________________
सर्वदर्शनसंग्रहे(क० सू० १ । १ । १) इत्यादिकायां दशलक्षण्या कणभक्षेण भगवत, व्यवस्थापितम् । तत्राऽऽह्निक द्वयात्मके प्रथमेऽध्याये समवेताशेषपदार्थकथनमकारि । तत्रापि प्रथमाह्निके जातिनिरूपणम् । द्वितीयाह्निके जातिविशेषयोनिरूपण । आह्निकद्वययुक्ते द्वितीयेऽध्याये द्रव्यनिरूपणम्। तत्रापि प्रथमाह्निके भूतविशेषलक्षणम् । द्वितीये दिक्कालप्रतिपादनम् । आह्निक द्वययुक्ते तृतीय आत्मान्तःकरणलक्षणम् । तत्राप्यात्मलक्षणं प्रथमे । द्वितीयेऽन्तःकरणलक्षणम् । आह्निकद्वययुक्तं चतुर्थे शरीरतदुपयोगिविवेचनम् । तत्रापि प्रथम तदुपयोगि. विवेचनम् । द्वितीये शरीरविवेचनम् । आह्निकद्वयवति पञ्चमे कर्मप्रतिपादनम् । तंत्रापि प्रथमे शरीरसंवन्धिकर्मचिन्तनम् । द्वितीये मार्नेसकर्मचिन्तनम् ।
आह्निकद्वयशालिनि षष्ठे श्रीतधर्मनिरूपणम् । तत्रापि प्रथमे दानप्रतिग्रहधर्मविवेकः । द्वितीये चातुराश्रभ्योचितधर्मनिरूपम् । तथाविधे सप्तम गुणसमवाय. प्रतिपादनम् । तत्रापि प्रथमे बुद्धिनिरपेक्षगुणप्रतिपादनम् । द्वितीये तत्सापेक्षगु. णप्रतिपादनं समवायप्रतिपादनं च । अष्टमे निर्विकल्पकसविकल्पकप्रत्यक्षपमा. णचिन्तनम् । नवमे बुद्धिविशेषप्रतिपादनम् । दशमेऽनुमानभेदप्रतिपादनम् ।
तत्रोद्देशो लक्षणं परीक्षा चेति त्रिविधाऽस्य शास्त्रस्य प्रवृत्तिः । ननु विभागापेक्षया चातुर्विध्ये वक्तव्ये कथं त्रैविध्यमुक्तमिति चेन्मेवं मंस्थाः। विभागस्य विशेषोदशरूपत्वादुद्देश एवान्तर्भावात् । तत्र द्रव्यगुणकर्मसामान्यधिशेषसम्बायाँ इति षडेव ते पदार्था इत्युद्दशः । किमत्र क्रमनियमे कारणम् । उच्यते-समस्तपदार्थायतनत्वेन प्रधानस्य द्रव्यस्य प्रथममुद्देशः। अनन्तरं गुणत्त्वोपाधिना सकलद्रव्यवृत्तेर्गुणस्य । तदनु सामान्यवत्त्वाम्यात्कर्मणः । पश्चात्तत्रितयाश्रितस्य सामान्यस्य । तदनन्तरं समवायाधिकरणस्य विशेषस्य । अन्तेऽवशिष्टस्य समवायस्येति।
ननु षडेव पदार्था इति कथं कथ्यते । अभावस्यापि सद्भावादिति चैन्मैवं वोचः। नर्थानुल्लिखितधीविषयतयाँ भावरूपतया षडेवेति विवक्षितत्वात् । तथाऽपि कथं षडेवेति नियम उपपद्यते । विकल्पानुपपत्तेः । तथाहि-नियमव्य. वच्छेद्यं प्रमितं न वा । प्रमितत्वे कथं निषेधः । अपमितत्वे कथंतराम्। न हि
१ घ. ये भूतविशेषदिक्कालप्रतिपादनम् । त° । २ ङ. तथाऽपि । ३ घ. ये साधारणक' । ४ क. ग. °नसादिक । ५ क ख. ग. "द्देशरूपत्वोद्देश° । ङ.-"द्देश ए°। च. देशरूपत्वेनोद्देश ए° । ६ घ. ङ. °याभावा इ° , ७ क. दार्थोपपतनत्ये। ख. दार्थायतत्वे । ८ ख. साध
ात्क । ९ क. ग.-च. ति क्रमनियमः । न । १० क. °चः । तत्रार्था । घ. 'चः । तत्राथोल्लि । ११ कु.--च. या ष।