________________
औलूक्यदर्शनम् । कंचित्प्रेक्षावामूषिकावषाणं प्रतिपेढुं यतते । ततश्चानुपपनों लियम इति चेन्मैवं भाषिष्ठाः । सप्तमतया प्रमिते*ऽन्धकारादौ भावत्वस्य भावतंया पमित शक्तिसादृश्यादौ सप्तमत्वस्य च निषेधादिति कृतं विस्तरेण | TER
तत्र द्रव्यादित्रितयस्य द्रव्यस्वादिजातिलक्षणम् । द्रव्यत्वं नाम मंगः नारविन्दसमवेतत्वे सति नित्यत्वे सति गन्धासमवेतत्वम् । गुणस्त्वं नाम सर्मवा. यिकारणासमवेतासमवायिकारणभिन्नसमवेतसत्तासाक्षाव्याप्यजातिः । कमी नाम नित्यासमवेतत्वसहितसत्तासाक्षाघाप्यजातिः। सामान्यं तु प्रध्वंसप्रतियोगित्वरहितमनेकसमवेतम् । विशेषो नामान्योन्याभावाविरोधिसामान्यरहितः समवेतः।। समवायस्तु समवायरहितः संबन्ध इति षण्णां लक्षणानि व्यवस्थितानि । - द्रव्यं नवविधम्। पृथिव्यप्तेजोवारवाकाशकालदिगात्ममनासीति । तत्र पृथि. व्यादिचतुष्टयस्य पृथिवीत्वादिजातिर्लक्षणम् । पृथिवीत्वं नाम पाकरूपसमा नाधिकरणद्रव्यत्वसाक्षाद्वयाप्यजातिः। अप्त्वं नाम सरित्सागरसमवेतत्त्वे सति ज्वलनासमवेत सामान्यम् । तेजरत्वं नाम चन्द्रचाफिरसमवेतत्वे सात साल लासमवेतं सामान्यम् । वायुत्वं नाम त्वगिन्द्रिय समवेतद्रव्यत्वसाक्षाद्वयाप्यजातिः । आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति आकाशः कालो दिगिति । संयोगार्जन्यजन्यविशेषगुणसमानाधिकरण. विशेषाधिकरणमाकाशम् । विभुत्वे सति दिगसमवेतपरत्वासमवायिकारणाधि. करणः कालः । अकालत्वे सत्यविशेषगुणा महती दिक् । आत्ममनसोगुल्मत्वमनस्त्वे । आत्मत्वं नामामूर्तसमवेतद्रव्यत्वापरजातिः। मनस्त्वं नाम द्रव्यसमा यिकारणत्वरहिताणुसमवेतद्रव्यत्वापरजातिः ।
रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखद खेच्छाद्वेषप्रयत्नाश्च कण्ठोक्ताः सप्तदश चशब्दसमुचिता गुरुत्वद्वत्वनइस स्कारा+दृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिर्गुणाः । तत्र रूपादिशब्दान्तानां रूपवादिजातिर्लक्षणम् । रूपत्वं नाम नीलसमवेतगुणत्वापरजातिः । अनन्या दिशा शिष्टानां लक्षणानि द्रष्टव्यानि ।
PANTFN
* सप्तमभावपदार्थमाशक्य निराकरोति-अन्धकारादावित्यादि । + अदृष्टं धर्माधमौं।
१ ख. ग. यतेत । २ घ. त्वस्याभा । ३ क-ग. ङ. च. "क्तिसंख्यादौ ।४ च. 'रणम। ५ क. °रणास । घ. ग. रणस। ६ च. नामानि । ७ क. ख ङ.-च. नित्यस1८ च. त्वरहि। ९ ख. °ति द्रव्यस। १० क. 'ति ज्ञानस । ख. ति ज्ञानास । घ. "ति ज्वालास । ११ ग. 'तले सति द्र । १२ ग. जन्मज । १३ क. ग. घ. "त्मम । १४ ख. ग. मूर्तास । १५ क. म.. तद्रव्यत्वा ।