________________
सर्वदर्शनसंग्रहेअथ नकुलीशपाशुफ्तदर्शनम् ॥ ६ ॥ ..
तदेतद्वैष्णवमतं दासत्वादिपदवेदनीयं परतन्त्रत्वं दुःखावहत्वाम दुःखान्तादीप्सितास्पदमित्यरोचयमानाः पारमैश्वर्यं कामयमानाः पराभिमता मुक्ता न भवन्ति परतन्त्रत्वात् , पारमैश्वर्यरहितत्वादस्मदादिवत् , मुक्तात्मानश्च परमेश्वरगुणसंबन्धिनः पुरुषन्वे सति समस्त दुःखैबीजविधुरत्वात्परमेश्वरवत्- इत्याउनु मानं प्रमाण प्रतिपद्यमानाः केचन माहेश्वराः परमपुरुषार्थसाधनं पश्चार्थप्रपश्चन: परं पाशुपत शास्त्रमाश्रयन्ते ।
तत्रेदमादिसूत्रम्-अथातः पशुपतेः पाशुपतयोगविधिं व्याख्यास्याम इति। अस्याः -अत्राथशब्दः पूर्वप्रकृतापेक्षः । पूर्वप्रकृतश्च गुरुं प्रति शिपास्य प्रश्नः । गुरुस्वरूपं गणकारिकायां निरूपितम्
पञ्चकास्त्वष्ट विज्ञेया गणश्चैकस्त्रिकात्मकः । वेत्ता नगणस्यास्य संस्कर्ता गुरुरुच्यते ॥ इति । ... लाभा मला उपायाश्च देशावस्थाविशुद्धयः । .
दीक्षाकारिबलान्यष्टौ पञ्चकास्त्रीणि वृत्तयः ।। इति । तिस्रो वृत्तय इति प्रयोक्तव्ये त्रीणि वृत्तय इति च्छान्दसः प्रयोग. . ... विधीयमानमुपायफलं लाभः । ज्ञानतपानित्यत्वस्थितिशुद्धिभेदात्पश्चविधः । . तदाह हरदत्ताचार्यः
ज्ञानं तपोऽथ नित्यत्वं स्थितिः शुद्धिश्च पश्चमम् । इति । आत्माश्रितो दुष्टभावो मलः । स मिथ्याज्ञानादिभेदात्पश्चविधः। तदप्यार
मिथ्याज्ञानमधर्मश्च सक्तिहेतुश्च्युतिस्तथा।
पशुत्वमलं पञ्चैते तन्त्रे हेया विविक्तितः ॥ इति । साधकस्य शुद्धिहेतुरुपायो वासचर्यादिभेदात्पञ्चविधः । तदप्याह
वासचर्या जपो ध्यानं सदा रुद्रस्मृतिस्तथा ।
१च. °मतरीत्या दा।२ ग. °नीयपरतन्त्रं दुः।३ क.-टु न्त्रदुः१४ च."हत्वं न दुःखान्तादिपदास्पदमि । ५ क. ग. घ. 'नाः पर। ६ घ. 'भिका मु । ङ. 'भिहता। ७ क. ग. महेश्वराः । ८ क. ग.-च. धनप । ९ ङ. 'तयाग । १० ग. ° गुण । ११ क.-. °कत्रिरात्म। १२ ख. °वगुण । १३ क. ङः-च. पोदेवनि । ग. पोऽथ नि। १४ च. ह- ज्ञानं धर्मश्च नित्यत्वं स्थितिः सिद्धिश्च पञ्चममिति । प० । १५ च. तन्त्रभेदा विवर्जिता इति । १६ च. धनस्य शुद्धिवृद्धिहे।