यतिव्याप्तिरापद्यत । पश्चमविकल्पं विकल्पयामः। किं दोपाभावसहकृतज्ञानसामग्रीजन्य॑त्वमेव ज्ञानसामग्रीमात्रजन्यस्वं किंवा दोषाभावासहकृतज्ञानसामग्रीजन्यत्वम् । नाऽऽयः। दोपाभावसहकृतमानसामग्रीजन्यत्वमेव परतः प्रामाण्यमिति परतःप्रामाण्यवादिभिरुररीकरणात् । नापि द्वितीयः । दोषाभावसहकृतत्वेन सामग्यां सहकृतत्वे सिद्धेऽनन्यथासिद्धान्वयव्यतिरेकसिद्धतया दोषाभावस्य कारणताया वज्रलेपायमानत्वात् । अभावः कारणमेव न भवतीति चेत्तदा वक्तव्यमभावस्य कार्यत्वमस्ति न वा । यदि नास्ति तदा पटमध्वं लानुपपत्या पटस्य नित्यताप्रसङ्गः । अथास्ति किमपराद्धं कारणत्वेनेति सेयमुभयतःपाशा रज्जुः। तदुदितमुदयनेन- भावो यथा तथाऽभावः कारणं कार्यवन्मतः ॥ (न्या०कु०१।१०) इति । तथाच प्रयोगः-विमतं प्रमाण्यं ज्ञानहेत्वतिरिक्तहेत्वधीनं कार्यत्वे सति तद्विशेपाश्रितत्वादप्रामाण्यवेत् । प्रामाण्यं परतो ज्ञायतेऽनभ्यासदशायां सांशयिकत्वादप्रामाण्यवत् । तस्मादुत्पत्तौ ज्ञप्तौ च परतस्त्वे प्रमाणसंभवात्स्वतः सिद्धं भामाण्यमित्येतत्पूतिकूष्माण्डायत इति चेत्तदेतदाकाशमुष्टिहननायते । विज्ञानसामग्रीजन्यत्वे सति । तदतिरिक्तहेत्वजन्यत्वं प्रमायाः स्वतस्त्वमिति निरुक्तिसंभवात् । अस्ति चात्रानुमानम् । विमता प्रमा विज्ञानसामग्रीजन्यत्वे सति तदतिरिकजन्या न भवति अप्रमात्वानधिकरणत्वात् । घटादिप्रमावत् । न चौद. यनमनुमानं परतस्त्वसाधकमिति शङ्कनीयम् । प्रमा दोषव्यतिरिक्तज्ञानहेत्वतिरिक्तजन्या न भवति ज्ञानत्वादप्रमावदिति प्रतिसाधनग्रहग्रस्तत्वात् ज्ञान साम * घ. पु. टि.- अपरथा विशेषसामग्न्यनङ्गीकारे । + घ. पु. टि.- तस्य विशेषविज्ञानस्य । घ. पु. टि.-सामान्यसामग्यतिरिक्तविशेषसामग्रीजन्याश्रितत्वं परतस्त्वम् । .. इत आरभ्य सति इत्यन्तो प्रन्थः व. पुस्तके नास्ति । १ क. सभेत् । ख. सञ्जत। घ.-च. °सजेत् । २ क. ख. ग. घ. माण्यवि । ३ क. ख. श्रितोति' । घ. श्रित इति व्या । ४ ख. पद्यते। प°। ५ ग. तसा । च. तसामप्रथाभावज° । ६ . ग.न्यत्वं ज्ञा। ७क. ख. ग. °नमात्रसा। ८ क. ङ.-च. किं दो। ९ ख.-च. भावस। १० ख. 'वे सि । ११ ख. ग. मग्या दोषाभावस । घ. मग्या दोषाभावासहकृतत्वासिद्धेः । भ। १२ क. द्धेऽन्य । १३ ग. °वकर । १४ क. ख. ग. °णतया । १५ च. °त् । अथ, । १६ घ. °दा घट। १७ घ. °नुत्पत्त्या । १८ ख. त्या घट। १९ घ. दयेन । २० क.-ग ङ. च. 'मता प्रमा ज्ञा । २१ क. ग.-च. 'त्वादप्रमावत्प्र । २२ ख. ग. घ. वदप्रा । २३ घ. स्त्वे प्रामाण्यसं° । २४ घ. ण्डायितामति । २५ ख. °ति प्र। १४ Page #128 -------------------------------------------------------------------------- ________________ १०६ सर्वदर्शनसंग्रहे— ग्रीमात्रादेव प्रमोत्पत्ति संभवे तदतिरिक्तस्य गुणस्य दोषाभावस्य वा कारणत्वकल्पनायां कल्पनागौरवप्रसङ्गाच्च । ननु दोषस्याप्रपाहेतुत्वेन तदभावस्य प्रेम प्रति हेतुत्वं दुर्निवारमिति चेन्न । दोषाभावस्याप्रमाप्रतिबन्धकत्वेनान्यथासिद्धत्वात् । तस्माद्गुणेभ्यो दोषाणामभावस्तदभावतः । अप्रामण्यद्वय सत्त्वं तेनोत्सर्गो नयोदितः || इति । तथा प्रमाज्ञप्तिरपि ज्ञानज्ञापकसामग्रीत एव जायते । न च संशयानुदयमसङ्गने बाधक इति युक्तं वक्तुम् । सत्यपि प्रतिभासपुष्कलकारणे प्रतिबन्धकदोघादिसमवर्धनात्तदुपपत्तेः । किंच तावकमनुमानं स्वतः प्रमाणं न वा । आधेनैकान्तिकता | द्वितीये तस्यापि परतः प्रामाण्यमेवं तस्य तस्यापीत्यनवस्था दुरवस्था स्यात् । १३. २० यदत्र कुसुमाञ्जल|बुदयनेन झटिति चुरप्रवृत्तेः प्रामाण्यनिश्चया श्रीनत्वामावमापादयता प्रण्यगादिं । प्रवृत्तिहींच्छामपेक्षते । तत्प्राचुर्य चेच्छाप्राचुर्यम् । इच्छा चेष्टसाधनताज्ञानम् । तच्चेष्टजातीयत्वलिङ्गनुभवम् । सोऽपीन्द्रियार्थसंनिकर्षम् | प्रामाण्यग्रहणं तु न क्वचिदुपयुज्यत इति । तदपि तस्करस्य पुरस्ताकक्षे सुवर्णमुपेत्य सर्वाङ्गोद्घाटनमिव प्रतिभाँति । यतः समीहितसाधनताज्ञानमेव प्रमाणैतयाऽवगम्यमानमिच्छां जनयतीत्यत्रैत्र स्फुट एव प्रामाण्यग्रहणस्वोपयोगः । किंच क्वचिदपि चेन्निर्विचिकित्सा प्रवृत्तिः संशयादपपद्येत तर्हि सर्वश्र तथाभाव संभवात्प्रामाण्यनिश्चयो निरर्थकः स्यात् । तथोक्तम् - अनिश्चितस्य सत्वमेव दुर्लभमिति । यदि सत्त्वं सुलभं भवेत्तदा प्रामाण्यं दत्तजलाञ्जलिक भवेदित्यलमतिप्रपञ्चेन | यस्मादुक्तम् — २४ २६ तस्मात्सद्बोधकत्वेन प्राप्ता बुद्धेः प्रमाणता । अन्यथा स्वहेतुत्थदो पज्ञानादपोद्यते । इति । १ ख. दोषभा । २ ख. प्रमाहे' । ३ ख 'स्याप्रति । ४ घ 'माण्यासत्त्वं तेनोत्सर्गस्य प्रामाण्यस्यानयोदितत्वादिति । ५ ख. 'सत्त्वे ते' । ६ क. 'त्सर्गे न । ७ क. ख. ग. घ. 'ति च यु । ८ च. 'धानवशादनुप° । ९ क. ख. ग. घ. °स्था तदवस्था स्या । १० च प्रकृतप्र' । ११ क. ख. घ. 'दिति । १२ घ. 'हीनेच्छा' । १३ घ. 'ते । किं तत्प्राचुर्यच्छा । १४ क. 'चुर्येच्छा' । ख. 'चुर्ये इच्छा' । 'चुर्ये चे' १५ च ङ्गाभावम् । १६ घ १८ घ. °णं विना क्व' । १९ च मपलपतः स । २० घ. 'पेतं स । २१ क. ङ. भावः । अतः | २२ क.घ.- ङ. 'नज्ञ" । ख. ग. 'नमज्ञा । २३ च. 'णयतोऽव । २४ घ तदभा । २५क. - ग. ङ. च. 'तू ! अ° । २६ क. - ग. 'भवः सोऽ° । १७ घ 1 & इ. च. 'ति प्रा । २७ घ. अथान्य' । Page #129 -------------------------------------------------------------------------- ________________ १०७ पाणिनिदर्शनम् । तस्माद्धर्मे स्वतःसिद्धप्रमाणभाव ज्योतिष्टोमन स्वर्गकामो यजेतेत्यादिविध्यवादमननामधेयात्मके वेदे यजेतेत्यत्र प्रत्ययः प्रकृत्यर्थोपरक्तां भावनामाभिपत्त इति सिद्ध व्युत्पत्तिमभ्युपगच्छनामभिहितान्वयवादिनां भट्टाचार्याणां सिद्धान्तः । यागविषयं नियोगामिति कार्ये व्युत्पत्तिमनुसरतामन्विताभिधानबादिनां प्रभाकरगुरूणां सिद्धान्त इति सर्वमवदातम् । . इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे जैमिनिदर्शनम् ॥ अथ पाणिनिदर्शनम् ॥ १३ ॥ नवयं प्रकृतिभागोऽयं प्रत्ययभाग इति प्रकृतिप्रत्ययविभागः कथमवगम्यत इति चेत्पीतपातञ्जलजलानामेतच्चाद्यं चमत्कारं न करोति । व्याकरणशास्त्रस्य प्रकृतिप्रत्ययविभागप्रतिपादनपरतायाः प्रसिद्धत्वात् । तथाहि-पतञ्जलेभंगवतो महाभाष्यकारस्येदमादिमं वाक्यम्-अथ शब्दानुशासनमिति (पात० म० भा० शश१)। अस्यार्थी-अथेत्ययं शब्दोऽधिकारार्थः प्रयुज्यते । अधिकारः प्रस्तावः । प्रारम्भ इति यावत् । शब्दानुशासनशब्देन च पाणिनिप्रणीतं व्याकणशास्त्रं विवक्ष्यते । शब्दानुशासनमित्येतापत्यभिधीयमाने संदेहः स्यात् । किं शब्दानुशासनं प्रस्तूयते न वेति । तथा मा प्रसाङ्गीदित्यथशब्दं पायुक्त । अर्थशब्दप्रयोगवलेनार्थान्तरव्युदासेन प्रस्तूयत इत्यस्यार्थस्याभिधीयमानत्वात् । अनेन हि वैदिकाः शब्दाः 'शं नो देवीरभिष्टये' ( अ० सं० १ । १ ) इत्यादयस्तदुपकारिणी लौकिकाः शब्दा गौरश्वः पुरुषो हस्ती शकुनिरित्यादयः भानुशिष्यन्ते व्युत्पाद्य संस्क्रियन्ते प्रकृतिप्रत्ययविभागवत्तया बोध्यन्त इति शब्दानुशासनम् । अत्र केचित्पर्यनुयुञ्जते-अनुशासिक्रियायाः सकर्मकत्वात्कर्मभूतस्य शब्दस्य कर्तृभूतस्याऽऽचार्यस्य प्राप्तौ सत्यामुभयप्राप्तौ कणि (पा० सू० २ । ३ । ६६) इत्यनुशासनबलात्कर्मण्येषा षष्ठी विधातव्या । तथा च कर्मणि चेति १च. 'वेन ज्यो । २ घ. तझ । ३ घ. भावाना। ४ क.-ग. ङ. च. °षयो नियोग इति । ५ °णां राधा । ६ च. भावोऽयं । ७ च. °थंकारम। ८ क. ख. ग. अलाना। च. अलिज । ९ख. ङ.--च. गप । १० च. 'देहो जायते । किं । ११ क. ते वे । ख. ग. घ. ते स्तूयते वे । १२ घ. च. प्रयुक्त । १३ क. °थ प्र । १४ क-टु. °न्त इत्यं । Page #130 -------------------------------------------------------------------------- ________________ १०८ सर्वदर्शनसंग्रहे(पा० सू० २ । २ । १४ ) समासप्रतिषेधसंभवाच्छब्दानुशासनशब्दो न प्रमाणपथमवतरतीति । अत्रायं समाधिरभिधीयते-योस्मन्कृत्मत्यये कर्तकर्मणो. रुभयोः प्राप्तिरस्ति तत्र कर्मण्येव षष्ठी विभक्तिर्भवति न कर्तरीति बहुव्रीहि. विज्ञानबलान्नियम्यते । तद्यथाऽऽश्चर्यो गवां दोहोऽशिक्षितेन गोपालकेनति । कर्तपि षष्ठी भवतीति केचिद्रूवते । अत एवोक्तं काशिकावृत्तौ-केचिदवि. शेषेणैव विभाषामिच्छन्ति शब्दानामनुशासनमाचार्येणाऽऽचार्यस्य वेति । शब्दानुशासनमित्यत्र तु शब्दानामनुशासनं नार्थानामित्येतावतो विवक्षित. स्थार्थस्याऽऽचार्यस्य कर्तुरुपादानेन विनाऽपि सुप्रतिपादत्वादाचार्योपादानमकिंचित्करम् । तस्मादुभयप्राप्तेरभावादुभयप्राप्तौ कर्मणीत्येषा षष्ठी न भवति । किंतु कर्तृकर्मणोः कृतीति ( पा० सू० २ । ३ । ६५) कृयोगे कर्तरि कर्मणि च षष्टी विभक्तिर्भवतीति कृयोगलक्षणा पष्ठी भविष्यति । तथा चेमप्रवश्वनपलाशशातनादिवत्समासो भविष्यति । अथवा शेषलक्षणेयं षष्ठी । तत्र किमपि चोद्यं नावतरत्येव । यद्येवं तर्हि शेषलक्षणायाः षष्ठयाः सर्वत्र मुंवचत्वात्षष्ठीसमासप्रतिषेधसूत्राणामानर्थक्यं प्राप्नुयादिति चेत्सत्यम् । तेषां स्वरचिन्तायामुपयोगो वाक्यपदीय हरिणा प्रादार्शि । तदाह महोपाध्यायवर्धमान: लौकिकव्यवहारेषु यथेष्टं चेष्टता जनः । वैदिकेषु तु मार्गेषु विशेषोक्तिः प्रवर्तताम् ॥ इति पाणिनिसूत्रोंणामर्थवत्त्वमसौ यतः । जनिकतुरिति ब्रूते तत्प्रयोजक इत्यपि ॥ इति । तथा न शब्दानुशासनापरनामधेयं व्याकरणशास्त्रमारचं वेदितव्यमिति वाक्यार्थः संपद्यते । तस्यार्थस्य झटिति प्रतिपत्तयेऽथ व्याकरणमित्येवाभिधीयताम् । अथ शब्दानुशासनमित्यधिकारिं मुधोऽभिधीयत इति । मैवम् । शब्दानुशासनमित्यन्वर्थसमाख्योपादाने वदीयवेदाङ्गत्वप्रतिपादकप्रयोजनान्वाख्यानसिः। अन्यथा प्रयोजनानभिधाने व्याकरणाध्ययनेऽध्येतृणां प्रवृत्तिरेव न सजेत् । ननु निष्कारणो धर्मः षडङ्गो वेदोऽध्येतव्य इत्यध्येतव्यत्वविधानादेव प्रवृत्तिः ___ * इत आरभ्य प्रयोजनानभिधान इत्यन्तो ग्रन्थो घ. पुस्तके न विद्यते । १ घ. ति चेदत्रा । २ घ. यस्मात् । ३ घ. "सुलभत्वा । ४ क.- "ये प्रा । ५ घ. त्राणां स्वरमात्रमिदं यतः। ६ क.-ग. ङ. थैमत्राभ्यधाद्यतः । ७ च. °म्। ननु । ८ क. ग. क्षरोपादाने व्या' । ९ ख. °धा न व्या' । १० क. °ति चेन्मै । ११ क. प्रसज्येत । १२ क.-इ. व्यवि । Page #131 -------------------------------------------------------------------------- ________________ पाणिनिदर्शनम् । १०९ सेत्स्यतीति चेन्मैवम् । तथा विधानेऽपि तदीयवेदाङ्गन्त्वप्रतिपादक प्रयोजनानभिधाने तेषां प्रवृत्तेरनुपपत्तेः । तथाहि - पुरा किल वेदमधीत्या ध्येतारस्त्वरितं वक्तारो भवन्ति । वेदान्नो वैदिकाः शब्दाः सिद्धा लोकाच्च लौकिकाः । तस्मादनर्थकं व्याकरणमिति । तस्माद्देदाङ्गत्वं मन्यमानास्तदध्ययने प्रवृत्तिम कार्षुः । ततश्चेदानींतनानामपि तत्र प्रवृत्तिर्न सिध्येत् । सा मा प्रसाङ्क्षीदिति तदीयवेदाङ्गत्वनतिपादकं प्रयोजनमन्वाख्येयमेव । यद्यन्वाख्याते प्रयोजने न वर्तेरंस्तर्हि लौकिकशब्द संस्कारज्ञानरहितास्ते याज्ञे कर्मणि प्रत्यवायभाजो भवेयुः । धर्माद्धीयेरन् । अत एव याज्ञिकाः पठन्ति – आहिताग्निरपशब्दं प्रयुज्य प्रायश्चित्तीयां सारस्वतीमिष्टिं निर्वपेदिति । अतस्तदीयवेदाङ्गत्वमतिपादकप्रयोजनान्वाख्यानार्थमथ शब्दानुशासनमित्येव कथ्यते नाथ व्याक रणमिति । भवति च शब्द संस्कारो व्याकरणशास्त्रस्य प्रयोजनम् । तस्य तदुद्देशेन प्रवृत्तेः । यथा स्वर्गोद्देशेन प्रवृत्तस्य यागस्य स्वर्ग: प्रयोजनम् । तस्माच्छन्दानुशिष्टः संस्कारपद वेदनीया शब्दानुशासनस्य प्रयोजनम् । 3 1 Εν नन्वेवमप्यभिमतं प्रयोजनं न लभ्यते । तदुपायाभावात् । अथ प्रतिपदपाठ एवाभ्युपाय इति मन्येथास्तर्हि स ानभ्युपयः शब्दानां प्रतिपत्तौ प्रतिपदपाठो भवेत् । शब्दापशब्द भेदेनाऽऽनन्त्याच्छन्दानाम् । एवं हि समान्नायते - बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदपाठाविहितानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम । बृहस्पतिश्च प्रवक्ता इन्द्रोऽध्येता दिव्यं वर्षसहस्रमध्ययनकालः । न च पैौरावाप्तिरभूत् । किमुताय यश्चिरं जीवति स वर्षशतं जीवति । अभीतिबोधाचरणप्रचारणैश्चतुर्भिरुपायैर्विद्यो पयुक्ता भवति । तत्राध्ययनकालेनैव सर्वमायुरुपयुक्तं स्यात् । तस्मादनभ्युपायः शब्दानां प्रतिपत्तौ प्रतिपदपाठ इति प्रयोजनं न सिध्येदिति चेन्मैवंम् । शब्दप्रतिपत्तेः प्रतिपदपाठ साध्यत्वानङ्गीकारात् । प्रकृत्यादिविभागकल्पनावत्सु लक्ष्येषु सामान्यविशेषरूपाणां लक्षणानां पर्जन्यवत्सकृदेव प्रवृत्तौ बहूनां शब्दानामनुशासनोपलम्भाच्च । तथाहि — कर्मण्यण् (पा० सू० ३ । २ । १ ) इत्येकेन सामान्यरूपेण लक्षणेन कर्मोपपदाद्धातुमात्रादण्प्रत्यये कृते कुम्भकारः काण्ड १ च. 'जनत्वान' । २ घ वृत्तिं माडका । ३ च °ति । शब्दानुशासनव्या । ४ घ. " पायस' । ५ च. पारप्राप्ति ६ क. -- ङ. | 'ति । अधीतबो' । ७ ग. 'तिबोध्याच' । ८ घ 'मायुः पुरुषस्योप° । ९ च. वं वोचः। थ° । Page #132 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- लाव इत्यादीनां बहूनां शब्दानामनुशासनमुपलभ्यते । एवमातोऽनुपसर्गे का (पा० सू० ३ । २। ३ ) इत्येकेन विशेषलक्षणेनाऽऽकारान्तादातो: कात्यये कृते धान्यदो धनद इत्यादीनां बहूनां शब्दानामनुशासनमुपलभ्यते । बृहस्पतिरिन्द्रायेति प्रतिपदपाठस्याशक्यत्वप्रतिपादनपैरोऽर्थवादः । नन्वन्येष्वप्यङ्गेषु सत्सु किमित्येतदेवाऽऽद्रियते । उच्यते । प्रधानं च षट्स्वङ्गेषु व्याकरणम् । प्रधाने च कृतो यत्नः फलवान्भवति । तदुक्तम् आसनं ब्रह्मणस्तस्य तपसामुत्तमं तपः। . प्रथमं छन्दसामङ्गमा व्याकरणं बुधाः ॥(वाक्यप०१।११)इति । तस्माद्वयाकरणशास्त्रस्य शब्दानुशासनं भवति साक्षात्प्रयोजनम् । पारम्पर्येण तु वेदरक्षादीनि । अत एवोक्तं भगवता भाष्यकारे ग-रक्षोहागमलध्वसंदेहाः अयोजनमिति (पा० म० भा० १।१।१)। ___ साधुशब्दप्रयोगवशादभ्युदयोऽपि भवति । तथा च कथितं कात्यायनेनशास्त्रपूर्वके प्रयोगेऽभ्युदयस्तत्तुल्यं वेदशब्देनेति । अन्यैरप्युक्तम्-एकः शब्दः सम्यग्ज्ञातः सुठु प्रयुक्तः स्वर्गे लोके कामधुग्भवतीति । तथा नाकमिष्टसुखं यान्ति सुयुक्तैर्बद्धवाग्रथैः। _अथ पत्काषिणो यान्ति ये चिक्कमितभाषिणः ॥ नवचेतनस्य शब्दस्य कथमीदृशं सामर्थ्यमुपपद्यत इति चेन्मैवं मन्येथाः । महता देवेन साम्यश्रवणात् । तदाह श्रुतिः चत्वारि शङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तामो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मत्या आविवेश ॥(म० ना०१०।१)। व्याचकार च भाष्यकार:-चत्वारि शृङ्गाणि चत्वारि पदजातानि नामाख्यातोपसर्गनिपाताः । त्रयो अस्य पादा लडादिविषयास्त्रयो भूतभविष्यद्वर्तमानकालाः । द्वे शीर्षे द्वौ शब्दात्मानौ नित्यः कार्यश्च । व्यङ्गन्यव्यञ्जकभेदात् । सप्त हस्तासो अस्य तिङा सह सप्त सुब्बिभक्तयः । त्रिधा बद्धस्त्रिषु स्थानेषु उरास कण्ठे शिरसि च बद्धः । वृषभ इति प्रसिद्धवृषभत्वेन रूपणं क्रियते । वर्षणात् । वर्षणं च ज्ञानपूर्वकानुष्ठानेन फलप्रदत्वम् । रोरवीति शब्दं करोति । रौतिः शब्दकर्मा । इह शब्दशब्देन प्रपञ्चो विवक्षितः । महो देवो मत्यों आविवेश । महान्देवः शब्दो मां मरणधर्माणो मनुष्यास्तानाविवेशेति । - १ च. 'पपद्यते । २.क.-. । र्गे इ । ३ घ. परार्थ । ४ क. पातस्त्र' । ५ क. द्वौ नि'त्यानित्यात्मा' । ६ घ. °न रोरूयणं । ७ क.--"पणश्च । Page #133 -------------------------------------------------------------------------- ________________ पाणिनिदर्शनम् । महता देवेन परेण ब्रह्मणा साम्यमुक्तं स्यादिति ( पात० म० भा० पृ० ३ पं० १७)। जगनिदानं स्फोटाख्यो निरवयवो नित्यः शब्दो ब्रह्मैवेति हरिणाऽभाणि ब्रह्मकाण्डे अनादिनिधनं ब्रह्म शब्दतत्त्वं तदक्षरम् । विवर्ततेऽर्थभावेन *प्रक्रिया जगतो यतः ॥(वाक्यप०१।१)इति । ननु नामाख्यातभेदेन पदद्वविध्यप्रतीतेः कथं चातुर्विध्यमुक्तमिति चेन्मैवम् । प्रकारान्तरस्य प्रसिद्धत्वात् । तदुक्तं प्रकीर्णके____द्विधा कैश्चित्पदं भिन्नं चतुर्थी पञ्चधाऽपि वा । अपोद्धृत्यैव वाक्येभ्यः प्रकृतिप्रत्ययादिवत् ॥ इति । कर्मप्रवचनीयेन वै पञ्चमेन सह पदस्य पञ्चविधत्वमिति हेलाराजो व्याख्यात. वान् । कर्मप्रवचनीयास्तु क्रियाविशेषोपजनितसंबन्धावच्छेदहेतव इति संबन्धविशेषद्योतनद्वारेण क्रियाविशेषद्योतनादुपसर्गेष्वेवान्तर्भवन्तीत्यभिसंधाय पदचातुर्विध्यं भाष्यकारेणोक्तं युक्तमिति विवेक्तव्यम् । ननु भवता स्फोटात्मा नित्यः शब्द इति निजागद्यते । तन्न मृष्यामहे । तत्र प्रमाणाभावादिति केचित् । अत्रोच्यते-प्रत्यक्षमेवात्र प्रमाणम् । गौरित्येकं पदमिति नानावर्णातिरिक्तैकपदावगतः सर्वजनीनत्वात् । न ह्यसति बाधके पदानुभवः शक्यो मिथ्यति वक्तुम् । पदार्थप्रतीत्यन्यथानुपपत्त्याऽपि स्फोटोsभ्युपगन्तव्यः । न च वर्णेभ्य एव तत्प्रत्ययः प्रार्दुर्भवतीति परीक्षाक्षम् । विकल्पासहत्वात् । किं वर्णाः समस्ता व्यस्ता वाऽर्थप्रत्ययं जनयन्ति । नाऽऽधः । वर्णानां क्षणिकानां समूहासंभवात् । नान्त्यः । व्यस्तवर्णेभ्योऽर्थअत्ययासंभवात् । न च व्याससमासाभ्यामन्यः प्रकारः समस्तीति । तस्माद ** घ. पु. टि.-स्त्रविषयमतत्ताके स्वभावे न मायया। १ घ. °णा क्षरव । २ क.--टु. यदक्षरम् । ३ क, म्। निवर्तते । च. म् । विवक्षते । ४ च. ध्यप्रसिद्धः क । ५ घ. निगदते । ६ च. "दुर्भावपरीक्षाक्षमो वि । ७ च. किं व्यस्ता वणों अर्थ प्रतिपादयन्ति समस्ता वा । नाऽऽद्यः । इतरवर्णवैयर्थ्यप्रसङ्गात । एकैकस्माद्वर्णादर्थप्रतिपत्तेश्च । नापि द्वितीयः । उत्पन्नप्रध्वस्तवर्णानां समस्तत्वाभावात् । न च व्या" । रघ. मस्तवर्णा व्यस्तववा । नाऽऽद्यः । वर्णानां स । ९ ख.वा। ना।१० क.ग.न्ति समस्ता वा । ना । ११ क. ग. °द्यः । ततोऽर्थप्रत्ययानुपलब्धेः । न द्वितीयः। क्ष° । १२ क. ग. समुदायासं । १३ क. ग.त् न च । १४ घ. प्रत्यायकत्वासं । १५ क. 'माभ्याम । १६ ग. 'भ्यासम'। Page #134 -------------------------------------------------------------------------- ________________ ११२ सर्वदर्शनसंग्रहे-- र्णानां वाचकत्वानुपपत्तौ यद्वलादर्थप्रतिपत्तिः स स्फोटः । वर्णातिरिक्तो वर्णाभिव्यङ्गयोऽर्थप्रत्यायको नित्यः शब्दः स्फोट इति तद्विदो वदन्ति । अत एव स्फुटयते व्यज्यते वर्णैरिति स्फोटो वर्णाभिव्यङ्गन्धः स्फुटति स्फुटी भवत्यस्मादर्थ इति स्फोटोऽर्थप्रत्यायक इति स्फोटशब्दार्थमुभयथा निराहुः । तथा चोक्तं भगवता पतञ्जलिना महाभाष्ये-अथ गौरित्यत्र कः शब्दो थेनोच्चारितेन सास्नालागुलककुदखुरविषाणानां संप्रत्ययो भवति स शब्दः (पात० म० भा० पृ० १ ५० ६ ) इति । विवृतं च कैयटेन-वैयाकरणा वर्णव्यतिरिक्तस्य पदस्य वाचकत्वमिच्छन्ति । वर्णानां वाचकत्वे द्वितीयादिवर्णोच्चारणानर्थक्यप्र. सङ्गादित्यादिना तव्यतिरिक्तः स्फोटो नादाभिव्यङ्गन्यो वाचको विस्तरेण वाक्यपदीये व्यवस्थापित इत्यन्तेन प्रबन्धेन । ननु स्फोटस्याप्यर्थप्रत्यायकत्वं न घटते । विकल्पासहत्वात् । किमभिव्यक्तः स्फोटोऽयं प्रत्याययत्यनभिव्यक्तो वा । न चरमः । सर्वदाऽर्थप्रत्ययलक्षणकार्योत्पादप्रसङ्गात् । स्फोटस्य नित्यत्वाभ्युपगमेन निरपेक्षस्य हेतोः सदा सत्त्वेन कार्यस्य विलम्बायोगात् । अथैत होपपरिजिहीर्षयाऽभिव्यक्तः स्फोटोऽथ प्रत्याययतीति कक्षी क्रियते तथाऽप्यभिव्यञ्जयन्तो वर्णाः किं प्रत्येकमभिव्यञ्जयन्ति संभूय वा । पक्षद्वयेऽपि वर्णानां वाचकत्वपक्षे भवता ये दोषा भाषितास्त एव स्फोटाभिव्यञ्जकत्वपक्षे यावर्तनीयाः । तदुक्तं भट्टाचार्मीमांसाश्लोकवार्तिके . यस्यानघयवः रफोटो व्यज्यते वर्णबुद्धिभिः। - सोऽपि पर्यनुयोगेन नैकेनापि विमुच्यते ।। इति । . विभक्त्यन्तेष्वेव वर्णेषु ' सुप्तिङन्तं पदम् ' ( पा० सू० १ । ४ । १४ ) इति पाणिनिना 'ते विभक्त्यन्ताः पदम् ' ( गौ० सू० २ । २ । ६० ) इति गौतमेन च पदसंज्ञाया विहितत्वात्संकेतहणेनानग्रहदशादर्णेष्वेव पदबुद्धिर्भविध्यति । तर्हि सर इत्येतस्मिन्पदे यावन्तो वर्णास्तावन्त एव रस इत्यत्रापि । एवं वनं नवं नदी दीना रामो मारो राजा जारेत्यादिष्वर्थमेदप्रतीतिर्न स्यादिति चेन्न । मभेदेन भेदसंभवात् । तदुक्तं तौतानित: यावन्तो यादृशा ये च यदर्थप्रतिपादने । वर्णाः प्रज्ञातसामस्तेि तथैवावबोधकाः ॥ इति । १ ख. ङ.-च. °ट इति वा २ ख. ड.-च. ग्यः स्फुटी । ३ ख. 'ब्दार्थ नि । ४ ख. ग. स्फोटार्थ । ५ क. ग. ङ. च. 'थाऽभि । ६ क.-हु. °षु पा । ७ च. क्त्यन्तं प । ८ घ. 'ग्रहे णानु । ९ ख. ग. चेत्काश । ११ च. °मवतामेव वर्णानां पाचकत्वसामर्थ्याभ्युपगमात् । त। ११ क. तू । तदेतत्का। Page #135 -------------------------------------------------------------------------- ________________ पाणिनिदर्शनम् । ११३ तस्माद्यश्चोभयोः समो दोषो न तेनैकश्वोद्यो भवतीति न्यायावर्णानामेव वाचकत्वोपपत्तौ नातिरिक्तस्फोटकल्पनाऽवकल्पत इति चेत्तदेतत्काशकुशावलम्बनकल्पम् । विकल्पानुपपत्तेः । किं वर्णमात्रं पदप्रत्ययावलम्बनं वर्णसमूहो था। नाऽऽद्यः । परस्परविलक्षणवर्णमालायामभिन्नं निमित्तं पुष्पेषु विना सूत्रं मालापत्ययवदित्येकं पदमिति प्रतिपत्तेरनुपपत्तेः । नापि द्वितीयः । उच्चरितप्रध्वस्तानां वर्णानां समूहभाँवासंभवात् । तत्र हि समूहव्यपदेशो ये पदार्थी एकस्मिन्प्रदेशे सहावस्थिततया बहवोऽनुभूयन्ते । यथैकस्मिन्प्रदेशे सहावस्थितंतयाऽनुभूयमानेषु धवखदिरपलाशादिषु समूहव्यपदेशो यथा वा गजनरतुरगादिषु । न च ते वर्णास्तथाऽनुभूयन्ते । उत्पन्नध्वस्तत्वात् । अभिव्यक्तिपक्षेऽपि क्रमेणैवाभिव्यक्तिः । समूहासंभवात् । नापि वर्णेषु काल्पनिकः समूहः कल्पनीयः । परस्पराश्रयप्रसङ्गात् । एकार्थप्रत्यायकत्वसिद्धौ तदुपाधिना वर्णेषु पदत्वप्रतीतिस्तत्सिद्धावेकार्थप्रत्यायकत्वसिद्धिरिति । तस्माद्वर्णानी वाचकत्वासंभवात्स्फोटोऽभ्युपगन्तव्यः । ननु स्फोटव्यञ्जकतापक्षेऽपि प्रागुक्तविकल्पप्रसरेण घट्टफुटीप्रभातायितमिति चेत्तदेतन्मनोराज्यविज़म्भणम् । वैषम्यसंभवात् । तथाहि-अभिव्यञ्जकोऽपि प्रथमो ध्वनिः स्फोटमस्फुटमभिव्यनक्ति । उत्तरोत्तराभिव्यञ्जकक्रमेण स्फुट स्फुटतरं स्फुटतमम् । यथा स्वाध्यायः सकृत्पठ्यमानो नावधार्यते । अभ्यासेन तु स्फुटावसायः । यथा वा रत्नतत्त्वं प्रथमप्रतीतौ स्फुटं न चकास्ति । चरमे चेतसि यथावदभिव्यज्यते । * नादैरोहितबीजायामन्त्येन ध्वनिना सह । ___ आवृत्तिपरिपाकायां बुद्धौ शब्दोऽवधार्यते ॥ ( वाक्यप० १ । ८५) इति प्रामाणिकोक्तेः । तस्मादस्माच्छब्दादर्थ प्रतिपद्यामह इति व्यवहारवशा. द्वर्णानामर्थवाचकत्वानुपपत्तेः प्रथमे काण्डे तत्रभवद्भिर्भर्तृहरिभिरभिहितत्वान्निरवयवमर्थप्रत्यायकं शब्दतत्त्वं स्फोटाख्यमभ्युपगन्तव्यमिति । एतत्सर्व परमा * घ. पु. टि.--नादाघातजन्या। १ ख. घ. डा.-च मूहे वा। २ क. ख. ग. घ समूहाभा । ३ ख. °भावसं । ४ घ. तया । ५५. तया । ६ घ. व्यक्तस्य स । ७ घ. 'नीयस्य प । ८ घ. कसि । ९ च. 'नां साधनास्मकत्वसं । १० °कुहिन । ११ क. ख. ग. घ. °टः स्फु। १२ घ. राहत । १३ क. ख, ग, घ, 'मन्येन । १४ च. °ति व्य । १५ घ. °म इ°। १६ क. ख. ग. स्फाटेभावम। Page #136 -------------------------------------------------------------------------- ________________ सनदर्शनसंग्रहेथसंविल्लक्षणसत्ताजातिरेव सर्वेषां शब्दानामर्थ इति प्रतिपादनपरे जातिसमुद्देशे प्रतिपादितम् । यदि सत्तैव सर्वेषां शब्दानामर्थस्तर्हि सर्वेषां शब्दानां पर्यायता स्यात् । तथा च कचिदपि युगपत्रिचतुरपदप्रयोगायोग इति महच्चातुर्यमायुष्मतः । तदुक्तम् पर्यायाणां प्रयोगो हि यौगपद्येन नेष्यते । पर्यायेणैव ते यस्माद्वदन्त्यर्थं न संहताः ॥ इति । तस्मादयं पक्षो न क्षोदक्षन इति चेत्तदेतद्गगनरोमन्थकल्पम् । नीललोहितपीतापरञ्जकद्रव्यभेदेनं स्फटिकमणेरिव संबन्धिभेदात्सत्तायास्तदात्मना भेदेन प्रतिपत्तिसिद्धौ गोसत्तादिरूपगोत्वादिभेदनिवन्धनव्यवहारवैलक्षण्योपपत्तेः। तथा चाऽऽप्तवाक्यम् स्फटिकं विमलं द्रव्यं यथा युक्तं पृथक्पृथक् । नीललोहितपीतायैस्तद्वर्णमुपलभ्यते ।। इति । तथा हरिणाऽप्युक्तम् संबन्धिभेदात्सत्तैव भिद्यमाना गवादिषु । जातिरित्युच्यते तस्यां सर्वे शब्दा व्यवस्थिताः ॥ तां प्रातिपदिकार्थे च धात्वर्थ च प्रचक्षते । सा नित्या सा महानात्मा तामाहुस्त्वतलादयः ॥ इति । . आश्रयभूतैः संबन्धिभिभिंद्यमाना कल्पितभेदों गवाश्वादिषु सत्तैव महासामान्यमेव जातिः । गोत्यादिकमपरं सामान्यं परमार्थतस्तो भिन्नं न भवति । गोस व गोत्वं नापरमन्वयि प्रतिभासते । एवमश्वसत्ताऽश्वत्वमित्यादि वाच्यम् । एवं च तस्यामेव गवादिभेदभिन्नायां सत्तायां जातौ सर्वे गोशब्दादयो वाचकत्वेन व्यवस्थिताः । प्रातिपदिकार्थश्च सत्तेति प्रसिद्धम् । भाववचनो धातुरिति पक्षे भावः सत्तैवेति धात्वर्थः सत्ता भवत्येव । क्रियावचनो धातुरिति पक्षेऽपि । जातिमन्ये क्रियामाहुरनेकव्यक्तिवर्तिनीम् ।। इति क्रियासमुद्देशे क्रियाया जातिरूपत्वप्रतिपादनाद्धात्वर्थः सत्ता भवत्येव । तस्य भावस्त्वतलाविति ( पा० सू० ५। १ । ११९ ) भावार्थे त्वतलादीनां विधानात्सत्तावाचित्वं युक्तम् । सा च सत्तोदयव्ययवेधुर्यान्नित्या । सर्वस्य १ क. तिरेव सर्वेषां शब्दानामर्थ इति प्र । २ क, न प्रतिपत्तिसिद्धौ स्फ° । ३ घ. या चोक्तं महद्भिरिदं वा । ४ ख. विद्यमाना । ५ क. भेदो ग । ६ घ. दिकं प° । ७ क. ख. ग. घ. ङ. °ति । जातिपदार्थनयानुसारेणानेकव्यक्तिक्रि । ८ घ. °C नित्या। Page #137 -------------------------------------------------------------------------- ________________ पाणिनिदर्शनम् । ११५ प्रपञ्चस्य तद्विवर्ततया देशतः कालतो वस्तुतश्च परिच्छेदराहित्यात्सा सत्ता महानात्मेति व्यपदिश्यत इति कारिकाद्वयार्थः । द्रव्यपदार्थवादिनोऽपि नये संविलक्षणं तत्त्वमेव सर्वशब्दार्थ इति संबन्धसमुद्देशे समर्थितम् सत्यं वस्तु तदाकारैरसत्यैरवधार्यते । असत्योपाधिभिः शब्दैः सत्यमेवाभिधीयते ।। अध्रुषेण निमित्तेन देवदत्तगृहं यथा । .. गृहीतं गृहशब्देन शुद्धमेवाभिधीयते ॥ इति । भाष्यकारेणापि सिद्धे शब्दार्थसंबन्ध इत्येतद्वार्तिकव्याख्यानावसरे द्रव्यं हि नित्यमित्यनेन ग्रन्थेनासत्योपाध्यवच्छिन्नं ब्रह्मतत्त्वं द्रव्यशब्दवाच्यं सर्वशब्दार्थ इति निरूपितम् । जातिशब्दार्थवाचिनो वाजप्यायनस्य मते गवादयः शब्दा भिन्नद्रव्यसम. वेतजातिमभिदधति । तस्यामवगाह्यमानायां तत्संबन्धाद्रव्यमवगम्यते । शुक्लादयः शब्दा गुणसमवेतां जातिमाचक्षते । गुणे तत्संबन्धात्प्रत्ययः । द्रव्ये संब. न्धिसंबन्धात्। संज्ञाशब्दानामुत्पत्तिप्रभृत्या विनाशाच्छैशवकौमारयौवनाद्यवस्था. दिभेदेऽपि स एवायमित्यभिन्नप्रत्ययबलात्सिद्धा देवदत्तत्वादिजातिरभ्युप: गन्तव्या । क्रियास्वपि जातिरालक्ष्यते । सैव धातुवाच्या। पंचतीत्यादावनु. वृत्तप्रत्ययस्य प्रादुर्भावात् । द्रव्यपदार्थवादिव्याँडिनये शब्दस्य व्यक्तिरेवाभिधेयतया प्रतिभासते। जातिस्तूपलक्षणतयति नाऽऽनन्त्यादिदोषावकाशः । पाणिन्याचार्यस्योभयं संमतम् । यतो जातिपदार्थमभ्युपगम्य जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (पा० सू० १।२।५८) इत्यादिव्यवहारः । द्रव्यपदार्थमङ्गीकृत्य सरूपाणामेकशेष एकविभक्तौ ( पा० सू० १ । २ । ६४ ) इत्यादिः। व्याकरणस्य सर्वपार्षदत्वान्मतद्वयाभ्युपगमे न कश्चिद्विरोधः । तस्मादद्वयं सत्यं परं ब्रह्मतत्त्वं सर्वशब्दार्थ इति स्थितम् । तदुक्तम् - तस्माच्छक्तिविभागेन सत्यः सवेः सदात्मकः । एकोऽर्थः शब्दवाच्यत्वे बहुरूपः प्रकाशते ॥ इति । १ च. तत्त्वशब्दं द्र ।२ क.-ग. ङ. च. °भिप्र । ३ क.ग. °सिद्धत्वा । ख. सिद्वादिजा । घ. 'सिद्धा जा । ४ ङ.-च. पठती । ५ क.ख.त् । न द्र। ग. त् । स्वद्र। ६ घ. व्यालिन। ७ क. ख. ग. दिः । इत्यादिव्या । ८ क. सर्व पा। ९ घ. ब्राह्म। १० ख. एकार्थश। ११ क. ग. घ. कोऽर्थश। Page #138 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेसत्यस्वरूपमपि हरिणोक्तं संबन्धसमुद्देशे-- यत्र द्रष्टा च दृश्यं च दर्शनं चाविकल्पितम् । . तस्यैवार्थस्य सत्यत्वमाहस्त्रय्यन्तवेदिनः ॥ इति । द्रव्यसमुद्देशेऽपि विकारापगमे सत्यं सुवर्ण कुण्डले यथा । विकारापगमो यत्र तामाहुः प्रकृति पराम् ॥ इति । अभ्युपगंताद्वितीयत्वनिर्वाहाय वाच्यवाचकयोरविभागः प्रदर्शित: वाच्या सा सर्वशब्दानां शब्दाच न पृथक्ततः। . अपृथक्त्वेऽपि संबन्धस्तयोर्जीवात्मनोरिव ॥ इति । तत्तदुपाधिपरिकल्पितभेदबहुलतया व्यवहारस्याविद्यामात्रैकल्पितत्वेन प्रतिनियताकारोपधीयमानरूपभेदं ब्रह्मतत्त्वं सर्वशब्दविषयः । अभेदे च पारमार्थिक संवृतिवशाद्वयवहारदशायां स्वप्नावस्थावदुच्चावचः प्रपञ्चो विवर्तत इति कारिकार्थः । तदाहुर्वेदान्तवादनिपुणाः यथा स्वमप्रपश्चोऽयं माय मायाविजृम्भितः । एवं जाग्रत्मपश्चोऽपि मयि मायाविजृम्भितः ॥ इति । तदित्यं कूटस्थे परस्मिन्ब्रह्मणि सच्चिदानन्दरूपे प्रत्यगभिन्नेऽवगतेऽनाधविद्यानिवृत्तौ ताहूँग्ब्रह्मात्मनाऽवस्थानलक्षणं निःश्रेयसं सेत्स्यति । शब्दब्रह्मगि निष्णातः परं ब्रह्माधिगच्छति । इत्यभियुक्तोक्तेः । तथा च शब्दानुशासनशास्त्रस्य निःश्रेयससाधनत्वं सिद्धम् । तदुक्तम् तवारमपवर्गस्य वाङ्मलानां चिकित्सितम् । पवित्रं सर्वविद्यानामधिविद्यं प्रचक्षते ॥ (वाक्यप०१।१४) इति । तथा-इदमायं पदस्थानं सिद्धिसोपानपर्वणाम् । इयं सा मोक्षर्माणानामजिह्मा राजपद्धतिः ॥ (वाक्यप० १११६) इति । तस्माद्व्याकरणशास्त्रं परमपुरुषार्थसाधनतयाऽध्येतव्यमिति सिद्धम् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पाणिनिदर्शनम् ॥ १ घ गमेऽवाऽऽहुः प्रकृतिं च प । च. गमे सत्यां ता । २ घ. गतद्वितीयत्वनिर्वाहार्थे वाचकयोविभा । ३ ख. °त्रपरिक । ४ ख. न । ५ घ. "वादिनि । ६ क. ख. "दृगब्रह्मा । ७ घ. 'नपार्व' । ८ क.-ग ङ. च. मार्गाणाम । ९ घ. राज्ययावति । १० घ. तद्वया । Page #139 -------------------------------------------------------------------------- ________________ ११७ सांख्यदर्शनम् । अथ सांख्यदर्शनम् ॥ १४ ॥ अथ सांख्यैराख्याते परिणामवादे परिपन्थिान जागरूके कथंकारं विवर्तवाद आदरणीयो भवेत् । एष हि तेषामाघोषः । संक्षेपेण हि सांख्यशास्त्रे चतस्रो विधाः संभाव्यन्ते । कश्चिदर्थः प्रकृतिरेव कश्चिद्विकृतिः प्रकृतिश्च कश्चिद्विकृतिरेव कश्चिदनुभय इति । तत्र केवला प्रकृतिः प्रधानपदेन वेदनीया मूलप्रकृतिः । नासावन्यस्य कस्यचिद्विकृतिः । प्रकरोतीति प्रकृतिरिति व्युत्पत्या सत्त्वरजस्तमोगुणानां साम्यावस्थाया अभिधानात् । तदुक्तं-मूलप्रकृतिरविकृतिरिति ( स० का० ३)। मूलं चासौ प्रकृतिश्च मूलप्रकृतिः । महदादेः कार्यकलापस्यासौ मूलं न त्वस्य प्रधानस्य मूलान्तरमस्ति । अनवस्थापातात् । न च बीजाकुरवदनवस्थादोषो न भवतीति वाच्यम् । प्रमाणाभावादिति भावः । विकृतयश्च प्रकृतयश्च महदहंकारतन्मात्राणि । तदप्युक्तं-महदायाः प्रकृ. तिविकृतयः सप्तेति ( स० का० ३ ) । अस्यार्थ:-प्रकृतयश्च ता विकृतयश्चेति प्रकृतिविकृतयः सप्त महदादीनि तत्त्वानि । तत्रान्त: करणादिपदवेदनीयं महत्तत्त्वमहंकारस्य प्रकृतिः । मूलप्रकृतेस्तु विकृतिः । एवमहंकारतत्त्वमभिमानापरनामधेयं महतो विकृतिः । प्रकृतिश्च तदेवाहंकारतत्वं तामसं सत्पश्चतन्मात्राणां सूक्ष्माभिधानाम् । तदेव सात्त्विकं सत्प्रकृतिरेकादशेन्द्रियाणां बुद्धीन्द्रियाणां चक्षुःश्रोत्रघाणरसनत्वगाख्यानां कर्मेन्द्रियाणां वाक्पाणिपादपायूपस्थाख्यानामुभयात्मकस्य मनसश्च । रजसस्तूभयत्र क्रियोत्पादनद्वारेण कारणत्वमस्तीति न वैयर्थ्यम् । तदुक्तमीश्वरकृष्णेन अभिमानोऽहंकारस्तस्माद्विविधः प्रवर्तते सर्गः । एकादशकरणगणस्तन्मात्रापश्चकं चैव ॥ सात्त्वि एकादशकः प्रवर्तते वैकृतादहंकारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ बुद्धीन्द्रियाणि चक्षुःश्रोत्रघ्राणरसनत्वगाख्यानि । वाक्पादपाणिपायूपस्थानि कर्मेन्द्रियाण्याहुः॥ १च.-क्वचिद । २ ग. द्विवृतिः । ३ ग. द्विवृतिः । ४ घ. मला चा । ५ घ. त्वं नाम ता' । ६ ख. ग. °णम । ७ क.-ग. ङ. च. कश्च ग° । ८ क.--ग. ङ. च. °कमेकादशकः प्र। ९ क. ख. ग. घ. स्थाख्यामि । Page #140 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहेउभयात्मकमत्र मनः संकल्पकमिन्द्रियं च साधादिति (सां०का०२४।२७) विवृतं च तत्त्वकौमुद्यामाचार्यवाचस्पतिभिः। केवला विकृतिस्तु वियदादीनि पञ्च महाभूतानि एकादशेन्द्रियाणि च । खदुक्तं-पोडशकस्तु विकारः ( सां० का० ३) इति । षोडशसंख्यावच्छिन्नो मणः षोडशको विकार एव न प्रकृतिरित्यर्थः । यद्यपि पृथिव्यादयो गोघटादीनां प्रकृतिस्तथाऽपि न ते पृथिव्यादिभ्यस्तत्त्वान्तरमिति न प्रकृतिः । तत्त्वासरोपादानत्वं चेह प्रकृतित्वमभिमतम् । गोघटादीनां स्थूलत्वेन्द्रियग्राह्यत्वयोः समानत्वेन तत्त्वान्तरत्वाभावः। तत्र शब्दस्पर्शरूपरसगन्धतन्मात्रेभ्यः पूर्वपूर्वसक्ष्मभूतसहितेभ्यः पञ्चै महाभूतानि वियदादीनि क्रमेणैकद्वित्रिचतुष्पश्चगुजानि जायन्ते । इन्द्रियसृष्टिस्तु प्रागेवोक्ता । तदुक्तम् प्रकृतेर्महांस्ततोऽहंकारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्च भूतानि ॥ (सां०का०२२) इति । अनुभयात्मकः पुरुषः । तदुक्तं-न प्रकृतिर्न विकृतिः पुरुषः( सां०का०३) इति । पुरुषस्तु कूटस्थानित्योऽपरिणामी न कस्यचित्प्रकृति पि. विकृतिः कस्यचिदित्यर्थः। - एतत्पश्चविंशतितत्त्वसाधकत्वेन प्रमाणत्रयमभिमतम् । तदप्युक्तम्___ष्टमनुमानमाप्तवचनं च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ (सां०का० ४) इति । का कार्यकारणभावे चतुर्धा विप्रतिपत्तिः प्रसरति । असतः सज्जायत इति सौगता: *संगिरन्ते । नैयायिकादयः सतोऽसज्जायत इति । वेदान्तिनः सतो विवर्तः कार्यजातं न वस्तु सदिति । सांख्याः पुनः सतः सज्जायत इति । तत्रासतः सज्जायत इति न प्रामाणिकः पक्षः । असतो निरुपाख्यस्य शविषाणवत्कारणत्वानुपपत्तेः । तुच्छ।तुच्छयोस्तादात्म्यानुपपत्तेश्च । नापि सतोऽसज्जायते । कारकव्यापारात्मागसतः शशविषाणवत्सत्तासं. धन्धलक्षणोत्पत्त्यनुपपत्तेः । न हि नीलं निपुणतमेनापि पीतं कर्तुं पार्यते । ननु सत्त्वासत्त्वे घटस्य धर्माविति चेत्तदचारु । असति धर्मिणि तद्धर्म इति व्यपदेशा. नुपपत्त्या धर्मिणः सत्त्वापत्तेः। * घ. पु. टि.--संप्रतिपद्यन्ते। १ घ. यं चति । उभयसाधर्म्यात् । वि। २ ख. ग. ङ.-च. श्च । ३ इ. च. 'च भू । ४ घ. त्पत्तेरसंभवात् । न। Page #141 -------------------------------------------------------------------------- ________________ सांख्यदर्शनम् । तस्मात्कारकव्यापारात्मागपि कार्य सदेव । सतश्चाभिव्यक्तिरुपपद्यते । यथा पीडनेन तिलेषु तैलस्य दोहनेन सौरभेयीषु पयसः । असतः कारणे किमपि निदर्शनं न दृश्यते । किंच कार्येण कारणं संबद्धं तज्जनकमसंबई वा । प्रथमे कार्यस्य सत्त्वमायातम् । सतोरेव संबन्ध इति नियमात् । चस्मे सर्व कार्यजातं सर्वस्माज्जायत । असंबंद्धत्वाविशेषात् । तदाख्यायि सांख्याचार्य: असत्त्वान्नास्ति संबन्धः कारणः सत्त्वसङ्गिभिः। असंबद्धस्य चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥ इति । अथैवमुच्येतासंबंद्धमपि तत्तदेव जनयति यत्र यच्छक्तम् । शक्तिश्च कार्यदर्शनोनेयेति । तन्न संगच्छते । तिलेषु तैलजननशक्तिरित्यत्र तैलस्यासत्त्वे संबद्धत्वासंबद्धत्वविकल्पेन तच्छक्तिरिति निरूपणायोगात् । कार्यकारणयोरभेदांच कोरणात्पृथक्कार्यस्य सत्त्वं न भवति । पटस्तन्तुभ्यो न भिद्यते । तद्धर्मत्वात् । न यदेवं न तदेवं यथा गौरश्वः । तद्धर्मश्च पटः । तस्मानार्थान्तरम् । तर्हि प्रत्येक त एव प्रावरणकार्य कुयुरिति पेन्न । संस्थानभेदेनाऽऽविर्भूतपटभावानां प्रावरणाथक्रियाकारित्वोपपत्तेः । यथा हि कूर्मस्याङ्गानि कूर्मशरीरे निविशमानानि तिरो भवन्ति निःसरन्ति चाऽऽविर्भवन्त्येवं कारणस्य तन्त्वादेः पटादयो विशेषा निःसरन्त आविर्भवन्त उत्पद्यन्त इत्युच्यन्ते । निविशमानास्तिरो भवन्तो विनश्यन्तीत्युच्यन्ते । न पुनरसतामुत्पत्तिः सतां वा विनाशः । यथोक्तं भगवद्गीतायाम् . नासतो विद्यते भावो नाभावो विद्यते सतः । (२।१६) इति । ततश्च कार्यानुमानात्तत्प्रधानसिद्धिः । तदुक्तम् असदैकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यकरणात्कारणभावाच सत्कार्यम् ॥ (सा० का० ९) इति । नापि सतो ब्रह्मतत्त्वस्य विवर्तः प्रपञ्चः । बाधानुपलम्भात् । अधिष्ठानारोप्ययोश्चिज्जडयोः कलधौतशुक्त्यादिवत्सारूप्याभावीऽऽरोपासंभवाच्च । १ घ. देवास। २ घ. °नं दृ" । ३ ख. "द्धं सत्तज'। ४ ख. जायते । अ। ५ च. 'बन्धत्वा । ६ क.-ग. च. °बन्धम । ७ क. ख. ग. घ. पि तदे । ८ ङ.-च. त् । पृथ न । ९ क. कार्यस्यासत्त्वं न । ग. कार्यस्य सत्वं न । घ. कार्यस्य सत्त्वं कारणात्पृथ' । १० प. स्थाभे । ११ च. सदुपकरणादुपादानान । १२ क.--ग. च. °दकारणत्वादु । १३ ख. ग. 'रणाभा । १४ क.-ग. ङ. च. तरूप्यादि । १५ क. ख रूप्याभेदेनापि सं° । ग. रूपयाभेदेनारोपास । च.-रूप्यभा । १६ घ. 'नापि संभवाभावा । Page #142 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे-- ततश्च सुखदुःखमोहात्मकस्य प्रपञ्चस्य तथाविधकारणमवधारणीयम् । तथा च प्रयोगः-विमतं भावजातं सुखदुःखमोहात्मककारणकं तदन्वितत्वात् । यद्येनान्बीयते तत्तत्कारणकं यथा रुचकादिकं सुवर्णान्वितं सुवर्णकारणकम् । तथा चेदं तस्मात्तथेति । तत्र जगत्कारणे येयं सुखात्मकता तत्सत्त्वं या दुःखात्मकता तद्रजो या च मोहात्मकता तत्तम इति त्रिगुणात्मककारणसिद्धिः । तथाहि-प्रत्येकं भावास्यगुण्यवन्तोऽनुभयन्ते । यथा मैत्रदारेषु सत्यवत्यां मैत्रस्य सुखमाविरस्ति । तं प्रति सत्त्वगुणप्रादुर्भावात् । तत्सपत्नीनां दुःखम् । ताः प्रति रजोगुणप्रादुर्भावात् । तामलभमानस्य चैत्रस्य मोहो भवति । तं प्रति तमोगुणसमुद्भवात् । एवमन्यदपि घटादिकं लभ्यमानं सुखं करोति । परैरपह्रियमाणं दुःखा करोति । उदासीनस्योपेक्षाविषयत्वेनापतिष्ठते । उपेक्षाविषयत्वं नाम मोहः । मुह वैचित्ये, इत्यस्माद्धातोर्मोहशब्दनिष्पत्तेः। उपेक्षणीयेषु चित्त वृत्त्यनुदयात् । तस्मात्सर्वं भावजातं सुखदुःखमोहात्मकं त्रिगुणप्रधानकारणकमवगम्यते । तथा च श्वेतश्वतरोपनिषदि श्रयते अजामेकां लोहितशुक्ल कृष्णां बह्वीः *प्रजाः सृजमानां सरूपाः । अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः।।(४।५)इति। अत्र लोहितशुकृष्णशब्दा रञ्जकत्वप्रकाशकत्वावरकत्वसाधोद्रजःसत्त्वतमो. गुणत्रयप्रतिपादनपराः। नवचेतनं प्रधानं चेतनानाधिष्ठितं महदादिकार्ये न व्याप्रियते । अतः केनचिचेतनेनाधिष्ठात्रा भवितव्यम् । तथा च सर्वार्थदर्शी परमेश्वरः स्वीकर्तव्यः स्यादिति चेत्तदसंगतम् । अचेतनस्यापि प्रधानस्य प्रयोजनवशेन प्रवृत्त्युपपत्तेः । दृष्टं चाचेतनं चेतनानधिष्ठितं पुरुषार्थाय प्रवर्तमानं यथा वत्सविवृद्ध्यर्थमचेतनं क्षीरं प्रवर्तते यथा च जलमचेतनं लोकोपकाराय प्रवर्तते तथा प्रकृतिरचेतनाऽपि पुरुषविमोक्षाय प्रवस्य॑ति । तदुक्तम् वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ ( सां० का० ५७) इति । यस्तु परमेश्वरः करुणया प्रवर्तक इति परमेश्वरास्तित्ववादिनां डिण्डिमः सं गर्भस्रावेण गतः। विकल्पानुपपत्तेः । स किं सृष्टेः प्राक्प्रवर्तते सृष्टयुत्तरकालं वा। ___* सर्वदर्शनसंग्रहपुस्तकेषु तु प्रजा जनयन्तीमिति पाठः । १ क.-. "स्य त । २ क.--"वर्णाका' । ३ क तत्पत्नी । ग. तत्पतीनां । ४ च. त्वेन ध्यवति । ५ ख. पि प्रयो । ६ क. ख. ग. घ पार्थे प्र । ७ क. ख. ग. वृद्ध्यर्थ क्षी' । क.--ङ. स प्रायेण । Page #143 -------------------------------------------------------------------------- ________________ सांख्यदर्शनम् । १२१ आये शरीराद्यभावेन दुःखानुत्पत्तौ जीवानां दुःखप्रहाणेच्छानुपपत्तिः । द्वितीये परस्पराश्रयप्रसङ्गः । करुणया सृष्टिः सृष्टयां च कारुण्यमिति । तस्मादचेतनस्यापि चेतनानधिष्ठितस्य प्रधानस्य महदादिरूपेण परिणामः पुरुपार्थप्रयुक्तः प्रधानपुरुषसंयोगनिमित्तः । यथा निर्व्यापारस्याप्ययस्कान्तस्य संनिधानेन लोहस्य व्यापारस्तथा निर्व्यापारस्य पुरुषस्य संनिधानेन प्रधानव्यापारो युज्यते । प्रकृतिपुरुषसंबन्धश्च पङ्ग्वन्धवत्परस्परापेक्षानिबन्धनः । प्रकृतिर्हि भोग्यतया भोक्तारं पुरुष:पेक्षते । पुरुषोऽपि भेदाग्रहाबुद्धिच्छायापत्त्या तद्गतं दुःखत्रयं वारयमाणः कैवल्यमपेक्षते । तत्प्रकृतिपुरुषविवेकनिबन्धनं न च तदन्तरेण युक्तमिति कैवल्यार्थ पुरुषः प्रधानमपेक्षते । यथा खलु कौचित्पङ्ग्वन्धौ पथि सार्थेन गच्छन्तौ दैवकृतादुपप्लवात्परित्यक्तसार्थों मन्दमन्द. मितस्ततः परिभ्रमन्तो भयाकुलौ दैववशात्संयोगमुपगच्छेताम् । तत्र चान्धेन पङ्गुः स्कन्धमारोपितः। ततश्च पगुदर्शितेन मार्गेणान्धः समीहितं स्थानं प्राप्नोति पगुरपि स्कन्धाधिरूढः । तथा परस्परापेक्षप्रधानपुरुषनिबन्धनः सर्गः । यथोक्तम्-- पुरुषस्य दर्शनार्थं कैवल्यार्थ तथा प्रधानस्य । . पवन्धवदुभयोरपि संबन्धस्तत्कृतः सर्गः।। (सां०का०२१) इति । ननु पुरुषार्थनिबन्धना भवतु प्रकृतेः प्रवृत्तिः । निवृत्तिस्तु कथमुपपद्यत इति चेदुच्यते । यथा भर्ना दृष्टदोषा स्वैरिणी भर्तारं पुनर्नोपैति यथा वा कृतप्रयोजना नर्तकी निवर्तते तथा प्रकृतिरपि । यथोक्तम् रङ्गस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् ।। पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ सां०का०५९) इति । एतच्च निरीश्वरसांख्यशास्त्रप्रवर्तककपिलादिमतानुसारिणां मतमुपन्यस्तम् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे सांख्यदर्शनम् ॥ १ ख. सृष्टेः का । २ घ. 'ट्या का। ३ क. ख. ग. घ. युक्तप्र । ४ च. षनिबन्ध । ५ क. ख. °न्धनो न । ६ ग. ङ. ततः प० । ७ च. °नदर्शनसंबन्धनि । ८ घ. की नर्तनं त°। च. °की नृत्यानिव। ९ क. नृत्तात् । १० ख. घ. 'थाऽऽनन्दं प्र। ११ घ. तदर्थे नि । १२ ख. ङ.. Page #144 -------------------------------------------------------------------------- ________________ १२२ सर्वदर्शनसंग्रहेअथ पातञ्जलदर्शनम् ॥ १५ ॥ सांप्रतं सेश्वरसांख्यप्रवर्तकपतञ्जलिप्रभृतिमुनिमतमनुवर्तमानानां मतमुपन्य स्यते । तत्र सांख्यप्रवचनापरनामधेयं योगशास्त्रं पतञ्जलिप्रणीतं पादचतुष्टयात्मकम् । तत्र प्रथमे पादे -अथ योगानुशासनम् ( पा० यो० सू० १। १) इति योगशास्त्रारम्भप्रतिज्ञां विधाय 'योगश्चित्तवृत्तिनिरोध: (पा. यो० सू० १।२ ) इत्यादिना योगलक्षणमभिधाय समाधि सप्रपञ्च निरदिक्षद्भगवान्पतञ्जलिः । द्वितीये 'तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः' (पा. यो० सू० २।१) इत्यादिना व्युत्थितचित्तस्य क्रियायोगं यमादीनि च पञ्च बहिरङ्गाणि साधनानि । तृतीये 'देशबन्धश्चित्तस्य धारणा' ( पा० यो० स०३।१ ) इत्यादिना धारणाध्यानसमाधित्रयमन्तरङ्ग संयमपदवाच्यं तदवान्तरर्फलं विभूतिजातम् । चतुर्थे 'जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः' (पा० यो० म० ४।१) इत्यादिना सिद्धिपञ्चकप्रपञ्चनपुरःसरं परमं प्रयोजनं कैवल्यम् । प्रधानादीनि पञ्चविंशतितत्त्वानि प्राचीनान्येव संमतानि । पड्विंशस्तु परमेश्वरः क्लेशकर्मविपाकाशयरपरामृष्टः पुरुषः स्वेच्छया निर्माणकायमधिष्ठाय लौकिकवैदिकसंप्रदायप्रवर्तकः संसाराङ्गारे तप्यमानानां प्राणभृतामनुग्राहकश्च । । ननु पुष्करपलाशवान्निलैंपस्य तस्य तप्यभावः कथमुपपद्यते येन परमेश्वरोऽ. नुग्राहकत या कक्षी क्रियत इति चेदुच्यते । तापकस्य रजसः सत्त्वमेव तप्यं बुद्धयात्मना परिणमत इति सत्त्वे परितप्यमाने तदारोपवशेन तदभेदावगाहिपुरुषोऽपि तप्यत इत्युच्यते । तदुक्तमाचार्य: सत्त्वं तप्यं बुद्धिभावेन वृत्तं भावो ये वाँ राजसास्तापकास्ते । तप्याभेदग्राहिणी तामसी या वृत्तिस्तस्यां तप्य इत्युक्त आत्मा ॥ इति । पश्चशिखेनाप्युक्तम्-अपरिणामिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परि १ क. ख. घ. ख्यप्राग्व । २ ग. अथो यो । ३ क.ग. . च. नि ५° । ४ क. ग. 'बन्ध चित्त । ५ क. ग.न्तरं सं° । ६ घ. °मपाद । ७ क.ग. ङ. च. तत्रावा । ८ क. फलवि । ९ क. ख. ग.त्रकल्पः स । १० ङ.-तापः । ११ क. ग. °सत्ये त° । १२ क.-डा. तमोव । १३ ङ.- वास्ते वा । १४ क. वा मानसा । १५ क. ग. "त्युक्तमात्मा। . Page #145 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । १२३ 1 णामिन्यर्थे प्रतिसंक्रान्तेव तद्वृत्तिमनुपततीति । भोक्तृशक्तिरिति चिच्छक्तिरुच्यते । सा चाऽऽत्मैव । परिणामिन्यर्थे बुद्धितत्त्वे प्रतिसंक्रान्तेव प्रतिबिम्बि तेव तद्द्वृत्तिमनुपततीति बुद्धौं प्रतिविम्विता सा चिच्छक्तिर्बुद्धिच्छायापत्त्या बुद्धिवृत्यनुकारवतीति भावः । तथा शुद्धोऽपि पुरुषः प्रत्ययं बौद्धमनुपश्यति तमनुपश्यन्नतदात्माऽपि तदात्मक इव प्रतिभासत इति । इत्थं तप्यमानस्य पुरुषस्याssदरनैरन्तर्य दीर्घकालानुबन्धियमनियमाद्यष्टाङ्ग योगानुष्ठानेन परमेश्वरप्रणिधानेन च सत्त्वपुरुषान्यताख्यातावनुपप्लवायां जातायामविद्यादयः पञ्च क्लेशांः समूलकाषं कषिता भवन्ति । कुशलाकुशलाश्च कर्माशयाः समूलघातं हता भवन्ति । ततश्च पुरुषस्य निर्लेपस्य कैवल्येनावस्थानं कैवल्यमिति सिद्धम् । तत्राथ योगानुशासनम् ( पा० यो० सू० १ । १ ) इति प्रथमसूत्रेण प्रेक्षा. वत्प्रवृत्यङ्गं विषयप्रयोजन संबन्धाधिकारिरूपमनुबन्धचतुष्टयं प्रतिपाद्यते । अथ अत्रायशब्दोऽधिकारार्थः स्वीक्रियते । अथशब्दस्यानेकार्थत्वे संभवति करेंमारम्भार्थत्वपक्षे पक्षपातः संभवेत् । अथशब्दस्य मङ्गलाद्यनेकार्थत्वं नामलिङ्गानुशासनेनानुशिष्टम् - मङ्गलानन्तरारम्भप्रश्नकात्स्म्र्येष्वथो ( अमर० ३ | ३ |२४६ ) इति । अत्र प्रश्नकार्ययोर संभवेऽप्यानन्तर्य मङ्गलपूर्वप्रकृतापेक्षारम्भलक्षणानां चतुर्णामर्थानां संभवादारम्भार्थत्वानुपपत्तिरिति चेन्मैवं मंस्थाः । विकल्पासहत्वात् । आनन्तर्यमथशब्दार्थ इति पक्षे यतः कुनचिदानन्तर्य पूर्ववृत्तशमांद्यसाधारणात्कारणादानन्तर्यं वा । न प्रथमः । न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् । ( भ० गी० ३ । ५ ) इति न्यायेन सर्वो अस्तुरवश्यं किंचित्कृत्वा किंचित्करोत्येवेति तस्याभिधानमन्तरेणापि प्राप्ततया तदर्थाथशब्दप्रयोगवैयर्थ्यप्रसक्तेः । न चरमः । शमाद्यनन्तरं योगस्य प्रवृत्तावपि तस्यानुशासनप्रवृत्त्यनुबन्धत्वेनोपात्ततया शब्दतः प्राधान्याभावात्। न च शब्दतः प्रधानभूतस्यानुशासनस्य शमाद्यानन्तर्यमथशब्दार्थः किं न स्यादिति वदितव्यम् | अनुशासनमिति हि शास्त्रमाह । अनुशिष्यते व्याख्यायते लक्षणभेदोपायफलसहितो योगो येन तदनुशासनमिति व्युत्पत्तेः । अन शासनस्य च तत्त्वज्ञानचिख्यापयिषानन्तरभावित्वेन शमदमाद्यानन्तर्यनियमाभावात् । जिज्ञासाज्ञानयोस्तु शमाद्यानन्तर्यमान्नायते - तस्माच्छन्तो दान्त १ ङ. -च. 'न्ते च त' । २ ग तद्वति । ३ ङ-च. न्ते च प्र° । ४ ङ. - च. 'ते' । ५ क. प्रलयं । ६ च. °यं बीजम' । ७ घ. 'षस्य नै । ८ घ च ° न्यथाख्या । ९ घ. ॰त्यङ्गवि॰ । १० ख. ‘धमधिकारार्थत्वप' । ११ क. - ङ. जन्तुः किं° । Page #146 -------------------------------------------------------------------------- ________________ १२४ सर्वदर्शनसंग्रहेउपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवाऽऽत्मानं पश्येत् । (३० ४।४२३) इत्यादिना । नापि तत्त्वज्ञानचिख्यापयिषानन्तर्यमथशब्दार्थः । तस्य संभवेऽपि श्रोतृप्रतिपत्तिप्रवृत्त्योरनपयोगेनानभिधेयत्वात् । तवापि निःश्रेयसहेतुतया योगानुशासनं प्रमित न वा । आये तदभावेऽप्युपादेयत्वं भवेत् । द्वितीये तद्भावेऽपि हेयत्वं स्यात् । प्रमितं चास्य निःश्रेयसनिदानत्वम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति (का० २। १२) इति श्रुतेः। समा. धावचला बुद्धिस्तदा योगमवाप्स्यास (भ० गी० २।५३) इति स्मृतेश्च.। अत एव शिष्यप्रश्नतपश्चरणरसायनायुपयोगानन्तर्य पराकृतम् । अथातो ब्रह्मजिज्ञासा (ब्र०सू० १ । १ । १) इत्यत्र तु ब्रह्मजिज्ञासाया अनधिकार्यत्वेनाधिकारार्थत्वं परित्यज्य साधनचतुष्टयसंपत्तिविशिष्टाधिकारिसमर्पणाय शमदमादिवाक्यविहिताच्छमादेरानन्तर्यमथशब्दार्थ इति शंकराचार्यैर्निरटङ्कि। अथ मा नाम भूदानन्तर्यार्थोऽथशब्दः । मङ्गलार्थः किं न स्यात् । न स्यात् । मङ्गलस्य वाक्यार्थे समन्वयाभावात् । अगर्हिताभीष्टादाप्तिमङ्गलम् । अभीष्टं च सुखावाप्तिदुःखपरिहाररूपतयेष्टः । योगानुशासनस्य च सुखदुःखनिवृत्त्योरन्यतरत्वाभावान मङ्गलता । तथा च योगानुशासनं मङ्गलमिति न संपनीपद्यते । मृदङ्गध्वनेरिवाथशब्दश्रवणस्य कार्यतया मङ्गलस्य वाच्यत्वलक्ष्यत्वयोरसंभवाच्च । यथाऽऽर्थिकार्थो वाक्यार्थे न निविशते तथा कार्यमपि न निविशेत । अपदार्थत्वाविशेपात् । पदार्थ एव हि वाक्यार्थे समन्वीयते । अन्यथा शब्दप्रमाणकानां शाब्दी ह्याकाङ्क्षा शब्देनैव पूर्यत इति मुद्राभङ्गः कृतो भवेत् । ननु प्रारिप्सितप्रबन्धपरिसमाप्तिपरिपन्थिप्रत्यूहव्यूहम. शमनाय शिष्टाचारपरिपालनाय च शास्त्रारम्भे मङ्गलाचरणमनुष्ठेयम् । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते, आयुष्मत्पुरुषकाणि वीरपुरुषकाणि च भवन्ति ( पा० म० भा० पृ० ७४० ) इत्यभियुक्तोक्तेः । भवति च मङ्गलार्थोऽथशब्दः ओंकारश्चाथशब्दश्च द्वावेतो ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ ॥ - १ क. ग.-च. कार्यार्थ । २ क. त् । स्या । ३ ङ. संपद्यते । ४ ख. क्यार्थो नि । ५ कग. ङ. च. र्थे नि । ६ क. ख. घ. °पि । अ° । ७ क. ग.-च. पूर्येति । Page #147 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । १२५ इति स्मृतिसंभवात् । तथा च वृद्धिरादैच् ( पा० सू० १ । १ । १ ) इत्यादी वृद्धयादिशब्दवदथशब्दो मङ्गलार्थः स्यादिति चेन्मैवं भाषिष्ठा: । अर्थान्तरा. भिधानाय प्रयुक्तस्याथशब्दस्य वीणावेण्वादिध्वनिवच्छ्रवणमात्रेण मङ्गलफलस्वोपपत्तेः । अथार्थान्तरारम्भवाक्यार्थधीफलकस्याथशब्दस्य कथमन्यफलक तोत चेन्न । अन्यार्थं नीयमानोदकुम्भोपलम्भवत्तत्संभवात् । न च स्मृतिव्याकोपः । माङ्गलिकाविति मङ्गलप्रयोजनत्वविवक्षया प्रवृत्तेः । नापि पूर्वप्रकृतापेक्षोऽथशब्दः । फलत आनन्तर्याव्यतिरेकेण प्रागुक्तदूषणानुषङ्गात् । किमयमथशब्दोऽधिकारार्थोऽथाऽऽनन्तर्यार्थ इत्यादिविमर्श वाक्ये पक्षान्तरोपन्यासे तत्संभवेऽपि प्रकृते तदसंभवाच्च । तस्मात्पारिशेष्यादधिकारपदवेदनीयमारम्भार्थोऽथशब्द इति विशेषो भाष्यते । यथाऽथैष ज्योतिरथैष विश्वज्योतिरित्यत्राथशब्दः क्रतुविशेषमारम्भार्थः परिगृहीतो यथा चाथ शब्दानुशासनम् ( पात०म० भा० १ । १ ) इत्यत्राथशब्दो व्याकरणशास्त्राधिकारार्थस्तद्वत् । तदभाषि व्यासभाष्ये योगसूत्र विवरणपरे - अथेत्ययमधिकारार्थः प्रयुज्यत इति । तद्वयाचख्यौ वाचस्पतिः । तदित्थम् - अमुष्यायशब्दस्याधिकारार्थत्वपक्षे शास्त्रेण प्रस्तूयमानस्य योगस्योपवर्तनात्समस्तशास्त्रतात्पर्यार्थव्याख्यानेन शिष्यस्य सुखावबोधप्रवृत्तिंर्भवतीत्यथशब्दस्याधिकारार्थत्वमुपपन्नम् । ननु ' हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ' इति याज्ञवल्क्यस्मृतेः पतञ्जलिः कथं योगस्य शासितेति चेदद्धा । अत एव तत्र तत्र पुराणादौ विशिष्य योगस्य विप्रकीर्णतया दुर्ग्राह्यार्थत्वं मन्यमानेन भगवता कृपासिन्धुना फणिपतिना सारं संजिघृक्षुणाऽनुशासनमारब्धं न तु साक्षाच्छासनम् । यदाऽयमथब्दोऽधिकारार्थस्तदैवं वाक्यार्थः संपद्यते - योगानुशासनं शास्त्रमधिकृतं वेदिव्यमिति । तस्मादयमथशब्दोऽधिकारद्योतको मङ्गलार्थश्रेति सिद्धम् । तत्र शास्त्रे व्युत्पाद्यमानतया योगः ससाधनः सफलो विषयः । तद्वयुत्पादनमवान्तरफलम् । व्युत्पादितस्य योगस्य कैवल्यं परमप्रयोजनम् । शास्त्रयोगयोः प्रति-पाद्यप्रतिपादकभावलक्षणः संबन्धः । योगस्य कैवल्यस्य च साध्यसाधनभावल १ क. ख. ग. घ. 'वणम' । ङ. --' - 'वणे मङ्गलकार्यतयोपपत्तेः । २ घ. अर्था । ३ ख. नानार्थं । ४क.ग. 'जकम् । ना' । ङ. च. ° जकत्ववि । ५ क. - ग. च. 'वृत्तिः । ना° । ६ ख. °सेन त ं । ७ घ. 'रकप' । ८ क. ग. च. विष्वग्ज्यो° । ९ ङ. च. त्पर्यव्या'। १० क.गङ. च. 'त्तिरास्तामित्युप' । ११ घ. 'याग्राह्या । Page #148 -------------------------------------------------------------------------- ________________ १२६ . मतिर क्षणः संबन्धः । स च श्रुत्यादिप्रसिद्ध इति प्रागेवावादिषम् । मोक्षमपेक्षमाणा एवाधिकारिण इत्यर्थसिद्धम् । न चाथातो ब्रह्मजिज्ञासा (ब्र० सू० १।१।१) इत्यादावधिकारिणोऽर्थतः सिद्धिराशङ्कनीया। तत्राथशब्देनाऽऽनन्तर्याभिधानप्रणाडिकयाऽधिकारिसमर्पणसिद्धावार्थिकत्वशङ्कानुदयात् । अत एवोक्तं श्रुतिप्राप्ते प्रकरणादीनामनवकाश इति । अस्यार्थ:-यत्र हि श्रत्याऽर्थो न लभ्यते तत्रैव करणादयोऽथ समर्पयन्ति नेतरत्र । यत्र तु शब्दादेवार्थस्योपलम्भस्तत्र नेतरस्य संभवः । शीघ्रबोधिन्या श्रुत्या विनियोगस्य बोधनेन मिराकाङ्क्षतयेतरेषामनवकाशात् । किंच श्रुत्या बोधितेऽर्थे तद्विरुद्धार्थ प्रकरणादि समर्पयत्यविरुद्धं वा । न प्रथमः । विरुद्धार्थबोधकस्य तस्य बाधितत्वात् । न चरमः । वैयर्थ्यात् । तदाह-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां समवाये पारदौर्बल्यमविप्रकर्षात् ( जै० सू० ३.३।१४ ) इति । बाधिकैव श्रुतिनित्यं समाख्या बाध्यते सदा । मध्यमानां तु बाध्यत्वं बाधकत्वमपेक्षया ॥ इति च ।. तस्माद्विषयादिमत्त्वाद्ब्रह्मविचारकशास्त्रवद्योगानुशासनं . शास्त्रमारम्भणीयमिति स्थितम् । ननु व्युत्पाद्यमानतया योग एवात्र प्रस्तुतो न शास्त्रामिति चेत्सत्यम् । प्रतिपाद्यतया योगः प्राधान्येन प्रस्तुतः। स च तद्विषयेण शास्त्रेण प्रति. पाद्यत इति तत्प्रतिपादने करणं शास्त्रम् । करणगोचरश्च कर्तव्यापारो न कर्मगोचरतामाचरति । यथा छेत्तुर्देवदत्तस्य व्यापारभूतमुद्यमननिपातनादि कर्म करणभूतपरशुगोचरं न कर्मभूतवृक्षादिगोचरम् । तथा च वक्तुः पतञ्जलेः प्रवचनव्यापारापेक्षया योगविषयस्याधिकृतता करणस्य शास्त्रस्य । अभिधानव्यापारापेक्षया तु योगस्यैवेति विभागः । ततश्च योगशास्त्रस्याऽऽरम्भः संभावनां भजते । अत्र चानुशासनीयो योगश्चित्तवृत्तिनिरोध इत्युच्यते । ननु युजिर्योग इति संयोगार्थतया परिपठितायुजेनिपन्नो योगशब्दः संयोगवचन एव स्यान्न तु निरोधवचनः । अत एवोक्तं याज्ञवल्क्येन . संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः ।। इति । ' १ क. ख. ग. दिष्टम् । मो । घ. 'दिष्टमों। २ क.-. माणा श्रवणाधि । ३ ङ.-च. धाने प्र । ४ क. ख. ग. घ. प्रमाणा'। ५ क. ख. सनशा । ६ क. रंक। ७ घ. स्यैव प्रतिपाद्यतोत। Page #149 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । १२७ तदेतद्वार्तम् । जीवपरयोः संयोगे कारणस्यान्यतरकर्मादेरसंभवात् । अजसंयोगस्य कणभक्षाक्षचरणादिभिः प्रतिक्षेपाच्च । मीमांसकमतानुसारेण तदङ्गीकारेऽपि नित्यसिद्धस्य तस्य साध्यत्वाभावेन शास्त्रवैफल्यापत्तेश्च । धातूनामनेकार्थत्वेन युजेः समाध्यर्थत्वोपपत्तेश्च । तदुक्तम्- . _ निपाताश्चोपसर्गाश्च धातवश्चेति ते त्रयः । अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ।। इति । अत एव केचन युजि समाधावपि पठन्ति युज समाधाविति। नापि याज्ञवल्क्यवचनव्याकोपः । तत्रस्थस्यापि योगशब्दस्य समाध्यर्थत्वात् । समाधिः समतावस्था जीवात्मपरमात्मनोः । ब्रह्मण्येव स्थितियों सा समाधिः प्रत्यगात्मनः ॥ इति तेनैवोक्तत्वाच्च । तदुक्तं भगवतां व्यासेन-योगः समाधिः ( योगभा० पृ० २।१.) इति । । नन्वेवमष्टाङ्गायोगे चरमस्याङ्गस्य समाधित्वमुक्तं पतञ्जलिना-यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमधियोऽष्टाङ्गानि योगस्ये ( पात० यो० सू० २ । २९) इति न चाङ्गन्येवाङ्गतो गन्तुमुत्सहते । उपकार्योपकारकभावस्य दर्शपूर्णमासमयाजादौ भिन्नायतनत्वेनात्यन्तभेदात् । अतः समाधिराप न योगशब्दार्थो युज्यत इति चेत्तन्न युज्यते । व्युत्पत्तिमात्राभिधित्सया तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः ( पात० यो० सू० ३।३ ) इति । निरूपितचरमाङ्गवाचकेन समाधिशब्देनाङ्गिनो योगस्याभेदविवक्षया व्यपदेशोपपत्तेः । न च व्युत्पत्तिबलादेव सर्वत्र शब्दः प्रवर्तते । तथात्वे गच्छतीति गौरिति व्युत्पत्तस्तिष्ठन्गौर्न स्यात् । गच्छन्देवदत्तश्च गौः स्यात् । प्रवृत्तिनिमित्तं च प्रागुक्तमेव चित्तवृत्तिनिरोध इति । तदुक्तं योगश्चित्तवृत्तिनिरोधः (पात यो० सू० १।२) इति । ननु वृत्तीनां निरोधश्चेद्योगोऽभिमतस्तासां ज्ञानत्वेनाऽऽत्माश्रयतया तन्निरोधोऽपि प्रध्वंसपदवेदनीयस्तदाश्रयो भवेत् । प्रागभावप्रध्वंसयोः प्रतियोगिसमानाश्रयत्वनियमात् । ततश्च उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् । इति न्यायेनाऽऽत्मनः कौटस्थ्यं विहन्यतेति चेत्तदपि न घटते । निरोधप्र १ घ. °तदात° । २ क. ग. युजिस । ३ क.-ग. ङ. च. °ति । यद्येव । ४ ख. °पि यो । ५ ख. र्भासस्व । ६ घ. °पितं च । ७ ख. वक्षाया। 4 ख. घ. निवर्तेतेति । ९ घ. ते नामनि । Page #150 -------------------------------------------------------------------------- ________________ १२८ सर्वदर्शनसंग्रहे-- तियोगिभूतानां प्रमाणविपर्ययविकल्पनिद्रीस्मृतिस्वरूपाणां वृत्तीनामन्तःकरणाद्यपरपर्यायचित्तधर्मत्वाङ्गीकारात् । कूटस्थनित्या चिच्छक्तिरपरिणामिनी विज्ञानधर्माश्रयो भवितुं नाहत्येव । न च चितिशक्तेरपरिणामित्वमसिद्धमिति मन.व्यम् । चितिशक्तिरपरिणामिनी सदा ज्ञातृत्वात् । न यदेवं न तदेवं यथा चित्तादि-इत्याद्यनुमानसंभवात् । तथा यद्यसौ पुरुषः परिणामी स्यात्तदा परिणामस्य कादाचित्कत्वात्तासां चित्तवृत्तीनां सदा ज्ञातत्वं नोपपद्येत । चिद्रूपस्य पुरुषस्य सदैवाधिष्ठातृत्वेनावस्थितस्य यदन्तरङ्ग निर्मलं सत्त्वं तस्यापि सदैव स्थितत्वात् । येन येनार्थेनोपरक्तं भवति तस्य दृश्यस्य सदैव चिच्छायापत्त्या भानोपपत्त्या पुरुषस्य निःसङ्गत्वं संभवति । ततश्च सिद्धं तस्य सदाज्ञातृत्वमिति नै कदाचित्परिणामित्वशङ्काऽवतरति । चित्तं पुनर्येन विषयेणोपरक्तं भवति स विषयो ज्ञातः, येनोपरक्तं न भवति तदज्ञातमिति वस्तुनोऽयस्कान्तमणिकल्पस्य ज्ञानाज्ञानकारणभूतोपरागानुपरागधर्मित्वादयःसधर्मकं चित्तं परिणामीत्युच्यते । ननु चित्तस्येन्द्रियाणां चाऽऽहंकारिकाणां सर्वगतत्वात्सर्वविषयैरस्ति सदा संबन्धः । तथा च सर्वेषां सर्वदा सर्वत्र ज्ञानं प्रसज्येतेति चेन्न । सर्वगतत्वेऽपि चित्तं यत्र शरीरे वृत्तिमत्तेन शरीरेण सह संबन्धो येषां विषयाणां तेष्वेवास्य ज्ञानं भवति नेतरेष्वित्यतिप्रसङ्गाभावात् । अत एवायस्कान्तमणिकल्या विषया अयःसधर्मकं चित्तमिन्द्रियप्रणालिकयाऽभिसंबन्ध्योपरञ्जयन्तीत्युक्तम् । तस्माचित्तस्य धर्मा वृत्तयो नाऽऽत्मनः । तथा च श्रुतिः- कामः संकल्पो विचि. कित्सा श्रद्धाऽश्रद्धा धृतिरधृतिहींधीरित्येतत्सर्व मन एव' (बृ० १।५।३ ) इति । पिच्छक्तेरपरिणामित्वं पञ्चशिखा चाराख्यायि-अपरिणामिनी भोक्तशक्तिरिति । पतञ्जलिनाऽपि-सदा ज्ञाताश्चित्तवृत्तस्तित्प्रभोः पुरुषस्यापरिणामिस्वात् ( पात० यो० सू० ४ । १८ ) इति । चित्तपरिणामित्वेऽनुमानमुच्यतेचित्तं परिणामि ज्ञाताज्ञातविषयत्वाच्छ्रोत्रादिवदिति । परिणामश्च त्रिविधः प्रसिद्धो धर्मलक्षणावस्थाभेदात् । धर्मिणश्चित्तस्य नीलाद्यालोचनं धर्मपरिणामः । यथा कनकस्य कटकमुकुटकेयूरादि । धर्मस्य १५. द्रास्व । २ घ. त्ताय । ३ घ. त्या निः । ४ क.-ग.-च. न काचि । ५ क.ग.-डा. च.मित्वाश। ६ क. "तः, यदुपरक्तं भ। ग. तः, नानुपरक्तं भ। ख. ङ-च. °तः, यहुपरक्तं न भ७ ख. स्तुतोऽय । ८ घ. ज्ञान । ९ क. ग. गत्वा । १० घ. वाज्ञा । ११ ६. °ल्पा चिच्छक्तिर्यतो विचि । १२ प.त्वं च प । १३ प. वृत्तिरप्यसत्त्र । Page #151 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । वर्तमानत्वादिलक्षणपरिणामः । नीलाघालोचनस्य स्फुटत्वादिरवस्थापरिणामः । कटकादेस्तु नवपुराणत्वादिरवस्थापरिणामः । एवमन्यत्रापि यथासंभवं परिणामत्रितयमूहनीयम् । तथा च प्रमाणादिवृत्तीनां चित्तधर्मत्वात्तनिरोधोऽपि तदाश्रय एवेति न किंचिदनुपपन्नम् । ननु वृत्तिनिरोधो योग इत्यङ्गीकारे सुषुप्त्यादौ क्षिप्तमूढादिचित्तवृत्तीनां निरोधसंभवाद्योगत्वप्रसङ्गः । न चैतयुज्यते । क्षिप्ताद्यवस्थासु क्लेशाहाणादेरसंभवानिःश्रेयसपरिपन्थित्वाच्च । तथाहि-क्षिप्तं नाम तेषू तेषु विषयेषु क्षिप्यमाणमस्थिर चित्तमुच्यते । तमासमुद्रे मनं निद्रावृत्तिभावितं मूढमिति गीयते । क्षिप्ताद्विशिष्टं चित्तं विक्षिप्तमिति गीयते । विशेषो नाम चञ्चलं हि मनः कृष्ण प्रमाथि बलबदृढम् । ( भ० गी०६ । ३४ ) इति न्यायेनास्थिरस्यापि मनसः कादाचित्कसमुद्भूतविषयस्थैर्यसंभवेन स्थैर्यम् । अस्थिरत्वं च स्वाभाविक व्याध्याद्यनुशयजनितं वा । तदाह-व्याधिस्त्यानसंशयममादालस्याविरतिभ्रान्तिदर्शनालब्धभूमिकवानवस्थितत्वानि चितविक्षेपास्तेऽन्तरायाः ( पात० यो० सू० १ । ३० ) इति । तत्र दोषत्रयवैषम्यनिमित्तो ज्वरादियाधिः । चित्तस्याकर्मण्यत्वं स्त्यानम् । विरुद्धकोटिदयार्गवाहि ज्ञानं संशयः। समाधिसाधनानामभावनं प्रमादः । शरीरवाचित्तगुरुत्बादप्रवृत्तिरालस्यम् । विषयामिलापोऽविरतिः । अतस्मिंस्तबुद्धिन्ति दर्शनम् । कुतश्चिनिमित्तात्समाधिभूमेरलाभोऽलब्धभूमिकत्वम् । लब्धायामपि तस्यां चित्तस्याप्रतिष्ठाऽनवस्थितत्वमित्यर्थः । तस्मान्न वृत्तिनिरोधो योगपंक्षनिक्षेपमहतीति चेन्मैवं वोचः । हेयभूतक्षिप्ताद्यवस्थात्रये वृत्तिनिरोधस्य योगस्वासंभवेऽप्युपादेययोरेकाग्रनिरुद्धावस्थयोईत्तिनिरोधस्य योगत्वसंभवात् । एकतानं चित्तमेकाप्रमुच्यते । निरुद्धसकलवृत्तिकं संस्कारमात्रशेष चित्तं निरुद्धमिति भण्यते । स च समाधिविविधः । संप्रज्ञातासंप्रज्ञातभेदात् । तत्रैकाग्रचेतसि यः प्रमागादिवृत्तीनां बाह्यविषयाणां निरोधः स संप्रज्ञातसमाधिः । सम्यक्प्रज्ञायतेऽस्मिन्मकृतेविविक्ततया ध्येयमिति व्युत्पत्तेः। स चतुर्विधः । सवितर्कादिभेदात् । समाधिर्नाम भावना । सा च भाव्यस्य विषयान्तरपरिहारेण चेतसि १ क.ख. ग. न च पु । २ ग. 'न्यच्चापि । ३ घ. `त्तनिरो । ४ घ. °क्षिप्तादिचित्तवृत्ते मेढा । ५ घ. न त्वेत° ६ क. ख. ग. °षु वि । ७ ङ.-च. ति मञ्चित्तं मू। ८ घ. वा. स्थिरत्वविक्षेपयोगान्त' । ९ क. ग. 'तत्त्वविक्षेपयोगान्त । १० च. "पा योगान्त । ११ ग. °दः । चि । १२ क. ग, घ. °मित्वम् । १३ °पक्षे नि । १४ क.-. °स्य हेयत्वसं । १५ घ. रे । १५ Page #152 -------------------------------------------------------------------------- ________________ १३० सर्वदर्शनसंग्रहे पुनः पुनर्निवेशनम् । भाव्यं च द्विविधम् । ईश्वरस्तत्त्वानि च । तान्यपि द्विविधानि । जड जडभेदात् । जडानि प्रकृतिमहद हंकारादीनि चतुर्विंशतिः । अजडः पुरुषः । तत्र यदा पृथिव्यादीनि स्थूलानि विषयत्वेन (SSदाय पूर्वापरानुसंधानेन शब्दार्थोल्लेखसंभेदेने च भावना प्रवर्तते स समाधिः सवितर्कः । यदा तन्मात्रान्तःकरणलक्षणं सूक्ष्मं विषयमालम्ब्य देशाद्यवच्छेदेन भावना प्रवर्तते तदा सविचारः । यदा रजस्तमोलेशानुविद्धं चित्तं भाव्यते तदा सुखप्रकाशमयस्य सत्त्वस्योद्रेकात्सानन्दः । यदा रजस्तमोलेशानभिभूतं शुद्धं सत्त्वमालम्बनीकृत्य या प्रवर्तते भावना तद तस्यां सत्त्वस्यें न्यग्भावाश्च्चितिशक्ते रुद्रेकाच्च सत्तामात्रावशेषत्वेन सास्मितः समाधिः । तदुक्तं पतञ्जलिना - वितर्कविचारानन्दस्मितारूपानुगमात्संप्रज्ञात: ( पात० यो० सू० १।१७ ) इति । सर्ववृत्तिनिरोधे त्वसंप्रज्ञातः समाधिः । ननु सर्ववृत्तिनिरोधो योग इत्युक्ते संप्रज्ञाते व्याप्तिर्न स्यात् । तत्र सत्त्वप्रधानायाः सत्त्वपुरुषान्यताख्या तिलक्षणाया वृत्तेरनिरोधादिति चेत्तदेतद्वर्तिम् । क्लेशकर्मविपाकाशय परिपन्थिचित्तवृत्तिनिरोधो योग इत्यङ्गीकारात् । क्लेशाः पुनः पञ्चधा प्रसिद्धाः - अविद्यास्मितारागद्वेषामिनिवेशा: क्लेशाः (पात० यो० सू० २/३ ) इति । 1 -ry नन्त्रविद्येत्यत्र किमाश्रीयते । पूर्वपदार्थप्राधान्यममक्षिकं वर्तत इतिवत् । उत्तरपदार्थप्राधान्यं वा राजपुरुष इतिवत् । अन्यपदार्थप्राधान्यं वाऽमक्षिको देश इतिवत् । तत्र न पूर्वः । पूर्वपदार्थप्रधानत्वेऽविद्यायां प्रसज्यप्रतिषेधोपपत्तों क्लेशादिकारकत्वानुपपत्तेः । अविद्याशब्दस्य स्त्रीलिङ्गत्वाभावापत्तेश्च । न द्वितीयः । कस्यचिद्भावेन विशिष्टाया विद्यायाः क्लेशादिपरिपन्थित्वेन तद्बीजत्वानुपपत्तेः । न तृतीयः । नमोऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्चेति वृत्तिकारवचनानुसारेणाविद्यमाना विद्या यस्याः साऽविद्या बुद्धिरिति समासार्थसिद्धौ तस्या अविधायाः क्लेशादिवीजत्वानुपपत्तेः । विवेकख्यातिपूर्वक सर्ववृत्तिनिरोधसंपन्नायास्तस्यास्तथात्वप्रसङ्गाच्च । उक्तं चास्मितादीनां क्लेशानामविद्यानिदानत्वम् - अविद्या क्षेत्रमुत्तरेषां प्रसुप्ततनुविच्छिन्नेोदराणाम् (पात० यो० सू० २।४) इति । तत्र प्रसुप्तत्वं प्रबोध सहकार्यभावेनानभिव्यक्तिः । तनुत्वं प्रतिपक्षमावनया शिथिलीकरणम् । विच्छिन्नत्वं बलवता क्लेशेनाभिभवः । उदारत्वं सहकारि 99 १ क. ख. ग. 'न भा' । २ च. 'दास' । ३ क. ख. ग. घ. तस्य । ४ घ. 'स्य प्रत्यग्भा । ५ ङ -सत्त्वमा ं । ६ क. न्दात्मिकास्मि । ७ घ. तदार्तम् । ८ घ. 'द्यायाः प्र° । ९ घ. 'स्य तृतीपत्तौ त्रिलि । १० क ख 'प्र' । ११ क. - ङ. 'त्तिसं' । १२ घ. 'दार मि' । ङ. दारणमि । Page #153 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । १३१ संनिधिवशात्कार्यकारित्वम् । तदुक्तं वाचस्पतिमिश्रेण व्यासभाष्यव्याख्यायाम्-- प्रसुप्तास्तत्वलीनानां तन्ववस्थाश्च योगिनाम् । विच्छिन्नोदाररूपाश्च क्लेशा विषयसङ्गिनाम् ।' इति । द्वंद्ववत्स्वतन्त्रपदार्थयानवगमादुभयपदार्थप्रधानत्वं नाऽऽशन्तिम् । तस्मात्पक्षेत्रयेऽपि क्लेशादिनिदानत्वमाविद्यायाः प्रसिद्धं हीयेतेति चेत्तदपि न शोभनं विभाति । पर्युदासशक्तिमाश्रित्याविद्याशब्देन विद्याविरुद्धस्य विपर्ययज्ञानस्याभिधानमिति वृद्धैरङ्गीकारात् । तदाह नामधात्वर्थयोगे तु नैव नञ् प्रतिषेधेकः । वदैत्यब्राह्मणाधर्मावन्यमात्रविरोधिनौ ॥ इति । वृद्धप्रयोगगम्यो हि शब्दार्थः सर्व एव नः । तेन यत्र प्रयुक्तो यो न तस्मादपनीयते ॥ इति । वाचस्पतिमित्रैरप्युक्तम्-लोकाधीनावधारणो हि शब्दार्थयोः संबन्धः । लोके चोत्तरपदार्थप्रधानस्यापि नत्र उत्तरपदाभिधेयोपमर्दकस्य तद्विरुद्धतया तत्र तत्रोपलब्धेरिहापि तद्विरुद्धे प्रवृत्तिरिति । एतदेवाभिप्रेत्योक्तम्-अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ( पात० यो० सू० २ । ५ इति ) । अतस्मिंस्तबुद्धिर्विपर्यय इत्युक्तं भवति । तद्यथा-अनित्ये घटादौ नित्यत्वाभिमानः । अशुचौ कायादौ शुचि. त्वप्रत्यय:-- . स्थानाद्वीजादुपष्टम्भान्निष्यन्दानिधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः ॥ इति । परिणामतापसंस्कारदुःखैर्गुणवृत्त्याविरोधाच्च दुःखमेव सर्व विवेकिनः ( पात० यो० सू० २ । १५) इति न्यायेन दुःखे स्रक्चन्दनवनितादौ सुखत्वा. रोपः । अनात्मनि देहादावात्मबुद्धिः । तदुक्तम्-- अनात्मनि च देहादावात्मबुद्धिस्तु देहिनाम् । अविद्या तत्कृतो बन्धस्तन्नाशो मोक्ष उच्यते ॥ इति । १ घ. म् । अत उक्तं । २ घ. "सुप्ततनुली । ३ ग. °नत्वे ना । ४ क -ग. डा. च, 'क्षद्वये । ५ च. °धकृत् । व° । ६ ग. दन्त्यब्रा । ७ टु.-च. गम्या हि शब्दार्थाः स । ८ च. 'कोऽयं न । ९ क. ग. कत्वस्य । १० घ. "त्मज्ञप्तिर' । ११ क. ग. गुणा । १२ घ. धाय दु। १३ ख. ङ-च. नाशे मो। Page #154 -------------------------------------------------------------------------- ________________ १३२ सर्वदर्शनसंग्रहे--- एवमयमविद्या चतुष्पदा भवति । नन्वेतेष्वविद्याविशेषेषु किंचिदनुगतं सामान्यलक्षणं वर्णनीयम् । अन्यथा विशेषस्यासिद्धेः । तथा चोक्तं भट्टाचार्यै:सामान्यलक्षणं त्यक्त्वा विशेषस्यैव लक्षणम् । न शक्यं केवलं वक्तुमतोऽप्यस्य न वाध्यता ।। इति । तदपि न वाच्यम् । अतस्मिंस्तद्बुद्धिरिति सामान्यलक्षणाभिधानेन दत्तोत्तरत्वात् । सत्त्वपुरुषयोरहमस्मीत्येकताभिमानोऽस्मिता । तदप्युक्तं - दृक् दर्शनशक्योरेकात्मतेवास्मिता (पात० यो० सू० २ । ६ ) इति । सुखाभिज्ञस्य सुखानुस्मृतिपूर्वकः सुखसाधनेषु तृष्णारूपो गधों रागः । दुःखाभिज्ञस्य तदनुस्मृतिपुरःसरं तत्साधनेषु निवृत्तिद्वेषः । तदुक्तं - सुखानुशयी रागः ( पात० यो० सू० २ । ७ ) दुःखानुशयी द्वेषः ( पात० यो० सू० २ । ८ ) इति । किमत्रानुशयिशब्दे ताच्छील्यार्थे णिनिरिनिर्वा मत्वर्थीयोऽभिमतः । नाऽऽद्यः । सुप्यजातौ णिनिस्ताच्छील्ये (पा०सू० ३।२ / ७८) इत्यत्र सुपीति वर्तमाने पुनः सुग्रहणस्योपसर्गनिवृत्त्यर्थत्वेन सोपसर्गाद्धातोर्णिनेरनुत्पत्तेः । यथाकथंचितदङ्गीकारेऽप्यचोऽणिति (पा० सू० ७ । २ । ११५ ) इति वृद्धिमसक्तावर्तिशाय्यादिपदवदनुशायिपदस्य प्रयोगप्रसङ्गात् । न द्वितीयः । एकाक्षरात्कृतो जातेः सप्तम्यां च न तौ स्मृतौ । इति तत्प्रतिषेधात् । अत्र चानुशयशब्दस्याजन्तत्वेन कृदन्तत्वात् । तस्मादनुशयिशब्दो दुरुपपाद इति चेन्नैतद्भद्रम् । भवानवबोधात् । प्रायिकाभिप्रायमिदं वचनम् । अत एवोक्तं वृत्तिकारणं - इतिकरणो विवक्षार्थः सर्वत्राभिसंबध्यत इति । तेन क्वचिद्भवति कार्यं कार्यिकस्तण्डुली तण्डुलिक इति । तथा च कृदन्त | ज्जातेश्च प्रतिषेधस्य प्रायिकत्वम् । अनुशयशब्दस्य कृदन्ततयेने रूपपत्तिरिति सिद्धम् । पूर्व जन्मानुभूतमरणदुःखानुभववासनाबलात्सर्वस्य प्राणभृन्मात्रस्या कृमेरौं च विदुषः संजायमानः शरीरविषयादेर्मम वियोगो मा भूदिति प्रत्यहं निमित्तं विना प्रवर्तमानां भँयरूपोऽभिनिवेशः पञ्चमः क्लेशः । मान भूवं हि भूयासमिति प्रार्थनायाः प्रत्यात्ममनुभवसिद्धत्वात् । तदाह - स्वरसवाही विदुषोऽपि तथा १ ख. ध. च. 'तुष्पादा | २ क. क्षणां मुक्त्वा । ग. क्षणं मुक्त्वा । ३ घ. 'स्मितेति । त° । ४ क. - ङ. दुःखज्ञ । ५ क ग ङ. च निन्दाद्वेषः । ६ च 'नुगदिश । ७ क. - ग. ङ. च. 'चिद । ८ क. - ग. ङ. च. तिशय्या" । ९ घ. शयश । १० घ. भावनान' । ११ घ. बोधप्रायि' । १२ च. 'णेतिकरणेन । इ° । १३ घ. कार्य का । च. कार्य : कार्या कार्यकस्तण्डुलिर्मण्डाल' । १४ क °रा वि' । १५ घ. भवरू । १६ घ. भूत्वा संतिष्ठामीति । Page #155 -------------------------------------------------------------------------- ________________ १३३ पातञ्जलदर्शनम् । रूढोऽभिनिवेशः (पात. यो. सू० २ । ९) इति । ते चाविद्यादयः पश्च सांसारिकविविधदुःखोपहारहेतुस्वेनं पुरुषं क्लिनन्तीति क्लेशाः प्रसिद्धाः। कर्माणि विहितमतिषिद्धरूपाणि ज्योतिष्टोमब्रह्महत्यादीनि । विपाकाः कर्मफैलानि जात्यायुभॊगाः । आ फलविपाकाच्चित्तभूमौ शेरत इत्याशया धर्माधर्मसंस्काराः । तत्परिपन्थिचित्तवृत्तिनिरोधो योगः । निरोधो नौभा. वमात्रमभिमतम् । तस्य तुच्छत्वेन भावरूपंसाक्षात्कारजननक्षमत्वासंभवात् । किंतु तदाश्रयो मधुमतीमधुप्रतीकाविशोकासंस्कारशेषाव्यपदेश्यश्चित्तस्यावस्थाविशेषः । निरुध्यन्तेऽस्मिन्प्रमाणाद्याश्चित्तवृत्तय इति व्युत्पत्तेरुपपत्तेः। - अभ्यासवैराग्याभ्यां वृत्तिनिरोधः। तत्र स्थितौ यत्नोऽभ्यासः (पात यो. मू० १। १२-१३)। वृत्तिरहितस्य चित्तस्य स्वरूपनिष्ठः प्रशान्तवाहितारूपः परिणामविशेषः स्थितिः । तं निमित्तीकृत्य यत्नः पुनः पुनस्तथात्वेन चेतास निवेशनमभ्यासः । चर्मणि दीपिनं हन्तीतिवनिमित्तार्थेयं सप्तमीत्युक्तं भवति । दृष्टानुअविकविषयवितृष्णस्य वशीकारसंज्ञा वैराग्यम् (पात० यो० सू० १ । १५ ) । ऐहिकपारत्रिकविषयादौ दोषदर्शनानिरभिलाषस्य ममैते विषयाँ वश्या नाहमेतेषां वश्य इति विमर्शो वैराग्यमित्युक्तं भवति । समाधिपरिपन्थिक्लेशतनूकरणार्थ समाधिलाभार्थं च प्रथमं क्रियायोगविधानपरेण योगिना भवितव्यम् । क्रियायोगसंपादनेऽभ्यासवैराग्ययोः संभवात् । तदुक्तं भगवता___आरुरुक्षोर्मुनेयोगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते (भ० गी०६।३) इति । क्रियायोगथोपदिष्टः पतञ्जलिना-तपास्वाध्यायेश्वरप्रणिधानानि क्रियायोगः (पात यो० मू० २ । १) इति । तपास्वरूपं निरूपितं याज्ञवल्क्येन विधिनोक्तेन मार्गेण कृच्छ्रचान्द्रायणादिभिः । शरीरशोषणं पाहुस्तपसां तप उत्तमम् ।। इति । प्रणवगायत्रीप्रभृतीनामध्ययनं स्वाध्यायः । ते च मन्त्रा द्विविधाः । वैदिकाँस्तान्त्रिकाश्च । वैदिकाश्च द्विविधाः। प्रगीता अप्रगीताश्च । तत्र प्रगीताःसामानि । १ घ. विपाकः । २ क. फलजा । ३ च. तत्त्वप । ४ क ख. घ. नाम भा। ५ ख घ. 'तम् । न त्वभावमात्रम् । त°। ६ ख. °वसाक्षात्कारज । ७ ख. ग. ङ.-च. पसंस्कारज । ८ ख. "धुराम । ९ घ. रविशेषाव्य । १० ख. त्र निवेशनमभ्या । ११ क. ख. स्थितो। १२ क. "नुश्रावि । १३ घ. षये विौं । १४ घ. 'या न व° । १५ क. ख. घ, नादिक्रि । १६ ख. 'तीनां मन्त्राणाम' । १५ घ. काश्चावैदि। Page #156 -------------------------------------------------------------------------- ________________ १३४ सर्वदर्शनसंग्रहे- गीताश्च द्विविधाः । छन्दोबद्धास्तद्विलक्षणाश्च । तत्र प्रथमा ऋचो द्वितीया यजूंषि । तदुक्तं जैमिनिना - तेषामृग्यत्रार्थवशेन पादव्यवस्था । गीतिषु सामारूया । शेषे यजुःशब्दः (जै० ० सू० २ । १ । ३३-३५ ) इति । तन्त्रेषु कामिककारणप्रपश्चाद्यागमेषु ये ये वर्णितास्ते तान्त्रिकाः । ते पुनर्मन्त्रास्त्रिविधाः । स्त्रीपुंनपुंसकभेदात् । तदाह स्त्रीपुंनपुंसकत्वेन त्रिविधा मन्त्रजातयः । 1 स्त्रीमन्त्रा वह्निजायान्ता नमोन्ताः स्युर्नपुंसकाः ॥ शेषाः पुमांसस्ते शस्ताः सिद्धा वश्यादिकर्मणि । इति । जननादिसंस्काराभावेऽपि निरस्तसमस्तदोषत्वेन सिद्धिहेतुत्वात्सिद्धत्वम् । स च संस्कारो दशविधः कथितः शारदातिलके मन्त्राणां दश कथ्यन्ते संस्काराः सिद्धिदायिनः । निर्दोषतां प्रयान्त्याशु ते मन्त्राः साधु संस्कृताः ॥ जननं जीवनं चैव ताडनं बोधनं तथा । अभिषेकोऽथ विमलीकरणाप्यायने पुनः || तर्पणं दीपनं गुप्तिदशैता मन्त्रसंस्क्रियाः । मन्त्राणां मातृकायन्त्रादुद्धारो जननं स्मृतम् ॥ प्रणवान्तरितान्कृत्वा मन्त्रवर्णाञ्जपेत्सुधीः । मन्त्रार्णसंख्यया तद्धि जीवनं संप्रचक्षते || मन्त्रवर्णान्समालिख्य ताडयेच्चन्दनाम्भसा | प्रत्येकं वायुबीजेन ताडनं तदुदाहृतम् ॥ विलिख्य मन्त्रवर्णीस्तु प्रसूनैः करवीरजैः । मन्त्राक्षरेण संख्यातैर्हन्यात्तद्बोधनं मतम् ! स्वतन्त्रोक्तविधानेन मन्त्री मन्त्रार्णसंख्यया । अश्वत्थपल्लवैर्मन्त्रमभिषिश्चेद्विशुद्धये ॥ संचिन्त्य मनसा मन्त्रं ज्योतिर्मन्त्रेण निर्दहेत् । मन्त्रे मलत्रयं मन्त्री त्रिमलीकरणं हि तत् ॥ १ क. घ. शेषं य ं । २ क. 'ति । ताडना । ख. ध. 'ति । स्नाना । ग. ड. च. 'ति । स्नापना॰ । ३ घ. ॰नं चैव बन्धनम् । अ । ४ ग. दर्पणं । ५ क. ख. ग. घ. कावर्गादु° । ङ. -च. "कावर्णादु' । ६ क. 'रेणासं । Page #157 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । तारव्योमाग्निमनुयुग्जोतिर्मन्त्र उदाहृतः । कुशोदकेन जप्तेन प्रत्यर्ण प्रोक्षणं मनोः ॥ वारिबीजेन विधिवदेतदाप्यायनं मतम् । मन्त्रेण वारिणा मन्त्र तर्पणं तर्पणं स्मृतम् ॥ तारमायारमायोगो मनोदीपनमुच्यते । जैप्यमानस्य मन्त्रस्य गोपनं त्वप्रकाशनम् ॥ संस्कारा दश मन्त्राणां सर्वतन्त्रेषु गोपिताः । यत्कृत्वा संप्रदायेन मन्त्री वाञ्छितमश्नुते ॥ रुद्धकीलितविच्छिन्नसुप्तशप्तादयोऽपि च । । मन्त्रदोषाः प्रणश्यन्ति संस्कारैरेभिरुत्तमैः ॥ इति । सदलमकाण्डताण्डवकल्पेन मन्त्रशास्त्ररहस्योद्घोषणेन । ईश्वरप्रणिधानं नामाभिहितानामनभिहितानां च सर्वासां क्रियाणां परमेश्यो परमगुरौ फलानपेक्षया समर्पणम् । यत्रेदमुक्तम् ____ कामतोऽकामतो वाऽपि यत्करोमि शुभाशुभम् । ... तत्सर्वं त्वयि विन्यस्तं त्वत्प्रयुक्तः करोम्यहम् ॥ इति । क्रियाफलसंन्यासोऽपि भक्तिविशेषापरपर्यायं प्रणिधानमेव । फलाभिसंघानेन कर्मकरणात् । तथा च गीयते गीतासु भगवता कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ ( २।४७) इति । फलाभिधेरुपघातकत्वमभिहितं भगवद्भिर्नीलकण्ठभारतीश्रीचरणैः अपि प्रयत्नसंपन्न कामेनोपहतं तपः । न तुष्टये महेशस्य श्वलीढमिव पोयसम् ।। इति । सा च तपास्वाध्यायेश्वरप्रणिधानात्मिका क्रिया योगसाधनत्वाद्योग इति शुद्ध सारोपलक्षणावृत्त्याश्रयणेन निरूप्यते यथाऽऽयुघृतमिति । शुद्धसारोपलक्षणा नाम लक्षणाप्रभेदः । मुख्यार्थबाधतयोगाभ्यामर्थान्तरप्रतिपादनं लक्षणा । सा द्विविधा । रूढिमूला प्रयोजनमूला च । तदुक्तं कान्यप्रकाशे १ क. ख. घ. 'मानि नियुत ज्यो । २ ख. घ. °ण तदिति स्मृ। ३ क. तारया मारयोयोगगे। ख. तारया माययोर्योगो । ग. तारयोर्मास्या योगो । ४ घ. रव्यामारयोर्योगो। ५. जाप्प । ६ क.-ग. ङ. च. °म् । अत्रे । ७ घ. नेनाक' । ८ घ. °धेरपकारक । ९ क. यावकम् । घ. पावकम् । Page #158 -------------------------------------------------------------------------- ________________ १३६ सर्वदर्शनसंग्रहे मुख्यार्थबाधे तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणाऽऽरोपिता क्रिया ॥ (२९) इति । यच्छब्देन लक्ष्यत इत्याख्याते गुणीभूतं प्रतिपादनमात्रं परामृश्यते । सा लक्षगति प्रतिनिर्दिश्यमानापेक्षया तच्छब्दस्य स्त्रीलिङ्गत्वोपपत्तिः । तदुक्तं कैयटैःनिर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तत्तल्लिगमुपाददत इति । तत्र कर्मणि कुशल इत्यादि रूढिलक्षणाया उदाहरणम् । कुशाल्लातीति व्युत्पत्त्या दर्भादानकर्तरि यौगिकं कुशलपदं विवेचकत्वसारूप्यात्मवीणे प्रवर्तमानमनादिवृद्धव्यवहारपरम्परानुपातित्वेनाभिधानवत्प्रयोजनमनपेक्ष्य प्रव. तेते । तदाह-- निरूढा लक्षणाः काश्चित्सामर्थ्यादभिधानवत् (त०वा०) इति । तस्मादूढिलक्षणायाः प्रयोजनापेक्षा नास्ति । यद्यपि प्रयुक्तः शब्दः प्रथम मुख्यार्थ प्रतिपादयति तेनार्थेनार्थान्तरं लक्ष्यत इत्यर्थधर्मोऽयं लक्षणा तथाऽपि तत्सतिपादके शब्दे समारोपितः सञ्शब्दव्यापार इति व्यपदिश्यते । एतदेवाभिप्रेत्योक्तं लक्षणाऽऽरोपिता क्रियेति । प्रयोजनलक्षणा तु षड्विधा। उपादानलक्षणा लक्षणलक्षणा गौर्णसारोपा गौणसाध्यवसाना शुद्धसारोपा शुद्धसाध्यवसाना चेति । कुन्ताः प्रविशन्ति । मश्चाः क्रोशन्ति । गौवाहीकः। गौरयम् । आयुर्घतम् । आयुरेवेदमिति यथाक्रममुदाहरणानि द्रष्टव्यानि । तदुक्तम् स्वसिद्धये पराक्षेपः परार्थ स्वसमर्पणम् । उपादानं लक्षणं चेत्युक्ता शुद्धैव सा द्विधा ।। सारोपाऽन्या तु यत्रोक्तो विषयी विषयस्तथा । विषष्यन्तःकृतेऽन्यस्मिन्सा स्यात्साध्यवसानिका ।। भेदाविमौ च सारश्यात्संबन्धानतरतस्तथा। गोणी शुद्धौ च विज्ञेयो लक्षणा तेन षद्विधा । (का०प्र०२।१०-१२) इति । तदलं काव्यमीमांसाममनिमन्थनेन । स च योगो यमादिभेदवशादष्टाङ्ग इति निर्दिष्टः । तत्र यमा अहिंसा. दयः । तदाह पतञ्जलि:-अहिंसासस्थास्तेयब्रह्मचर्यापरिग्रहा यमाः(पात यो. १ क. ख. ग. घ. 'मो यस्य ल । २ क. ख. घ. णसमारो । ३ च. 'ति । काणाः प्र। ४ क. ख. वाहिकः । ५ ख. °क्षणा चे । ६ क र्मथने । Page #159 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । .१३७ सू०२।३०) इति । नियमाः शौचादयः । तदप्याह-शौचसंतोषतपास्वाध्यायेश्वरप्रणिधानानि नियमाः ( पात० यो सू० २।३२ ) इति । एते च यमनियमा विष्णुपुराणे दर्शिता: ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिहान् । सेवेत योगी निष्कामो योग्यता स्वं मनो नयन् ॥ स्वाध्यायशौचसंतोषतपांसि नियतात्मवान् । कुर्वीत ब्रह्मणि परं परस्मिन्प्रवणं मनः ॥ एते यमाः सनियमाः पञ्च पञ्च प्रकीर्तिताः । विशिष्टफलदाः कामे निष्कााणां विमुक्तिदाः॥ (वि० पु० ६। ७ । ३६-३८ इति । स्थिरसुखमासनं पद्मासनभद्रासनवीरासनस्वस्तिकासनदण्डकासनसोपाश्रयपर्यक्रौञ्चनिषदनोष्ट्रनिषदनसमसंस्थानभेदादशविधम् । पादाङ्गुष्ठौ निवनीयाद्धस्ताभ्यां व्युत्क्रमेण तु । ऊर्वोरुपरि विप्रेन्द्र कृत्वा पादतले उभे॥ पासनं भवेदेतत्सर्वेषामभिपूजितम् । इत्यादिना याज्ञवल्क्यः पद्मासनादिस्वरूपं निरूपितवान् । तत्सर्वं तत एवावगन्तव्यम् । तस्मिन्नासनस्थैर्ये सति प्राणायामः प्रतिष्ठितो भवति । स च श्वासप्रश्वासयोर्गतिविच्छेदस्वरूपः । तंत्र श्वासो नाम बाह्यस्य वायोरन्तरानयनम् । प्रश्वासः पुनः कोष्ठयस्य बहिनिःसारणम् । तयोरुभयोरपि संचारणाभावः प्राणायामः । ननु नेदं प्राणायाम सामान्य लक्षणम् । तद्विशेषेषु रेचकपूरककुम्भकमकारेषु तदनुगतेरयोगादिति चेन्नैष दोषः । सर्वत्रापि श्वासप्रश्वां. सगतिविच्छेदसंभवात् । तथाहि-कोष्ठयस्य वायोर्बहिनिःसरणं रेचकः प्राणायामो यः पश्चासत्वेन प्रागुक्तः । बाबायोरन्तर्धारणं पूरको यः श्वासरूपः । अन्तःस्तम्भवृत्तिः कुम्भकः। यस्मिञ्जलमिव कुम्भे निश्चलतया प्राणाख्यो वायुरवस्थाप्यते । तत्र सर्वत्र श्वासप्रश्वासद्वयगतिविच्छेदोऽस्त्येवेति नास्ति श गवकाशः । तदुक्तम्-- तस्मिन्सति श्वासप्रश्वासयोगतिविच्छेदः प्राणायामः (पात० यो० सू० २ । ४९) इति । १ क. ख, घ. यमः । २ घ. हिंता च। ३ घ. ग्रहाः । से° । ४ क. ख. ग. घ. च. 'मानां वि । ५ घ. निषाद । ६ घ. याज्ञवल्क्येन । ७ घ. °पितं तत्स । ८ घ. स चोच्छवासप्र । ९घ. तत्रोच्छ्वासो । १० घ. ह्यस्य वा ।११ घ. णं पूरक उच्छ्वास । १२ घ. °सयोयागैति। १० Page #160 -------------------------------------------------------------------------- ________________ १३८ सर्वदर्शनसंग्रहे-- स च वायुः सूर्योदयमारभ्य सार्धघटिकाद्वयं घटीयन्त्रस्थितघटभ्रमणन्याये. नैकैकस्यां नाडयां भवति । एवं सत्य हर्निशं श्वासप्रश्वासयोः षट्शताधिकैकविंशतिसहस्राणि जायन्ते । अत एवोक्तं मन्त्रसमर्पणरहस्यवेदिभिरजपापन्त्रसमर्पणे षट्शतानि गणेशाय षट्सहस्रं स्वयंभुवे । विष्णवे पट्सहस्रं च षट्सहस्रं पिनाकिने । सहस्रमेकं गुरवे सहस्रं परमात्मने । सहस्रमात्मने चैवमर्पयामि कृतं जपम् ॥ इति । तथा नाडीसंचारणदशायां वायोः संचरणे पृथिव्यादीनि तत्त्वानि वर्णविशेषवशात्पुरुषार्थाभिलाषुकः पुरुषैरवगन्तव्यानि । तदुक्तमभियुक्तैः सार्धं घटीद्वयं नाड्योरेकैकोऽदियाद्हेत् । अरघट्टघटीभ्रान्तिन्यायो नाड्योः पुनः पुनः ।। शतानि तंत्र जायन्ते निःश्वासोच्छ्वासयोना । खखषट्क द्वितः संख्याऽहोरात्रे सकले पुनः ॥ षट्त्रिंशद्रुवर्णानां या वेला भणने भवेत् । सा वेला मरुतो नडियन्तरे संचरतो भवेत् ॥ प्रत्येकं पञ्च तत्त्वानि नाडयोश्च वहमानयोः । वहन्त्यहर्निशं तानि ज्ञातव्यानि यतात्मभिः ॥ ऊर्ध्वं वह्निरंधस्तोयं तिरबीनः समीरणः। भूमिमर्धपुटे व्योम सर्वगं प्रवहेत्पुनः ।। वायोर्वलेरपां पृथ्व्या व्योम्नस्तत्त्वं वहेत्क्रमात् । वहन्त्योरुभयोर्नाडयोतिव्योऽयं क्रमः सदा ॥ पृथ्व्याः पलानि पश्चाशञ्चत्वारिंशत्तथाऽम्भसः । अग्नेस्त्रिंशत्पुनर्वायोविंशतिर्नभसो दश ॥ प्रवाहकालसंख्येयं हेतुस्तत्र प्रदर्यते । पृथ्वी पञ्चगुणा तोयं चतुर्गुणमथानलः ।। १ क. 'योश्वर । ख. घ. 'योः पृथिव्यादिनिःसंचारणं चित्तावस्थावर्णविशेषकरणेऽत्र वशा । २ ख. घ. काचोद । ३ ङ.-च. तस्य । ४ च. व स्वस्वषट्करैः सं । ५ घ करकैः । ६ क.-ड. द्गुणव । ७ च. 'तो नाड्यां नाडयां सं°। ८ क. ख. नाडयां संचरतो गलत् । घ. नाडयां प्रत्येक च । ९ घ. गलतः । १० घ. रधो वारि ति । ११ घ. सर्वगः । १२ क.-ड. यं यथाक्रमम् । पृ । १३ क. ख. ग. ङ. च. "तुर्विहवलयोरथ । पृ० । Page #161 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । त्रिगुणो द्विगुणो वायुर्वियदेकगुणं भवेत् । गुणं प्रति दश पलान्युर्व्यां पञ्चाशदित्यतः || एकै कहा निस्तोयादेस्तथा पञ्च गुणाः क्षितेः । गन्धो रसश्च रूपं च स्पर्शः शब्दः क्रमादमी || तत्त्वाभ्यां भूजलाभ्यां स्याच्छान्तिः कार्ये फलोन्नतिः । दीप्तास्थिरराव्यूहतुतिस्तेजोवाय्वम्बैरेषु च ॥ पृथ्व्यप्तेजोमरुद्वयोमतत्त्वानां चिह्नमुच्यते । आये स्थैर्ये स्वचित्तस्य शैत्ये कामोद्भवो भवेत् ॥ तृतीये को संताप चतुर्थे चञ्चलात्मता । पञ्चमे शून्यतैव स्यादथवाऽधर्मवासना || श्रुत्योष्टको मध्याङ्गुल्यौ नासापुटद्वये । सृक्किण्योः प्रान्त्यको पान्त्याङ्गुली शेषे दृगन्तयोः ॥ न्यस्यान्तःस्थपृथिव्यादिनत्त्वज्ञानं भवेत्क्रमात् । पीतश्वेतारुणश्यामैर्विन्दुभिर्निरुपधि खम् । इत्यादिना । 4 १३९ यथावद्वायुतत्वमवगम्य तन्नियमने विधीयमाने विवेकज्ञानावरण कर्मक्षयो भवति । तपो न परं प्राणायामादिति । दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । प्राणायामस्तु दान्ते तद्वदिन्द्रियजा मलाः ॥ इति च । तदेवं यमादिभिः संस्कृतमनस्कस्य योगिनः संयमाय प्रत्याहारः कर्तव्यः । चक्षुरादीनामिन्द्रियाणां प्रतिनियतरञ्जनीयकोपनीय मोहनीयमत्र णत्वप्रहाणेनाविकृत स्वरूपप्रवणचित्तानुकारः प्रत्याहारः । इन्द्रियाणि विषयेभ्यः प्रतीपमाहियन्तेऽस्मिन्निति व्युत्पत्तेः । ननु तदा चित्तमभिनिविशते नेन्द्रियाणि । तेषां बाह्यावेषयत्वेन तत्र सामर्थ्याभावात् । अतः कथं चित्तानुकारः । अद्धा । अत एव वस्तुतस्तस्यासंभवमभिसंधाय सादृश्यार्थमिवशब्दं चकार सूत्रकारः - स्वविषयासंप्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः । ( पात० यो० सू० २ । ५४ ) । इति | सादृश्यं च चित्तानुकारनिमित्तं विषयासंप्रयोगः । यदा चित्तं निरुध्यते तदा चक्षुरादीनां निरोधे प्रयत्नान्तरं नापेक्षणीयम् । यथा १ क. ख. ग. घ. ॰णोऽथ भवेद्वायु' । २ क. ख. ग. घ. ° तिपलदशानुर्व्या । ३ च. "स्थिताब्धि' । ४ क. ख. घ. म्बरं भुवः । ङ. व 'म्बरे तु च । ५ ख °धिकाम् । इ । ६ च. ने भवेत् । तत्वज्ञा' । ७ क. - ग. ङ. च. यपन्नगाः । इ । ८ क. ग. ङ. च. 'यमत्र । Page #162 -------------------------------------------------------------------------- ________________ १४० सर्वदर्शनसंग्रहे मधुकरराजं मधुमक्षिका अनुवर्तन्ते तथेन्द्रियाणि चितमिति । तदुक्तं विष्णु पुराणे - शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् । कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ वश्यता परमा तेन जायतेऽतिचलात्मनाम् । इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ( ६ । ७ । ४३ – ४४ ) इति । नाभिचक्र हृदय पुण्डरीकनासाग्रादावाध्यात्मिके हिरण्यगर्भवासवप्रजापतिप्रभृति के बाह्ये वा देशे चित्तस्य विषयान्तरपरिहारेण स्थिरीकरणं धारणा । तदाह – देशबन्धश्चित्तस्य धारणा (पात० यो० सू० ३ । १ ) इति । पौराणि काश्च प्राणायामेन पवनं प्रत्याहारेण चेन्द्रियम् । वशीकृत्य ततः कुर्याच्चित्तस्थानं शुभाश्रये ( वि० पु० ६ । ७ । ४५ ) इति । तस्मिन्देशे ध्येयावलम्बनस्यै प्रत्ययस्य विसदृशमत्ययमहाणेन प्रवाहो ध्यानम् । तदुक्तं तत्र प्रत्ययैकतानता ध्यानम् ( पात० यो० सू० ३।२ ) इति । अन्यैरयुक्तम् - तद्रूपत्यका संततिवान्यनिः स्पृहा । तद्ध्यानं प्रथमैरङ्गः षड्भिर्निष्पाद्यते नृप । (वि० पु० ६ । ७ । ८९ ) इति । प्रसङ्गाच्चरममङ्गं प्रागेव (पृ०१२८) प्रत्यपीपदाम । तदनेन योगाङ्गानुष्ठानेनाऽऽदै रनैरन्तर्य दीर्घकॉलसेवितेन समाधिप्रतिपक्षक्लेशप्रक्षयेऽभ्यासवैराग्यवशान्मधुमत्यादिसिद्धिलाभो भवति । अथ किमेवमकस्मादस्मान तिविकटाभिरत्यन्ताप्रसिद्धाभिः कर्णाटगौडलाटभाषाभिर्भीषयते भवान् । नहि वयं भवन्तं भीषयामहे । किंतु मधुमत्यादिपदार्थव्युत्पादनेन तोषयामः । ततश्चाकुतोभयेन भवता श्रूयतामवधानेन । तत्र मधुमती नामाभ्यासवैराग्यादिवशादपास्तरजस्तमोलेशसुख प्रकाशमय सत्त्रभावनयाऽनवद्यवैशारद्याविद्योतनरूपऋतं भैरवज्ञाख्या समाधिसिद्धिः । तदुक्तम् १ ख. ग. 'दिषु प्रसक्ता । २ घ. - च. 'श्रयम् । इ' । ३ घ स्य विप्र । ४ क. ग काम्यसं । ५ च. 'निष्प्रभा । ६ ख. 'दरं नै' । ७ घ. 'कालासे । ८ ख, 'राग्यव° । ९ क. भरा तत्र । Page #163 -------------------------------------------------------------------------- ________________ पातञ्जलदर्शनम् । १४१ ऋतंभरा तत्र प्रज्ञा ( पात यो० सू० १।४८ ) इति । ऋतं सत्यं बिभर्ति कदा. चिदपि न विपर्ययेणाऽऽच्छाधते । तत्र स्थितौ दाढयें सति द्वितीयस्य योगिनः सा प्रज्ञा भवतीत्यर्थः । चत्वारः खलु योगिनः प्रसिद्धाः प्राथमकल्पिको मधुभूमिकः प्रज्ञाज्योतिरतिक्रान्तभावनीयश्चेति । तत्राभ्यासी प्रवृत्तमात्रज्योतिः प्रथमः। न त्वनेन परचित्तादिगोचरज्ञानरूपं ज्योतिर्वशीकृतमित्युक्तं भवति । ऋतंभरप्रज्ञो द्वितीयः। भूतेन्द्रियजयी तृतीयः । परवैराग्यसंपन्नश्चतुर्थः । मनोजविवादयो मधुप्रतीकसिद्धयः । तदुक्तं-मनोजवित्वं विकरणभावः प्रधानजयश्च (पात० यो० सू०३.४८) इति । मनोजवित्वं नाम कायस्य मनोवदनुत्तमो गतिलाभः । विकरणभावः . कायनिरपेक्षाणामिन्द्रियाणामभिमतदेशकालविषयापेक्षत्तिलाभः । प्रधानजयः प्रकृतिविकारेषु सर्वेषु वशित्वम् । एताश्च सिद्धयः करणपश्वकरूपजयात्तृतीयस्य योगिनः प्रादुर्भवन्ति । यथा मधुन एकदेशोऽपि स्वदते तथा प्रत्येकमेव ताः सिद्धयः स्वदन्त इति मधुप्रतीकाः । सर्वभावाधिष्ठातृत्वादिरूपां विशोका सिद्धिः । तदाह-सत्त्वपुरुषान्यताख्यातिमात्रस्य सर्वभावाधिष्ठातृत्वं सर्वज्ञत्वं च (पात यो० सू०३।४९) इति । सर्वेषां व्यवसा. याव्यवसायामकानां गुणपरिणामरूपाणां भावानां स्वामिवदाक्रमणं सर्वभावाधिष्ठातृत्वम् । तेषामेव शान्तोदिताव्यपदेश्यधर्मित्वेन स्थितानां विवेकज्ञानं सर्वज्ञातृत्वम् । तदुक्तम्--विशोका वा ज्योतिष्मति (पात० यो० सू०१।३६) इति । सर्वत्तिप्रत्यस्तमैये परं वैराग्यमाश्रितस्य जात्यादिवीजानां क्लेशानां निरोधसमर्थो निर्बीजः समाधिरसंप्रज्ञातपदवेदनीयः संस्कारशेषताव्यपदेश्यश्चित्तस्यावस्थावि. शेषः । तदुक्तम्-विरॊमप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः (पात० यो० सू० १।१८) इति । एवं च सर्वतो विरज्यमानस्य तस्य पुरुषधौरेयस्य क्लेशबीजानि निर्दग्धंशालिबीजकल्पानि प्रसवसामर्थ्य विधुराणि मनसा साध प्रत्यस्त गच्छन्ति । तदेतेषु प्रलीनेषु निरुपप्लवविवेकख्यातिपरिपाकवशात्कार्यकारणात्मकानां प्रधाने लयः चितिशक्तिः स्वरूपप्रतिष्ठा पुनर्बुद्धिसत्त्वाभिसंबन्धविधुरी वा कैवल्यं लभत इति सिद्धम् । द्वयी च मुक्तिरुक्ता पतञ्जलिना-पुरुषार्थशू १ क. रूप्यं वै ज्यो । २ ङ.-च. 'रणाभा । ३ ख. मनुवदनोतमो' । ४ क. घ. वदनुत्तमो। ङ.-च. 'वदुत्तमो ।५ ङ.-च. रणाभा । ६ ख. प्रधानवि । ७ च. म् । श्रुताश्च । ८ ङ. 'वाद्यधि । ९ क-ग. ङ च. पादिरूपा वि । १० क. घ. वसेया । ११ घ. "त्मकगु। १२ घ. 'मयप । १३ ख. 'रता । १४ क. ख. रामः प्र । १५ घ. ग्धबीजनिर्दग्धशा । १६ ख घ.-च. °सत्ताभि । १७ क.ग. ङ. च. °रा कै। Page #164 -------------------------------------------------------------------------- ________________ १४२ सर्वदर्शनसंग्रहेन्यानां गुणानां प्रतिप्रसवः कैवल्यं स्वरूपप्रतिष्ठा वा चितिशक्तिः (पात यो० सू० ४।३४) इति । न चास्मिन्सत्यपि कस्मान्न जोयते जन्तुरिति वदितव्यम् । कारणाभावात्कार्याभाव इति प्रमाणसिद्धार्थे नियोगानुयोगयोरयोगात् । अपरथा कारणभावेऽपि कार्यसंभवे मणिवेधादयोऽन्धादिभ्यो भवेयुः । तथा चानुपपन्नार्थतायामाभाणको लौकिक उपपन्नार्थो भवेत् । तथा च श्रुतिः-अन्धो मणिमविन्दत । तमनङ्गलिरावयत । अग्रीवः प्रत्यमश्च ।। तमजिह्वा असश्चत (तै० आ०१॥ ११५)। अविन्ददविध्यत् । आवयद्गृहीतवान् । प्रत्यमुश्चपिनद्धवान् । असश्चताभ्यपूजयत्स्तुतवानिति यावत् । एवं च चिकित्साशास्त्रवद्योगशास्त्रं चतुव्यूहम् । यथा चिकित्साशास्त्रं गेगो रोगहेतुरारोग्यं भेषजमिति तथेदमपि संसारः संसारहेतुर्मोक्षो मोक्षोपाय इति । तत्र दुःखमयः संसारो हेयः । प्रधानपुरुषयोः संयोगो हेयभोगहेतुः । तस्याऽऽत्यन्तिकी निवृत्तिानम् । तदुपायः सम्रदर्शनम् । एवमन्यदपि शास्त्रं यथासंभवं चतुर्ग्रहमूहनीयमिति सर्वमवदातम् * । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पातञ्जलदर्शनम् ॥ ____ + ' इतः परं सर्वदर्शनाशरोमणिभूतं शांकरदर्शनमन्यत्र लिखितमित्यत्रोपेक्षितमिति ' । इयं पङ्क्तिः केषुचित्पुस्तकेषु वर्तते। १ घ. °ति। नागास्मि । २ घ. जयति । ३ घ. या आभा । ४ ख. उभयत्रार्थो । ५ घ. ग्यं तदुपायो भे। ६ ङ.-च. °पि सं° । ख. °पि संसारासं। Page #165 -------------------------------------------------------------------------- ________________ अथ शांकरदर्शनम् ॥ १६ ॥ . .rewarसोऽयं परिणामवादः प्रामाणिकगईणमहति । न ह्यचेतनं प्रधानं चेतनानधिष्ठितं प्रवर्तते । सुवर्णादौ रुचकाधुपादाने हेमकारादिचेतनाधिष्ठानोपलम्भेन नित्यत्वसाधककृतकत्ववत्सुखदुःखमोहात्मनाऽन्वितत्वादेः साधनस्य साध्यविपर्ययव्याप्ततया विरुद्धत्वात् । स्वरूपासिद्धत्वाच्च । आन्तराः खल्लभी सुखदुः. खमोहा बाह्येभ्यश्चन्दनादिभ्यो विभिन्नप्रत्ययवेदनीयेभ्यो व्यतिरिक्ता अध्यक्षमीक्ष्यन्ते । यद्यमी सुखादिस्वभावा भवेयुस्तदा हेमन्तेऽपि चन्दनः सुखः स्यात् । न हि चन्दनः कदाचिदचन्दनः । तथा निदाघेष्वपि कुङ्कुमपङ्कः सुखो । भवेत् । न ह्यसौ कदाचिदकुकुमपङ्क इति । एवं कण्टकः क्रमेलकस्येव मनुप्यादीनामपि प्राणभृतां सुखः स्यात् । न ह्यसौ कांश्चित्मत्येव कण्टक इति । तस्माच्चन्दनकुङ्कुमादयो विशेषाः कालविशेषाद्यपेक्षया सुखादिहेतवो न तु सुखादिस्वभावा इति रमणीयम् । तस्माद्धेतुरसिद्ध इति सिद्धम् । __नापि श्रुतिः प्रधानकारणत्ववादे प्रमाणम् । यतः- यदग्ने रोहित रूपं तेजसस्तद्रूपं यच्छुक्लं तदपां यत्कृष्णं तदनस्य ( छा० ६। ४ । १ ) इति छान्दोग्यशाखायां तेजोबन्नात्मिकायाः प्रकृतेर्लोहितशुक्लकृष्णरूपाणि समाम्नातानि तान्येवात्र प्रत्यभिज्ञायन्ते । तत्र श्रीतप्रत्यभि. झायाः प्राबल्यालोहितादिशब्दानां मुख्यार्थसंभवाच्च तेजोबनाँत्मिका जरायुजाण्डजस्वेदजोद्भिज्जचतुष्टयस्य भूतग्रामस्य प्रकृतिरवसीयते । यद्यपि तेजोवनानां प्रकृतेजातत्वेन योगवृत्त्या न जायत इत्यजत्वं न सिध्यति तथाऽपि रूढि. वृत्त्याऽवगतमजात्वमुक्तप्रकृतौ सुखावबोधाय प्रकल्प्यते । यथाऽसौ वाऽऽदित्यो देवमधु ( छा: ३ । १ । १) इत्यादिवाक्येनाऽऽदित्यस्य मधुत्वं परिकल्प्यते तथा तेजोबन्नात्मिका प्रकृतिरेवाजेति । अतोऽजामेकामित्यादिका श्रुतिरपि न प्रधानप्रतिपादिका। यदवादि निदर्शनं पूर्ववादिना क्षीरादिकमचेतनं चेतननिधिष्ठितमेव वत्सविवृद्धयर्थं प्रवर्तत इति । नतद्रमणीयम् । बुद्धिविशेषशालिनः परमेश्वरस्य तत्राप्यधिष्ठातृत्वाभ्युपगमात् । न च परमेश्वरस्य करुणया प्रवृत्त्यङ्गीकारे प्रागुक्त १ ग. °दौ कटका' । २ क. 'त्यसा । ३ ख. ग. 'दुःखादि' । ४ क. ग. विच्छिन्न । ५ ख. 'न्ते । विचन्दनः सदा विचन्दनः स्यात्तदा नि । ६ ख. ज्ञायां प्रा । ७ ख. 'नात्मकज । ८ क. तदाऽपि । ९ ख. परिकल्प्यते । १० क. दिसाक्षी । ११ °नाधि'। Page #166 -------------------------------------------------------------------------- ________________ १४४ सर्वदर्शनसंग्रहेविकल्पावसरः । सृष्टेः प्राक् प्राणिनां दुःखसंबन्धासंभवेऽपि तन्निदानादृष्टसंबन्धसंभवेन तत्प्रहाणेच्छया प्रवृत्त्युपपत्तेः । किंच पुरुषार्थप्रयुक्ता प्रधानप्रवृ. त्तिरित्युक्तं तद्विवेक्तव्यम् । किं प्रधानं केवलं भोगार्थ प्रवर्तते किंवा केवल मोक्षार्थमाहोस्विदुभयार्थम् । न तावदाद्यः कल्पोऽवकल्पते । अनाधेयाशयस्य कूटस्थनित्यस्य पुरुषस्य तात्त्विकभोगासंभवात् । अनिर्मोक्षप्रसङ्गाच्च । येन हि प्रयोजनेन प्रधानं प्रवर्तितं तदनेन विधातव्यम् । भोगेन चैनत्प्रवर्तितमिति तमेव विदध्यान्न मोक्षमिति । नापि द्वितीयः । चिद्धातोर्नित्यशुद्धबुद्धमुक्तस्वभावतया कर्मानुभवबासनानामसंभवेन प्रधानप्रवृत्तेः प्रागपि मुक्ततया तदर्थं प्रवृत्त्यनुपपत्तेः। शब्दाधुपभोगार्थम प्रवृत्तत्वेन प्रधानस्य तदजनकत्वप्रसङ्गाच्च । नापि तृतीयः । प्रागुक्तदूषणलङ्घनालवितत्वात् । प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायो. गाच्च । ननु सत्त्वपुरुषान्यताख्यातिः पुरुषार्थः । तस्यां जातायां सा निवतते कृतकार्यत्वादिति चेत्तदसमन्जसम् । अचेतनायाः प्रकृतेर्विचार्य कार्यका. रित्वायोगात् । यथेयं कृतेऽपि शब्दाद्युपलम्भे तदर्थं पुनः प्रवर्तत एवमत्रापि पुनः प्रवर्तेत । स्वभावस्यानपायात् । किंच सा प्रकृतिर्विवेकख्यातिवशादुच्छि. यते न वा । उच्छेदे सर्वस्य संप्रति संसारोऽस्तमियात् । अनुच्छेदे न कस्यचिन्मोक्षः । ननु प्रधानाभेदेऽपि तत्तत्पुरुषाविवेकख्यातिलक्षणाविद्यासरंसत्त्वनिबन्धनौ बन्धमोक्षावुपपद्येयातामिति चेदन्त तर्हि कृतं प्रकृयाँ । अविद्यासद. सद्भावाभ्यामेव तदुपपत्तेः । नन्वविद्यापक्षेऽप्येष दोषः प्रादुःष्यादिति चेत्तदेत. स्पत्यवस्थानमस्थाने । न हि वयं प्रधानवदविद्यां सर्वेषु जीवेष्वेकामाचक्ष्महे येनवम्पालभ्येमहि । अपि त्वियं प्रतिजीवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पद्यते तस्यैवाविद्या समुच्छिद्यते नान्यस्य । भिन्नायतनयोस्तयोविरोधाभावात् । अतो न समस्तसंसारोच्छेदप्रसङ्गन्दोपः । तस्मात्परिणामः परित्यक्तव्यः । स्वीकर्तव्यश्च विवर्तवादः । ननु जीवनडयोः सारूप्याभावेन चिद्विवर्तत्वं प्रपञ्चस्य न संपरिपद्यत इति प्रागवादिष्मेति चेन्नैतत्साधु । न हि सारूप्यनिबन्धनाः सर्वे विभ्रमा इति व्याप्तिरस्ति । असरूपादपि कामादेः कान्तालिङ्गानादिष्विव स्वमविभ्रमस्योपलम्भात् । किंच कादाचित्के विभ्रमे सारू. प्यापेक्षा नानांद्यविद्यानिबन्धने प्रपञ्चे । तदवोदाचार्यवाचस्पति:--- १ ख. लङ्घात । २ ख. कृतेः कादाचित्कत्वायो । ३ क. अतनु । ४ क. त्यामवि । ५ ख. धानाव' । ६ क. लम्भेम' । ७ ख. 'पद्य । ८ ख. °दिष्वस्व' । ९ ख. नावि । १० ख. "चद्यदा । Page #167 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । १४५ विवर्तस्तु प्रपञ्चोऽयं ब्रह्मणोऽपरिणामिनः। अनादिवासनोद्भूतो न सारूप्यमपेक्षते ।। इति । तदेतत्सर्वं वेदान्तशास्त्रपरिश्रमशालिनां सुगम मुघटं च । - तच्च वेदान्तशास्त्रं चतुर्लक्षणम् । भगवता बादरायणेन प्रणीतस्य वेदान्तशास्त्रस्य प्रत्यग्ब्रह्मैक्यं विषय इति शंकराचार्याः प्रत्येपीपदन् । तत्र प्रथमे समन्वयाध्याये सर्वेषां वेदान्तानां ब्रह्मणि तात्पर्येण पर्यवसानम् । द्वितीयेऽविरोधाध्याये सख्यिादितर्कविरोधनिराकरणम् । तृतीये साधनाध्याये ब्रह्मविद्यासाधनम् । चतुर्थे फलाध्याये विद्याफलम् । तत्र प्रत्यध्यायं पादचतुष्टयम् । तंत्र प्रथमस्याध्यायस्य प्रथमे पादे स्पष्टब्रह्मलिङ्गं वाक्यजातं मीमांस्यते। द्वितीयेऽस्पष्टब्रह्मलिङ्गमुपास्यविषयम् । तृतीये तादृशं ज्ञेयविषयम् । चतुर्थेऽव्यक्ताजापदादि संदिग्धं पर्दजातमिति । अविरोधस्य द्वितीयस्य प्रथमे सांख्ययोगकणादादिस्मृतिविरोधपरिहारः। द्वितीये साख्यादिमतानां दुष्टत्वम् । तृतीये पञ्चमहाभूतश्रुतीनो जीवश्रुतीनां च परस्परविरोधपरिहारः । चतुर्थे लिङ्गशरीरश्रुतीनां विरोधपरिहारः । तृतीयस्य प्रथमे जीवस्य परलोकगमनागमन विचारपुरःसरं वैराग्यम् । द्वितीये स्वंपदतत्पदार्थपरिशोधनम् । तृतीये सगुणविद्यासु गुणोपसंहारः । चतुर्थे निर्गुणब्रह्मविद्याया बहिरङ्गान्तरङ्गामयज्ञशमादिसाधमजातम् । चतुर्थस्य प्रथमे ब्रह्मसाक्षात्कारेग जीवतः पापपुण्यक्लेशवैधुर्यलक्षणा मुक्तिः । लिये मरणोरक्रमणप्रकारः। तृतीये सगुणब्रह्मोपासकस्योत्तरमार्गः । चतुर्थे निर्गुणसगुणब्रह्मविदो विदेहकैवल्यब्रह्मलोकावस्थानानि । सदित्यं ब्रह्मविचारशास्त्राच्यार्यपादार्थसंग्रहः । -तत्र प्रथममधिकरणमथातो ब्रह्मजिज्ञासा (ब्र० सू० १।१।१ )इति ब्रह्ममीमाँसारम्भोषपादनपरम् । अधिकरणं च पञ्चावयवं प्रसिद्धम् । ते च विषयादयः पश्चावयवा निरूप्यन्ते । आत्मा वारे द्रष्टव्यः (० २।४।५) इत्येतद्वाक्यं विषयः । ब्रह्म जिज्ञासितव्यं न वेति संदेहः । जिज्ञास्यत्वव्यापकयोः संदेहप्रयोजनयोः संभवासंभवाभ्याम् । तत्र कस्येदं जिज्ञास्यत्वमवगम्यते । अहमनुभवगम्यस्य श्रुतिगम्यस्य वा । नाऽऽद्यः । सर्वजनीनेनाहमनुर्भवेनेदमास्पददेहादिभ्यो विवेकेनाऽऽत्मनः स्पष्टं प्रतिभासमानत्वात् । ननु स्थूलोऽहं कृशोऽहमित्यादिदेहधर्मसामानाधिकरण्यानु. . १ क. 'रिभ्रम । २ क. "त्यक्पदं त । ३ ख. 'व्यक्तसं । ४ क.-. नपु। ५ क. 'श्रययज्ञादि । ६ क. °यपदा । ७ क. इत्यत्रत । ८ ख, वेन दे। १९ Page #168 -------------------------------------------------------------------------- ________________ १४६ सर्वदर्शनसंग्रहेभवादध्यस्तात्मभावदेहालम्बनोऽयमहंकार इति चेन्न । बाल्यावस्थासु भिन्नपरिमाणतया बदरामलकादिवत्परस्परभेदेन शरीरस्य प्रत्यभिज्ञानानुपपत्तेः । अथोच्येत यथा पीलुपाकपक्षे पिठरपाकपक्षे वा कालभेदेनैकस्मिन्वस्तुनि पाकजभेदो युज्यते तथैकस्मिञ्शरीराभिधे वस्तुनि कालभेदेन परिमाणभेदः । अत एव लौकिकाः शरीरमात्मनः सकाशादभिन्नं प्रतिपद्यमानाः प्रत्यभिजानते चेति । न तद्भद्रम् । मणिमन्त्रौषधायुपायभेदेन भूमिकाधानवन्नानाविधान्देहान्प्रतिपद्यमानस्याहमालम्बनस्य भिन्नस्याऽऽत्मनः शरीराद्भेदेन भासमानत्वात् । अत एव चक्षुरादीनामप्यहमालम्बनत्वमशक्यशङ्कम् । नान्यदृष्टं स्मरत्यन्यः (न्या० कु० १ । १५) इति न्यायेन चक्षुरादौ नष्टेऽपि रूपादिप्रतिसंधानानुपपत्तेः । नाप्यन्तःकरणस्याहमालम्बनत्वमास्थयम् । अयमेव भेदो भेदहेतुर्वा यद्विरुद्धधर्माध्यासः कारणभेदश्चेति न्यायेन कर्तृकरणभूतयोरात्मान्तःकरणयोस्तक्षवासिव संभेदासंभवात् । यद्यभेद एव नाऽऽद्रियते तर्हि स्थूलोऽहं कृशोऽहं कृष्णोऽहमित्यादि संख्यानमुत्सन्नसंकथं स्यात् । न स्यात् । एवं लोके शास्त्रे चोभयथाशब्दप्रयोगदर्शनेन मुख्यार्थत्वानुपपत्तौ मञ्चाः क्रोशन्तीत्यादिवदौपचारिकत्वेनोपपत्तेः। न द्वितीयः। अहमनुभवगम्यस्यैव श्रुतिगम्यत्वात् । सत्यं ज्ञानमनन्तं ब्रह्म (तै० २।१।१ ) इत्यादिश्रुतिभ्यो हि ब्रह्मावगम्यते । ब्रह्मभावश्चाहमात्मा ब्रह्म ( बृ० २।५।१९ ) तत्त्वमसि ( छा० ६।८।७) इत्यादिश्रुतिष्वहंप्रत्ययगम्यस्यैव बोध्यते । तथा चेदमनुमानं समसूचि । पिमतमाजिज्ञास्यमसंदिग्धत्वा. करतलामलकवत् । तथा फलं न फलभावमीक्षते । पुरुषैरर्थ्यत इति व्युत्पत्त्या निःशेषदुःखोपशमलक्षितं परमानन्दैकरस्यं च पुरुषार्थशब्दस्यार्थः सकलपुरुषधौरेयः प्रेप्स्यते नेतरत्सांसारिक सुखजातम् । तस्यैहिकस्य पारलौकिकस्य च सातिशयतया च सदृक्षतया च प्रेक्षावद्भिर्यमानत्वानुपपत्तेः । यत्तत्परिपन्थि दुःखजातं तज्जिहास्यते । तच्चाविद्यापरपर्यायसंसार एव । कर्तत्वादिसकलानर्थकरत्वादविद्यायाः । समित्येकीकरणे वर्तते । संभेदादौ तथा चोपलम्भात् । तथा चाऽऽत्मानं देहेनकीकृत्य स्वर्गनरकमार्गयोः संरति येन पुरुषः स संसारोऽवि. द्याशब्दार्थः । तनिवृत्तिः फलं फलवतामभिमतम् । तथा कथितम अविद्यास्तमयो मोक्षः सा च बन्ध उदाहृतः ॥ इति । तच काशकुशावलम्बनकल्पम् । आत्मयाथात्म्यानुभवेन सह वर्तमानस्य . १ ख. 'दपदं नाऽऽद्रियेत तर्हि । २ ख.. 'था च फ° । ३ ख. शमोपलक्षित्वं प° । ४ ख. "ते नैतान्सांसा । ५ ख. "रुषः सं । Page #169 -------------------------------------------------------------------------- ________________ १४७ शांकरदर्शनम् । संसारस्य रूपरसवद्विरोधाभावेन निवर्त्यनिवर्तकभावाभावात् । ननु सहानुवर्तमानो बोधः संसारं मा बाधिष्ट । सहावर्तमानस्तु बोधः प्रकाशस्तमोवदाधिप्यत इति चेत्तदेतद्रिक्तं वचः । अहमनुभवादन्यस्याऽऽत्मज्ञानस्य मूषिकविषाणायमानत्वात् । नन्वन्योऽयमनुभवः पामराणां मा स्म भवनाम । वेदान्तवचननिचयपर्यालोचनक्षमाणां परीक्षकाणां संभवत्येबेत्यपि न वक्तव्यम् । अबाधितानुभवविरोधेन वेदान्तवाक्यानां ग्रावप्लवनादिवाक्यकल्पत्वात् । न ह्यागमाः परःशत घटं पटयितुमुत्सहन्ते । न चाध्ययनविधिव्याकोपः । गुरुमतानुसारेण हुंफडादिवाक्यवजपमात्रोपयोगित्वेनाऽऽचार्यमतानुसारेण वा यजमानः प्रस्तर 'इत्यादिवाक्यवेत्स्तावकत्वेन वेदान्तसिद्धान्तस्याध्येतव्यत्वसंभवात् । तथा च प्रयोगः ---विवादास्पदं ब्रह्म विचार्यपदं न भवत्यफलत्वात्काकदन्तवदिति । तदाहुराचार्या: अहंधियाऽऽत्मनः सिद्धेस्तस्यैव ब्रह्मभावतः। . तज्ज्ञानान्मुक्त्यभावाच जिज्ञासा नावकल्पते ॥ इति । न च भेदेनाध्यस्तदेहादिनिवृत्तिः फलमित्यफलत्वहेतुरसिद्ध इति वेदितव्यम् । भेदग्रहो हि व्यापकनिवृत्त्या व्याप्यनिवृत्तिरिति न्यायेन भेदाग्रहपरिपन्थिनं भेदसंस्कारमपेक्षते । अनाकलितकलधौतस्य शक्तिशकले तत्समारोपानुपल. म्भात् । संस्कारश्च प्रमितिमाकाङ्क्षति । अननुभूते संस्कारानुदयात् । न च भ्रान्तिरूपोऽनुभवस्तत्करणमिति भणितव्यम् । भ्रान्तेरभ्रान्तिपूर्वकत्वेन कचित्ममितेरवश्याभ्युपगमयितव्यत्वात् । प्रयोगश्च-विमतावात्मानात्मानौ भेदेन प्रमितावभे. दायोग्यत्वात् । तमःप्रकाशवत् । न चाऽऽस्मानात्मनोरभेदायोग्यत्वलक्षणो हेतुरसिद्ध इति शडून्नीयम् । विकल्पासहत्वात् । तथाहि-अनात्माऽऽत्मपरिशेषः स्यादात्माऽनात्मपरिशेषो वा । आये मुक्तिदशायामिव परिदृश्यमानं जगदस्तमियात् । द्वितीये जगदान्ध्यं प्रसज्येत । तम:प्रकाशवद्विरुद्धस्वभावत्वाच दृग्दृश्ययोरात्मानात्मनोरभेदायोग्यत्वमवधेयम् । ततश्चार्थाध्यासानुपपत्तौ तत्पूर्वकस्य ज्ञानाध्यासस्यासंभवेन ब्रह्मणो विचार्यत्वासंभवाद्विचारात्मिका चतुर्लक्षणशारीरकमीमांसाऽनारम्भणीयेति पूर्वपक्षे प्राप्ते सिद्धान्तोऽभिधीयते-अहंपदाधिगम्यादन्यदात्मतत्त्वं नास्तीति न वक्तव्यम् । निरस्तसमस्तोपाधिकस्याऽऽत्मतत्तस्य श्रुत्यादिषु प्रसिद्धत्वात् । न च तेषामुपचरितार्थता । उपक्रमोपसंहारादिषड़ि १ ख. वत्स्थानक १२ ख वादपदं ।३ क. त्मना सि । ४ ख. पेक्ष्यते। ५ ख. रूपानु । ६ ख. °यिष्यत्वात् । वि । ७ ख. सजेत् । ८ ख. पतेस्तत्पू । Page #170 -------------------------------------------------------------------------- ________________ १४८ सर्वदर्शनसंग्रहेधतात्पर्यलिङ्गवत्तया तत्त्वं बोधयतामुपचरितार्थत्वानुपपत्तेः । लिङ्गपदकं च पूर्वाचायेदर्शितम् उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् । अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ इति । तत्र सदेव सोम्येदमन आसीदित्युपक्रमः । ऐतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो इत्युपसंहारः । तयोर्ब्रह्मविषयत्वेनैक्यरूप्यमेकलिगम् । असकृत्तत्त्वमसीत्युक्तिरभ्यासः । मानान्तरागम्यत्वमपूर्वत्वम् । एक विज्ञानेन सर्वविज्ञानं फलम् । सृष्टिस्थितिप्रलयप्रवेशनियमनानि पश्चार्थवादाः । मृदादिदृष्टान्ता उपपत्तयः । तस्मादेतैर्लिङ्गैर्वेदान्तानां नित्य शुद्धबुद्धमुक्तस्वभावब्रह्मात्मपरत्वं निश्चेतव्यम् । तदित्थमोपनिषदस्याऽऽत्मतस्वस्याहमनुभवेऽनवभासमानत्वात्तस्यानुभवस्याध्यस्तात्मविषयत्वं सिद्धम् । कणभक्षाक्षचरणादिकक्षीकृतस्याऽऽत्मनो भानाभावादहमनुभवस्याध्यस्ता. त्मविषयत्वमेषितव्यम् । नैं तावदहमनुभवः सर्वगतत्वमात्मनोऽवगमयितुमीष्टे । अहमिहास्मि सदने जानानं इति प्रादेशिकत्वग्रहणात् । न चेदं देहस्य प्रादेशि. कत्वं प्रतिभासत इति वेदितव्यम् । अहमित्युल्लेखायोगात् । ननु यथा राज्ञः सर्वप्रयोजनविधातरि भृत्ये ममाऽऽत्मा भद्रसेन इत्युपचारस्तदात्मवचनस्याहं. शब्दस्य देह उपचार इति चेन्मैवं वोचः । उपचरितात्मभावस्य देहादेः स्वसमा. नाकृतिशिलापुत्रकादिवज्ज्ञातृत्वायोगात् । न च ज्ञातृत्वमप्युपचरितम् । प्रयोक्नुः स्वप्रतिपत्तिप्रकाशके प्रयोगे प्रतिपत्तृत्वोपचारानुपपत्तेः । अथ देहधर्मः प्रादेशिकत्वमात्मन्युपर्यंत तदा देहात्मनोर्भेदेन भवितव्यम् । प्रसिद्धभेदे माणवके सिंहशब्दवत्सांप्रतिकगौणत्वे तिरोहितभेदेन सार्षपादौ रसे तैलशब्दवबिरूढगौणत्वे वा गौणमुख्ययोर्भेदाध्यवसायस्य नियतत्वात् । अथ मम शरीरमिति भेदभानसंभवाद्गौणत्वं मन्येयास्तदयुक्तम् । अहंशब्दार्थस्य देहादिभ्यो निष्कृष्यासाधारणधर्मवत्त्वेन प्रतिभासमानत्वाभावात् । अपरथा लोकायतिकमतं नोदयमासादयेत् । मम शरीरमित्युक्तिस्तु राहोः शिर इतिवदौपचारिकी । मम शरीरमिति ब्रुवाणेनापि कस्त्वमिति पृष्टेन वक्षस्थलन्यस्वहस्तेन शृङ्गग्राहिकयाऽयमहमिति प्रतिवचनस्य दीयमानत्वेन देहात्मप्रत्ययस्य सकलानुभवसि. द्धत्वात् । तदुक्तम्-- १ ख. नादिप । २ क. ग.-च. 'वेनाव । ३ ख. ग. °नोऽनवभासाद । ४ ख. न तदाह । ५ ख. नयिति । ६ क. ग. °द्वदनात्म° । ७ ख. धर्मना । ८ ख. चर्यते। Page #171 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । देहात्प्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं स्वात्मनिश्चयात् ॥ इति । १४९ तथा च व्यापकस्य भेदभानस्य निवृत्तेर्व्याप्यस्य गौणत्वस्य निवृत्तिरिति निश्वयम् । नवभिज्ञया भेदसिद्धिर्मा संभलाम । प्रत्यभिज्ञया तु सोऽहमित्येवंरूपया तत्सिद्धिः संभविष्यतीति चेन्न । विकल्पासहत्वात् । किमियं प्रत्यभिज्ञा पामराणां स्यात्परीक्षकाणां वा । नाऽऽयः । देहव्यतिरिक्तात्मैक्यमत्रगाहमानायाः प्रत्यभि ज्ञाया अनुदद्यात् । प्रत्युत श्यामस्य लौहित्यवत्कारणविशेषादल्पस्यापि महापरिमाणत्वमविरुद्धमनुभवतां तेदेह एव तस्याः संभवाच्च । न द्वितीयः । व्यकहारसमये पामरसास्यानतिरेकांत् । अपरोक्षभ्रमस्य परोक्षज्ञानविनाश्यत्वानुपपत्तेश्च । यदुक्तं भगवता भाष्यकारेण पश्वादिभिश्चाविशेषात् (सू० भा० १ । १ । १ ) इति । भामतीकारैरयुक्तम् - शास्त्रचिन्तकाः खल्वेवं विचारयन्ति न प्रतिपत्तार इति । तथा चाऽऽत्मगोचरस्याध्यासात्मरूपत्वं सुस्थम् । न चाऽऽईत मतानुसारेणाप्रत्ययप्रामाण्यायाऽऽत्मनो देहपरिमाणत्वमीक रणीयमिति सांप्रतम् । मध्यमपरिमाणस्य सावयवत्वेन देहादिवदानित्यत्वे कृतद्दानाकृताभ्यागमप्रसङ्गात् । अथैतद्दोषपरिजिहीर्षयाऽवयवसमुदाय आत्मत्यभ्युपगम्येत तदा वक्तव्यम् । किं प्रत्येकमवयवानां चैतन्यं संघातस्य वा । नाss | बहूनां चेतानानामहमहमिकया प्रधानभावमनुभवतामै कमस्याभावेन समसमयं विरुद्धदिक्रियतया शरीरस्यापि विशरण निष्क्रियत्व योरन्यतरापातात् । द्विवीयेऽपि संघातापत्तिः किं शरीरोपाधिकी स्वाभाविकी यादृच्छिकी वा । नऽऽऽग्रः । एकस्मिन्नवयवे छिने चिदात्मनोऽप्यवचैव छिन्न इत्य चेतनत्वापातात् । न द्वितीयः । अनेकेषामवयवानामन्योन्य साहित्य नियमादर्शनात् । न तृतीयः । संश्लेषवश्लेषस्यापि यादृच्छिकत्वेन सुखेन वसताम कस्माद चेतनत्वप्रसङ्गात् । न चाणुपरिमाणत्वमात्मनः शङ्कनीयम् । स्थूलोऽहं दीर्घोऽहमिति प्रत्ययानुपपत्तेः । न च विज्ञानात्मभाषिणां नैष दोषः । विशुद्ध सावयवत्वाभावादिति गणनीयम् । यः सुषुप्तः सोऽहं जागमति स्थिरगोचरस्याहमुल्लेखस्य क्षणभङ्गविज्ञा नगोचरत्वेऽतस्मिंस्तद्बुद्धिरूपमिध्याध्यासस्य तदवस्थानात् । तदनेन कृशोऽहं १ ख तदाह । २ 'काम' । ३ ख यवो भिन्न इति चे । ४ ख. 'त्वे सु । ५ ख. 'स्था तद । Page #172 -------------------------------------------------------------------------- ________________ १५० सर्पदर्शनसंग्रहेकृष्णोऽहमित्यादीनां प्रख्यानानां बुद्धया सरूपताख्यानेनौपचारिकत्वं प्रत्याख्यातम् । तद्व्यापकभेदभानासंभवस्य प्रागेव प्रपञ्चितत्वात् । तथा च प्रयोगः-विमतं शास्त्रं विषयप्रयोजनसहितमाविद्यकबन्धनिवर्तकत्वात्सुप्तोत्थितबोधवत् । यथा स्वमावस्थायां मायापरिकल्पितयोषादिकृतबन्धनिवर्तकस्य सुप्तोत्थितबोधस्य मन्दिरमध्ये सुखेन शय्यायामवतिष्ठमानो देहो विषयः । तस्य सुप्तबोधेनानिश्चयात् । स्वप्नमायाविजृम्भितानर्थनिवृत्तिः प्रयोजनम् । एवं मननादिजन्यपरोक्षज्ञानेद्वारेणाऽऽध्यासिककर्तृत्वभोक्तृत्वाद्यनर्थनिषेधकस्य शा. त्रस्य सच्चिदानन्दैकरसं प्रत्यगात्मभूतं ब्रह्म विषयः । तस्याहमनुभवेनानिश्च यात् । अध्यसानिवृत्तिः प्रयोजनम् । तथा चाफलत्वादिति हेतुरसिद्ध इति सिद्धम् । तदुक्तम्.. श्रुतिगम्यात्मतत्वं तु नाहंबुद्धयाऽवगम्यते । अपि खे कामतो मोहा नाऽऽत्मन्यस्तविपर्यये ।। इति । " इतोऽयमसंदिग्धत्वादिति हेतुरप्यसिद्ध इति सिद्धम् । यद्यपि सर्वः प्राणी प्रत्यागात्मास्तित्वं प्रत्येति अहमस्मीति । न हि कश्चिदपि नाहमस्मीति विप्रतिपद्यते । प्रत्यगात्मैव ब्रह्म। तत्त्वमास(छा०६।८।७)इति सामानाधिकरण्यात् । तस्मादात्मतत्त्वमसंदिग्धं सिद्धम् । तथाऽपि धर्म प्रति विप्रतिपन्ना बहुविधा इति न्यायेन विशेषप्रतिपत्तिरुपपद्यत एव । तथाहि-चैतन्यविशिष्टं देहमात्मेति लोकायता मन्यन्ते । इन्द्रियाण्यात्मेत्यन्ये । अन्तःकरणमात्मेत्यपरे । क्षणभङ्गुरं संतन्यमानं विज्ञानमात्मेति बौद्धा बुद्धयन्ते । देहपरिमाण आत्मेति जैना जिनाः प्रतिजानते। कर्तृत्वादिविशिष्टः परमेश्वराद्भिन्नो जीवात्मति नैयायिकादयो वर्णयन्ति । द्रव्यबोधस्वभावमात्मेत्याचार्याः परिचक्षते । भोक्तव केवलं न कर्तेति सांख्याः संगिरन्ते । चिद्रूपः कर्तृत्वादिरहितः परस्मादभिन्नः प्रत्यगात्मेत्यौप. निषदा भाषन्ते । एवं प्रसिद्ध धर्मिणि विशेषतो विप्रतिपत्तौ तद्विशेषसंशयो युज्यते । तथा च संदेहसंभवाज्जिज्ञास्यत्वं ब्रह्मणः सिद्धम् । तदित्थं ब्रह्मणो विचार्यत्वसंभवेन तद्विचारात्मकं ब्रह्ममीमांसाशास्त्रमारम्भणीयमिति युक्तम् । जन्माद्यस्य यतः (ब्र० सू० १ । १ । २ ) इत्यादिसर्वस्य शास्त्रस्यैतद्विचारापेक्षत्वाच्छास्त्रपथमाध्यायसंगतमिदमधिकरणम् । .. नन्वित्थंभूते ब्रह्मणि किं प्रमाणे प्रत्यक्षमनुमानमागमो वा । न कदाचित्तत्र १ ख. योगावि । २ ख. शास्त्रबि । ३ ख. 'हो न वि°। ४ ख. नव्यापारे । ५ ख. त्वं ना । ६ ख. नान्यस्त । ७ ख. °चार्य प°। ८ ख. र्यत्वेन स । Page #173 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । प्रत्यक्षं कंमते । अतीन्द्रियत्वात् । नाप्यनुमानम् । व्याप्तस्य लिङ्गस्याभावात् । नाप्यागमः । यतो वाचो निवर्तन्ते ( तै० २।४ । १) इति श्रुत्यैवाऽऽगमगम्यत्वनिषेधात् । उपमानादिकमशक्यशङ्कम् । नियतविषयत्वात् । तस्मादू. मणि प्रमाणं न संभवतीति चेन्मैवं वोचः । प्रत्यक्षाद्यसंभवेऽप्यागमस्य सत्त्वात् । यतो वाचो निवर्तन्त इति वाग्गोचरत्वनिषेधात्कथमेतदिति चेच्छृतिरेव निषेधति वेदान्तवेद्यत्वं ब्रह्मणः श्रुतिरेव विधत्ते । न हि वेदप्रतिपादितेऽ. र्थेऽनुपपन्ने वैदिकानां बुद्धिः खिद्यते । अपि तु तदुपपादनमार्गमेव विचारयति । तस्मादुभयमपि प्रतिपादनीयम् । विषयत्वनिषेधकानि वाक्यानि वाक्यजन्यत्तिव्यक्तस्फुरणलक्षणफलासंभवविवक्ष या प्रमुत्तानि । विषयत्वबोधकानि तु वृत्तिजन्यावरणभङ्गलक्षणसंभवविक्षया । तदुक्तं भगवद्भिः अनाधेयफलत्वेन श्रुतेब्रह्म न गोचरः । प्रमेयं प्रमितौ तु स्यादात्माकारसमर्पणात् ॥ इति । न प्रकाश्यं प्रमाणेन प्रकाशो ब्रह्मणः स्वयम् । . तज्जन्यावृतिभङ्गत्वात्ममेयमिति गीयते ॥ इति च । ननु स्यादेष मनोरथो यदि सिद्धेऽर्थे वेदस्य प्रामाण्यं सिंध्येत् । संगतिग्रह गायत्तत्वात्मामाण्यनिश्चयस्य । संगतिग्रहणस्य च वृद्धव्यवहारायत्तत्वात् । वृद्धव्यवहारस्य च लोके कार्यकनियतत्वात् । न ह्यस्ति संभवः शब्दानां कार्येऽर्थे संगतिग्रहः सिद्धार्थाभिधायकत्वं तत्र वा प्रामाण्यमिति । न हि तुरगत्वे गृहीतसंगतिकं तुरङ्गपदं गोत्वमाचष्टे तत्र वा प्रामाण्यं भजते । तस्मा. कार्यगृहीतसंगतिकानां शब्दानां कार्य एव प्रामाण्यम् । नर्नु मुखविकासादि. लिङ्गाद्धर्षहेतुं प्रसिद्धार्थमनुमाय यत्र शब्दस्य संगतिग्रहो यथा पुत्रस्ते जात इत्यादिषु तत्रावश्यं कार्यमन्तरेणैव शब्दस्य सिद्धेऽर्थे प्रामाण्यमाश्रीयत इति चेन्न । पुत्रजन्मवदेव प्रियासुखप्रसवादेरनेकस्यः हर्षहेतोरुपस्थीयमानत्वेन परिशेषावधारणानुपपत्तेः । पुत्रस्ते जात इत्यादिषु सिद्धार्थपरेषु प्रयोगेषु द्वार द्वार मित्यादिवत्कार्याध्याहारेण प्रयोगोपपत्तेश्च । शास्त्रत्वप्रसिद्धया च न वेदान्ताना सिद्धार्थपरत्वम् । प्रवृत्तिनिवृत्तिपराणामेव वाक्यानां शास्त्रत्वप्रसिद्धः । तदुक्तं भट्टाचार्य: प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा। पुंसां येनोपदिश्येत तच्छास्त्रमभिधीयते ॥ इति । . . १ ख. पन्नवै । २ ख. बुद्धिभिद्य । ३ ख. रयितुमस्मी । ४ ख. यवि' ।५ ख. धायित्वं । ६ ख. वा माप्रा । ७ ख. रगत्वे । ८ ख. °नु यत्र मु । ९ ख. °नसत्त्वे । Page #174 -------------------------------------------------------------------------- ________________ १५२ सर्वदर्शनसंग्रहे मं चैतेषां स्वरूपपरत्वे प्रयोजनमस्ति । श्रुतवेदान्तार्थस्यापि पुंसः सांसारिकधर्माणामनिवृत्तेः । तस्माद्वेदान्तानामध्यात्मा ज्ञातव्य इति समाम्नातेन विधिनैकवाक्यतामाश्रित्य कार्यपरतैवाऽऽश्रयणीयेति सिद्धम् । ततश्च केवलसिद्धरूपे ब्रह्मणि वेदान्तानां प्रामाण्यं न सिध्यतीति चेत् । अत्र प्रतिविधीयते न तावत्सिद्धे व्युत्पत्त्यसिद्धिः । प्रागुनीतया नीत्या पुत्रस्ते जात इति वाक्यात्सिद्धपरादपि व्युत्पत्तिसिद्धेः । न च परिशेषावधा रणानुपपत्तिः प्रियसुखप्रसवादेरपि संभवादिति भणितव्यम् । पुत्रपदाङ्कितपटप्रदर्शनवत्प्रियासुखप्रसवादि सूचकाभावात् । पुत्रजन्मैव तत्सूचकमिति चेत्मथमप्रतीत पुत्र जन्मपरित्यागे कारणाभावात् । पुत्रजननस्यैवाधिकानन्दहेतुत्वाच्च । पुत्रोत्पत्तिविपत्तिभ्यां नापरं सुखदुःखयोः । इति विद्यमानत्वात् । तथा चाचकथच्चित्सुखाचार्य:दृष्टचैत्रतोत्पत्तेस्तत्पदान्तिवाससा । वार्ताहारेण यातस्य परिशेषविनिश्चितेः ॥ (चित्सु० पृ० ८८) इति । यदुक्तं सिद्धार्थपरेषु कार्याध्याहार इति तदयुक्तम् । मुख्यार्थविषयतया सिद्धेऽपि प्रयोगसिद्धावध्याहारानुपपत्तेः । यदुक्तं शास्त्रत्वप्रसिद्धया च म स्वरूपपरत्वमिति तदप्ययुक्तम् । हितशासनादपि शास्त्रत्वोपपत्तेः । न च प्रयोजनाभावः । श्रुतमतवेदान्तजन्याद्वितीयात्म विज्ञानाभ्यासेन विद्योदये संसार निदानाविद्यानिवृत्त्युपलक्षितब्रह्मात्मता लक्षणपरमपुरुषार्थसिद्धेः । न चात्र विधिः संभवति । विकल्पासहत्वात् । तथाहि किं शाब्दज्ञानं विधेयं किंवा भावनात्मकमाहोस्वित्साक्षात्काररूपम् । नाऽऽयः । विदितपदार्थसंगतिकस्थांभीत शब्द न्यायत स्वस्यान्तरेणापि विधि शब्दादेवोपपत्तेः । नापि द्वितीयः । भावनाया ज्ञानप्रकर्षहेतुभावस्यान्वयव्यतिरेकसिद्धतया प्राप्तत्वेनाविधेयत्वात् । . ममापकस्यैव विधित्वाङ्गीकारात् । तृतीये साक्षात्कारः किं ब्रह्मस्वरूपः किंवाऽन्तःकरणपरिणामभेद: । नाऽऽद्यः । तस्य नित्यत्वेनाविधेयत्वात् । नापि द्वितीयः । आनन्दसाक्षात्काररूपतया फलत्वेनाविधेयत्वात् । तस्माज्ज्ञातव्य इत्यादीनामविधायकत्वाद कृत्यतृचश्च ( पा० सू० ३ | ३ | १६९ ) इति कृत्यप्रत्ययानामर्हार्थे विधानादर्हार्थतैव व्याख्येया । तथा च सर्वेषां वेदान्तवाक्याना मुपक्रमोपसंहारादिषड़विधतात्पर्योपेतत्वान्नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मपरत्व मास्थेयम् । १ ख 'ससम् । २ ख. ग. क्तं प्रवृत्तिपराणामवे शास्त्रत्वमिति । तन्न । हि । ३ ख . ' स्याधिग• तशाब्द ं । ४ ख. 'र्थतयैव । Page #175 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । निष्पदेशे परमाणौ प्रदेशवृत्तित्वेनाभिमतस्य संयोगस्य दुरुपपादनतया तन्निबन्धनस्य व्यणुकस्यासिद्धौ व्यणुकादिक्रमेणाऽऽरम्भवादासंभवादचेतनाया। प्रकृतेर्महदादिरूपेण परिणामवादासंभवाच्च ख्यातिबाधान्यथानुपपत्त्याऽनिर्वचनीयः प्रपश्चश्चिद्विवर्त इति सिद्धम् । स्वरूपापरित्यागेन रूपान्तरापत्तिविवर्त इति सत्यमिथ्याख्यावभास इति । अवभासोऽध्यास इति पर्यायः । स चाध्यासो द्विविधः । अर्थाध्यासो ज्ञानाध्यासश्चेति । तदुक्तम् प्रमाणदोषसंस्कारजन्माऽन्यस्य परात्मता। . तद्धीश्चाध्यास इति हि द्वयामिष्टं मनीषिभिः ॥ इति । पुनरपि द्विबिधोऽध्यासः । निरुपाधिकसोपाधिकभेदात् । तदप्युक्तम् दोषेण कर्मणा वाऽपि क्षोभिताज्ञानसंभवः । तत्त्वविद्याविरोधी च भ्रमोऽयं निरुपाधिकः ।। उपाधिसंनिधिप्राप्तक्षोभाविद्याविजृम्भितम् ।। उपाध्यपगमापोह्यमाहुः सोपाधिकं भ्रमम् ।। इति । .. तत्र स्वरूपेण कल्पिताहमाद्यध्यासो निरुपाधिकः । तदप्युक्तम्. .. नीलिमेव वियत्येषा भ्रान्त्या ब्रह्मणि संमृतिः । घटव्योमेव भोक्ताऽयं भ्रान्तो भेदेन न स्वतः ॥ इति ।... अत एव भाष्यकारः शुक्तिका रजतवदवभासत एकश्चन्द्रः सद्वितीयवदिति 'गिदर्शनद्वय मुदाजहार । शिष्टं शास्त्र एव स्पष्टमिति विस्तरभियोपरम्यते । एवं च दृग्दृश्यों द्वावेव पदार्थाविति वेदान्तिनां सिद्धान्त इति सर्वमवदातम् । __ अत्र प्रभाकरें:-शुक्तिका रजतवदवभासत इति दृष्टान्तो नेष्टः । रजतप्रत्य. यस्य शुक्तिकालम्बनत्वानुपपत्तेः । तथाहि-इदं रजतमिति प्रतीतो शुक्र्तरालम्बनत्वं पुरोदेशसंत्तामात्रेणावलम्ब्यते कारणत्वेन भासमानत्वेन वा । नाऽऽद्यः । पुरोवर्तिनां लोष्टादीनामप्यालम्बनत्वप्रसङ्गात् । अथ कलधौतबोधकारणसंस्का. रोद्बोधकारणत्वेन तद्वारा रजतज्ञानकारणत्वादालम्बनत्वं मन्यसे । तदपि न • संगच्छते । चक्षुरादीनामपि कारणत्वेन विषयत्वापातात् । अथ भासमानतया विषयत्वमिष्यते तदप्यश्लिष्टम् । रजतनिर्भासस्य शुक्तिकालम्बनत्वानुपपत्तेः । यस्मिन्विज्ञाने यदवभासते तत्तदालम्बनम् । अत्र च कलधौतानुभवः शुक्तिका. लम्बनत्वकल्पनायां विरुध्यते । तथा चाचकथन्न्यायवीभ्यां शालिकानाथ: १ ख. °दिप्रक्र । २ ख. वर्तः स । ३ क.. भितज्ञा । ४ ख. पाध्युप° । ५ ख. रः प्राह-शु। ६ ख. वा। न प्रथमः। पु। ७ ख. 'तबोधिकरणं सं । ८ ख. द्दाररजतजज्ञा। ९ ख. 'नाऽयं नावि। Page #176 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहअत्र ब्रूमो य एवार्थो यस्यां संविदि भासते । वेद्यः स एव नान्यद्धि वेद्यावेद्यत्वलक्षणम् ॥ इदं रजतमित्यत्र रजतं त्ववभासते । तदेव तेन वेद्यं स्यान तु शुक्तिरवेदनात् ॥ तेनान्यस्यान्यथा भासः प्रतीत्यैव पराहतः । अन्यस्मिन्भासमाने हि न परं भासते यतः । (प्रक० ५०४।२३-२५) इति । किंच मिथ्याज्ञानोत्पत्तौ सामग्री न समस्ति । किं केवलानीन्द्रियादीनि कारणानि दोषदूषितानि वा । नाऽऽद्यः। तेषां समीचीनज्ञानजननसामर्योपलम्भात् । अन्यथा समीचीनं रजतज्ञानं न कदाचिदुदयमासादयेत् । न द्वितीयः । दोषाणामौत्सर्गिककार्यप्रसवशक्तिप्रतिबन्धमात्रप्रभावत्वात् । न हि दुष्टं कुटजबीजं वटाङ्कुरं जनयितुमीष्टे । न वा तैलकलुषितं शालिबीजमशाल्यछुरजननायालम् । किंतु स्वकार्य न करोति । ननु दावदहनदग्धस्य वेत्रबी. जस्य कदलीकाण्डजनकत्वं दृष्टमिति चेत्तन्न स्थाने । दग्धस्यावेत्रबीजत्वेन दोषाणां विपरीतकार्यकारित्वं प्रत्यनुदाहरणात् । न च भस्मकदोषदूषितस्य कौक्षयकस्याऽऽशुशुक्षणेर्बहनपचनसामथ्र्य दृष्टमित्येष्टव्यम् । अशितपीताया. हारपरिणती जाठरस्य जातवेदसः शक्तत्वात् । तदुक्तम् अयथार्थस्य बोधस्य नोत्पत्तावस्ति कारणम् । दोषाश्चेन्न हि दोषाणां कार्यशक्तिविघातता ॥ भस्मकादिषु कार्यस्य विघातादेव दोषता। " भनेहि रसनिष्पत्तिः कार्य जठरवर्तिनः ।। (प्रक० ५०४।७३-७४) इति । अपि चासत्यप्यर्थे ज्ञानप्रादुर्भावाभ्युपगमे समीचीनस्थलेऽपि ज्ञानानां स्वगो. घरध्यभिचारशङ्काङ्कुरसंभवेन निरङ्कुशो व्यवहारो लुप्यते । तदाह यदि चार्थ परित्यज्य काचिद्बुद्धिः प्रकाशते । व्यभिचारवति स्वार्थे कथं विश्वासकारणम् ।। (प्रक० १०४।६६) इति । नन रजतगोचरैकविशिष्टज्ञानानङ्गीकारे विशिष्टव्यवहारो न सिध्येत् । अतस्तत्सिद्धयेऽपि विपर्ययोऽङ्गीकार्य इति चेन्न । इदं रजतमिति ग्रहण. स्मरणाभिधस्य बोधद्वयस्य व्यवहारकारणत्वाङ्गीकारात् । यद्येव. मिदं शुक्तिकाशकलं तद्रजतमित्यतोऽपि विशिष्टव्यवहारः स्यादिति । १ ख. 'रिहरणतौ । २ ख. तथाऽऽह । Page #177 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । १५५ तम । तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणस्य दोषदूषितचक्षुर्जन्यत्वेनानां कलितशुक्तित्वादिविशेषितस्य सामान्यमात्रग्रहणरूपत्वाद्रजन मिति ज्ञानस्यामनिहितविषयस्य संप्रयोगलिङ्गायप्रसूततया सदृशावबोधितसंस्कारमात्रमभवत्वेन परिशेषमाप्तस्मृतिभावस्य दोषहेतुकतया गृहीततत्तांश मोषाद्ग्रहणमात्रत्वोपपत्तेः । तदप्युक्तम्--- नन्वत्र रजताभासः कथमेष घटिव्यते । उच्यते शुक्तिशकलं गृहीतं भेदवर्जितम् || शुक्तिकाया विशेषा ये रजताद्भेदहेतवः । ते न ज्ञाता अभिभवाज्ज्ञाता सामान्यरूपता । अनन्तरं च रजतस्मृतिर्जाता तथाऽपि च । मनोदोषात्तदित्यंशपरामर्शविवर्जितम् ॥ रजतं विषयीकृत्य न तु शुक्तेर्विवेचितम् । स्मृत्याऽतो रजताभास उपपन्नो भविष्यति ।। (प्रक०प०४।२६ - २९) इति । न संनिहितं तावत्प्रत्यक्षं रजतं भवेत् ॥ लिङ्गाद्यभावाच्चान्यस्य प्रमाणस्य न गोचरः । परिशेषात्स्मृतिरिति निश्चयो जायते पुनः || ( प्रक०प०४ । ३१ - ३२ ) इति । ननु किमिदमेकैकं व्यवहारकारणमुत संभूय । न प्रथमः । देशभेदेन प्रवृत्तिप्रसङ्गात् । न चरमः । प्रयत्नायौगपद्याज्ज्ञाना यौगपद्यात् ( बै० सू० ३ । २ । ३ ) इत्यादिना ज्ञानयोगपद्यनिषेधात् । अतो ज्ञानद्वयं हेतुरित्ययुक्तं वच इति चेन्मैवं वोचः । अविनश्यतोः सहावस्थाननिषेधेऽपि विनश्यद विनश्यतोः सहावस्थानस्यानिषिद्धत्वेन निरन्तरोत्पन्नयोस्तदुपपत्तेः । ननुं रजतज्ञानाद्रजतार्थी रजते प्रवर्ततां नाम । पौरस्त्ये वस्तुनि कथं प्रवृत्तिः स्यादिति चेन्न । स्वरूपतो विषय तथा गृहीतभेद योर्ग्रहणस्मरणयोः संनिहितरजत गोचरज्ञान सारूयेणं वस्तुतः परस्परं विभिन्न योरप्य भेदोचित सामानाधिकरण्यव्यपदेशहेतुत्वोपपत्तेः । ग्रहणस्मरणयोः संनिहितरजतज्ञानसारूप्यं कथम् । यथा चैतत्तथा निशम्यताम् । संनिहितरजतगोचरं हि विज्ञानमिदमंशरजतांश योरसंसर्ग नाव: माहते । तयोः संसृष्टत्वेनासंसर्गस्यैवाभावात् । नापि स्वगतं भेदम् । एकज्ञानत्वात् । एवं ग्रहणस्मरणे अपि दोषवशाद्विद्यमानमपीदमंश रजतांश योर संसर्ग भेदं नावगाहत इति । भेदाग्रहणमेव सारूप्यम् । तदुक्तं गुरुमतानुसारिभिः १ ख. °धे वि° । Page #178 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे— ग्रहणस्मरणे चेमे विवेकानवभासिनी । सम्यग्रजतबोधाच्च भिन्ने यद्यपि तत्त्वतः ॥ तथाऽपि भिन्ने नाssभाते भेदाग्रहसमत्वतः । सम्यग्रजत बोधस्तु समक्षैकार्थगोचरः ॥ ततो भिन्ने अबुद्ध्वा च ग्रहणस्मरणे इमे । समानेनैव रूपेण केवलं मन्यते जनः ॥ अपरोक्षावभासेन समानार्थग्रहेण च । अवैलक्षण्यसंवित्तिरिति तावत्समर्थिता । व्यवहारोऽपि तत्तुल्यस्तत एव प्रवर्तते । (प्रक०प०४ । ३३-३७) इति । एवम गृहीतविवेक मापन्नसंनिहित रूप्यज्ञानसारूप्यं ग्रहणस्मरणद्वयमं यथाव्यवहारहेतुरिति सिद्धम् । यद्येवमयथाव्यवहारो ग्रहणस्मरणजन्यस्तर्हि पीतः शङ्ख इत्यादौ स न सिद्धस्तत्र तयोरभावादिति चेन्न । अगृहीतविवेकयोः प्राप्तसमीचीनसंसर्गज्ञानसारूप्यत्वे ग्रहणयोरेव व्यवहार संपादकत्वोपपत्तेः । नयनरश्मिवतिनः पित्तद्रव्यस्य पीतिमा दोषवशाद्द्रव्यरहितो गृह्यते । शङ्खोऽप्यकलितशुक्लगुणः स्वरूपतो गृह्यते । तदनयोर्गुणगुणिनोः संसर्गयोग्ययो र संसर्गाग्रह सारूप्यात्पतितपनीय पिण्डमत्यया वैलक्षण्याद्व्यवहार उपपद्यते । यथोक्तम् १५६ पीतशङ्खावबोधे हि पित्तस्येन्द्रियवर्तिनः । पीतिमा गृह्यते द्रव्यरहितो दोषतस्तथा ॥ 'शङ्खस्येन्द्रियदोषेण शुक्तिमा न च गृह्यते । केवलं द्रव्यमात्रं तु मैथते रूपवर्जितम् ॥ गुणे द्रव्यंव्यपेक्षे च द्रव्ये च गुणकाङ्क्षिणि । भासमाने तयोर्बुद्धिरसंबन्धं न बुध्यते ॥ . सत्यपीतावभासेन समे भाते मती इमे । व्यवहारोऽपि तत्तुल्य एवमत्रापि युज्यते ।। ( प्रक०प०४।४८-५१) इति । नन्विदं रजतमिति भ्रान्तिज्ञानानभ्युपगमे रजतप्रसक्तेरस स्वाभेदं रजतमिति निषेधः कथं कलधौताभावं बोधयतीति चेन्नैष दोष: । भेदाग्रहप्रसञ्जितस्य शुक्तौ रजतव्यवहारस्य निषेधस्वीकारेण कल्पनालाघवसद्भावात् । तदुक्तं पञ्चिकाप्रकरणे - १ ख.॰नार्थे ग्र ं । २ ख. 'तेः । विनीय न'। ३ ख. 'गुणितोऽसं' । ४ ख. 'नः । पित्तमा । ५ ख. प्रथिते । ६ ख. व्यस्य पक्षे । ७ ख 'क्षिणे । ८ ' त्यपित्ताव' । Page #179 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । १५५ मिथ्याभावोऽपि तत्तुल्यव्यवहारप्रवर्तनात् । । रेजतव्यवहारांशे विसंवादयतो नरात् ॥ बाधकप्रत्ययस्यापि बाधकत्वमतो मतम् । ' प्रसज्यमानरजतव्यवहारनिवारणात् ॥ (प्रक० ५०४।३८-३९)इति। तदनेन प्राचीनयोनियोः सत्यत्वे 'कथं भ्रमत्वप्रसिद्धिरिति शङ्का पराकृता । अयथाव्यवहारप्रवर्तकत्वेन तदुपपत्तेः। . । किंच नेदं रजतमिति बाधकावबोधो नाभावमवगाहते । भावव्यतिरेकेणा: भावस्य दुर्ग्रहणत्वात् । यद्येवमङ्ग नास्तीति प्रत्ययस्य किमालम्बनम् । अपरथा माहाभानिकंपक्षानुप्रवेश इति चेन्मैवं भाषिष्ठाः । अभावस्य धर्मिप्रतियोगिनिरूपणाधीननिरूप्यत्वेनावश्याभ्युपगमनीये दृश्ये प्रतियोगिन्यदृश्ये वा स्मर्यमाणेऽधिकरणमात्रबुद्धेरेव नास्तीति व्यवहारोपपत्तावतिरिक्ताभावकल्पनाया प्रमाणाभावात् । तदुक्तममृतकलायाम् - अत्रोच्यते द्वयी संविद्वस्तुनो भूतलादिनः । एका संसृष्टविषया तन्मात्रविषया परा ॥ तन्मात्रविषया वाऽपि द्वयी साऽय निगद्यते । प्रतियोगिन्यदृश्ये च दृश्ये च प्रतियोगिनि ॥ तत्र तन्मात्रधीयं स्मृते च प्रतियोगिनि । . नास्तित्वं सैव भूभागे घटादिप्रतियोगिनः॥ (प्रक०प०६।३७-३९) इति । अत एव च प्राभाकरमतानुसारिभिः प्रमाणपारायणे प्रत्यक्षादीनि पश्चैव प्रमाणानि अपश्चितानि । नन्वेवमभावस्याभावे नकारस्य वैयर्यमापयेत । अनुशासनविरोधश्चाऽऽपतेदिति चेत्तदेतद्वार्तम् । एकोनपश्चाशद्वर्णानां मध्ये कस्यापि वर्णस्याभावार्थत्वादर्शनेन वर्णस्य सतो नकारस्य तदर्थत्वानुफ्पत्तेः । न चैवमनुशासनविरोधः । तदन्यतदभावतविरुद्धेष्वर्थेष्वनुशासनस्यैवमर्थः स्यात् । तथाहि-चेतनानां मध्ये कश्चन कस्यचिच्छत्रुः कश्चन कस्यचिन्मित्रं कश्चन कस्यचिदुदासीनस्तथैवाचेतानानामपि । तदन्यपदेन तदुदासीनो नकारार्थः । विरुद्धपदेन शत्रुनकारार्थः । तदभावपदेन मित्रं नकारार्थः । तथा चाब्राह्मणपद एवैतत्रयं प्रतीयते शूद्र इत्युदासीनो यवन इति शत्रुः क्षत्रिय इति मित्रम् । एवं सर्वत्र नभयोगस्थले द्रष्टव्यमिति न कश्चिदभावो भावव्यतिरिक्तः संभवति । तस्मादुक्तया रीत्या भ्रमबाधप्रसिद्धया विवादाभ्यासिताः प्रत्यया यथार्थाः प्रत्ययत्वाद्दण्डीति प्रत्ययवदिति सिद्धम् । ... १ ख. रव' । २ ख. रसितं व्य' । ३ ख. म् । आस। ४ ख. °वव्यति । ५ ख. सिद्धत्वाद्विवा। Page #180 -------------------------------------------------------------------------- ________________ १५८ सर्वदर्शनसंग्रहे 1 तदपरे न क्षमन्ते । इह खलु निखिलप्रेक्षावान्समीहिततत्साधनयोरन्यतर. प्रवेदने प्रवर्तते । न च रजतमर्थयमानस्य शुक्तिकाशकलज्ञानं तद्रूपमनुभावयितुं प्रभवति । शुक्तिकाशकलस्य समीहिततत्साधनयोरन्यतरभावाभावात् । नापि रजतस्मैरणं पुरोवर्तिनि प्रवृत्तिकारणम् । तस्यानुभवपारतन्त्र्यतयाऽनुभवदेश एव प्रवर्तकत्वात् । नापि भेदाग्रहो व्यवहारकारणम् । ग्रहणनिबन्धनत्वाचेतनव्यवहारस्य । ननु न वयमेकैकस्य कारणत्वं खूमहे येनैवमुपलभ्येमहि । किंत्वगृहीतविवेकस्य ज्ञानद्वयस्य प्राप्तसमीचीनपुरः स्थितरजत ज्ञानसारूप्यस्येत्यनुक्तोपालम्भोऽयमिति चेत्तदप्ययुक्तम् । विकल्पासहत्वात् । तथाहि - समीचीनरजतावभाससारूप्यं भासमानं प्रवर्तकं सत्तामात्रेण वा । आद्ये विकल्प भेदाग्रहापस्पर्यायस्य सांरूप्यस्य समीचीनसंनिभे इमे ज्ञाने इति विशेषाकारेण गृह्यमाणस्य प्रवृत्तिकारणत्वं किंवऽनयोरेव स्वरूपतो विषयतश्च मिथो भेदाग्रहो विद्यत इति सामान्याकारेण गृह्यमाणस्य सारूप्यस्य । नाऽऽग्रेः । समीचीनज्ञानवत्तसंनिभज्ञानस्य तदुचितव्यवहारप्रवर्तकत्वानुपपत्तेः । न खलु गोसंनिभो गवय इत्यवभासो गवार्थिनं गवये प्रवर्तयति । न द्वितीयः । व्याहतत्वात् । न खल्वनाकलितभेदस्यानयोरित्यनयोरिति ग्रह भेदाग्रह इति च प्रतिपत्तिभवति । अतः परिशेषात्सत्तामात्रेण भेदानहरूपस्य सारूप्यस्य व्यवहारकारणत्वमङ्गीकर्तव्यम् । एवमेवास्त्विति चेत्तदमिह संप्रधार्यम् - किमयं भेदाग्रह समरिपोत्पादनक्रमेण व्यवहारकारणमस्तूतानुत्पादितारोप एवं स्वय मिति । न च द्वितीयः पक्ष एव श्रेयान् । तावतैव व्यवहारोत्पत्तावारोपस्य गौरवदोषदुष्टस्वदिति मन्तव्यम् । विशिष्टव्यवहारस्य विशिष्टज्ञानपूर्वकत्वनिय मेमाङ्गामपूर्वकस्वानुपपत्तेः । नम्बयं व्यवहारो नाज्ञानपूर्वक इत्यनाकलितपराभिसंधिः स्वसिद्धान्त सिं दाययदि कश्चिच्छन्त स प्रतिवक्तव्यः । शुक्तिकाविषयस्य ग्रहणस्यासमीहितविषयत्वेन रजतार्थिमवृसिंहेतुत्वा संभवादन्वयव्यतिरेकाभ्यां रजतज्ञानस्यं समीहितविषयत्वेन प्रवृत्तिहेतुत्व सं यवाच्चेदमर्थाभिसंभिन्नग्रहविविक्तस्यापि रजतस्मरणस्य कारणत्वं वक्तव्यम् । तच्च वक्तुं न शक्यते । जानाति इच्छति ततः प्रवर्तत इति न्यायेन ज्ञानेच्छाप्रवृत्तीनां समानविषयत्वेन भाव्यम् | तथा चेदंकारास्पदाभिमुख प्रवृत्तस्य रजतार्थिनस्तदिच्छानिवन्धनम् । अन्यथाऽ १ ख.॰भवें पा ̊ । २ खः 'हे व्य' । ३ क. ' वा तयों । ४ खं प्रसार्यम् । ५ क. मुख्यर° । ख. ‘मुखर ं । Page #181 -------------------------------------------------------------------------- ________________ शांकरदनम् । न्यदिच्छमन्यद्वयवहरतीति व्याहन्येत । तथा च यदीदंकारास्पदं रजतीवभा. सगोचरतां नाऽऽचरेत्कथं रजतार्थी तदिच्छेत् । यद्यरजतत्वाग्रहपादिति ब्रूयाद्रजतत्वाग्रहात्कस्मादयं नोपेक्षेतेति । मुर्गपत्चद्भवभेदाग्रहाभेदाप्रहनिबन्धना. भ्यामुपादानोपेक्षाभ्यां पुरतः पृष्ठतश्चाकृष्यमाणः पुरुषो दोलायमानत्रया रूपया रोपमन्तरेणोपादानपक्ष एव न व्यवस्थाप्यत इत्यनिच्छताऽप्यच्छमतिना समा. रोपः समाश्रयणीयः । यथाऽऽह भेदाग्रहादिदंकारास्पदे रजतत्वमारोप्य बजा. तीयस्योपकारहेतुभारमनुस्मृत्य तज्जातीयत्वेनास्यापि तदनुमाय तदर्थी प्रवर्तत इति प्रथमः पक्षः प्रशस्यः। न च तठस्थरजतस्मरणपक्षेऽपि हेतोहीतत्वेनायं मार्गः समान इति वाच्यम् । रजतत्वस्य हेतोः पक्षधर्मत्वाभावात् । न च पक्षधर्मताया अभावेऽपि व्याप्तिबलाद्पकत्वं शडून्यम् । व्याप्तिपक्षधर्मतावल्लिङ्गस्यैव गमकवाङ्गीकाराद तदाहुः शबरस्वामिनः-ज्ञातसंबन्धस्यैव पुंसो लिङ्गविशिष्टधम्र्येकदेशदर्शना ल्लिङ्गिविशिष्टधयेकदेशबुद्धिरनुमानमिति । आचार्योऽज्यवोचत्र सं एष चोभयात्मा यो गम्ये ममक इम्यते । . असिद्धेनैकदेशेन गम्यासिद्धेनं बोधकः ॥ इति । ननु भवत्पक्षेऽपि पुरःस्थितस्येदमर्थस्य परमार्थतो रजतत्वं नास्तीति न रज. तत्वं धर्येकदेश इति चेन्न । यक्षानुरूपो बलिरिति न्यायेनानुमित्याभासानुगुणस्यैकदेशस्य विद्यमानत्वात् । तथा च प्रयोगः-विवादाध्यासितं रजतज्ञानं पुरोवर्तिविषयं रजतार्थिनस्तत्र नियमेन प्रवर्तकत्वात् । यदुक्तसाधनं तदुक्त साध्यं यथोभयकादिसंमतं सत्यरजतज्ञानम् । विवादपदं शुक्तिशकलं रजतज्ञानविषयोंऽव्यवधानेन रजतार्थिप्रवृत्तिविषयत्वाद्रजतपंदसमानाधिकरणपदान्तरवाच्यत्वाद्वा वस्तुरजतवत् । यदुक्तं रजतज्ञानस्य शुक्तिकालम्बनत्वेऽनुभवविरोध इति तदप्ययुक्तम् । विकल्पासहत्वात् । तथाहि-तत्र किं रजताकारप्रतीति प्रति शुक्तेरालम्बनत्वेऽनुभवविरोध उद्भाव्यत इदमंशस्य वा । नाऽऽद्यः । अनङ्गीकारपराहतत्वात् । न द्वितीयः । इदंतानियतदेशाधिकरणस्य चाकचक्यविशिष्टस्य वस्तुनो रजतज्ञानालम्बनत्वमनवलम्बमानस्य भवत एवानुभवाविरोधात् । इदं रजतमिति सामानाधिकरण्येन पुरोवर्तिन्यङ्गुलिनिर्देशपूर्वकमुपादानादिव्यवहारदर्शनाच । १ ख. दिच्छेदन्य । २ क.-"ताभा । ३ ख. 'ग्रहणात्क' । ४ ख. गतद्भ। ५ ख. पीयस्तथाहि भे । ६ क. पि धर्महेत्वोः । ख'पि हेत्वाग्रही । ७ ख. शक्यशङ्कम् । व्या । ८ ख. स एव चो । ९ स. पदं स । Page #182 -------------------------------------------------------------------------- ________________ सर्वदर्शनसंग्रहे... यचोक्तं-दोषाणामौत्सर्गिककार्यप्रसवशक्ति प्रतिबन्धकतया विपरीतकारित्वं नास्तीति । तदप्ययुक्तम् । दावदग्धवेत्रवीजादौ तथा दर्शनात् । न च दग्धस्य वेत्रबीजत्वं नास्तीति. मन्तव्यम् । श्यामस्य घटस्य रक्ततामात्रेण घटत्वनिवृत्ति प्रसङ्गात् । ननु घटोऽयं घटोऽयमित्यनुवृत्तयोः प्रत्ययप्रयोगयोः सद्भावाद्घटत्वस्य सद्भाव इति चेन्न । अत्रापीदं वेत्रबीजमिति तयोः समानत्वात् । तथा भस्मकदोषदूषितस्य जाठराग्नेबेन्नपचनसाम दृश्यते । न च बहन्नपचनसामर्थ्य जाठरस्यैव जातवेदसो न भस्मकव्याधेरिति वक्तुं युक्तम् । तस्य मन्दमल्पपचनसामर्थेऽपि सहसा महत्पचनस्य भस्मकन्याधिसाहायकमन्तरेणानु. पपत्तेः । अन्यथा सर्वेषां तथाऽऽपत्तेः। किंच ज्ञानानां यथार्थव्यवहारकारणत्वेऽपि दोषवशादयथार्थव्यवहारकारणत्वमङ्गीकुर्वाणो भवानेव पर्यनुयोज्यो भवति । (तदुक्तं भाष्ये-यश्चोभयोः समानो दोषो द्योतते तत्र कश्चोयो भवतीति । अत्राप्युक्तम् -यश्चोभयोः समो दोषः परिहारोऽपि वा समः। . . नैकः पर्यनुयोक्तव्यस्ताहगर्थविचारणे ।। इति । तथाऽपि मामकस्यानुमानस्य किं दूषणं दत्तमासीत् । यद्यनुमानदूषणं विना न परितुष्यत्ति हन्त कालात्ययापदिष्टता । कृष्णवर्मानुष्णत्वानुमानवत् । एतावन्तं .कालं यदिदं रजतमित्यभादसौ शुत्तिापिति प्रत्यक्षेण प्राचीनमत्ययस्यायथार्थत्वं अवेदयत्ता यथार्थत्वानुमानस्यापहृतविषयत्वाद्वाध्यत्वसंभवात् । .. ... यच्चोक्तं स्वगोचरव्यभिचारे सर्वानाश्वासप्रसङ्ग · इति । तदसांप्रतम् । संविदां कचित्संवादिन्यवहारजनकत्वेऽपि न सर्वत्र तच्छङ्कया प्रवृत्त्युच्छेद इति यथा तावके मते तथा मामकेऽप्यसौ पन्था न वारित इति समानयोगक्षे. मत्वात् । तौतातितमतमवलम्ब्य विधिविवेकं व्याकुर्वाणराचार्यवाचस्पतिमित्रैबर्बोधकत्वेन स्वतः प्रामाण्यं नाव्यभिचारेणेति न्यायकणिकायां प्रत्यपादि । तस्मादविश्वासशङ्काऽनवकाशं लभते । ... . ननु माध्यमिकमतावलम्बनेन रजतादिविभ्रमालम्बनमसदिति चेत्तदुक्तम् । असतोऽपरोक्षप्रतिभासायोग्यत्वात् । तदुवादित्सया प्रवृत्त्यनुपपत्तेश्च । ननु विज्ञानमेवः वासनादिस्वकारणसामासादितदृष्टान्तसिद्धस्वभावविशेषमसत्मकाशनसमर्थनमुपजातम् । असत्प्रकाशनशक्तिरविद्या संवृतिरिति पर्यायाः। तस्मादविद्यावशादसन्तो भान्तीति चेत्तदपि वक्तुमशक्यम् । शक्यस्य दुर्निरूप्यत्वात् । । १ ख. °था तथाऽऽप । २ क. °नानामज्ञानतो य । ख. नानामज्ञानाद्यथा । ३ ख. 'ष्टक । ४ ख. °सङ्गयति । ५ ख. चित्सन्नादि । ६ ख. दितादृ । ७ ख. भाग्निति । Page #183 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । किमत्र शक्यं कार्य ज्ञाप्यं वा । नाऽऽद्यः । असतः कार्यत्वानुपपत्तेः । न द्वितीयः। शक्यस्य कारणत्वेनाङ्गीकृतत्वात् । ज्ञानादन्यस्य ज्ञानस्यानुपलब्धेश्च । उपलब्धौ वा तस्यापि ज्ञाप्यत्वेन ज्ञापकान्तरापेक्षायामनवस्थापत्तेश्च । अथैतदोषपरिजिहीर्षया विज्ञानं सदरूपमेवासतः प्रकाशकमिति. कक्षी क्रियत इति चेदत्र देवानांप्रियः प्रष्टव्यः पुनः । असौ सदसतोः संबन्धो निरूप्यनिरूपकभा. वोऽविनाभावो वा । नाऽऽद्यः । असत उपकाराधारवायोगेनानुपकृततया निरूप्यत्वानुपपत्तेः । न चरमः । धूमधूमध्वजयोरिव तदुत्पत्तिलक्षणस्य शिंशपाक्षयोरिव तादात्म्यलक्षणस्य वाऽविनाभावनिदानस्य सदसतोरसंभवात । तस्माद्विज्ञानमेवासत्प्रकाशकमित्यसद्वादिनामयमसत्प्रलाप इत्यारोप्यमाणं नासत् । ननु विज्ञानवादिनयानुसारेण प्रतीयमानं रजतं ज्ञानात्मकम् । तत्र च युक्तिरभिधीयते-यद्यथाऽनुभयते तत्तथा । अन्यथात्वं तु बलवद्वाधकोपनिपातादास्थीयत इत्युभयवादिसंमतोऽर्थः । तत्र च नेदं रजतमिति निषिद्धेदभावं रजतमर्यादान्तरज्ञानरूपमवतिष्ठते । न चेदंतया निषेधे सत्यनिदंतया च, बहिरपि व्यवस्थोपपत्तेः कुतः संविदाकारतति वाच्यम् । व्यवाहतस्यापरोक्षत्वानुपपत्तावपरोक्षस्य विज्ञानस्य कक्षीकर्तव्यत्वात् । तथा च प्रयोगः-विवादपदं, ब्रिज्ञा नाकारः संप्रयोगमन्तरेणापरोक्षत्वाद्विज्ञानवादति । तदनुपपन्नम् । विकल्पासहस्वात् । बाधकोऽवबोधः किं साक्षाज्ञानाकारतां बोधयत्याद्वा! नाऽऽद्य नेदं रजतामिति प्रत्ययस्य रजतविवेकमात्रगोचरस्य नानाभेदगोचरतायामनुभवावि. रोधात् । नेदं रजतमिति रजतस्य पुरोवर्तित्वप्रतिषेधो ज्ञानाकारतां कल्पयतीति चेत्तदेतद्वार्तम् । प्रसक्तप्रतिषेधात्मनो बाधकावबोधस्य तत्रैव सत्त्वालतिषेधोपपत्तेः । विज्ञानाकारत्वसाधनमप्यविज्ञानाकारे बहिष्ठे साक्षिप्रत्यक्षे भावरूपाज्ञाने वर्तत इति सव्यभिचारः। नन्वन्यथाख्यातिवादिमतानुसारेण रजतस्य देशान्तरसत्त्वेन भाव्यम् । . अन्यथा तस्य प्रतिषेधप्रतियोगित्वानुपपत्तेः । न हि कश्चित्प्रेक्षावाशशविषाणं प्रतिषटुं प्रभवति । तदुक्तम् व्यावयाभाववत्तैव भाविकी हि विशेष्यता। . अभावविरहात्मत्वं वस्तुनः प्रतियोगिता ॥ (न्या० कु०.३।२) इति । तथा च तस्य देशान्तरसत्वमाश्रयणीयमिति चेत्तदपि न प्रमाणपद्धतिमा । असतः संसर्गस्येव कलधौतस्य निषेधप्रतियोगित्वोपपत्तेः । १ क. 'ज्ञानरू' । ख. 'ज्ञानस्वरूप' । २ क.- "तिम । Page #184 -------------------------------------------------------------------------- ________________ १६२ सर्वदर्शनसंग्रहेनन्विदं रजतमिति ज्ञानमेकमनेकं वा । न तावदाद्यः । अपसिद्धान्तापत्तेरसंभवा । तथाहि-शुक्तीदमंशेन्द्रियसंप्रयोगादिदमाकारान्तःपरिणामरूपमेकं शानं जायते । न च तत्र कलधौतं विषयभावमाकल्पयितुमुत्सहसे । असंप्रयुक्तस्वात्तस्य । विषयत्वाङ्गीकारे सर्वज्ञत्वापत्तेः। न चै चक्षुरन्वयव्यतिरेकानुबिधायितया तज्ज्ञानस्य तज्जन्यत्वं वाच्यम् । इदमंशज्ञानोत्पत्ती तदुपक्षयोपपत्तेः । न चापि संस्काराद्रजतज्ञानस्य जन्म । स्मृतित्वापत्तेः । अथेन्द्रियदोषस्य तत्करणत्वम् । तदप्ययुक्तम् । स्वातन्त्र्येण तस्य ज्ञानहेतुत्वानुपपत्तेः । न हि ग्रहणस्मरणाभ्यामन्यः प्रकारः समस्ति । तस्मादिदमंशरजततादात्म्यविषयमेकं विज्ञानं न घटते । नाप्यनेकमख्यांतिमतापत्तेरिति चेदुच्यते प्रथमं दोषकलुषितेन चक्षुषेदतामात्रविषयान्तःकरणवृत्तिरुत्पद्यते । अनन्तरं तया वृत्त्या चैतन्यावरणाभिभवे सति तच्चैतन्यमभिव्यज्यते । पश्चादिदमंशसन्यनिष्ठाऽविद्या रागादिदोषकलुषिता कलधौताकारेण परिणमते । इदमाकारान्तःकरणपरिणामावच्छिन्नचैतन्यनिष्ठा कलधौतगोचरपरिणामसंस्कारसचिया कलधौतज्ञानाभासाकारेण परिणमते। तौ च रजतवृत्तिपरिणामौ स्वाधिष्ठानेन साक्षिचैतन्येनाव्यवधानेन भास्यते । तथा च सवृत्तिकाया अविद्यायाः साक्षिभास्यत्वाभ्युपगमे वृत्त्यन्तरवेद्यत्वाभावान्नानवस्था । यद्यप्यन्तःकरण. तिरविद्यावृत्तिश्चेति द्वे इमे ज्ञाने तथाऽपि विषयाधीनं फलम् । ज्ञातो घट इति विषयावच्छिन्नतया फलप्रतीतेः । तद्विषयश्च सत्यमिथ्याभूतयोरिदमंशरजता. शयोरन्योन्यात्मकतयैकत्वमापनः । तस्माद्विषयावच्छिन्नफलस्याप्येकत्वाज्ञानक्यापचर्यते । तदुक्तम् शुक्तीदमंशचैतन्यस्थिताऽविद्या विज़म्यते । रागादिदोषसंस्कारसचिवा रजतात्मना ॥ इदमाकारवृत्त्यक्तचेतन्यस्था तथाविधा। विवर्तते तद्रजतज्ञानाभासात्मनाऽप्यसौ ॥ सत्यमिथ्यात्मनोरक्यादेकस्तद्विषयो मतः । तदायत्तफलैकत्याज्ज्ञानक्यमुपचर्यते ।। इति । पञ्चपादिकायामपि फलैक्याज्ज्ञानक्यमुपचर्यत इत्यभिप्रायेण सा .मेव ज्ञान मेकफलं जनयतीत्युक्तम् । १ ख. °च्च शु। २ ख. रूपात्मकं । ३ ख. चक्षु । ४ ख. तदपेक्षाया उप । ५ स. ख्या. विम। Page #185 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । .१६३ ननु शक्तिकामस्तके भाव्यमानस्य कलधौतस्य तत्रैव सत्यत्वाभ्युपगमे नेदं रजतमिति निषेधः कथं प्रभवेदिति चेन्न । प्रातिभासिकसत्यत्वेऽपि व्यावहारिकसत्यत्वाभावेन प्रतिपन्नोपाधौ प्रतियोगित्वसंभवात् । तदुक्तं पञ्चपादिका. विवरण-त्रिविधं सत्त्वम् । परमार्थसत्त्वं ब्रह्मणः । भर्थक्रियासामर्थ्य सत्त्वं मायोपाधिकमाकाशादेः । अविद्योपाधिकं सत्त्वं रजतादेरिति । अन्यत्राप्युक्तम् कालत्रये ज्ञातृकाले प्रतीतिसमये तथा । बाधाभावात्पदार्थामा सत्त्ववैविध्यमिष्यते । तात्विकं ब्रह्मणः सत्त्वं व्योमादेावहारिकम् ॥ रूप्यादेरर्थजातस्य प्रातिभासिकमिष्यते ॥ इति । लौकिकेन प्रमाणेन यद्भाध्यं लौकिकेऽवधौ । तत्मातिभासिकं सत्त्वं बाध्यं सत्येव मातरि । वैदिकेन प्रमाणेन यद्बाध्यं वैदिकेऽवधौ । तव्यावहारिकं सत्त्वं बाध्यं मात्रा सहैव तत् ॥ इति च। ततः ख्यातिषाधान्यथानुपपत्या भ्रान्तिगोचरस्य मायामयस्य रजतादेः सद. सविलक्षणत्वलक्षणमनिर्वचनीयत्वं सिद्धम् । तमवोचचित्सुखाचार्य:-. . प्रत्येक सदसत्त्वाभ्यां विचारपदवीं न यत् । .. गाहते तदनिर्वाच्यमाहुर्वेदान्तवादिनः॥ (चित्सु० पृ० ७९) इति । ननु मायाविद्ययोः स्वाश्रयव्यामोहहेतुत्वतदभावाभ्यां भेदस्य जागरूकत्वेनाविद्यामयत्वे वक्तव्ये मायामयत्वोक्तिरारोप्यस्यायुक्तेति चेत्तदयुक्तम् । अनिर्व. चनीयत्वतत्त्वाभासप्रतिबन्धकत्वादिलक्षणजातस्य मायाविद्ययोः समानत्वात् । किंचाऽऽश्रयशब्देन द्रष्टोच्यते कर्ता वा । नाऽऽद्यः । मन्त्रौषधादिनिमित्तमायादर्शिनस्तस्य व्यामोहदर्शनात् । न द्वितीयः । विष्णोः स्वाश्रितमाययैव रामाबतारे मोहितत्वेन तत्र मायावित्वस्याप्रयोजकत्वात् । बाधनिश्चयमन्त्रादिप्रतीकारबोधयोरेव प्रयोजकत्वात् । अपरथा पङ्ग्वन्धवत्कर्ताऽपि व्यामुझेत । न चेच्छानुविधानाननुविधानाभ्यां तयोर्भेद इति भणितव्यम् । मायास्थळे मणिमन्त्रौषधादिप्रयोगवदविद्यास्थलेऽपि द्विचन्द्रकेशोण्डूकादिविभ्रमनिमित्तामुल्य. षष्टम्भादावपि स्वातन्त्र्योपलम्भात् । अत एव तत्र तत्र श्रुतिस्मृतिभाष्यादिषु मायाविद्ययोरभेदेन व्यवहारः संगच्छते । कचिद्विक्षेपप्राधान्ये नाऽऽवरणमाधा १ ख. तदैव । २ ख. °णम । ३ ख. 'कत्वविल । ४ क.-'तिसूत्रभा'। Page #186 -------------------------------------------------------------------------- ________________ १.६४ सर्वदर्शनसंग्रहे न्येन च मायाविद्ययोर्भेदे तद्व्यवहारो न विरुध्यते । तदुक्तम्मा विक्षिपदज्ञानमीशेच्छावशवर्ति वा । अविद्याच्छादयत्तत्रं स्वातन्त्र्यानुविधायेि वा ।। इति । नन्वविद्यासद्भावे किं प्रमाणम् । अहमज्ञो मामन्यं न जानामीति प्रत्यक्षमतिभास एव । ननु ज्ञानाभावविषयोऽयं नाभिप्रेतमर्थं गर्भयतीति चेन्न तावदनुपलब्धिवादिनश्रोद्यमेतत् । परोक्षप्रतिभासहेतुत्वात्तस्याः । अयमपि परोक्षप्रतिभास एवेति चेन्न तात्रल्लिङ्ग शब्दानुपपद्यमानार्थजन्यः । ज्ञातकरणत्वात्तेषाम् । न चैतत्सामग्रीकाले ज्ञानमस्ति । अनुभूयते वा । अनुपलब्ध्या जन्यत इति चेन तावदियमज्ञाता करणम् । प्रत्यक्षेतरस्य ज्ञातकरणत्वनियमात् ! नापि ज्ञातैव करणम् | अनुपलब्ध्यनवस्थानात् । न च यथा परेषाभावग्रहणे योग्यानुपलब्धिः सहकारिणी तथ नः करणमिति शङ्कन्यम् । ज्ञानकरण इव सहकारिणि ज्ञातैत्वनियमाभावात् । अस्तु वा तथा ज्ञेयाभावग्रहणे करणम् । ज्ञानाभावग्रहणे करणं न भवत्येवेति वक्ष्यते ।. 1 प्रत्यक्षाभाववादे तु प्रत्यक्षेण तावद्धर्मिप्रतियोगिज्ञानयोः सतोरात्मनि ज्ञानमात्राभावग्रहणं न ब्रूयात् । घटति भूतले घटाभावस्येव ज्ञानमात्राभावस्य ग्रहीतुमशक्यत्वात् । तयोरसतोस्तु सुतराम् । कारणाभावात् । अतोऽपि योग्यानुपलब्ध्या वा फललिङ्गाद्यभावेन वाऽऽत्मनि ज्ञानमात्राभावग्रहणं दुर्लभमिति परमतेऽप्ययं न्याय: समानः । तदेवमात्मनि प्रत्यक्षेण वाऽन्येन वा ज्ञानमात्राभावस्य ग्रहणमशक्यमिति स्थितम् । 93 ननु ज्ञानविशेषाभावः प्रत्यक्षेण गृह्यताम् । न तावत्स्मरणाभावः । अभावग्रहणे प्रतियोगिग्रहणस्य कारणत्वात् । नाप्यनुभवाभावः । तस्यावर्जनीयत्वात् । नन्वात्मनि घटानुभवाभाव: प्रत्यक्षविषयस्तर्ह्यहमज्ञ इति ज्ञानसामान्यवचनो जानातिर्ज्ञानविशेषेऽनुभवे लक्षणया वर्तनीयः । लक्षणा च संबन्धेऽनुपपत्तौ च सत्यां वर्तते । संबन्धस्तावदनु भवत्वज्ञानत्वयोरेकव्यक्तिसमावेशी व्याप्यव्यापकभावो वा विद्यत एव । अनुपपत्तिं तु न पश्यमः । नन्वनुभवाभावे प्रत्यशँस्य प्रमेयलाभस्तेनैव तस्यार्थवत्ता सिध्यति । सत्यम् । प्रयोजनमेतन्नानुपआत्मनि ज्ञानमात्राभावं 98 पत्तिः । अन्योन्याश्रयात् । नन्वहमज्ञ इत्यत्र नञ्, १ ख. मामाचिक्षिपति ज्ञा' । २ ख. ' मयेदिति । ३ ख 'महार' । ४ था क' । ५ ख. 'तत्त्वं नेमा । ६ ख. 'वदिति । ७ ख त्रावभा । ८ क - गाभा । ९ ख. 'त्रावभा । १० ख. 'गिस्मरण' । ११ ख. 'चने ज्ञाना' । १२ ख. शेषानु । १३ ख. 'नीयल' । १४ ख. 'श्याम्य न' । १५ ख. 'क्षप्र ं । १६ ख. 'पत्तेरन्यो । Page #187 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । १६५ म ए॒ते । ज्ञानवति तस्मिस्तदभावात् । नाप्यनुभवाभावम् । ज्ञानोक्तस्तदनाभधायकत्वात् । नैरर्थक्यं च न युक्तमित्यनयैवानुपपत्त्या लक्षणेति चेदुक्त लक्ष. गैवाविद्या तदर्थोऽस्तु । संदेह इति चेन्न । असमत्वात्कोटिद्वयस्य । अन्यत्र हि प्रतियोगिनिवृत्तिनअर्थः । अत्र तु प्रतियोगिव्याप्यनिवृत्तिरिति । जानातिसमभिव्याहृतस्य नमः कचिदुक्तलक्षणाविद्याविषयत्वसिद्धिमन्तरेण न संदेह इत्यः वईयभावेन सैव जानातिसमभिन्याहृतस्ये नत्रः सर्वत्र तद्विषयत्वमवगमयति विलुम्पति ज्ञानाभावकोटयन्तरमिति क संदेहावकाशः । तदेवं लक्षणाहेत्वभावेऽनुभवाभावोऽप्यात्मनि न प्रत्यक्षेण गृह्यत इति परिशेषादुक्तलक्षणाऽविधवाज्ञ इति प्रतिभासस्य विषय इति स्थितम् । । अस्तु वा ज्ञानाभावप्रतिभासः । अयमभावश्च प्रतियोगी यत्र निषिध्यते न ततस्तत्त्वान्तरमन्यदधिकरणभावात् । मा भदन्यभावत्वमन्याभावत्वं तु स्यात्। नन तदपि विरुद्धम् । सत्यं सति भेदे । स च प्रमाणात्। तच्च सति प्रतियोग्या भावधिकरणतस्तत्त्वान्तरे । ननु घटवति भूतले घटाभावमितिव्यवहृती स्यातामिति चेन्मा भूतामेते प्रतियोगिना सहानुभूयमानेऽधिकरणे । प्रतियोगित स्मरणे सत्यनुभूयमानेऽधिकरणे तु स्याताम् । एवमप्युपपत्तौ न तत्त्वान्तरविषयत्वं कल्प्यम् । काऽनुपपत्तिरिति चेदाधकामावस्तावदुक्त एव । बाधकं तु कल्पनागौरवमेव । तथाहि-तत्त्वान्तरत्वं तावदेकं कल्प्यम् । तस्यापरोक्षत्वायेन्द्रियसंनिकर्षः कल्प्यः । स च संयोगादिर्न भवतीति संयुक्तविशेषणत्वादिः कल्य इत्यतो वरमुक्तलक्षणस्याधिकरणस्य व्यवहारविषयेऽङ्गीकारः । सति चैवं ज्ञानाभावेनापि प्रतियोगिस्मृती सत्यामनुभूयमानमधिकरणं ज्ञातैव । स च न केवलमन्तःकरणम् । जडत्वात् । नापि केवल आत्मैव । अपरिणामित्वा. दगुणत्वाच्च । अत उभयोरभेदाध्यासः । आत्माध्यासश्चोक्तलक्ष गाऽविद्याऽऽत्मेत्यायातमविद्यायामेवाहमज्ञ इति प्रतिमासः प्रमाणमिति । अनुमानं च-विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरण. स्वनिवर्त्य स्वदेशगतवस्त्वन्तरपूर्वकमप्रकाशितार्थप्रकाशकत्वात् । अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति । वस्तुपूर्वकमित्युक्त आत्मवस्तुपूर्वकत्वेनार्थान्तरता । १ ख. "तस्तदाभा । २ ख. निवा नार्थः । ३ निवोऽनर्थ इति । ४ ख. श्यं भवति से । ५ ख. "स्य नजि त । ६ ख. देव ल । ७ ख. 'दवि । ८ ख. सत्त्वं । ९ ख. 'वात्स्वाधि। १० ख. न्तरत्वेनास्य । घ । ११ ख. °प्युत्पत्तौ नत्वान्त । १२ ख. शेषेण । १३ ख. °षयाङ्गीकारः सति ज्ञा । १४ ख. सत्वान । १५ ख. सात्माध्या । १६ ख. °ति वाऽनु । १७ ख. "देश ग। Page #188 -------------------------------------------------------------------------- ________________ १६६ सर्वदर्शनसंग्रहे-. तदर्थ घस्त्वन्तरेति । तथाऽपि विषयभूते वस्त्वन्तरेऽर्थान्तरता । तदर्थ स्वदेशगतेति । अदृष्टादिकं प्रत्यादेष्टुं स्वनिक्योंत । उत्तरज्ञाननिवयं प्रथमज्ञानं निवर्तयितुं स्वविषयावरणेति । प्रागभावं प्रतिक्षेप्तुं स्वमागभावव्यतिरिक्तेति । स्वप्रागभावव्यतिरिक्तपूर्वकमित्युक्ते विषयेणार्थान्तरता । तदर्थ विषयावरणति । तादृशमन्धकारं व्यासेद्धं स्वनिवत्येति । विषयगतामज्ञाततां निराकर्तुं स्वदेशगतेति । मिथ्याज्ञानमपोहितुं वस्त्वन्तरेति । धारावाहिकविज्ञाने व्यभिचारं व्यासेद्धमप्रकाशितति । मध्यवर्तिप्रदीपप्रभायां साध्यसाधनवैधुर्यप्रतिरोधाय प्रथमोत्पमविशेषणम् । सौरालोकव्याप्तदेशस्थप्रदीपप्रभाप्रतिक्षेपायान्धकारेति । न च ज्ञानसाधके प्रमाणे व्यभिचारः शङ्कनीयः । विप्रतिपनं प्रत्यसत्त्वनिवृत्तिमात्रस्य प्रमाणकृत्यत्वात् । तदुक्तं देवताधिकरणे कल्पनरुकारैः-अनुमानादिभिरसत्त्वनिवृत्तिः क्रियत इति । ननु साधनविकलो दृष्टान्त इति चेन्न । प्रकाशशब्देन तमोविरोध्याकारस्य विवक्षितत्वात् । तदुक्तं विवरणविवरणे सहजसर्वज्ञविष्णुभट्टोपाध्यायः-न चात्र पक्षदृष्टान्तयोरेकप्रकाशरूपानन्वयः शङ्कनीयः । तमो. विरोध्याकारो हि प्रकाशशब्दवाच्यः । तेनाऽऽकारेणैक्यमुभयत्रास्तीति । नरेन्द्रगिरिश्रीचरणस्त्वित्यमुक्तम्-अप्रकाशितप्रकाशव्यवहारहेतुत्वं हेत्वर्थः । तस्य चोभयत्रानुगतत्वान्नासिद्धयादिरिति । श्रुतेश्च । भूयश्चान्ते विश्वमायानिवृत्तिः (श्वे० १ । १० ) इत्यादिका श्रृंतिः । तरत्यविद्या वितता हृदि यस्मिन्निवेशिते । योगी मायाममेयाय तस्मै विद्यात्मने नमः ॥ इति च । .. एतेनैतत्प्रत्युक्तं यदुक्तं भास्करेण-तपणकचरणं प्रमाणशरणे भेदाभेदवादिनां भावरूपमज्ञानं नास्ति किंतु ज्ञानाभाव इति । तथा च भास्करप्रणीतशारीरकमीमांसाभाष्यग्रथिः—यदेव पररूपादर्शनं सैवाविद्येति । भावरूपाज्ञानानभ्युपगमे जीवेश्वरादिविभागानुपपत्तेः । न च भाविकः परमात्मनोंऽशो जीव इति वाच्यम् । निष्कलं 'निष्क्रियं शौन्तं निरवद्यं निरञ्जनम् ' ( श्वे० ६ । १९ ) इत्यादिश्रुतिविरोधात् । केचन शाक्ताः-शक्ति मायाशब्दार्थभूतां जगत्कारणत्वेनाङ्गीकृतां सत्यामभ्युपेत्य मातुलिङ्गगदाखेटषिधारिणी महालक्ष्मीस्तस्याः प्रथमावतार इति १ ख. गत इति । २ क.-'ति । प्रा। ३ क.–णतत्वा । ४ ख. भक्कोपा । ५ ख. 'शब्दो वाच्यते साका' । ६ ख. "रेन्द्रागि । ७ ख. तव्य । ८ ख. त्वर्थोऽस्थ । ९ ख. श्रुतिश्च । ब। १० ख. क्तं भा। ११ ख. नं नैवा । १२ शान्तम् । इ। Page #189 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । - १६७ वर्णयन्ति । सा च कालरात्रिः सरस्वतीति द्वे शक्ती उत्पाद्य ब्रह्माणं पुरुषं श्रियं च त्रियमुत्पादयामास्व । स्वयं मिथुनं जनयित्वा स्वसुते अप्याह- अहमिव युषामपि मिथुनमुत्पादयतमिति । ततः कालरात्रिर्महादेवं पुरुषं स्वरां स्त्रियं च जनयामास । सरस्वती च विष्णुं पुरुषं गौरी च स्त्रियमुदपादयत् । ततश्चाऽऽदिर्विवाहमकरोदकारयच्च ! एवं ब्रह्मणे स्वरां विष्णवे भियं शिवाय गौरी दत्त्वा शक्तियुक्तानां तेषां सृष्टिस्थितिसंहाराख्यानि कर्माणि प्रत्यपादयदिति । तदेतन्मतं श्रुत्यादिमूलप्रमाणविधुरतया स्वोत्प्रेक्षामात्र परिकल्पितमिति स्वरूपव्याक्रियैव निराक्रियेत्युपेक्षणीयम् । ततश्चानिर्वचनीयानाद्य विद्यालसितः प्रत्यगात्मनि सीमानः प्रमातृत्वादिप्रपञ्च इत्यलमतिसङ्गेन । ननु किमर्थं प्रमातृस्वादीनामाविद्यकत्वं निगद्यते । ब्रह्मज्ञानेन निवर्तनाय जीवस्य ब्रह्मभावाय वा । न प्रथमः । शास्त्रप्रामाण्यादेव सत्यस्यापि ज्ञानेन निवृत्तेरुपपत्तेः । उपलम्भाच्च । तथाहि सेतुं दृष्ट्वा विमुच्येत ब्रह्महा ब्रह्महत्यया । इत्यादिना पापं सनीवस्यते । विषयदोषदर्शनेन रागो दर्दद्यते । तार्क्ष्यध्यानेन विषं शम्यते । एवं कर्तृत्वादिवन्धः पारमार्थिकोऽपि तत्त्वज्ञानेन निवर्त्यत । न चरमः | औपाधिकस्य जीवभावस्योपाधिनिवृत्या निवृत्तौ ब्रह्मभावसंभवात् । तस्माद्बन्धस्याऽऽबिद्य कत्ववाचोयुक्तिः सावद्येति चेन्नैतदनवद्यम् | सत्यस्याऽऽत्मवज्ज्ञाननिवर्त्यत्वानुपपत्तेः । बन्धस्य मिथ्यात्वमन्तरेण शास्त्रप्रामाण्या दपि तदसिद्धेश्च । शास्त्रमपि — लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः । इति न्यायेन लोकावलोकितां पदशक्ति पदार्थयोग्यतां चोरररीकृत्य प्रचरतीति । अपरथा, आदित्यो यूप:' ( तै० ब्रा० २।१।५ ) ' यजमानः प्रस्तरः ' ( तै० सं० १/७/४ ) इत्यादिवाक्य स्तोमस्य यथाश्रुतेऽर्थे प्रामाण्यापत्तेः । वैदिक्याः क्रियायाः समक्षक्षयितया पारत्रिक फलकरणत्वान्यथानुपपत्त्या पूर्वाङ्गीकरणानुपपत्तिश्च । लोके च शुक्तिव्यक्तिमत्त्वाभिव्यक्तावपनीयमानस्याऽऽरोपितस्य मिथ्यात्वदृष्टौ तद्दृष्टान्तावष्टम्भेनोऽऽत्मतत्व साक्षात्कारविद्यापनोद्यस्याऽऽविद्य कस्य बन्धस्य मिथ्यात्वानुमानसंभवात् । विमतं मिथ्याऽधिष्ठानतत्त्वज्ञाननिवस्वाच्छुक्तिका रूप्यवदिति । न च विमतं सत्यं भासमानत्वादिति प्रति १ सं. 'मुपपा' । २ ख. 'पव्यतियौवनिराश्रिये । ३ ख प्रतिभासमानप्र' । ४ ख. प्रपञ्चेन । ५ ख. 'ह्मभवना' । ६ ख. दह्यते । ७ ख. स्तोम्या य० । ८ ख. 'पत्तेश्च । ९ ख. 'नाइऽत्यन्तिकत' । Page #190 -------------------------------------------------------------------------- ________________ १६८ सर्वदर्शनसंग्रहेप्रयोगे समानबलतया बाधप्रतिरोधः । प्रतिरोधभियाऽन्यतरदोषत्वसंभवादिति वदितव्यम् । मरुमरीचिकोदकादौ सव्यभिचारात् । अबाधितत्वेन विशेषणान दोष इति चेन्मैवं भाषिष्ठाः । विशेषणासिद्धः। तत्रेदं भवा न्पृष्टो व्याचष्टाम् । कतिपयपुरुषकतिपयकालाबाधितत्वं हेतुविशेषणं क्रियते सर्वथा पाधवैधुर्यं वा । न प्रथमः । । ___ यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपाद्यते ।। ( वाक्यप० १।३४) इति न्यायेन त्रिचतुरप्रतिपत्तृप्रतिपादितस्यापि प्रतिपनन्तरेण प्रकारान्तरमुररीकृत्य प्रतिपादनात् । नापि चरमः । सर्वथा बाधवैधुर्यस्यासर्वज्ञदुर्जेयत्वात् । यद्येवं हन्त तर्हि ज्ञानात्मनोऽपि सत्यत्वं नावगम्यत इति चेन्मेवं मंस्थाः। 'तत्सत्यं स आत्मा' (छा० ६।८७) इत्यागमसंवादगतेः । न च प्रपञ्चऽप्ययं न्याय इति मन्तव्यम् । तादृशस्याऽऽगमस्यानुपलम्भात् । प्रत्युताद्वितीयत्वं श्रावयन्त्याः श्रुतेः प्रपञ्चमिथ्यात्व एव पक्षपातात् । ननु कल्पनामात्रशरीरस्य 'पक्षसपक्षविपक्षादेः सर्वसुलभत्वेन जयपराजयव्यवस्थया कथं कथा प्रथेत । काऽत्र कथंता । ‘एवं त्रिचतुरज्ञानजन्मनो नाधिका ना..' । (श्लो० वा० १ । १ । २ सूत्रे) इति न्यावेन त्रिचतुरकक्ष्याविश्रान्तस्य तत्तदाभासलक्षणानालिङ्गितस्य दूषण. भृषणादेस्तत्र कथाङ्गत्वाङ्गीकारात् । अत एवोक्तं खण्डनकारेण-व्यावहारिकी प्रमाणसत्तामादाय विचारारम्भः ( ख० पृ.० ४४ ) इति । न च भेदग्राहिभिः प्रमाणैरद्वैतश्रुतेर्जघन्यतेति अन्यम् । ब्रह्मणि पारमार्थिकसत्यत्वेन तदावेदिकायास्तत्त्वावेदनलक्षणप्रामाण्यायाः श्रुतेर्व्यावहारिकप्रमाणभावानां प्रत्यक्षादीनां च विभिन्न विषयतया परस्परं बाध्यबाधकभावासंभवात् । तदप्युक्तं तेनैव दद्वैतश्रुतेस्तावदाधे प्रत्यक्षमक्षमम् । नौनुमानादिकं कर्तुं तवापि क्षमते मते ॥ (ख. १ । २०)। धीधना बाधनायास्यास्तदा प्रज्ञा प्रयच्छथ । क्षप्तुं चिन्तामणि पाणिलब्धमब्धौ यदीच्छथ ॥(ख० १।२४)। १ ख. दोषितत्व । २ ख. नापग' । ३ ख. न प्रा ४ ख. 'न्याश्रावयन्त्या श्रु । ५ क.'तुरोज्ञा । ६ ख. कामितिरि' । ७ ख. श्रुतिर्मन्यत इति । ८ ख. तवे । ९ ख. क्षादिना च । १० ख. तथाऽद्वै । ११ ख. नाम मानादित क । १२ ख. ते । साध। Page #191 -------------------------------------------------------------------------- ________________ शौकरदर्शनम् । १६९ तस्मासस्वज्ञानेन निवर्तमायास्य बन्धस्याज्ञान कल्पितस्वमङ्गीकर्तव्यम् । पत उक्तम् यतो ज्ञानमज्ञानस्य निवर्तकमिति 1 यदुक्त - सत्यस्यापि दुरितस्य सेतुदर्शनेन निवृत्तिरुपलभ्यत इति । तदयुक्तम् । विहितकियानुष्ठानेन जनितस्य धर्मस्थाधर्मनिवर्तकत्वन्यात् । 'धर्मेण पापमपनुदति' (म० ना० २२ । १ ) इति श्रुतेः । प्रमाणवस्तु परतन्त्रशालिन्या दर्शनक्रियायादित पुरुषप्रयत्नतन्त्रत्वाभावेन विधानासंभवात् । ब्रह्महत्यां प्रमुच्येत तस्मिन् स्नात्वा महोदधौ । इत्यादिस्मृतिविहितब्रह्मचर्याङ्गसहितंदूर सरदेशगमन साध्यं ब्रह्महननमिवृत्तिफलकसेतुस्नानप्रशंसार्थत्वात् । यस्य हि दर्शनमात्रेणैव दुरितोषशमः किमुत स्नानेन । अन्यथा दूरगमैनानर्थक्यं प्रसजेत् । तत्र खरादीनामप्यमर्थनिवृत्तिरापतेत् । अन्धस्यानं स्याच्च । ननु अग्निविस्कपिला राज सती भिक्षुर्महोदधिः ।मात्राः पुनन्त्येते तस्मात्पश्येत नित्यशः || इति कचिद्दर्शनक्रियाया अपि विधानं दरीदृश्यत इति चेम्मैवं कोचः । तत्राप्यनयैवानुपपरयाऽग्निचिदाद्यर्धपरिचर्यादावेव तात्पर्यावधारणात् । यथोक्तं-विष यदोषदर्शनाद्रागो दन्दह्यत इति । तत्र विषयदोषदर्शनेन विरोध भूतानभिरति संकराम्बेकमादुर्भावाद्रागनिवृत्तौ ददर्शनमात्रमिति न व्यभिचारः । यदपि ताक्ष्यध्यानादिना विषादि सत्यं विनश्यतीति । तत्र लिप्यते । तत्रापि मन्त्रप्रयोगादिक्रियाया एव विषाद्यपनोदकत्वात् । ध्यानस्य ममात्वाभावाच्च यदवाद्यौपाधिकस्य जीवभावस्योपाधिमिवृत्त्या निवृत्तौ ब्रह्मभावोपपतेर्न द र्थमर्थवैतथ्यकथनमिति । तदपि काशकुडावलम्बनकरूपम्। विकल्प सहत्वात् । किमुपाधेः सत्यत्वमभिप्रेत्य मिथ्यात्वं वा । न प्रथमः । प्रमाणाभावाच । नापरः इष्टापत्तेः । तस्मादाविधको भेद इति श्रुतावद्वितीयत्वोपपत्तयेऽभिधीयते न तु व्यसनितया । क-क यदि वस्तुतः सर्वोपद्रवरहितमात्मतत्त्वं ता कथंकारं देहादिरूपं कारागार कारंकारं पुनः पुनस्तत्र प्रविशति । तदतिफल्गु । अविद्याया अनादित्वेन दत्तोत्तरत्वात् । अतो निवृत्त्युपाय एवान्वेषणीयः प्रेक्षावता । न तु विस्मय:कर्तव्यः । ततव तत्वमस्यादिविद्यया तदविश्वामिची निरतिशयानन्दाहमला १ . लभ्येत । २ ख. विधिना' । ३ ख. 'मनर्थकं प्र० । ४ ख. 'जा भिक्षुर्महो यद्यपि । ६ ख. 'ल्पानुपपत्तेः । ७ ख श्रुतौ द्वि° । ८ ख. व्यपनीतं वं वस्तु । २२ Page #192 -------------------------------------------------------------------------- ________________ १७० सर्वदर्शनसंग्रहेभरूपपरमपुरुषार्थः: सेत्स्यति । तथा चाऽऽपस्तम्बस्मृतिः-आत्मलाभान परं विद्यत इति । नन्वसौ नित्यलब्धः । न हि स्वयमेव स्वस्यालब्धो भवति । सत्यम् । किंत्वनादिमायोसंबन्धात्क्षीरोदकवत्समदाचारप्रवृत्तिता न लभते । तथा च यथा शबरादिभिर्खाल्यात्स्वसुतैः सह वर्धितो राजपुत्रस्तज्जातीयमात्मानमवगच्छन्बन्धुभिर्य एवंभूतो राजा स त्वमसीति बोधिते स्वरूपे लब्धस्वरूप इव भवति तथा वेश्यास्थानीययाऽनाद्यविद्यया स्वभावान्तरं नीत आत्मामातृस्थानीयया तत्त्वमसीत्यादिकया श्रुत्या स्वभावं नीयते । एतदाहुवि घवृद्धः ...... नीचानां वसतौ तदीयतनयः सार्धं चिरं वर्धित- . "स्तजातीयमवैति राजतनयः स्वात्मानमप्यञ्जसा। संवादे महदादिभिः सह वसंस्तद्वद्भवेत्पुरुषः .. स्वात्मानं सुखदुःखजालकलित मिथ्यैव धिङ्मन्यते ॥ दाता भोगपरः समग्रविभवो यः शासिता दुष्कृता । राजा स त्वमसीति रक्षितृमुखाच्छ्त्वा यथावत्स तु । रानीभूय जयार्थमेव यतते तद्वत्पुमान्बोधितः । · श्रुत्या तस्वमसीत्यपास्य दुरितं ब्रह्मैव संपद्यते ॥ एतेनतत्मत्युक्तं यदुक्तं परैः किं द्वयोस्तादात्म्यमेकस्य वा । नाऽऽद्यः । अद्वैत-. भङ्गप्रसङ्गात् । न द्वितीयः । असंभवादिति । तन्न । अविद्यापरिकल्पितभेद निवृत्तिपरत्वेन तत्त्वमस्यादितादात्म्यवादमामाण्योपपत्तेः। तौ च पर्यनुयोगप: रिहारावग्राहिषातां मनीषिभिः । 'न द्वयोरस्ति तादात्म्यं न चैकस्याद्वयस्वतः। . ___ अप्रामाण्यं श्रुतेरेवं नाऽऽरोपध्वंसमात्रतः ।। इति । ततश्च तत्त्वमसीति तत्त्वंपदार्थश्रवणमननभावनोबलभुवा साक्षात्कारेणानाद्यविद्यानिवृत्तौ सच्चिदानन्दैकरसब्रह्माविर्भावः संपत्स्यत इति ब्रह्मणो जिज्ञास्यत्वं प्रथमसूत्रोक्तं युक्तम् । अज्ञातं विषयो ब्रह्म ज्ञातं तच्च प्रयोजनम् । मुमुक्षुरधिकारी स्यात्संबन्धः शक्तितः श्रुतेः ॥ इति । १ ख. 'म्बश्रुतिः । २ क. "या साक्षी । ख. यासंहारात्क्षी । ३ ख. लभ्यते। ४ ख. वर्तितो । ५ ख. 'यते । त° । ६ ख. "द्धा निचा । ७ ख. नयोः सार्थ चि । ८ ख. । 'स्तद्वत्पू । ९ ख. लिलं मि। १० ख 'धिप्ता श्रु° । ११ क-ते । येनै । १२ ख. 'नादल' । १३ ख. न्धः शुक्तितच्छ्रुतेरिति । Page #193 -------------------------------------------------------------------------- ________________ शांकरदर्शनम् । १७१ जन्माघस्य यतः (ब्र० सू० १।१।२ ) इति द्वितीयसूत्रे ब्रह्म स्वरूपलक्षणतटस्थलक्षणाभ्यां न्यरूपि । तत्र स्वरूपान्तर्गतत्वे सति व्यावर्तकं स्वरूपलक्षणं 'सत्यं ज्ञानमनन्तं ब्रह्म' (तै० २।५।१ ) इत्यादिवेदान्तैः प्रतिपादितम् । तस्य सत्यज्ञानाद्यात्मकस्वरूपान्तर्गतत्वे सति व्यावर्तकत्वात् । तटस्थलक्षणं 'यतो वा इमानि' (तै० २।१ ) इत्यादीनि वाक्यानि निरूपयन्ति जगज्जन्मादिकारणत्वेन । तदुक्तं विवरणे जगज्जन्मस्थितिध्वंसा यतः सिध्यन्ति कारणात् । तत्स्वरूपतटस्थाभ्यां लक्षणाभ्यां प्रदश्यते ॥ इति । 'शास्त्रयोनित्वात्' (ब्र० मू० १११।३ ) इति तृतीयसूत्रे प्रथमवर्णकेन षष्ठीस मासमाश्रित्य सर्वज्ञत्वं प्रत्यपादि । द्वितीयवर्णकेन बहुव्रीहिसमासमभ्युपगम्य ब्रह्मणो वेदान्तप्रमाणकत्वं प्रत्यज्ञायि । 'तत्तु:समन्वयात्' (ब्र० सू० १।१।४ ) इति चतुर्थे सूत्रे प्रथमवर्णकेन वेदा. न्तानां ब्रह्मणि तात्पर्य प्रत्यपादि । द्वितीयवर्णकेन वेदान्तानां प्रतिपत्तिविधिशेषतया ब्रह्मप्रतिपादकत्वं प्रत्यक्षेपि । दिङ्मात्रमत्र प्रदर्शितम् । शिष्टं शास्त्र एव स्पष्टमिति सकलं समञ्जसम् । श्रीरस्तु ।। इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे .सकलदर्शनशिरो लंकाररत्नं श्रीमच्छांकरदर्शनं समाप्तम् ॥ समाप्तोऽयं सर्वदर्शनसंग्रहः । १ ख. प्रदर्शि : शि'। Page #194 --------------------------------------------------------------------------  Page #195 -------------------------------------------------------------------------- ________________ ॥ ॐ तत्सद्ब्रह्मणे नमः ॥ अथ मधुसूदनसरस्वतीकृतः प्रस्थानभेदः । अथ सर्वेषां शास्त्राणां भगवत्येव तात्पर्य साक्षात्य म्परया वेति समासेन तेषां प्रस्थानभेदोऽत्रोद्दिश्यते । तथाहि-ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद शति वेदाश्चत्वारः। शिक्षा कल्पो व्याकरणं निरुक्तं छन्दो ज्योतिषमिति बेदा. गामि षट् ! पुराणन्यायमीमांसा धर्मशास्त्राणिं चेति चत्वार्युपाङ्गानि । पत्रोपपुराणानामपि पुराणेऽन्तर्भावः । वैशेषिकशास्त्रस्य न्याये । वेदान्तशास्त्रस्य मीमांसायाम् । महाभारतरामायणयोः सांख्यपातञ्जलपाशुपतवैष्णवादीनां च धर्मशास्त्रे । मिलित्वा चतुर्दश विद्याः । तथा चोक्तं याज्ञवल्क्येन (१. ३.).. पुराणन्यायमीमांसाधर्मशास्त्राङ्गमिश्रिताः। वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥ इति । एता एव चतुभिरुपवेदैः सहिता अष्टादश विद्या भवन्ति । आयुर्वेदो धनुर्वेदो गान्धर्ववेदोऽर्थशास्त्रं चेति चत्वार उपवेदाः । सर्वेषां चाऽऽस्तिकानामेतावन्त्येव शास्त्रमस्थानानि । अन्येषामप्येकदेशिनामेतेष्वेवान्तर्भावात् । ननु नास्तिकानामपि प्रस्थानान्तराणि सन्ति तान्येतेष्वनन्तर्भावात्पृथग्गण. यितुमुचितानि । तथाहि-शून्यवादेनैकं प्रस्थानं माध्यमिकानाम् । क्षणिकविज्ञानमात्रवादेनान्यद्योगाचाराणाम् । ज्ञानाकारानुमेय क्षणिकबाह्यार्थवादेनापरं सौ. त्रान्तिकानाम् । प्रत्यक्षसलक्षणक्षणिकबाह्यार्थवादेनापरं वैधाषिकाणाम् । एवं सौगतानां प्रस्थानचतुष्टयम् । तथा देहात्मवादेनैकं प्रस्थानं चार्वाकाणाम् । एवं देहोतिरिक्तदेहपरिमाणात्मवादेन द्वितीयं प्रस्थानं दिगम्बराणाम् । एवं मिलित्वा नास्तिकानां षट् प्रस्थानानि तानि कस्मानोच्यन्ते । सत्यम् । वेदबाह्यत्वाषां म्लेच्छादिप्रस्थानवत्परम्परयाऽपि पुरुषार्थानुपयोगित्वादुपेक्षणीयत्वमेव । इह तु साक्षाद्वा परम्परया वा पुमर्थोपयोगिनां वेदोपकरणानामेव प्रस्थानानां भेदो दक्षितः । ततो न न्यूनत्वशङ्कावकाशः । अथ संक्षेपेणैषां प्रस्थामानां स्वरूपभदहेतुप्रयोजनभेद उच्यते बालानां व्युत्पत्तये । - तत्र धर्मब्रह्मपातिपादकमपौरुषेयं प्रमाणवाक्यं वेदः । स च मम्मब्राह्मणात्मकः । तत्र मन्त्री अनुष्ठानकारकभूतद्रव्यदेवताप्रकाशकाः । तेऽपि त्रिविधाः । NAND १ ख. °णेष्वन्त ।.२ ख. 'क्षस्वल । ३ ग. हायति । ४ ख. "रिणामात्म' । ५ क'यमे । ६ ग. °पकार । ७ ग. "भेदे हे । ८ ख. हेतुः प्र। Page #196 -------------------------------------------------------------------------- ________________ मधुसूदनसरस्वतीकृतौऋग्यजुःसामभेदात् । तत्र पादपद्धगायच्यादिच्छन्दोविशिष्टा ऋचः 'अग्निपीळे पुरोहितम्' इत्याद्याः । ता एव गीतिविशिष्टाः सामानि । तदुभयविलक्षणानि यजूंषि । अग्नीदग्नीन्विहरेत्यादिसंबोधनरूपा निगदमन्त्रा अपि यजुरन्तभूता एव । तदेवं निरूपिता मन्त्राः। ब्राह्मणमपि त्रिविधम् । विधिरूपमर्थवादरूपं तदुभयविलक्षणरूपं च । तत्र शब्द..मावनाविधिरिति भट्टाः । नियोगो विधिरिति प्राभाकरराः । इष्टसाधनता विधिरिति तार्किकादयः सर्वे । विधिरपि चतुर्विधः । उत्पत्त्यधिकारविनियोगप्रयोगभेदात् । तत्र कर्मस्वरूपमात्रबोधको विधिरुत्पत्तिविधिराग्नेयोऽष्टाकपालो भवतीत्यादिः । मेतिकर्तव्यताकस्य करणस्य यागादेः फलसंबन्धबोधको विधिरधिकारविधिदर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेत्यादिः । अङ्गसंबन्धबोधको विधिर्विनियोगविधिव्रीहिभिर्यजेत समिधो यजतीत्यादिः । साङ्गधानकर्मप्रयोगै. क्यबोधकः पूर्वोक्तविधित्रयमेलनरूपः प्रयोगविधिः। स च श्रौत इत्येके । कल्प्य इत्यपरे । कर्मस्वरूपं च द्विविधम् । गुणकर्मार्थकर्म च । तत्र क्रतुकर्मकारकाण्याश्रित्यं विहितं गुगकर्म । तदपि चतुर्विधम् । उत्पत्त्याप्यवि. कृतिसंस्कृतिभेदात् । तत्र वसन्ते ब्राह्मणोऽनीनादधीत यूपं तक्षतीत्यादावाधानतक्षणादिना संस्कारविशेषविशिष्टानियूपादेरुत्पत्तिः । स्वाध्यायोऽध्येतन्यो गां पयो दोग्धीत्यादावध्ययनदोहनादिना विद्यमानस्यैव स्वाध्यायपयःप्रभृतेः । प्राप्तिः । सोममभिषुणोति व्रीहीनवहन्त्याज्यं विलापयतीत्यादाकभिषवावघातविलापनैः सोमादीनां विकारः । व्रीहीन्मोक्षति पत्न्यवेक्षत इत्यादौ प्रोक्षणावेक्षणादिभित्रीह्यादिद्रव्याणां संस्कारः । एतच्चतुष्टयं चाङ्गमेव । तथा ऋतुकारकाण्याश्रित्य विहितमकर्म च द्विविधम् । अङ्ग प्रधानं च । अन्यार्थमङ्गम् । अनन्यार्थ प्रधानम् । अङ्गमपि द्विविधम् । संनिपत्योपकारकमारादुपकारकं च । तत्र प्रधानस्वरूपनिर्वाहकं प्रथमम् । फलोपकारि द्वितीयम् । एवं संपूर्णाङ्गसहितो विधिः प्रकृतिः । विकलाङ्गसंयुक्तो विधिविकृतिः । तदुभयविलक्षणो · विधिविहोमः । एवमन्यदप्यूह्यम् । तदेवं निरूपितो विधिभागः । प्राशस्त्यनिन्दान्यतरलक्षणयों विधिविशेषभूतं वाक्यमर्थवादः । स च त्रिविधः । गुणवादोऽनुवादो भूतार्थवादश्चेति । तत्र प्रमाणान्तरविरुद्धार्थबोधको गुणवाद १ ग. भाडाः । २ ग. °ति प्रभा । ३ ख. प्रस्थानप्र । ४ ख. उत्पाद्याऽऽप्य । ५ ख. मैं तदादिवि । ६ ख. कभेदमा । ७-ख. °कारकं द्वि। ८ ख. 'ङ्गसंयुक्तो वि° । ९ ख. °धिविभा। १. ग. °याया विौं । ११ ख. ग. 'धिशेष । Page #197 -------------------------------------------------------------------------- ________________ . . प्रस्थानभेदः। आदित्यो यूप इत्यादिः । प्रमाणान्तरप्राप्त्यर्थबोधकोऽनुवादोऽग्निहिमस्य भेष. जमित्यादिः । प्रमाणान्तरविरोधतत्माप्तिरहितार्थबोधको भूतार्थवाद इन्द्रो वृत्राय वनमुद्यच्छदित्यादिः । तदुक्तम् विरोधे गुणवादः स्यादनुवादोऽवधारिते। .. भूतार्थवादस्तद्धानादर्थवादस्त्रिधा मतः ॥ इति । तत्र त्रिविधानामप्यर्थवादानां विधिस्तुतिपरत्वे समानेऽपि भूतार्थवादानांस्वार्थेऽपि प्रामाण्यं देवताधिकरणन्यायात् । अबाधिताज्ञातज्ञापकत्वं हि प्रामाण्यम् । तचाबाधितविषयत्वाज्ज्ञातज्ञापकत्वाच्च न गुणवादानुवादयोः । भूतार्थस्य तु स्वार्थे तात्पर्यरहितस्याप्योत्सर्गिक प्रामाण्यं विहन्यते । तदेवं निरूपितोऽर्थवादभागः । विध्यर्थवादोभयविलक्षणं तु वेदान्तवाक्यम् । तच्चाज्ञातज्ञापकत्वेऽप्यनुष्ठानामतिपादकत्वान्न विधिः । स्वतः पुरुषार्थपरमानन्दज्ञानात्मकब्रह्मणि , स्वार्थ उपक्रमोपसंहारादिषड्विधतात्पर्यलिङ्गवत्तया स्वतः प्रमाणभूतं सर्वानपि विधीनन्तःकरणशुद्धिद्वारा स्वविशेषतामापादयदन्यशेषत्वाभावाच । तस्मादुभयविलक्षणमेव वेदान्तवाक्यम् । तच्च कचिदज्ञातज्ञापकत्वमात्रेण विधिरिति व्यपदिश्यते । कंचिदविधिपदरहितप्रमाणवाक्यत्वेन भूतार्थवाद इति व्यवहियत इति न दोषः । तदेवं निरूपितं त्रिविधं ब्राह्मणम् । . . एवं च कर्मकाण्डब्रह्मकाण्डात्मको वेदो धर्मार्थकाममोक्षहेतुः । स च प्रयोगत्रयेण यज्ञनिर्वाहार्थमृग्यजुःसामभेदेन भिन्नः । तत्र हौत्रप्रयोग ऋग्वेदेन, आध्वर्यवप्रयोगो यजुर्वेदेन, औद्गात्रप्रयोगः सामवेदेन । ब्रामयाजमानप्रयोगौ त्वत्रैवान्तर्भूतौ । अथर्ववेदस्तु यज्ञानुपयुक्तः शान्तिक. पौष्टिकाभिचारादिकर्मप्रतिपादकत्वेनात्यन्तविलक्षण एव । एवं प्रवचनभेदात्मतिवेदं भिन्ना भूयस्यः शाखाः । एवं च कर्मकाण्डे व्यापारभेदेऽपि , सर्वासां वेदशाखानामेकरूपत्वमेव ब्रह्मकाण्डे । . इति चतुर्णा वेदानां प्रयोजनभेदेन भेद उक्तः । अथाङ्गनामुच्यते । तत्र शिक्षाया उदात्तानुदात्तस्वरितहस्वदीर्घप्लतादिविशिष्टस्वरव्यञ्जनात्मकवर्णोचारविशेषज्ञानं प्रयोजनम् । तदभावे मन्त्राणामनर्थकत्वात् । तथा चोक्तम्- . मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह । स वाग्यज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् (शि०५२) इति । १ ग. °न्दो वजहस्तः पुरंदरः । त° । २ ख. 'नां स्तु। ३ क. तम्ब बा । ४ ख. र्थवादस्य । ५ ख. स्वशे । ६ ख. च नार्थवादः । त°। ७ ख. "मवेदैभिन्नः। ८ ख ग. गाथाः। ९ ख. पमेव ब्रह्मकाण्डमिति । १० ख. ङ्गानां प्रयोजनमु। Page #198 -------------------------------------------------------------------------- ________________ मधुसूदनसरस्वतीकृतौ___ सत्र सर्ववेदसाधारणी शिक्षा । अथ शिक्षा प्रवक्ष्यामीत्यादिपश्चखण्डास्मिका पाणिमिमा प्रकाशिता । प्रतिवेदशाखं च भिन्नरूपा प्रातिशाख्यसंज्ञिताऽन्यैरेवः मुनिभिः प्रदर्शिता । एवं वैदिकपद सापुत्वज्ञानेनोहादिकं व्याकरणस्य प्रयोजनम् । तच्च वृद्धिरादैजित्याधध्यायाष्टकात्मकं महेश्वरप्रसादेन भगवता पाणिनिनैव विरचितम् । पाणिनीयसूत्रेषु कात्यायनेन मुनिना वार्तिकं विरचितम् । तद्वातिकस्योपरि च भगवता पतञ्जलिना महाभाष्यमारचि । तदेतत्रिमुनि व्याकरणं वेदाङ्ग माहेश्वरमित्याख्यायते । कौमारादिव्याकरणानि तु न वेदाङ्गामि किंतु लौकिकमयोगमात्रज्ञानार्थीनीत्यवगन्तव्यम् । एवं शिक्षाब्याकरणाभ्यां वर्णोच्चारणपदसाधुत्वे ज्ञाते वैदिकमन्त्रपदानामर्थज्ञानाकाङ्क्षायो तदर्थ भगवता यास्केन समाम्नायः समाम्नातः, स व्याख्यातव्य ईत्यादित्रयोदशाध्यायात्मकं निरुक्तमारचितम् । तत्र च नामाख्यातनिपातोपस. र्गभेदेन चतुर्विध पदजातं निरूप्य वैदिकमन्त्रपदार्थानामर्थः प्रकाशितः । मन्त्राणां चानुष्ठेयार्थप्रकाशनद्वारेणैव करणत्वात्पदार्थज्ञोनाधीनत्वाच्च वाक्यार्थज्ञानस्य मन्त्रस्थपदार्थज्ञानाय निरुक्तमवश्यमपेक्षितम् । अन्यथाऽनुष्ठानासंभवात् । मृण्येव जरी तुर्फरी तू इत्यादिदुरूहाणां शब्दानां (निरु० १३--५) प्रकारान्तरेणार्थज्ञानस्यासंभवनीयत्वाच्च । एवं निर्घण्टवोऽपि वैदिकद्रव्यदेवतात्मकपदार्थपर्यायशब्दात्मका निरुक्तान्तर्भूना एव । तत्रापि निघण्टुसंज्ञकः पश्चाध्यायात्मको ग्रन्थो भगवता यास्केनैव कृतः। एवमङ्मन्त्राणां पादबद्धच्छन्दोविशेषविशिष्टत्वात्तदज्ञाने च निन्दाश्रवणाच्छन्दोविशेषनिमित्तानुष्ठानविशेषविधानाच्च । छन्दोज्ञानाकाङ्क्षायां तत्सकाशनाय धीः श्रीः स्त्रीमित्याद्यष्टाध्यायात्मिका छन्दोवितिर्भगवता पिङ्गलेन विर. चिता । तत्राप्यलौकिकमित्यन्तेनाध्यायत्रयेण गायत्र्युष्णिगनुष्टुब्बृहती पङ्क्तिनिष्टुब्जगतीति सप्त च्छन्दांसि सावान्तरभेदानि निरूपितानि । अथ लौकिकमित्यारभ्याध्यायपञ्चकेन पुराणेतिहासादावुपयोगीनि लौकिकानि च्छन्दांसि प्रसङ्गानिरूपितानि व्याकरणे लौकिकपदनिरूपणवत् । एवं वैदिककाङ्गन्दादिकालज्ञानाय ज्योतिषं भगवताऽऽदित्येन गर्गादिभिश्व प्रणीतं बहुविधमेवे । शाखान्तरीयगुणोपसंहारेण वैदिकानुष्ठानक्रमविशेषज्ञानाय कल्पसूत्राणि । तामि च प्रयोगत्रयभेदात्रिविधान । तत्र हौत्रप्रयोगप्रतिपादकान्याश्वलायन ख. हापोहादि । २ ख. °सादादेव भ । ३ ख. 'धुत्वज्ञाने वै । ४ ख. इत्यष्टाद।५ ख. झामस्य । ६ . °घण्टुरपि । ७ ख. णां पद । ८ ख. येणेति । ९ ख. व । एवं शा। १० ख. 'न सांख्यय । ग. "नसांख्याय । घ. नशांख्याय । Page #199 -------------------------------------------------------------------------- ________________ प्रस्थानभेदः । शाखायनादिप्रणीतानि । आध्वर्यवप्रयोगप्रतिपादकानि बौधायनापस्तम्बकात्यायनादिप्रणीतानि । औद्गात्रप्रयोगप्रतिपादकानि लाट्यायनद्राशायणादिप्रणीतानि । एवं निरूपितः षण्णामङ्गानां प्रयोजनभेदः। चतुर्णामुपाङ्गानमधुनोच्यते । तत्र सर्गप्रति सर्गवंशमन्वन्तरवंशानुचरितप्रतिपादकानि भगवता बादरायणेन कृतानि पुराणानि । तानि च ब्राह्म पानं वैष्णवं शैवं भागवतं नारदीयं मार्क ण्डेयमाग्नेयं भविष्यं ब्रह्मवैवर्त लैङ्गं वाराहं स्कान्दं वामनं कौम मात्स्यं गारुडं ब्रह्माण्डं चेत्यष्टादश । आद्यं सनत्कुमारेण प्रोक्तं वेदविदां वराः । द्वितीयं नारसिंहाख्यं तृतीयं नान्दमेव च ॥ चतुर्थ शिवधर्माख्यं दौर्वासं पञ्चमं विदुः। षष्ठं तु नारदीयाख्यं कॉपिलं सप्तमं विदुः ॥ .... अष्टमं मानवं प्रोक्तं ततश्चोशनसेरितम् । ततो ब्रह्माण्डसंज्ञं तु वारुणाख्यं ततः परम् ।। ततः कालीपुराणाख्यं वासिष्ठं मुनिपुंगवाः । ततो वासिष्ठं लैङ्गाख्यं प्रोक्तं माहेश्वरं परम् ।। तंतः साम्बपुराणाख्यं ततः सौरं महाद्भतम् । पाराशरं ततः प्रोक्तं मारीचाख्यं ततः परम् ॥ भार्गवाख्यं ततः प्रोक्तं सर्वधर्मार्थसाधकम् । एवमुपपुराणान्यनेकप्रकाराणि द्रष्टव्यानि । न्याय आन्वीक्षिकी पश्चाध्यायी गौतमेन प्रणीता। प्रमाणप्रमेयसंशयप्रयोजनदृष्टान्तसिद्धान्तावयवतर्कनिर्णयवादजल्पवितण्डाहेत्वाभासच्छलजातिनिग्रहस्थानाख्यानां षोडशपदार्थानामुदेशलक्षणपरीक्षाभिस्तत्त्वज्ञानं तस्याः प्रयोजनम् । एवं दशाध्यायं वैशेषिकं शास्त्रं कणादेन प्रणीतम् । द्रव्यगुणकर्मसामान्यावि. शेषसमवायानां षण्णां पदार्थानामभावसप्तमानां साधयवैधाभ्यां व्युत्पा' दनं तस्य प्रयोजनम् । एतदपि न्यायपदेनोक्तम् । एवं मीमांसाऽपि द्विविधा । कर्ममीमांसा शारीरकमीमांसा च । तत्र द्वाद १ क. द्राहळ्याय । २ म. °यं नन्दिमे । ३ ख. स्मृतम् । ४ क. वाशिष्टं। ५ क. घ. वाशिष्ठं । ६ ख. बशिष्ठलैङ्गाख्यं । ७ ग. पराशरं। ८ ख. °क्तं ततो भागवतं परम् । ए । ९ ख, निर्मितम् । Page #200 -------------------------------------------------------------------------- ________________ मधुसूदनसरस्वतीकृतीशाध्यायी कर्ममीमांसा 'अथातो धर्मजिज्ञासा' इत्यादि अन्वाहार्ये च (१६ ) दर्शनात्' इत्यन्ता भगवता जैमिनिना प्रणीता । तत्र धर्मप्रमाणम् । धर्मभेदाभेदौ। शेषशेषिभावः । क्रत्वर्थपुरुषार्थभेदेन प्रयुक्तिविशेषः । श्रुत्यर्थपठनादिभिः क्रम भेदः । अधिकारविशेषः सामान्यातिदेशः । विशेषातिदेशः । ऊहः । बाधः । तन्त्रम् । प्रसङ्गश्चेति क्रमेण द्वादशाध्यायानामर्थाः । तथा संकर्षणकाण्डमप्य. ध्याय चतुष्टयात्मकं जैमिनिप्रणीतम् । तच्च देवताकाण्डसंज्ञया प्रसिद्धमप्युपासनाख्यकर्मप्रतिपादकत्वात्कर्ममीमांसान्तर्गतमेव । तथा चतुरध्यायी शारीरकमीमांसा ' अथातो ब्रह्मजिज्ञासा' इत्यादिरनावृत्तिः शब्दादित्यन्ता जीवनीका त्वसाक्षात्कारहेतुःश्रवणाख्यविचारप्रतिपादकान्यायानुपदर्शयन्ती भगवता बाद. रायणेन कृता । तत्र सर्वेषामपि वेदान्तवाक्यानां साक्षात्परम्परया वा प्रत्यगभिन्नाद्वितीये ब्रह्मणि तात्पर्यमिति समन्वयः प्रथमाध्यायेन प्रदर्शितः । तत्र च प्रथमे पादे स्पष्टब्रह्मलिङ्गन्युक्तानि वाक्यानि विचारितानि । द्वितीये त्वस्पष्टलिङ्गान्युपास्यब्रह्मविषयाणि तृतीये पादेऽस्पष्टब्रह्मलिङ्गानि प्रायशो ज्ञेयबह्मविषयाणि । एवं पादत्रयेणे वाक्यविचारः समापितः । चतुर्थपादे तु प्रधानविषयत्वेन संदिद्यमानान्यव्यक्ताजादिपदानि चिन्तितानि । एवं वेदान्तानामये ब्रह्मणि समन्वये सिद्ध तत्र संभावितस्मृतितर्कादिप्रयुक्तस्तकविरोधमाशङ्कन्ध तत्परिहारः क्रियत इत्यविरोधो द्वितीयाध्यायेन दर्शितः । तत्राऽऽद्यपादे सांख्ययोगकाणादादिस्मृतिभिः सांख्यादिप्रयुक्तैस्तश्च विरोधो वेदा: न्तसमन्वयस्य परिहतः । द्वितीये पादे सांख्यादिमतानां दुष्टत्वं प्रतिपादितम् । स्वपक्षस्थापनपरपक्षनिवारणरूपपर्वद्वयात्मकत्वाद्विचारस्य । तृतीये पादे महाभूतसृष्ट्यादिश्रुतीनां परस्परविरोधः पूर्वभागेण परिहृतः । उत्तरभागेण तु जीवविषयाणाम् । चतुर्थपादे विन्द्रियविषयश्रुतीनां विरोधः परिहंतः। तृतीयेऽध्याये साधननिरूपणम् । तत्र प्रथमे पादे जीवस्य परलोकगमनागमननिरूपणेन वैराग्यं निरूपितम् । द्वितीये पादे पूर्वभागेण पदार्थः शोधितः । उत्तरभागेण तत्पदार्थः । तृतीये पादे निर्गुणे ब्रह्मणि नानाशाखापठितपुनरुक्तपदोपसंहारः कृतः । प्रसङ्गाच्च सगुणनिर्गुणविद्यासु शाखान्तरीयगुणोपसंहीरानुपसंहारौ निरूपितो । चतुर्थे पादे निर्गुणब्रह्मविद्याया बहिरङ्ग साधनान्याश्रमयज्ञादीन्यन्तरङ्गसाधनानि शमदमनिदिध्यासनादीनि च निरूपितानि । चतुर्थेऽध्याये सगुणनिर्गुणविद्ययोः फलविशेषनिर्णयः कृतः । तत्र प्रथमे पादे १ ग. 'हार्य च । २ ख. दिना । ३ ख. लिङ्गायु। ४ ख. 'टब्रह्मलि। ५ ख. 'ण वि। ६ ग. 'ह्य सामान्य । ७ ख. कैंश्च विरोधो । ८ ग. °त्मकाद्वि' । ९ ख. रोधपरिहारः । तृ' । १० ग. हारौ। Page #201 -------------------------------------------------------------------------- ________________ प्रस्थानभेदः। श्रवणायावृत्त्या निर्गुणं ब्रह्म साक्षात्कृत्य जीवतः पापपुण्यालेपलक्षणा जीव. न्मुक्तिरभिहिता । द्वितीये पादे म्रियमाणस्योत्क्रान्तिप्रकारश्चिन्तितः। तृतीये पादे सगुणब्रह्मविदो मृतस्योत्तरमार्गोऽभिहितः । चतुर्थे पादे पूर्वभागेण निर्गु. णब्रह्मविदो विदेहकैवल्यप्राप्तिरुक्ता । उत्तरभागेण सगुणब्रह्मविदो ब्रह्मलोकस्थितिक्तेति । इदमेव सर्वशास्त्राणां मूर्धन्यम् । शास्त्रान्तरं सर्वमस्यैष शेषभूतामिनीदमेव मुमुक्षुभिरादरणीयं श्रीशंकरभगवत्पादोदितप्रकारेगेति रहस्यम्। एवं धर्मशास्त्राणि मनुयाज्ञवल्क्यविष्णुयमाङ्गिरोवसिष्ठदक्षसंवर्तशातातपपसशरगौतमशङ्खलिखितहारीतापस्तम्बोशनोव्यासकात्यायनबृहस्पतिदेवलमारदपै. ठीनसिपमतिभिः कृतानि वर्णाश्रमधर्मविशेषाणां विभागेन प्रतिपादकानि । एवं व्यासकृतं महाभारतं वाल्मीकिकृतं रामायणं च धर्मशास्त्र एवान्तर्भूतं स्वयमितिहासत्वेन प्रसिद्धम् । सांख्यादीनां धर्मशास्त्रान्तर्भावेऽपीह स्वशब्देनैव निर्दे. शात्पृथगेव संगतिर्वाच्या। ___ अथ वेदचतुष्टयस्य क्रमेण चत्वार उपवेदाः । तत्राऽऽयुर्वेदस्याष्टौ स्थानानि भवन्ति । सूत्र शारीरमन्द्रियं चिकित्सा निदानं विमानं विकल्पः सिद्धिश्चेति । ब्रह्मप्रजापत्यश्विधन्वन्तरीन्द्रभरद्वाजात्रेयाग्निवेश्यादिभिरुपदिष्टश्चरकेण संक्षिप्तः । तत्रैव सुश्रुतेन पञ्चस्थानात्मकं प्रस्थानान्तरं कृतम् । एवं वाग्भटादिनाअपि बहुधति न शास्त्रभेदः । कामशास्त्रमप्यायुर्वेदान्तर्गतमेव । तत्रैव सुश्रुतेन वाजीकरणाख्यकामशास्त्राभिधानात् । तत्र वात्स्यायनेन पञ्चाध्यायात्मकं कामशास्त्रं प्रणीतम् । तस्य च विषयवैराग्यमेव प्रयोजनम् । शास्त्रोद्दीपितमार्गेणापि विषयभोगे दुःखमात्रपर्यवसानात् । चिकित्साशास्त्रस्य रोगतत्साध रोगनिवृ. तितत्साधुतज्ञान प्रयोजनम् । एवं धनुर्वेदः पादचतुष्टयात्मको विश्वामित्रप्रणीतः । तत्र प्रथमो दीक्षापादः । द्वितीयः संग्रहपादः। तृतीयः सिद्धिपादः । चतुर्थः प्रयोगपादः। तत्र प्रथमे पादे धनुलक्षणमधिकारिनिरूपणं च कृतम् । अत्र धनुःशब्दश्चापे रूढोऽपि धनुर्विघायुधे प्रवर्तते । तच्चतुर्विधम्-मुक्तममुक्तं मुकामुक्तं यन्त्रमुक्तम् । मुक्तं चक्रमादि । अमुक्तं खड्गादि । मुक्तामुक्तं शल्यावान्तरभेदादि । यन्त्रमुक्तं शरादि। सत्र मुक्तमस्त्रमुच्यते । अमुक्तं शस्त्रमित्युच्यते । तदपि ब्राह्मवैष्णवपाशुपतप्राजा. पत्यानेयादिभेदादनेकविधम् । एवं साधिदैवतेषु समन्त्रकेषु चतुर्विधायुधेषु येषामधिकारः क्षत्रियकुमाराणां तदनुयायिनां च ते सर्वे चतुर्विधाः पदाति १ ख. २ च स । २ ख. 'क्षुणाऽऽद । ३ ख. स्त्रमध्य ए°। ४ ख. त्रं शरी° । ५ ख. चप्रस्था । ६ ख. "हुविशेषीति । ७ ख. 'ननि' । ८ ख. धनं ज्ञानप्र । ९ ख. °पि चतुर्वि । १० ख मुक्तं च मु। ११ ग. शक्त्यावा । Page #202 -------------------------------------------------------------------------- ________________ मधुसूदनसरस्वतीकृतीरथगजतुरुगारूढाः । दीक्षाभिषकशकुनमङ्गलकरणादिकं च सर्वमपि प्रथमे पादे निरूपितम् । सर्वेषां शस्त्रविशेषाणामाचार्यस्य च लक्षणपूर्वकं संग्रहणमकारो दर्शितो द्वितीयपादे । गुरुसंप्रदायसिद्धानी शस्त्रविशेषाणां पुनः पुनरभ्यासो मन्त्रदेवतासिद्धिकरणमपि निरूपितं तृतीयपादे । एवं देवतार्चनाभ्यासादिभिः सिद्धानामस्त्रविशेषणां प्रयोगश्चतुर्थपादे निरूपितः । क्षत्रियाणां स्वधर्माचरणं युद्धम् । दुष्टस्य दण्डचोरादिभ्यः प्रजापालनं च धनुर्वेदस्य प्रयोजनम् । एवं च ब्रह्मप्रजापत्यादिक्रमेण विश्वामित्रप्रणीतं धनुर्वेदशास्त्रम् । । एवं गान्धर्ववेदो भगवता भरनेन प्रणीतः स गीतवाद्यनृत्यभेदेन बहुविधः। देवताराधनं निर्विकल्पकसमाध्यादिसिद्धिश्च गान्धर्ववेदस्य प्रयोजनम् । ' एवमर्थशास्त्रमपि बहुविधम् । नीतिशास्त्रमश्वशास्त्रं शिल्पशास्त्रं सूपशास्त्रं चतुःषष्ठिकलाशास्त्रं चेति । तत्स नानामुनिभिः प्रणीतम् । अस्य च सर्वस्य लौकिकवत्प्रयोजनभेदो द्रष्टव्यः । · · एवमष्टादश विद्यास्त्रयाशब्देनोक्ताः । अन्यथा न्यूनताप्रसङ्गात् । तथा सांख्यशास्त्रं भगवता कपिलेन प्रणीतम्। तच्च 'अथ त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः' इत्यादि षडध्यायम् । तत्र प्रथमेऽध्याये विषया निरूपिताः । द्वितीयेऽध्याये प्रधानकार्याणि । तृतीयेऽध्याये विषयेभ्यो वैराग्यम् । चतुर्थेऽ. ध्याये विरक्तानां पिङ्गलाकुरवादीनामाख्यायिकाः। पञ्चमेऽध्याये परपक्षनिर्णयः। षष्ठेऽध्याये सर्वार्थसंक्षेपः । प्रकृतिपुरुषविवेकज्ञानं सांख्यशास्त्रस्य प्रयोजनम् । तथा योगशास्त्रं भगवता पतञ्जलिना प्रणीतम् । अथ योगानुशासनमि. त्यादि पादचतुष्टयात्मकम् । तत्र प्रथमे पादे चित्तवृत्तिनिरोधात्मकः समाधिरभ्यासवैराग्यरूपं च तत्साधनं निरूपितम् । द्वितीये पादे विक्षिप्तचित्तस्यापि समाधिसिद्धयर्थं यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधय इत्यष्टाङ्गानि निरूपितानि । तृतीये पादे योगिविभूतयः । चतुर्थे पादे कैवल्यमिति । तस्य च विजातीयप्रत्ययनिरोधद्वारेण निदिध्यासनसिद्धिः प्रयोजनम् । , तथा पशुपतिमतं पाशुपतं शास्त्रं पशुपतिना पशुपाशविमोक्षणाय 'अथातः पाशुपतं योगविधि व्याख्यास्यामः' इत्यादि पश्चाध्यायं विरचितम् । तत्राध्या यपञ्चकेनापि कार्यरूपो जीवः । पशुः कारणं पतिरीश्वरः । योगः पशुपती चित्तसमाधानम् । विधिर्भस्मना त्रिषवणस्नानादिश्च निरूपितः । दुःखान्तसंज्ञो १ ख. निरूपणम् । २ ख. 'नां शास्त्र । ग. °नां पु । ३ ग. °णं दु । ४ ख. ग. 'टदस्यु. चोरा । ५ ख. °वं गन्ध । ६ ख. यीविद्याश° । ७ ख. ग. °ररादी । ८ ख. त्तनिवृ । ९ ख. योगविकृत । १० ख, स्त्रं भगवता प । ११ ख. केन का। १२ ख. वः का । १३ ख. पोगप। १४ ग, °न्तरसं। Page #203 -------------------------------------------------------------------------- ________________ प्रस्थानभेदः। मोक्षश्च प्रयोजनम् । एत एव कार्यकारणयोगविधिदुःखान्ता इत्याख्यायन्ते । एवं वैष्णवं नारदादिभिः कृतं पश्चरात्रम् । तत्र वासुदेवसंकर्षणप्रद्युम्नानिरुद्धाश्चत्वारः पदार्था निरूपिताः । भगवान्वासुदेवः सर्वकारणं परमेश्वरः । तस्मादुत्पद्यते संकर्षणाख्यो जीवः । तस्मान्मनः प्रद्यन्नः। तस्मादनिरुद्धोऽहंकारः। सर्वे चैते भगवतो वासुदेवस्यैवांशभूताः । तदभिन्ना एवेति भगवतो वासुदे. वस्य मनोवाकायवृत्तिभिराराधनं कृत्वा कृतकृत्यो भवतीत्यादि च निरूपितम् । तदेवं दर्शितः प्रस्थानभेदः । सर्वेषां च संक्षेपेण त्रिविध एव प्रस्थानभेदः । तत्राऽऽरम्भवाद एकः । परिणामवादो द्वितीयः । विवर्तवादस्तृतीयः । पार्थिवाप्यतैजसवायवीयाश्चतुर्विधाः परमाणको ब्यणुकादिक्रमेण ब्रह्माण्डपर्यन्तं जगदारभन्ते । असदेव कार्य कारकव्यापारादुत्पद्यत इति प्रथमस्तार्किकाणां, मीमांसकानां च सत्त्वरजस्तमोगुणात्मकं प्रधानमेव महदहंकारादिक्रमेण जग. दाकारेण परिणमते । पूर्वमपि सूक्ष्मरूपेण सदेव कार्य कारणव्यापारेणाभिव्यज्यत इति द्वितीयः पक्षः सांख्ययोगपातञ्जलपाशुपतानाम् । ब्रह्मणः परिणामो जगदिति वैष्णवानाम् । स्वप्रकाशपरमानन्दाद्वितीयं ब्रह्म स्वमायावशान्मिथ्यैव जगदाकारेण कल्पत इति तृतीयः पक्षो ब्रह्मवादिनाम् । सर्वेषां प्रस्थानकर्तृणां मुनीनां विवर्तवादपर्यवसानेनाद्वितीये परमेश्वर एव प्रतिपाद्ये तात्पर्यम् । न हि ते मुनयो भ्रान्ताः सर्वज्ञत्वात्तेषाम् । किंतु बहिर्विषयप्राणानामापाततः पुरुषार्थे प्रवेशो न संभवतीति नास्तिक्यवारणाय तैः प्रकारभेदाः प्रदर्शिताः । तत्र तेषां तात्पर्यमबुद्धवा वेदविरुद्धेऽप्यर्थे तात्पर्यमुत्प्रेक्ष्यमाणास्तन्मतमेवोपादेयत्वेन गृह्णन्तो जना नानापथजुषो भवन्तीति सर्वमनवयम् । इति श्रीमधुसूदनसरस्वतीविरचितः प्रस्थानभेदः॥ १ ख. पाश्चरात्रम् । २ ग. °णामी ज । ३ ख °म् । मायावच्छिन्नब्रह्मपरिणामो जगदिति शाकानां स्व । ४ ख. थें तेषां ता । Page #204 -------------------------------------------------------------------------- ________________ अथ सर्वदर्शनसंग्रहान्तर्गतश्लोकश्रुतिसूत्रभाष्यायवाक्य मन्थनाममन्थकारनामानुक्रमणिका । लोकायाः पृष्टाङ्काः। १३५ १२ "अमिचित्कपिला राजा पृष्ठाङ्काः । छोकामाः अपुरोक्षावभासेन - ८० अपि प्रयत्नसंपन्नम् १९ अप्रत्यक्षोपलम्भस्य अभिमानोऽहंकारः २४ अभ्रकस्तव बीजं तु ५३ अर्थानुपाय॑ बहुशो ३ अर्को ज्ञानान्वितो त्रैमा ११७ अङ्कन नामकरणम् अंसानालिङ्गानाजन्य १५० अथन घटयत्येनाम् १४६ 19/ अविद्या अझी जन्तुनीशोऽयम् अतत्त्वमिति वा छेदः अतिदूरोत्सामीप्यात अविद्यास्तमयो मोक्षः अविभागोऽपि बुद्धयात्मा | अवेगवेद्रकाकाराः | अव्याप्तसाधुनो यः अश्वस्यात्र हि शिश्नं तु अष्टकर्मक्षयान्मोक्षो असदकरणादुपादानग्रहणात् असत्वान्नास्ति संबन्धः असर्वप्रणीतात्तु अहंधियाऽऽत्मनः सिद्धेः ११९ . ११९ अथ तद्वन्नेनैव अथातःशब्दपवाणि -1- 2 0ty अधुवण निामत्तन. आ. अमवामृतं सर्व V V V W अनन्तश्चैव सूक्ष्मश्च अनन्तरं च रजतअनवच्छिन्नसद्भावम् अनात्मनि च देहादी अनादानमदत्तस्याअनादिद्वेषिणो दैत्याः अनादिनिधनं ब्रह्म अनादि भावरूपं यत् अनादेरागमस्याओं अनाधेयफलत्वेन अनुकूलेन तर्केण अनेकान्तं जगत्सर्वम् अनेकान्तात्मकं वस्तु अन्योन्यपक्षप्रतिपक्षभावात् प्राकारावांस्त्वं नियमानुपास्यो | आकारसहिता बुद्धिः आगमादः प्रमाणत्वे आगमेनानुमानेन आत्मा यदि भवेन्मेयः | आदावपेक्षाबुद्धथा हि ५३ आदाविन्द्रियसंनिकर्षघटनात् १११ आद्याननुगृह्य शिवो आद्यावाच्यविवक्षायाम् आयतनं विद्याना १५१ आरुरुक्षोर्मुनेर्योगम् ९६ | आर्द्रत्वं च घनत्वं च ३६ आसनादीनि संवीक्ष्य ३४ आसन्नं ब्रह्मणस्तस्य ३४ आस्रवो भवृहेतुः स्यात् MY V m V m ...fr Page #205 -------------------------------------------------------------------------- ________________ [२] पृष्ठाङ्काः श्लोक पृष्ठाङ्काः श्लोकाद्याः आस्रवः स्रोतसो द्वारम् आह नित्यपरोक्षं तु इत्थं तथा घटपटाइति गुह्यतमं शास्त्रम् इति धनशरीरभोगान् इति पाणिनिसूत्राणाम् इदमाकारवृत्त्यक्तइदमाद्यं पदस्थानम् इदं ज्ञानमुपाश्रित्य इदं रजतमित्यत्र इदं वस्तुबलायातम् इह भोग्यभोगसाधन ५५ एवमुक्तो नारदेन एवं गुणाः समानाः स्युः ७६ एवं बहरहः श्रौत২৮] Sলয়ন্ধিবাব ५९ एवं प्रमाता मायान्धः ओ. १६२ ओंकारश्चाथशब्दश्च ईश्वरश्चिदचिचेति ६७२ त . , ११ काश्चिदनगृह्य वितरति उत्तमः पुरुषस्त्वन्यः उत्पत्तिस्थितिसंहाराः उत्प्रेक्षेत हि यो मोहात् उपक्रमोपसंहारौ उपदेशोऽपि बुद्धस्य उपनीय तु यः शिष्यम् उपयनपयन्धर्मो उपाधिसंनिधिप्राप्त. उभयात्मकमत्र मनः १५४ कर्फमत्रसमप्रायः ११] करणेन नास्ति कृत्यम् । कर्तरि ज्ञातार स्वात्मन्यादिसिद्ध rape is कर्ता न तावदिह कोऽपि यथेच्छया वा कतोऽस्ति कश्चिज्जगतः स चैकः" कर्मण्येवाधिकारस्ते कर्मयोगेण देवेशि ५४ कर्मादिनिरपेक्षस्तु ५८ कल्पनापोढमभ्रान्तम् १०३. कवार्थस्तु तयोषिद्वन् २३ | कामतोऽकामतो वाऽपि १०० कार्यकारणभावाद्वा १२५ कालत्रये ज्ञातृकाले १५३ काश्यादिसर्वलिङ्गेभ्यः ११८ किंत मोहवशादस्मिन् किण्वादिभ्यः समेतेभ्यः __. १३८ कुसुमे बीजपूरादे कृतप्रणाशाकृतकर्मभोग५८ कृत्तिः कमण्डलुमौण्डयम् केदारादीनि लिङ्गानि ७३ को धन्यः पुण्डरीकाक्षात् . ६ क्रमेणोभयवाञ्छायाम् .. १६२ क्षणिकाः सर्वसंस्काराः । १३९ क्षाणाष्टकर्मणो मुक्तिः । ... . ग... ७२ गच्छतामिह जन्तूनाम् । ७९ गत्वा गत्वा निवर्तन्ते १३७ गम्भीरोत्तानभेदेन ।.. ऊर्ध्वं वह्निरधस्तोयम् ऋ. ऋग्यजुःसामाथर्वा च . REA5% एकवारं प्रमाणेन एकाकिनी प्रतिज्ञा हि एकाक्षरात्कृतो जातेः एकैकहानिस्तोयादेः एकोऽसौ रसराजः एको ह्यनेकशक्तिक एतेऽन्ये बहवः सिद्धाः एते यमाः सनियमाः Page #206 -------------------------------------------------------------------------- ________________ [३] लोकाद्याः पृष्ठाकाः १३ १५६ १६८ गर्भद्रुतिबाह्यद्वतिगालितानल्पविकल्पः गुणबुद्धिव्यबुद्धया गुरुभाक्तः प्रसादश्च गुरुजनो गुहादेशः गुणे द्रव्यव्यपेक्षेच गोविन्दभगवत्पादाग्रहणस्मरणे चेमे प्राचं वस्तु प्रमाणं हि १४० .. घटोस्तीति न वक्तव्यम् घातयन्ति हि राजानो ८२ चक्षुराद्युक्तविषयम् चञ्चलं हि मनः कृष्ण चिदचिवे परे तत्त्वे चिन्ता प्रकृतसिद्धयर्थाम् चेतनालक्षणो जीवः चैतन्यं दृक्रियायुक्तम् १३४ १०६ ११५ .१०६ पृष्ठाङ्काः श्लोकाद्याः .. ८० तथा कृतव्यवस्थेयम् ८१ तथाऽपि भिन्ने नाऽऽभाते ८७ तदद्वैतश्रुतेस्तावत् ६१ तदैक्येन विना नास्ति ६१ तद्रूपप्रत्ययैकाग्या . १५६ तद्वारमपवर्गस्य "७९ तद्वपुः पञ्चभिर्मन्त्रै १५६ तद्विधानविवक्षायाम् : १८ तदर्चाविभवव्यूह | तदर्थे लीलया स्वीयाः ३४ तदेव वासुदेवाख्यम् ५२ तन्मात्रविषया वाऽपि तमद्भुतं बालकमम्बुजेक्षणम् ३ तरत्यविद्यां वितताम् - १२९ तर्पणं दीपनं गुप्तिः - २७| तस्माद्गुणेभ्यो दोषाणाम् • ९९ तस्माच्छक्तिविभागेन ३५ तस्मात्सद्बोधकत्वेन -- ६८ तस्मिन्नाधाय मनः तस्मिन्प्रसन्ने किमिहास्त्यलभ्यम् तस्मिन्सतीदमस्तीति ११४ | तस्य प्रसाधनविधौ ३५ तात्त्विकं ब्रह्मणः सत्त्वम् ४१ तां प्रातिपदिकार्थे च ८१ तारमायारमायोग ६५ तारव्योमाग्निमनुयुक् २७/ सासामहं वरा शक्तिः १८ तृतीये कोपसंतापौ ६० तेन मायासहस्रं तत् | तेनान्यस्यान्यथा भासः ५ तेषां सततयुक्तानाम् १५६ तैस्तैरप्युपयाचितैरुपनतः ४६ त्याज्यं सुखं विषयसंगमजन्म पुसाम् ७५ त्रयो वेदस्य कतारो १५७ त्रिगुणो द्विगुणो वायुः ६९ त्रिपदार्थ चतुष्पादम् ७१ त्वं पुरा सागरोत्पन्नो जननं जीवनं चैव जातिमन्ये क्रियामाहुः जीवाजीची पुण्यपाप जीवं देवादिशब्दो ज्ञातृशेयमिदं विद्धि ज्ञानमात्रे वृथा शास्त्रम् ज्ञानाद्भिनो न नाभिन्नो ज्ञानोन्द्रयाणि पञ्चैव ज्ञानं तपोऽथ नित्यत्वम् ११४ १३५ .१३५ १३९ ततश्च जीवनोपायः ततो भिन्ने अबुद्ध्वा च ततो स्वाभाविकाः पुंसाम् तत्र ज्ञानं स्वतःसिद्धम् तत्र तन्मात्रार्येयम् तत्राऽऽद्यो मलमात्रेण तत्राष्टौ मण्डलिनः तत्त्वाभ्यां भूजलाभ्यां स्यात् तत्स्यादालयविज्ञानम् - १५/ दक्षिणे तु करे विप्रो Page #207 -------------------------------------------------------------------------- ________________ [४] पृष्टाङ्काः ११३ १४६ श्लोकाद्याः . . दर्शनात्स्पर्शनात्तस्य दह्यन्ते ध्मायमानानाम् दाता भोगपरः समग्रविभवो दिव्यौदरिककामानाम् दुःखमायतनं चैव दुःखं संसारिणः स्कन्धाः दृष्टचैत्रसुतोत्पत्तेः दृष्टमनुमानमाप्तदेवाः कोचिन्महेशाद्याः देवो मनुष्यो यक्षो वा देशना लोकनाथानाम् देहः स्थौल्यादियोगाच देहात्मप्रत्ययो यद्वत् दोषेण कर्मणा वाऽपि द्रव्यं कालः क्रिया मूर्तिः द्रव्यं नानादशावत् द्रव्याद्रव्यप्रभेदान्मितमुभयविधम् द्वाविमौ पुरुषौ लोके द्विचत्वारिंशता भिक्षाद्वित्वाख्यगुणधीकाले द्वित्वे च पाकजोत्पत्ती द्विधा कैश्चित्पदं भिन्नम् पृष्ठाङ्काः / श्लोकाद्याः ८२ / नादैराहितबीजायाम् १३९ नानावर्णो भवेत्सूतो १७० नान्यदृष्टं स्मरत्यन्यः . २६ नान्योऽनुभाव्यो बुद्धयाऽस्ति १८ नामधात्वर्थयोगे तु १८ नासतो विद्यते भावो १५२ नित्यज्ञानाश्रयं वन्दे | निपाताश्चोपसर्गाश्च ७९ निरुपादानसंभार| निरूढा लक्षणाः काश्चित् | नीचानां वप्ततौ तदीयतनयः नीलिमेव वियत्येषा न्यस्यान्तःस्थपृथिव्यादि- . न्यायानामेकनिष्ठानाम् य धर्मस्य तदतद्रूपधीधना. बाधनायास्या १५५ ११४ न चाऽऽरमविधिः । न चान्यार्थप्रधानस : न द्वयोरस्ति तादाल: नन्वत्र रजताभासः न प्रकाश्यं प्रमाणेन न यत्प्रमादयोगेन न याति न च तत्राऽऽसीत् न सतः कारणापेक्षा न स्वो मापवर्गो न ह्यसंनिहितं तावत् न हि कश्चित्क्षणमपि नाकमिष्टर यान्ति पञ्चकास्त्वष्ट विज्ञेया पञ्चविधं तत्कृत्यम् पञ्चेन्द्रियाणि शब्दाद्याः पतिविद्ये तथाऽविद्या परमानन्दैकरसम् परस्परविरोधे हि परिच्छेदान्तराद्योऽयम् परिपक्कमलानेतान् ५७ परिव्राटकामुकशुनाम् परिशेषात्स्मृतिरिति पर्यायाणां प्रयोगो हि . २२/ पशवस्त्रिविधाः प्रोक्ताः २२ पशुश्चेनिहतः स्वर्गम् १७० पादाङ्गुष्ठौ निबध्नीयात् १५५ पारदो गदितो यस्मात् १५१ पारं गतं सकलदर्शनसागराणाम् . २६ पाशान्ते शिवताश्रुतेः १० पीतशावबोधे हि | पुत्रोत्पत्तिविपत्तिभ्याम् पुरःस्थिते प्रमेयाब्धौ | पुरुषः स परः पार्थ १२३ पुरुषस्म दर्शनार्थम् ११० पूर्वपूर्वोदितास्ति १५६ १५५ १२१ ४६ Page #208 -------------------------------------------------------------------------- ________________ श्लोकाद्याः पूर्वे व्यत्यासितस्याणोः पूर्वेषामतिदुस्तराणि पृथुव्यप्तेजोमरुद्व्योम पृथ्व्याः पलानि पञ्चाशत् प्रकृतिः प्रकृष्टकरणात् प्रकृतैर्महांस्ततोऽहंकारः प्रणवान्तरितान्कृत्वा प्रत्यक्षमनुमानं च प्रत्यभिज्ञा यदा शब्दे प्रत्येकं पञ्च तत्वानि प्रत्येकं सदसत्त्वाभ्याम् प्रथमस्तु हनूमान्स्यात् प्रथमं परतः प्राहुः प्रदीपः सर्वविद्यानाम् avat यदि विद्येत · प्रमाणत्वाप्रमाणत्वे प्रमाणदोष संस्कार प्रमाणवत्त्वादायातः प्रमाणान्तरसामान्य प्रमादाद्रसनिन्दायाः प्रयोजनमनुद्दिश्य प्रयोजनं तु यज्जाः प्रलयालेषु येषाम् प्रवाह कालसंख्येयम् प्रवृत्तिर्वा निवृत्तिर्वा प्रसन्नात्मा हरिभक्त्या प्रसुप्तास्तव लीनानाम् प्राणायामेन पवनम् प्रबलं कर्म प्रियं पथ्यं वचस्तथ्यम् शेषान् भोगोपभोगान्तम् बाधकप्रत्ययस्यापि बांधिकैव श्रुतिर्नित्यम् 'बालः षोडशवर्षो बुद्धीन्द्रियाणि चक्षुः बुद्धया विविच्यमानानाम् बौद्धानां सुगतो देवो [4] पृष्ठाङ्काः } श्लोकाद्याः ७१ ब्रह्मचर्यमहिंसां च १ ब्रह्महत्यां प्रमुच्येत १३९ १३८ | भक्तिलक्ष्मीसमृद्धानाम् ५३ भस्मकादिषु कार्यस्य ११८ | भारताध्ययनं सर्वम् १३४ | भावनाभिर्भावितानि १९ भावान्तरमभावो हि १९३ भावो यथा तथाऽभावः १३८ | भिन्नकालं कथं ग्राह्यम् १६३ भुङ्गे न केवली न स्त्री ५९ भेदाविमौ च सादृश्यात् १०४ श्रूयुगमध्यगतं यत् ९२ ५३ | मङ्गलानन्तरारम्भ १०४ मन्त्रवर्णान्समा लिख्य १५३ | मन्त्राणां दश कथ्यन्ते १९ | मलमायाकर्मयुतः ७ मलाद्यसंभवाच्छाम् ८२ महामायेत्यविद्येति ९६ मामुपेत्य पुनर्जन्म १०३ | माया विक्षिपदज्ञानम् म. ७० मायेत्युक्ता प्रकृष्टत्वात् १३८ | मितिः सम्यक्परिच्छित्तिः १५१ | मिथ्याज्ञानमधर्मश्च ४६ मिथ्याभावोऽपि तत्तुल्य१३१ | मुक्तात्मानोऽपि शिवाः " १४० मुक्तास्नु शेषिणि ब्रह्म ७१ | मुख्यं च सर्ववेदानाम् २६ मुख्यार्थबाधे तद्योगे | मूर्छितो हरति व्याधीन् ७१ | मूलप्रकृतिरविकृतिः ३४ | मृतानामपि जन्तूनाम् १५७ मेयं साधारणं मुक्तः १२६ ८१ य आत्मनीति वेदान्त ११७ | यच्चानुकूलमेतस्य ११ | यज्जरया जर्जरितम् १८ यत्नेनानुमितोऽप्यर्थः य. पृष्ठाङ्काः १३७ १६९ ૭૪ १५४ १०१ २६ ३८ १०५ १४ ३५ १३६ ८२ १२३ १३४ १३४ ६९ ६७ ५३ ર १६४ ५३ ९० ६० १५७ ६८ ४६ ५५ १३६ ८० ११७ ५ ७७ ४५ ५८ ८१ १६८ Page #209 -------------------------------------------------------------------------- ________________ ोकाचाः अन्न द्रष्टा च दृश्यं च यत्राप्यतिशयो दृष्टः य़नासौ विद्यते भावः यत्सूत्तत्क्षणिकं यथा जलधरः थानादिर्मस्तस्य यथा लोहे तथा देहे यथावस्थिततत्त्वानाम् यथा स्वप्रप्रपञ्चोऽयम् यदन्तर्ज्ञेयतत्वं तत् यदा चर्मवदाकाशम् यदि गच्छेत्परं लोकम् यदि चार्थे परित्यज्य योभयोः समो दोषः यस्मात्क्षरमतीतोऽहम् यस्मिन्नेव हि संताने. यस्व त्रीण्युदितानि वेदवचने : यस्यानवयवः स्फोटो यः स्यात्प्रावरणाविमोचनचियाम् या चैषां प्रतिभा तत्तत् यावज्जीवेत्सुखं जीवेत् यावज्जीवं सुखं जीवेत् यावन्तो यादृशा ये च ये वात्यक्तशरीरा योगिनामपि मृद्बीजे यो मामेवमसंमूढो . रङ्गस्य दर्शयित्वा रज विषयीकृत्य रसाङ्कमेयमार्गोको रागादिज्ञानसंतान रागादीनां गणो यस्मात् चिर्जिना तत्वेषु रुद्ध कीलित विच्छिन्न लब्धानन्तचतुष्कस्य लभ्यमाने फले दृष्टे ल. लाभा मला उपायाश्च लुश्चिताः पिच्छिका हस्ताः [ ६ ] पृष्ठाङ्काः | श्लोकाद्याः ११६ | लोकसिद्धो भवेद्राजा १०२ लोकातिवाहिते मार्गे १० लोकावगतसामर्थ्य१० | लोवेधस्त्वया देव ७२ | लौकिकव्यवहारेषु ८० लौकिकेन प्रमाणेन २५ ११६ वत्सविवृद्धिनिमित्तम् १४ वर्षातपाभ्यां किं व्योम्नः ८३ | वश्यता परमा तेन ५ | वसुधाद्यस्तत्वगणः १५४ वाक्येष्वनेकान्त द्योती १६० | वाच्या सा सर्वशब्दानाम् ५४ वायोर्वह्नेरपां पृथ्व्या २० | वारिबोजेन विधिवत् ५९ वासचर्या जपो ध्यानम् ११२ | वासुदेवः परं ब्रह्म ८३ वासुदेवः स्वभक्तेषु १७५ विकारापगमे सत्यम् १५ | विज्ञानाकलनामे कौ १ विज्ञानं स्वपराभासि ११२ | विधिनोक्तेन मार्गेण ७९ विनाऽपि विधिना दृष्ट ७६ | विभवोपासने पश्चात् ५४ विलिख्य मन्त्रवर्णास्तु विवर्तस्तु प्रपञ्चोऽयम् १२१ १५५ ८५ १९ १९ २५ १३५ व. विवादाध्यासितं सर्वम् वृद्धप्रयोग ह वेदस्याध्ययनं सर्वम् वेदान्नो वैदिकाः शब्दाः वैदिकेन प्रमाणे व्यक्ताऽव्यक्ता जया दानम् 'व्यवहारोऽपि तत्तुल्यः व्याघातावधिराशङ्का व्यावर्त्याभाववत्तैव ३५ व्यावर्तयितुमुपात्ता ९९ ६० | शक्तिरूपेण कार्याणि ३५ | शङ्खस्येन्द्रियदोषेण श. पृष्ठाडूका: ३१. १६७ १०८ 13 १२० १४० ७० ३३ ११६ १३५ १३५ ६० ૪૪ ४४ ११६ ६९ २५ १३३ ९८ ४५ १३४ १४५ ६.७ १३१ १०१ १०९ १६३ ६१ १५६ ६ १६१ ४ ७२ १५६ Page #210 -------------------------------------------------------------------------- ________________ [७] - पृष्ठाका: १३८ श्लोकाद्याः शतानि तत्र जायन्ते शब्दब्रह्मणि निष्णातः शब्दः स्पर्शस्तथा रूपम् शब्दादिष्वनुरक्तानि शुकीदमंशचैतन्यशुक्तिकाया विशेषा ये शुद्धेऽध्वनि शिवः कर्ता शेषा भवन्ति सकलाः शैवागमेषु मुख्यम् श्रीमत्सायणदुग्धाब्धिश्रुतिगम्याल्पतत्त्वं तु श्रुतिसाहाय्यरहितम् श्रुतिस्मृतिसहायं यत् श्रुत्योरङ्गुष्ठको मध्या ११४ १२६ k षट्केन युगपद्योगात् षट्त्रिंशद्गुरुवर्णानाम् षट्शतानि गणेशाय षट्दर्शनेऽपि मुक्तिस्तु १३२ पृष्ठाङ्काः | श्लोकाद्याः १३८ सर्वथाऽवद्ययोगानाम् ११६ सर्वभावेषु मूळयाः ७० सर्वेषामिह भूतानाम्..... . १४० सहस्रमेकं गुरवे सहोपलम्भनियमात् संकर्षणो वासुदेवः संचिन्त्य मनसा मन्त्रम् संपूज्य ब्राह्मणं भक्त्या : संबंन्धिभेदात्सत्तैव संयोगे योग इत्युक्तो संसारबीजभूतानाम् संसारस्य परं पारम् संस्कारा दश मन्त्राणाम् । साक्षात्कारिणि नित्ययोगिनि सात्त्विक एकादशकः । १३८ साधकस्य तु रक्षार्थम् १३८ सामान्यलक्षणं त्यक्त्वा , ७९ सारोपाऽन्या तु यत्रोक्तौ । सार्धं घटीद्वयं नाडयो ४६ सुदर्शन महाज्वाल १५९ सूत्रं वृत्तिर्विवृत्ति७५ सेतुं दृष्ट्वा विमुच्येत स्त्रीपुंनपुंसकत्वेन स्थानाद्वीजादुपष्टम्भात् १५६ स्फटिकं विमलं द्रव्यम्. स्मृत्याऽतो रजताभासः ११५ | स्यात्पुर्यष्टकमन्तः१२० स्याद्वादस्य प्रमाणे द्वे स्याद्वादः सर्वथैकान्तस्वतन्त्रं परतन्त्रं च स्वतन्त्रस्याप्रयोज्यत्वम् स्वतन्त्रोक्तविधानेन ३५ स्वभक्तं वासुदेवोऽपि . २३ स्वरूपपररूपाभ्याम् ६७ स्वर्गस्थिता यदा तृप्तिम् । २२ स्वसिद्धये पराक्षेपः २२ स्वाध्यायशौचसंतोष२२ स्वेदनमर्दनमूर्छन १३६ १३८ - १३४ १३१ ११४ १६२ १५५ स एव करुणासिन्धुः स एष चोभयात्मा यो स एव विमृशत्वेन सचिन्नित्यनिजाचिन्त्यसजातीयाः क्रमोत्पन्नाः सत्यपीतावभासेन सत्यमिथ्यात्मनोरैक्यात् सत्यं वस्तु तदाकारैः सत्त्वं तप्यं बुद्धिभावेन वृत्तम् सदागमैकविज्ञेयम् सदा शिवात्मना वेत्ति समाधावचला बुद्धिः समाधिः समतावस्था सरजोहरणा भैक्षसर्वज्ञसदृशं कंचित् सर्वज्ञः सर्वकर्तृत्वात् सर्वज्ञोक्ततया वाक्यम् सर्वज्ञो जितरागादिसर्वज्ञो दृश्यते तावत् १२४ १२७ १३४ १३७ ८० Page #211 -------------------------------------------------------------------------- ________________ श्रुतयः हास्यलोभभयक्रोधहिरण्यगर्भो योगस्य हिंसा रत्यरती रागहे हि कर्तृरागादि श्रुतयः अताः शर्करा उपदधाति अजामेकां लोहितशुक्लकृष्णाम् अणुरात्मा चेतसा वेदितव्यः अतप्ततनुर्न तदामो . अत्रायं पुरुषः स्वयंज्योतिर्भवति अथ यो वेदैदं जिघ्राणीति अध्यात्मयोगाधिगमेन देवम् अनुविद्य विजानाति अनृतेन हि प्रत्यूढाः अन्धं तमः प्रविशन्ति अन्धो मणिमविन्दत् असौ वा आदित्यो देवमधु अहमात्मा ब्रह्म आ. आत्मनस्तु कामाय सर्व प्रियं भवति आत्मलाभन्न परं विद्यते आत्मा वा अरे द्रष्टव्यः 'आत्मेत्येवोपासीत आदित्यो यूपः आराग्रमात्रः पुरुषः ऋचः सामानि जज्ञिरे ऋतं पिबन्तौ ऋ. [<] एक एव रुद्रो न द्वितीयोऽवतस्थे एकमेवाद्वितीयम् एष हि द्रष्टा स्प्रष्टा श्रोता पृष्ठाङ्काः | श्रुतयः २६ ऐतदात्म्यमिदं सर्वम् १२५ ३५ २७ क. कामः संकल्पो विचिकित्सा च. चक्रं बिभर्ति पुरुषोऽभितप्तम् चत्वारि शृङ्गा त्रयो अस्य पादाः चोरापहार्यौ च यथा ४७ तथाऽपि सूक्ष्मरूपत्वात् .. ३९ | तदैक्षत बहु स्यां प्रजायेय ४६ तद्विष्णोः परमं पदम् १४२ | तमेव भान्तमनुभाति सर्वम् १४३ तरति शोकमात्मवित् १४६ ९३ द. १७० | देवासो येन विधृतेन बाहुन ४७, ४७, १४५ द्वा सुपर्णा सयुजा सखाया १६७ ४४ ४७ | द्वैतं न विद्यत इि १०१ ४० ९९ १२० | जीवस्य परमैक्यं च ४४ | जीवेश्वरभिदा चैव ५२ | ज्योतिष्टोमेन स्वर्गकामो यजेत तः ३९ ३९ | तत्त्वमसि ३७, ५५, १४६, १४८, १५०, १७० १२४ तत्सत्यं स आत्मा ८,१६८ ५६ ४० ९६ तर्ह्यध्येतव्य तस्माच्छान्तो दान्त उपरतस्तितिक्षुः तं त्वौपनिषदम् כי | धर्मार्थकामाः सर्वेऽपि धर्मेण पापमपनुदति न च नाशं प्रयात्येष न जायते म्रियते वा न स्वरूपैकता तस्य न हि विज्ञातुर्विज्ञातैर्विपरिलोपो विद्यते नायमात्मा प्रवचनेन लभ्यः | नायमात्मा बैलहीनेन लभ्यः . ३७ नावेदविन्मनुते तं बृहन्तम् ३९ | निष्कलं निष्क्रियं शान्तम् पृष्ठाङ्काः १४८ १२८ ५२ ११० ५६ ५५ ५४ १०७ ५२ ७५ ३७ १०० १२३ ५८ ५२ ४३ ५४ ५५ १६९ ५४ ४३ ५५ ३९ ४७ ४८ ५८ १६६ Page #212 -------------------------------------------------------------------------- ________________ - रीय लोकान्कचितान् । साकिस्था तद्वपुषे धादि. बालाप्रशतभागस्य हस्पतिरिन्द्राय दिल्य समयमा पृष्ठाकाः | सत्यः सो अस्य महिमा गृणे ४६. सन | मदेव सोम्येदमप्र आसीत् ३५, १४८ स प्रथा सैन्धवघनोऽनन्तरोऽबाह्यः । . ५९ सहस्रशीर्षा पुरुषः सोऽपहतपाप्मा विजरः १०१ स्वातन्त्र्यशक्तिविज्ञान स्वाध्यायोऽध्येतव्यः ५ १६६/ हिरण्यगर्भो योगस्य (स्मृ.) सिधते हृदयग्रन्थिः भूयश्वान्ते विश्वमायानिवतिः . अचोऽणिति 197 मायां तु प्रकृति विद्यात् ४. : ' सूत्राणि। मिश्च जडभेदो या... मक्तानां चाऽऽश्रयो विभः १३२ त्योः स मृत्यूमानोछि.. | अथ योगानुशासनम् १२२, १२३, १२५ भथातो ब्रह्मजिज्ञासा ४५, ५७, १२४, १२६, मु आत्मनि तिष्ठन् य एतं ब्रह्मलोकम् अथातो धर्मजिज्ञासा मुसमानः प्रस्तरः गतो वा इमानि भताधि अथातो धर्म व्याख्यास्यामः गुतो वायो निवर्तन्ते १५%, १५ अथातः पशुपतेः पाशुपतयोगविधिम् यथा पक्षी च सूत्रं च अनित्याशुचिदुःखानात्मसु सहमे रोहित . . १४३ अनुस्ताननिर्माल्यलिङ्गधारी १४३ अपरिणामिनि हि भोक्तशक्तिः १२२ यस्य प्रसादात्परमार्तिरूपात् योऽयं विज्ञानमयः प्राणेषु ३९. अप्रकाशितप्रकाशव्यवहारः अभ्यासवैराग्याभ्याम् इसो वै सः । रसं ह्येवायला ४३. अर्हे कृत्यतृचश्च अविद्या क्षेत्रमुत्तरेषाम् शिक्षानधन एवैतेभ्यो भूतेभ्याः .. 8 अविद्यास्मितारागद्वेषोभिनिवेशाः १३० शिवाय प्रज्ञां कुर्वीत विद्यां चाविद्या च . अष्टवर्षे ब्राह्मणमुपनीत विष्णुं सर्वगुणैः पूर्णम् .. 4 अहिंसासत्यास्तेयब्रह्मा आ. शं नो देवीरभिष्टये . १.७ आतोऽनुपसर्गे कः | आद्यो ज्ञानदर्शनावरण- .... हात्मा तस्वमसि..... ४९/ आविद्धकुलालचक्रवत् मत्य आत्मा सत्यो जोः मम मिद्वा ५३ आहिताग्निरपशन्दं प्रयुज्य सत्यं ज्ञानमन्तं ब्रह्म, १४, १५१ अल्पमेनमन विश्वे मदलित ५३ इदं प्रत्ययफलम् १५२ ४५ अशुभः पापस्य ११० Page #213 -------------------------------------------------------------------------- ________________ सूत्राणि उ. उत्पादाद्वा तथा उत्पादव्ययधौव्ययुक्तं सत् उभयपरिकर्मितस्वान्तस्य उभयप्राप्त कर्मणि ऋतंभरा तत्र प्रज्ञा ऋ. एवं त्रिचतुरज्ञानजन्म औदारिकादिकार्यादि'औपशमिक क्षायिक भावौ क. कथंचिदासाद्य महेश्वरः स्यात् कर्तृकर्मणोः कृति कर्मणि च कर्मण्यण् क्लेशकर्मविपाकाशयपरिपन्थि कचिद्भेदसंघाताभ्यां स्कन्धोत्पत्तिः ग. गुणपर्यायवद्द्रव्यम् चिदचिदीश्वरभेदेन चैतन्यमात्मा चोदनालक्षणोऽर्थो धर्मः ज० जीवाजीव पुण्यपापयुत जीवाजीवास्रवबन्ध [30] पृष्ठाङ्काः सूत्राणि १६ २० ૪૮ ૧૭ तत्तु समन्वयात् तत्त्वार्थे श्रद्धानं सम्यग्दर्शनम् तत्र स्थितौ यत्नोऽभ्यासः तत्र प्रत्ययैकतानसा ध्यानम् १४१ १६८. ७३ १० | दुःखजन्मप्रवृत्तिदोषमि दुःखाशयी द्वेषः २९ दर्शनशक्त्योरेकात्म-: २७ दृष्टानुश्रविकविषयवितृष्णस्य'. तथा प्रवृत्तिहेतुत्वाच तदनन्तरमूर्ध्वम् | तद्भेदं च समग्रहणात् तपःस्वाध्यायेश्वरप्रणिधानानि जन्माद्यस्य यतः ४८, ५८, १५०, १७१ जन्मौषधिमन्त्रतपःसमाधिजाः सिद्धयः १२२ जात्याख्यायामेकस्मिन्ं सन्धिर्विवेक विमोका | तस्मिन्सति श्वासप्रश्वासमो! ९७ तस्य भावस्त्वतलौ तेन प्रोचाम् १०७ १०९ नानात्मानो व्यवस्थातं १३० नित्यमनित्यभामात् २८ नैकस्मिन्नसंभवात् देशबन्धश्चित्तस्य धारणा गुणकर्मि म्बाश्रया निर्गुणा गुणाः १८ | परिणामतापसंस्कारदुःखैः - पाशाश्चतुर्विधाः स्युः ३७. पुरुषार्थ शून्यामा गुमानी प्रति ७६ | पूर्वप्रयोगादसङ्गत्वान् प्रकरणादसंनिहितत्वाच प्रकृतिस्थित्यनुभव प्रमाणप्रमेय ११५ प्रयत्ना यौगपद्याऽज्ञानयोगपश्चात् ३३ २९. बन्धहेत्वभाव त. ४९, ५७, ५९, १७१ भस्मना त्रिषणवं स्नायीत म. २५ १३३ | मतिश्रुतावधिमनः१४० | मनोजवित्वं विकरणभावः 62 १२६ १३३ Yo १३७ 19% #1 १३२ १३३ १२३, १४० २७ १३१ ૫૧. 4 २५ ۱۷۹ Page #214 -------------------------------------------------------------------------- ________________ सूत्राणि मन्त्रायुर्वेदप्रामाण्यवच मिथ्यादर्शनाविरति य. यथाऽजागोमहिष्यादियथा स स्वर्गः सर्वान्प्रत्यवि यमनियमासनप्राणायाम यमर्थमधिकृत्य प्रवर्तते योगश्चित्तवृत्तिनिरोधः व. वितर्कविचारानन्दास्मिता - 2 विरामप्रत्ययाभ्यासपूर्वः विशोका वा ज्योतिष्मती वीतरागजन्मादर्शनात् वृद्धिरादैच् व्याधिस्त्यानसंशयप्रमादालस्यव्युत्पत्तिमात्राभिधित्सया [११] सकषायत्वाज्जीवः सत्त्वपुरुषान्यउाख्यातिमात्रप्रतिष्ठस्य सदा ज्ञाताश्विवृत्तयः सरूपाणामेकशेष एकविभक्तौ संमाननोत्संजनाचार्यकरण सुखाशयी रागः । सुप्यजातौ णिनिस्ताच्छील्ये सुप्तिङन्तं पदम् सोऽयं परमो न्यायो विप्रतिपन्न स्पर्शरसगन्धवर्णबन्तः पुद्गलाः स्वरसवाही विदुषोऽपि स्वविषयासंप्रयोगे चित्तस्व. स्यादस्ति स्यान्नास्ति सतगीतनृत्यहुडुक्कर पृष्ठाङ्काः भाष्याणि श. शास्त्रपूर्वके प्रयोगेऽभ्युदयः शास्त्रयोनित्वात् शौच संतोषतपःस्वाध्यायेश्वरप्रणिश्रुति लिङ्गवाक्यप्रकरणस्थानसमाख्यानाम् १२६ स. अ. अथ गौरित्यत्र कः शब्दः ११२ ३० ९८ | अथ शब्दानुशासनम् १०७, १०८, १०९, १२५ १२७ | अथेत्ययमधिकारार्थः प्रयुज्यते १२५ ७४ इ. .१२२, १२७ इतिकरणो विवक्षार्थः सर्वत्राभिसंबध्यते भाष्याणि. - १३० ए. १४१ एकः शब्दः सम्यग्ज्ञातः सुष्ठु प्रयुक्तः १४१ ४४ .१२५. १२९ ज. १२७ ज्ञातसंबन्धस्यैव पुंसो लिङ्गवि न. च. चत्वारि शृङ्गाणि चत्वारि पदजातानि ६३ पश्वादिभिश्चाविशेषात् पुर्यष्टकं नाम प्रतिपुरुषम् ३० १४१ म. १२८| मङ्गलादीनि मङ्लमध्यानि ११५ य. ९९ '१३२ | यश्वोभयोः समानो दोषः १३२ | यदेव पररूप दर्शनं सैवाविद्या ११२ | योगः समाधिः ९२ | योगानुशासनं शास्त्रं वेदितव्यम् २८ ११० निर्दिश्यमानप्रतिनिंर्दिश्यमानयोः (कै) १३६ ..४९, ५८, १७१ निष्कारणो धर्मः षडङ्गो वेदोऽध्येतव्यः १०८ १३७ प. १३२ र. १३९ . रक्षोह(गमलध्वसंदेहाः प्रयोजनम् ३३ पृष्ठाङ्काः व. व्यावहारिकों प्रमाणसत्तामादाय १३५ ११० ११० १५९ १४९ ७० १२४ १६० १६६ १२७ १२५ ११० १६८ Page #215 -------------------------------------------------------------------------- ________________ [१२] पृष्ठाङ्काः ग्रन्थनामानि पृष्ठाकाः ग्रन्थनामानि ग्रन्थनामानि .. अजपामन्त्रसमर्पणः . . . अथर्वणसंहिता अमरकोशः : 50, आ. आगमाधिकारः आमेयपुराणम् आप्तनिश्चय़ालंकारः ।। तत्त्वकौमुदी ... ११८ तत्त्वप्रकाशः ६८, ६९, ६९, १ .. १३८ तत्त्वमुक्तावलिः ४१, ४१, ४२, ४२, ४३, ४३ ' १०७ तत्त्वविवेकः . ३,४९ ... १२३ तत्त्वसंग्रहः ....... . तत्त्वार्थसंग्रहाधिकारः ... तत्वार्थाधिगमसूत्रम् २८,२८,२८,२९,२९ २९, ५.३०, ३०, ३०, ३०, ३०, ३०, ३२, ३२, .., . .२२ तन्त्रवार्तिकम् .. १३६ तार्किकरक्षा तैत्तिरीयकम् ४९, १४६, १५१, १७१, १७१ तैत्तिरीयारण्यकम् ५२, १००,१०१, १४२, १६७ तैत्तिरीयब्राह्मणम् : .. ५८, ९९, १६० तैत्तिरीयसंहिता ... ९६, १६७ ईशावास्यम् ऋ. ऋक्संहिता कणादसूत्रम् ८४, ८९ द्रव्यसमुद्देशः कोठकम् __ ३७, ४०, ४३, ४७, १२४ काव्यप्रकाशः १३५, १३६ । नारायणश्रुतिः ५ ५ कौर्मपुराणम् न्यायकणिका . . . . . . .. १६० क्रियाधिकारः न्यायकुसुमाञ्जलिः' ७, ९०, ९६, १०५, १०६, १४६, १६१ खण्डनखण्डखाद्यम् ॥ १६८, १६८, १६८ न्यायबिन्दुः , न्यायवीथी ... ..... ঠাক্ষাবন্ধা न्यायसूत्रम् गोरुडम् न्यायसूत्रभाष्यम् गौतमसूत्रम् ५७, ७४, ९०, ९३, ११२ | गौतमसूत्रवार्तिकम् पञ्चपादिका १६९ पञ्चपादिकाविवरणम् चित्सुखी . ३५, १५२, १६३ पश्चिकाप्रकरणम् पद्मनन्दी छान्दोग्यम् ३७, ३५, ३५, ३९, ३९, ४०,४०, पाश्चरात्ररहस्यम् ४४, ४७, ४९, ५६, १६८ पाणिनिसूत्रम् ९९, १०२, १०५, १०८, १०८, १०९, ११०, ११२, ११४, ११५, जातिसमुद्देशः ११४ ११५, १२५, १३२, १३२, १५२ : जैमिनीयसूत्रम् ९७, ९७, ९७,९८, १२६, १३४ पातञ्जलयोगसूत्रम् १२२, १२१, १२२, १२-२, 'शोनाधिकारपरिसमाप्तिः । ७५ | १२२, १२३, १२७, १२७, १२७, १२७,१२८, १५६ २५ Page #216 -------------------------------------------------------------------------- ________________ [१३] मन्थनामानि पृष्ठाङ्काः | ग्रन्थनामानि १२९, १३०, १३०, १३०, १३१, १३१, १३२, माण्डूक्यकारिका मानमनोहरः मीमांसाश्लोकवार्तिकम् १३२, १३२, १३२, १३२, १३३, १३३, १३३, . १३३, १३६, १३७,१३७, १३९, १४०, १४०, १४१, १४१, १४१, १४१, १४१, १४२ प्रकरणपश्चिका १५४, १५४, १५४, १५५, १५५, १५६, १५६, १५७, १५७ मुण्डकम् प्रकीर्णकः प्रबोधसिद्धिः प्रमाणपारायणम् प्रमेय कमलमार्तण्डः बहुदैवत्यः 'बृहत्संहिता बोधिचित्त विवरणम् बौद्धनयः - ६९ / ५९. बृहदारण्यकम् २, ३९, ३९, ३९, ३९, ४१, ४४, ४६,४७, ४:९, ४७, ४७, ५८, १२४, १२८, १४५, १४६. ब्रह्मसूत्रभाष्यम् ब. भागवतम् भालवेयश्रुतिः भाष्यम् रसहृदयम् १११ रसार्णवः ५७ रसेश्वरसिद्धान्तः १५७ २२. ब्रह्मकाण्डम् ब्रह्मसूत्रम् ३७, ४५, ४८, ४९, ४९, ५३, ५८, ५८, ५९, १२४, १२६, १४५, १५०, १७१, १७१, १७१ १४९ मनुस्मृतिः महानारायणोपनिषत् . महाभारततात्पर्यनिर्णयः महावराहः महोपनिषत् भ. भगवद्गीता ४५, ४७, ४८, ४८, ५३, ५४, ११९, १२३, १२४, १२९, १३३ विष्णुतत्त्वनिर्णयः विष्णुपुराणम् १८. वीतरागस्तुतिः १८ वेदार्थसंग्रहः १११: वैशेषिकसूत्रम् ५७, व्यासभाष्यम् व्यासभाष्यव्याख्या विवरणम् विवरण विवरणम् विवेकविलासः १०० ११०, १६९ ५२, ५९ महाभाष्यम् १०७, ११०, १११, ११२, १२४, १२५ श. शाकल्यसंहिता परिशिष्टम् शारदा तिलकः शिवदृष्टिः शिवसूत्रम् ८२ श्रीपञ्चरात्रम् ५५ | श्रीमत्करणः १६० | श्रीमत्कालोत्तरः ११२,१६८ ४३, ४४, ४६ ४७ ४८६ ५३ वाक्यपदीयम् १०८, ११०, १११११२, ११३, ११६, ११६, १६८ १७१ १६६ 6 पृठा श्रीमस्किरणः श्रीमत्पौष्करः श्रीमन्मृगेन्द्रः श्रीमत्सौरभेयः श्वेताश्वतरोपनिषत् ४०, ४३, ५५ ५६ समानतन्त्रः ५३ १०३ ७९,८१,०३ ७८, ८०, ८२ ७९,८१ ५०,५९ १४०, १४० २१, २४, २४ ४२ ४३,१५५ १२५ १३१ ५२ १३४ ७३ ७६ ४५ ६८ ७० ७२ ६७ ७१,७१ ७२ , १२०, १६६, १६६ ९० Page #217 -------------------------------------------------------------------------- ________________ [१४] पृष्ठाङ्काः १२१. ११० ११२,१३६ . १६८. ..८२ प्रन्धकारनामानि - पृष्ठाङ्काः ग्रन्थकारनामानि संबन्धसमुद्देशः ११५,११६ कपिलादयः साकारसिदि.. ..८१ कल्पतरुकारः सांख्यकारिका ५१, ११७, ११७, ११८, ११८, कात्यायनः ११८, ११८, ११८,११९, १२०, १२१, १२१ कैयटः सिद्धान्तः स्कान्दम् खण्डनकारः स्याद्वादमञ्जरी ३४ स्वरूपसंबोधनम् गर्भश्रीकान्तमिश्रः गुरुः ग्रन्थकारनामानि । गुरुमतानुसारिणः अ. गोबिन्दभगवत्पादाचार्यः अक्षपादः अघोरशिवाचार्यः अनन्तवीर्यः अभिनवगुप्ताचार्यः ५५,७८ चित्सुखाचार्यः अभियुक्तः ३१, ११६, १३८ २६ जिनदत्तसरिः आ. जैनः आचार्यः ३४,६५,८०,८६,१०३, १२२, १४७, | १५०,१५०,१५०.१५९ ज्ञानश्रीः आचार्यवाचस्पतेः ११०,१४४ आचार्यवाचस्पतिमिश्रः तथागतः आनन्दतार्थः तन्त्रतत्त्वज्ञाः आभाणक: . तौतातितः विद्यवृद्धः ७४ / गौतमः ९०,११३. ३३ चार्वाकः १५२,१६३ | जैमिनिः ३३,१५०.. ९७,१३४. .१०. २२,११२ १७० ईश्वरकृष्णः ११७ धर्मकीर्तिः १२. न. ६.१३० उत्सलाचार्यः उदयकरसूनुः उदयनः उदयनाचार्यः उमास्वातिवाचकाचार्यः औ. औपनिषदाः १०३,१०५,१०६ ९० नकुलीशः नरेन्द्रागिरिश्रीचरणाः नारायणकण्ठः नीलकण्ठभारतीश्रीचरणाः नैयायिकादयः न्यायनिर्माणवेधाः न्यायभूषणकारः १३५ ८८, ११८, १५० १५० पक्षिलस्वामी ८९ पञ्चशिखः १२२ Page #218 -------------------------------------------------------------------------- ________________ :: :पृष्ठाइका १२६, १२३, १३५ १०६ १५० ८८ प्रन्थकारनामानि पृष्ठाङ्काः | ग्रन्थकारनामानि पञ्चशिखाचार्यः पतञ्जलिः १०५, ११२, १२२, १२५, १२५, याज्ञवल्क्यः १२८, १३०, १३३, १३६, १४१ याज्ञिकः । पद्मनन्दि: यामुनः . परीक्षकः योगदेवः पाणिनिः ११२, पूर्वाचार्यः पौराणिकः रामकाण्डः प्रभाकरः रामानुजः प्रभाचन्द्रः रामेश्वरः प्रशस्तपदिः प्राभाकरमतानुसारिणः . १५७ लोकायतः प्राभाकरैकदेशिनः प्रामाणिकः ११३ वसुगुप्ताचार्यः वाक्यकार: फणिपतिः १२५ वागीश्वरः वाचकाचार्यः वाचस्पतिः बादरायणः १४५ वाचस्पतिमिश्रः ५, ७,१५, १५ विद्यानन्दादयः बृहस्पतिः वृत्तिकारः । वेंकटनाथः भगवान् ११, ४५, ५४, १३३, १३४, १३५, वेदान्ती वेदान्तवादनिपुणः व्यासः भट्टाचार्यः ९६, १०७, ११२ १३२, ३५५ भधारकः शबरस्वामी भामतीकारः . १४९ शंकरकिंकरः भाष्यकार: | शालिकनाथः ११५, १४९,१५३ श्रीधराचार्यः भास्करः . १६६ भोजराजः - १२५ १३१, १३१ ४५, ४६, १३२. ८८, ११८ ८८ १२४, १४५ ४८, ११०, ११०, १११, शंकराचार्यः ६५३ ८ ....६८ श्रीमन्मृगेन्द्रः स्त. मध्यमन्दिरः मनुः महोपाध्यायवर्धमानः माध्यमिक | सर्वज्ञः ५२, ५९ १०२ सहजसर्वज्ञविष्णुभट्टोपाध्यायः १०८ संप्रदायविदः ....११/ सांख्यः ११५, ११८, १५.५ Page #219 -------------------------------------------------------------------------- ________________ [१६] ग्रन्थकारनामानि . पृष्ठाकाः ग्रन्थकारनामानि पृष्ठाकाः सांख्याचार्यः ११९ स्वतःप्रामाण्यवादिनः १०२ सिद्धगुरुः सिद्धसेनवाक्यकारः सत्रकारः ६३, ६३, ९०, ९०, १३९ | हरिः १०८, १११, ११३, ११४, ११६ सोमशंभुः ६९ | हेमचन्द्रसूरिः सोमानन्दनाथपादाः ७३, ७५ हेमचन्द्राचार्यः सौगतः ११८ । हेलाराजः हरदत्ताचार्यः इति सर्वदर्शनसंग्रहान्तर्गतश्लोकश्रुतिसूत्रभाष्यायवाक्यग्रन्यनाम ग्रन्थकारनामानुक्रमणिका। Page #220 -------------------------------------------------------------------------- _