________________
५८
सर्वदर्शनसंग्रहेशब्दो मङ्गलार्थोऽधिकारानन्तर्यार्थश्च स्त्री क्रियते । अतःशब्दो हेत्वर्थः । तदुक्त गारुडे
अथातःशब्द पूर्वाणि सत्राणि निखिलान्यपि । भारभ्यन्ते नियत्यैव तकिमत्र नियामकम् ।। कश्वार्थस्तु तपोर्विद्वन्कथमुत्तमता तयोः । एतदाख्याहि मे ब्रह्मन्यथा ज्ञास्यामि तत्त्वतः ।। एवमुक्तो नारदेन ब्रह्मा प्रोवाच सत्तमः । आनन्तर्याधिकारे च मङ्गलार्थे तथैव च ॥
अथशब्दस्त्वतःशब्दो हेत्वर्थे समुदीरितः ॥ इति ।. यतो नारायणप्रसादमन्तरेण न मोक्षो लभ्यते प्रसादश्च ज्ञानमन्तरेणातो ब्रह्मजिज्ञासा कर्तव्योति सिद्धम् ।
जिज्ञास्यब्रह्मणो लक्षणमुक्तम्-जन्मायस्य यतः (ब्र० सू० १।१।२) इति । सृष्टिस्थित्यादि यतो भवति तद्ब्रह्मेति वाक्यार्थः । तथा च स्कान्दं वचः
उत्पत्तिस्थितिसंहारा नियतिनिमावृतिः ।
बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट् ॥ इति। यतो वा इमानीत्यादिश्रुतिभ्यश्च ।।
तत्र प्रमाणमप्युक्तम् - शास्त्रयोनित्वात् (ब्र० स० १११॥३) इति । नावेद. विन्मनुते तं बृहन्तम् (त० ब्रा०३ । १२।९।७) तं त्वौपनिषदम् (बृ. ३।९।२६) इत्यादिश्रुतिभ्यस्तस्याऽऽनुमानिकत्वं निराक्रियते । न चानुमानस्य स्वातन्त्र्येण मामाण्यमस्ति । तदुक्तं को
श्रुतिसाहाय्यरहितमनुमानं न कुत्राचेत् । निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च ॥ श्रुतिस्मृतिसहायं यत्प्रमाणान्तरमुत्तमम् ।
प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा ॥ इति । शास्त्रस्वरुपमुक्तं स्कान्दे
ऋग्यजुः सामार्वा च भारतं पाश्चरात्रकम् । मूलरामायणं चैव शास्त्रमित्यभिधीयते ॥ . यच्चानुकूलमेतस्य तच्च शास्त्रं प्रकीर्तितम् । अतोऽन्यो ग्रन्थविस्तारो नैव शास्त्रं कुवम तत् ॥ इति ।
१क.-ग. ङ. व. रभेत । २ क.--. ङ. च. विद्वान्क । ३ च. 'त्तरता।