________________
' सर्पदर्शनसंग्रहकर्म पञ्चविधम् । उत्क्षेपणापक्षेपणाकुश्चनप्रसारणगमनभेदात् । भ्रमणरेचनादीनां गमन एवान्तर्भावः । उत्क्षेपणादीनामुत्क्षेपणत्वादिजातिर्लक्षणम् । तंत्रोत्क्षेपणत्वं नामोर्ध्वदेशसंयोगासमवायिकारणसमवेतकर्मत्वापरजातिः । एव. भपक्षेपणत्वादीनां लक्षणं कर्तव्यम् । .. सामान्यं द्विविधं परमपरं च । परं सत्ता द्रव्यगुणसमवेता। अपरं द्रव्यत्वादि । तल्लक्षणं प्रागेवोक्तम् । - विशेषाणामनन्तत्वात्समवायस्य चैकवाद्विभागो न संभवति । तल्लक्षणं च प्रागेवावादि। .
द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । ....यस्य न स्खलिता बुद्धिस्तं वै वैशेषिकं विदुः ॥ इत्यांभाणकस्य सद्भावाद्वित्वाद्युत्पत्तिप्रकारः प्रदर्यते । तत्र प्रथममिन्द्रियार्थः सनिकर्षः । तस्मादेकत्वसामान्यज्ञानम् । ततोऽपेक्षाबुद्धिः । तती द्वित्वोत्पत्तिः । ततो द्वित्वत्वसामान्यज्ञानम् । तस्माद्वित्वगुणज्ञानम् । ततो द्वे द्रव्ये इति धीः। ततः संस्कारः । तदाह
आदाविन्द्रियसंनिकर्षघटनादेकत्वसामान्यधीरेकत्वोभयगोचरा मतिरतो द्वित्वं ततो जायते । द्वित्वत्वामितिस्ततो नु परती द्वित्वप्रमाऽनन्तरं
दे द्रव्ये इति धीरियं निगदिता द्वित्वोदयप्रक्रिया ॥ इति । द्वित्वादेरपेक्षाबुद्धिजन्यत्वे किं प्रमाणम् । अत्राऽऽहुराचार्याः-अपेक्षाबुद्धिदित्वादेरुत्पादिका भवितुमर्हति । व्यञ्जकत्वानुपपत्तौ तेनानुविधीयमानस्वात् । शब्दं प्रति संयोगवदिति । वयं तु ब्रूमः-द्वित्वादिकमेकत्वद्वयविषया. नित्यबुद्धिव्यङ्गयं न भवति । अनेकाश्रितगुणत्वात्पृथक्त्वादिवदिति ।
निवृत्तिक्रमो निरूप्यते-अपेक्षाबुद्धित एकत्वसामान्यज्ञानस्य द्वित्वोत्पत्तिसमकालं निवृत्तिः । अपेक्षाबुद्धेद्वित्वत्वसामान्यज्ञानाद्वित्वगुणबुद्धिसमसमयम् । द्वित्वस्यापेक्षाबुद्धिनिवृत्ते व्यबुद्धिसमकालमगुणवु द्रव्यबुद्धितः संस्कारोत्पत्तिसमकालम् । द्रव्यर्बुद्धस्तदनन्तरं संस्कारोंदिति । तथा च संग्रहश्लोकाः
, १ -च. णावक्षे । २ ख. योगस । ३ क. ख. °णप्रत्ययस । ङ-च. °णप्रमेयस । ४ घ.--च. मवक्षे। ५ ख. ग. घ. 'णकर्मस । ६ ख. ग. "त्वात्तद्वि। ७ घ. वादीत् । ८ क. ख. ग. तो द्वित्वसा । ९ घ. द्वित्वसामान्यज्ञानमुत्पद्यते । ततो द्वित्वनिर्विकल्पकज्ञानं तस्मा'। १० च "ते । एकत्वम । ११ क. रतौ द्वि । १२ ङ. च. पत्तेः । ते । १३ क. ख. शवं प्र । १४ च 'कत्वासा । १५ घ. °मकालम् । द्वि । १६ क. ङ.- कालगु । १७ घ. 'बुद्धितो गुणबुद्धिसं° १८ प. बुद्धितः, द्रव्यबुद्धस्त° । १९ घ. रादीति ।