________________
सर्वदर्शनसंग्रहे-- स्वशास्त्रं येनोच्यते । उक्तानुक्ताशेषार्थेषु समासविस्तरविभागविशेषतश्च तत्व व्याप्तसदोदितसिद्धिज्ञानं सर्वज्ञत्वमित्येषा धीशक्तिः। क्रियाशक्तिरेकाऽपि त्रिविधोपचर्यते । *मनोजवित्वं कामरूपित्वं विकरणधर्मित्वं चेति । तत्र निरतिशयशीघ्रकारित्वं मनोजवित्वम् । कर्मादिनिरपेक्षस्य स्वेच्छयैवानन्तसलक्षणविलक्षणसरूपकरणाधिष्ठातृत्वं कामरूपित्वम् । उपसंहृतकरणस्यापि निरतिशयैश्वर्यसंब. धित्वं विकरणधर्मित्वमित्येषा क्रियाशक्तिः । __ अस्वतन्त्रं सर्व कार्यम् । तत्रिविधं विद्या कला पशुश्चेति । एतेषां ज्ञानात्संशयादिनिवृत्तिः । तत्र पशुगुणो विद्या । साऽपि द्विविधा-बोधाबोधस्वभावभेदात् । बोधस्वभावा विवेकाविवेकप्रत्तिभेदाद्विविधा । सा चित्तमित्युच्यते । चित्तेन हि सर्वः प्राणी बोधात्मकप्रकाशानुगृहीतं सामान्येन विवेचितमविवेचित चार्थ चेतयत इति । तत्र विवेकप्रवृत्तिः प्रमाणमात्रव्यङ्गया। पश्वर्थधर्माधर्मिका पुनर. बोधात्मिका विद्या । चेतनपरतन्त्रत्वे सत्यचेतना कला । साऽपि द्विविधाकार्याख्या कारणाख्या चेति । तत्र कार्याख्या दशविधा-पृथिव्यादीनि पञ्च तत्त्वानि, रूपादयः पञ्च गुणाश्चेति । कारणाख्या त्रयोदशविधा-ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियपञ्चकम् , अध्यवसायाभिमानसंकल्पाभिवृत्तिभेदाढुद्धयहंकारमनोलक्षणमन्तःकरणत्रयं चेति । पशुत्वसंबन्धी पशुः । सोऽपि द्विविधःसाञ्जनो निरञ्जनश्चेति । तत्र साञ्जनः शरीरेन्द्रियसंबन्धी । निरञ्जनस्तु द्रहितः । तत्प्रपञ्चस्तु पश्चार्यभाष्यदीपिकादौ द्रष्टव्यः।
समस्तसृष्टिसंहारानुग्रहकारि कारणम् । तस्यैकस्यापि गुणकर्मभेदापेक्षया विभाग उक्तः पतिः सौद्य इत्यादिना । तत्र पतित्वं निरतिशय हक्क्रयाशक्तिमत्त्वं तेनैश्वर्येण नित्यसंबन्धित्वम् । आयत्वमनागन्तुकैश्वर्यसंबन्धित्वमित्यादर्शकारादिभिस्तीर्थकरैर्निरूपितम् ।
* घ. पुस्तके मनोजयित्वमित्याप ।
१च. विस्तार । २ क.--. विक्रमण । ३ च. °तकार । ४ क.-ङ. विक्रमण । ५ च. 'तिः शब्दस्वरूपं तत् । यदस्व । ६ क.-ङ. °ति । त° । ७ घ. दाद्विधा । ८ च. °न सर्वसंमतं वि' । ९ ङ. 'चितश्चार्थे । १० च. लक्ष्यम । ११ च. तत्संबन्धहीनः । १२ च. मवि । १३ च. सान्ना इ । १४ क. 'शयिह । ग. शयिकाक्रि । १५ घ. शक्तिः सत्वं । क. ग. शक्ति. सत्त्वं । १६ च. यविभवसंपन्नं तत्संब।