________________
५९
पूर्णप्रज्ञदर्शनम् । तदनेनानन्यलभ्यः शास्त्रार्थ इति न्यायेन भेदस्य प्राप्तत्वेन तत्रं न तात्पर्य किंत्वन एव वेदवाक्यानां तात्पर्यमित्यदैतंत्रादिनां प्रत्याशा प्रतिक्षिप्ता । अनुमानादीश्वरस्थ सिद्धयभावेन तद्भदस्यापि ततः सिद्धयभावात् । तस्मान भेदानुवादकत्वमिति तत्परत्वमवगम्यते । अत एवोक्तम्
सदागमैकविज्ञेयं समतीतक्षराक्षरम् ।
नारायणं र.दा वन्दे मर्दोषाशेषसद्गुणम् ॥ (वि०त०१ )इति । शास्त्रस्य तत्र प्र.माण्यमुपपादितम्-तत्तु समन्वयात् (ब्र० मू०१।१ । ४) इति । समन्वय उपक्रमादिलिङ्गम् । तदुक्तं बृहत्संहितायाम्
उपक्रमोपसंहारावभ्यासोऽपूर्वता फलम् ।
अर्थवादोपपत्ती च लिङ्ग तात्पर्यनिर्णये ॥ इति । एवं वेदान्ततात्पर्यवशात्तदेव ब्रह्म शास्त्रगम्यमित्युक्तं भवति । दिमात्रमत्र प्रादर्शि । शिष्टमानन्द तीर्थभाष्य व्याख्यानादौ द्रष्टव्यम् । ग्रन्थबहुत्वाभियो. परम्यते। 'एनच्च रहस्य पूर्णप्रशेन मध्यमन्दिरण वायोस्तृतीयावतारमन्पेन निरूपिता - प्रथमस्तु हनूमानस्याद्वितीयो भीम एव च ।
पूर्णप्रशस्तृतीयश्च भगवत्कार्यसाधकः ॥ इति । ए दे भिमेत्य तत्र तत्र प्रन्थसमाप्त विदं पधं लिख्यते
यस्य त्रीण्युदितानि देदवचने दिव्यानि रूपाण्यलं षट् तदर्शतमित्थमेव निहितं वेदस्यं भगों महत्। .. वायो रामवचीनयं प्रथमकं प्रक्षो द्वितीयं वपु. मध्वो यस्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥
(म० भा० ता० ३२ । १८१)। एतत्पद्यार्थस्तु ' बळित्या तद्वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतोऽजनि' (ऋ० सं० म० १ ० १४१ ) इत्यादिश्रुतिपर्यालोचनयाऽवगम्यत इति । तस्मात्सर्वस्य शास्त्रस्य विष्णुतत्त्वं सर्वोत्तममित्यत्र तात्पर्यमिति सर्व निरवद्यम् । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे पूर्णप्रज्ञदर्शनम् ।।
====
* घ. पु. टि-शास्त्रस्य । १ ग. त्र ता । २ क.-ङ. 'तप्र । ३ ख. न तद्भेदा । ४ क. ख. घ. मेध्य' । ५ घ: "न्दिरमपुत्रेण । ६ ख. °स्य मार्गे म । ग. 'स्य गर्भो म । क, घ,-ड. रय गर्भे महः । ७ क.-. वृक्षो । ८ च. केशव । ९ च. मिति नियूंढम् ।