________________
रसेश्वरदर्शनम् । परमानन्दैकरसं परमं ज्योतिःस्वभावमाविकल्पम् । विगलितसकलक्लेशं ज्ञेयं शान्तं स्वसंवेद्यम् ।। तस्मिनाधाय मनः स्फुरदखिलं चिन्मयं जगत्पश्यन् । उत्सनकर्मबन्धो ब्रह्मत्वामिहैव चाऽऽनोति ॥
(रसह० १ । २१-२३) श्रुतिश्च-रसो वै सः । रसं ह्येवायं लब्ध्वाऽऽनन्दी भवति (तै० २-७-१) इति । तदित्यं भवदैन्यदुःखभैरतरणोपायो रस एवेति सिद्धम् । तथा च रसस्य पर. ब्रह्मणा साम्यमिति प्रतिपादकः श्लोकः
यः स्यात्यावरणाविमोचनधियां साध्यः प्रकृत्या पुनः संपन्नः सह सेन दीव्यति परं वैश्वानरे जाग्रति । ज्ञातो यद्यपरं न वेदयति च स्वस्मात्स्वयं द्योतते यो ब्रमेव स दैन्यसंसृतिभयात्पायादसौ पारदः ॥ इति । इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रहे रसेश्वरदर्शनम् ।।
अथौलूक्यदर्शनम् ॥ १० ॥
इह खलु निखिलप्रेक्षावानिसर्गप्रतिकूलवेदनीयतयाँ निखिलात्मसंवेदनसिद्ध दुःखं जिहासुस्तद्धानोपायं जिज्ञासुः परमेश्वरसाक्षात्कारमुपायाकलयति ।
यदा चर्मवदाकाशं वेष्टयिष्यन्ति मानवाः ।
तदा शिवमविज्ञाय दुःखस्यान्तो भविष्यति ॥ इत्यादिवचनविचयप्रामाण्यात् । परमेश्वरसाक्षात्कारश्च श्रवणमननभावनाभि. ीवनीयः । यदाह
आगैमेनानुमानेन ध्यानाभ्यासबलेन च।
त्रिधा प्रकल्पयन्प्रज्ञा लभते योगमुत्तमम् ॥ इति । तत्र मननमनुमानाधीनम् । अनुमानं च व्याप्तिज्ञानाधीनम् । व्याप्तिज्ञानं च पदार्थविवेकसापेक्षम् । अतः पदार्थषट्कम् – अथातो धर्म व्याख्यास्यामः
१ घ. रमज्यों । २ ख. स्वयं वे । ३ क. ख. बद्धो ब । ४ ग. ङ.-च. भवेदन्यौं । घ. भवे दै' । ख. भवेदन्यभवदुः । ५ घ. °भवत । ६ ख. इ.-च. °क्षावन्नि । ७ च. या पर। ८ क. ग. ६ जि । ९ क. ग. घ. "हासतस्त । डा.-च. हासुस्त । १० क. 'ज्ञासोः प० । ११ उ.-च. 'माकलति । ख. 'माकर्णयति । १२ क. ग. नीयम् । य । १३ क. ग. गमो ना । १४ घ. 'ल्पयेत्प्रज्ञां।