________________
सर्वदर्शनसंग्रहेनुपलम्भात् । ततश्चावयवकर्मावयवान्तरादेव विभागं करोति नाऽऽकाशादिदेशात् । तस्माद्विभागाद्व्यारम्भसंयोगनिवृत्तिः। ततः कारणाभावात्कार्याभाव इति न्यायादवयविनिवृत्तिः । निवृत्तेऽवयविनि तत्कारणयोरवयवयोर्वर्तमानो विभागः कार्यविनाशविशिष्टं कालं स्वतन्त्रं वाऽवयवमपेक्ष्य सक्रियस्यैवावयवस्य कार्यसंयुक्तादाकांशदेशाद्विभागमारभते न निष्क्रियस्य । कारणाभावात् । द्वितीयस्तु हस्ते कर्मोत्पन्नमवयवान्तराद्विभागं कुर्वदाकाशादिदे. होमो विभागानारभते । ते कारणाकारणविभागाः कर्म यां दिशं प्रति कार्याअस्माभिमुखं तामपेक्ष्य कार्याकार्यविभागमारभन्ते । यथा हस्ताकाशविभागा
सफाशविभागः । न चासौ शरीरक्रियाकार्यः । तदा तस्य निष्क्रियत्वात् । सापि हस्तक्रियाकार्य: । व्यधिकरणस्य कर्मणो विभागकर्तृत्वानुपपत्तेः । अतः पारिशेष्यात्कारणाकारणविभागस्तस्य कारणमङ्गीकरणीयम् ।
पदवादि-अन्धकारादौ भावत्वं निषिध्यत इति । तदसंगतम् । तत्र चतुर्धा विवादसंभवात् । तथाहि-द्रव्यं तम इति भाटा वेदान्तिनश्च भणन्ति । आरोअपितं नीलरूपमिति श्रीधराचार्याः। आलोकज्ञानाभाव इति प्राभाकरैकदेशिनः । आलोकाभाव इति नैयायिकादय इति चेत्तत्र द्रव्यत्वपक्षो न घटते । विकल्पानुपपयो । द्रव्य भवदन्धकाराख्यं पृथिव्यायन्यतममन्यद्वा । नाऽऽद्यः । न्यत्रान्तभावोऽस्य तस्य यावन्तो गुणास्तावद्गुणकत्वप्रसङ्गात् । न द्वितीयः । निर्गुणस्य वस्य द्रव्यत्वासंभवेन द्रव्यान्तरत्वस्य सुतरामसंभवात् । ननु तमालश्यामलत्वे'नोपलभ्यमानं तमः कथं निर्गुगं स्यादिति चेत्तदसारम् । गन्धादिव्याप्तस्य लीलरूपस्य तन्निवृत्तौ निवृत्तेः । अथ नीलं तम इति गतेः का गतिरिति चेनीलं नभ इतिवद्भ्रान्तिरेवेत्यलं वृद्धवीवधया । अत एव नाऽऽरोपितरूपं तमा अधिष्ठानप्रत्ययमन्तरेणाऽऽरोपायोगात् । बाह्यालोकसहकारिरहितस्य चक्षुषो पारोपे सामर्थ्यानुपलम्भाच्च । न चायमचाक्षुषः प्रत्ययः । तदनुविधानस्यानप्रभासिद्धत्वात् । अत एव नाऽऽलोकज्ञानाभावः। अभावस्य प्रतियोगिग्राहके.
.: १ ख. 'कसिद्धौ नि । १५. काशाद्विभागदे । ३ घ. "ते। कारणाकारणविभागः क ।
क.-ध. च. 'मुखता । ५ घ. कारणाकारगवि । ६ घ. °न्ते। तो दिशं प्रति कार्याकार्यवि. भागमारमते । य । ७ च. गस्य । ८ घ. °ति प्रभा । ९ क. ग. ङ.--च. कार द्रव्या' । १० च. सत्र । ११ क.- कु. ति नील न । १२ च. द्धपडिया। १३ घ. 'तनीलरू । १४ क. गिनि ग्रा