________________
नकुलीशपाशुपतदर्शनम् । अंपत्तिश्चेति लाभानामुपायाः पञ्च निश्चिताः ॥ इति । येनानुसंधानपूर्वकं ज्ञानतपोवृद्धी प्रामोति स देशी गुरुजनादिः । यदाह
गुरुजनो गुहादेशः श्मशानं रुद्र एव च । इति । आ लाभप्राप्तेरेकैमर्यादावस्थितस्य यदवस्थानं साऽवस्था व्यक्तादिविशेषेण विशिष्टा । तदुक्तम्
ध्यक्ताऽव्यक्ता जया दानं निष्ठा चैव हि पञ्चमम् । इति । मिथ्याज्ञानादीनामत्यन्तव्यपोहो विशुद्धिः । सा प्रतियोगिभेदात्पञ्चविधा ।
अज्ञानस्याप्यधर्मस्य हानिः सङ्गकरस्य च ।
न्युतीनेः पशुत्वस्य शुद्धिः पश्वविधा स्मृता ।। इति । दीक्षाकारिपञ्चकं चोक्तम्
द्रव्यं कालः क्रिया मूर्तिगुरुश्चैव हि पञ्चमः । इति । : बलपश्चकं च-गुरुभक्तिः प्रसादश्च मतेद्वजयस्तथा ।
. धर्मश्चैवाप्रमादश्च बलं पञ्चविधं स्मृतम् ॥ इति । पश्चमललघूकरणाथेमागमाविरोधिनोऽन्नार्जनोपाया वृत्तयो भक्ष्योत्सृष्टयः थालब्धाभिधा इति । शेषमशेषमाकर एवावगन्तव्यम् । __ अतिःशब्देन दुःखान्तस्य प्रतिपादनम् । आध्यात्मिकादिदुःखत्रयव्यपो: हप्रश्नार्थत्वात्तस्य । पशुशब्देन कार्यस्य । परतन्त्रवचनत्वात्तस्य । पतिशब्देन कारणस्य । ईश्वरः पतिरीशितेति जगत्कारणीभूतेश्वरवचनत्वात्तस्य । योगविधी तु प्रसिद्धौ । ___ तत्र दुःखान्तो द्विविधः- अनात्मकः सात्मकश्चेति । तत्रानात्मकः सर्वदुःखानामत्यन्तोच्छेदरूपः । सात्मकस्तु दृक्रियाशक्तिलक्षणमैश्वर्यम् । तत्र हक्शक्तिरेकाऽपि विषयभेदात्पञ्चविधोपचर्यते । दर्शनं. श्रवणं मननं विज्ञानं सर्वज्ञत्वं चेति । तत्र सूक्ष्मव्यवहितविप्रकृष्टाशेषचाक्षुषस्पर्शादिविषयं ज्ञानं दर्शनम् । अशेषशब्दविषयं सिद्धिज्ञानं श्रवणम् । समस्तचिन्ताविषयं सिद्धिज्ञानं मननम् । निरवशेषशास्त्रविषयं ग्रन्थतोऽर्थतश्च सिद्धिज्ञानं विज्ञानम् ।
१ क.-ग. ङ. च. प्रतिपत्तिश्च ला । २ च. 'नार्थेन साधकः शुद्धिवृ। ३ क.-.'कत. मादौ य । ४ ङ.-च. जपादा । ५ च. तु पञ्चमीति । ६ क.-ङ. 'प्यसङ्गस्य । ७ ग. ह.-च. च्युतिौं । ८ क.--. °णार्थ मानामानवि । ९ क.-ग.-ङ, च. 'आथश।१० क.-ङ. खव्य। ११ च. °स्य तत्र प°१२ च. °स्तु दुःखक्रि ।१३ ङ. °क्तिक्ष। च. "क्तिबरलक्ष । १४ घ, ङ. यत्र।