________________
औलूक्यदर्शनम् । आदावपेक्षाबुद्धया हि नश्येदेकत्वजातिधीः । द्वित्वोदयसमं पश्चात्सा च तज्जातिबुद्धितः ॥ द्वित्वाख्यगुणधीकाले ततो द्वित्वं निवर्तते । अपेक्षाबुद्धिनाशेन द्रव्यधीजन्मकालतः॥ गुणबुद्धिद्रव्यबुद्धया संस्कारोत्पत्तिकालतः।
द्रव्यबुद्धिश्च संस्कारादिति नांशक्रमो मतः ॥ इति । बुद्धेर्बुद्धयन्तरविनाश्यत्वे संस्कारविनाश्यत्वे च प्रमाणम्-विवादाध्यासितानि ज्ञानान्युत्तरोत्तरकार्यविनाश्यानि । क्षणिकविभुविशेषगुणत्वात् । शब्द वत् । कचिद्रव्यारम्भकसंयोगप्रतिद्वंद्विविभागजनककर्मसमकालमेकत्वसामा. न्यचिन्तयाऽऽश्रयनिवृत्तेरेव द्वित्वानिवृत्तिः। कर्मसमकालमपेक्षाबुद्धिचिन्तनादु. भाभ्यामिति संक्षेपः।
अपेक्षाबुद्धिर्नाम विनाशकविनाशप्रतियोगिनी बुद्धिरिति बोद्धव्यम् । ___ अथ द्वयणुकनाशमारभ्य कतिभिः क्षणः पुनरन्यद्वयणुकमुत्पर्य रूपादिमद्भवतीति जिज्ञासायामुत्पत्तिप्रकारः कथ्यते-नोदनादिक्रमेण द्वयणुकनाशः। नष्टे व्यणुके परमाणावनिसंयोगाच्छयामादीनां निवृत्तिः । निवृत्तेषु श्यामादिषु पुनरन्यस्मादनिसंयोगाद्रक्तादीनामुत्पत्तिः । उत्पन्नेषु रक्तादिष्वदृष्टवदात्मसंयोगात्परमाणी द्रव्यारम्भणाय क्रिया । तया पूर्वदेशाद्विभागः । विभागेन पूर्वदेशसंयोगानवृत्तिः । तस्मिनिवृत्ते परमाण्वन्तरेण संयोगोत्पत्तिः । संयुक्ताभ्यां परमाणुभ्यां यगुकारम्भः । आरब्धे द्वयणुके कारणगुणादिभ्यः कार्यगुगादीनां रूपादीनामुत्पत्तिरिति यथाक्रमं नव क्षणाः । दशक्षणादिप्रकारान्तरं विस्तरभयानेह प्रतन्यते । इत्थं पीलुपाकप्रक्रिया । पिठरपाकप्रक्रिया तु नैयायिकधीसमता ।
विभागजविभागो द्विविध:-कारणमात्रविभागजः कारणाकारणविभागजश्च । तत्र प्रथमः कथ्यते-कार्यव्याप्ते कारणे कर्मोस्पन्नं यंदाऽवयवान्तरी. द्विभागं विधत्ते न तदाऽऽकाशादिदेशाद्विभागः । यदा त्वाकाशादिदेशादिभागो न तदाऽवयवान्तरादिति स्थितिनियमः । कर्मणो गगनविभागाकर्तृत्वस्य द्रव्यारम्भकैसंयोगविरोधिविभागारम्भकत्वेन धूमस्य धूमध्वजवर्गणेव व्यभिचारी
१ च. नामक' । २ क. °षणगु । ३ च. 'न्यज्ञानचि । ४ प. 'नादेकत्वसामान्यचि. न्तायास्ते परस्परं सुन्दोपसुन्दन्यायेनोभा। ५ क. °भ्य पुनः क । ६ ख. ध क्रियादि । घ. 'य पाकादि । ७ च. प्रदर्यते । ८ क. घ.°णानां रू। ९ क ख. ग. यदव। घ. यदवयव्यन्तराविभाः। १. घ. तदवयव्यन्तरादिस्थि । ११ क. भागः क । ख. ग. घ. °भागक । १२ च. 'कत्वे । १३ क. ख. घ. वर्गव्य । च. वर्गवन्द्यभि ।।