________________
औलूक्यदर्शनम् । न्द्रियग्राह्यत्वनियमेने मानसत्वप्रसङ्गात् । तस्मादालोकाभाव एव तमः । न च * विधिप्रत्ययवेद्यत्वेनाभावत्वायोग इति सांप्रतम् । प्रलयविनाशावसानादिषु व्यभिचारात् । न चाभावे भावधर्माध्यारोपो दुरुपपादः । दुःखाभावे सुखत्वारोपस्य संयोगाभावे विभागत्वाभिमानस्य च दृष्टत्वात् । न चाऽऽलोकाभावस्य घटाद्यभाववद्रूपवदभावत्वेनाऽऽलोकसापेक्षचक्षुर्जन्यज्ञानविषयत्वं स्यादित्येषितव्यम् । यदग्रहे यदपेक्षं चक्षुस्तदभावग्रहेऽपि तदपेक्षत इति न्यायेनाऽऽलोकग्रह आलोकापेक्षाया अभावेन तदभावग्रहेऽपि तदपेक्षाया अभावात् । न चाधिकरणग्रहणावश्यंभावः । अभावप्रतीतावधिकरणग्रहणावश्यंभावानङ्गीकारात् । अपस्था निवृत्तः कोलाहल इति शब्दप्रध्वंसः प्रत्यक्षो न स्यादित्यप्रामाणिक परवचनम् । तत्सर्वमभिसंधाय भगवान्कणादः प्राणिनाय सूत्रम्-द्रव्यगुणकर्मनिष्पत्तिवैध-दभावस्तमः ( क ० सू० ५। २ । १९) इति । - अभावस्तु निषेधमुखप्रमाणगम्यः सप्तमो निरूप्यते-स xचासमवायत्ते सत्यसमवायः । संक्षेपतो द्विविधः । संसगीभावान्योन्याभावभेदात् । संसर्गाभावोऽपि त्रिविधः । प्र.क्मध्वंसात्यन्ताभावभेदात् । तत्रानित्योऽनादितमः प्रागभावः । उत्पत्तिमानविनाशी प्रध्वंसः । प्रतियोग्याश्रयोऽभावोऽत्यन्ताभावः । अत्यन्ताभावव्यतिरिक्तत्वे सत्यनवघिरभावोऽन्योन्याभावः । नन्वन्योन्याभाव एवात्यन्ताभाव इति चेदहो राजमार्ग एव भ्रमः । अन्योन्याभावो हि तादात्म्यप्रतियोगिकः प्रतिषेधः। यथा घटः पटात्मा न भवतीति । संसर्गप्रतियोगिकः प्रतिषेधोऽत्यन्ताभावः । यथा वायौ रूपसंबन्धो नास्तीति । न चास्य पुरुषार्थापयिकत्वं नास्तीत्याशङ्कनीयम् । दुःखात्यन्तोच्छेदापरपर्यायनिःश्रेयसरूपत्वेन परमपुरुषार्थत्वात् ।
इति श्रीमत्सायणमाधवीये सर्वदर्शनसंग्रह औलूक्यदर्शनम् ।।
* घ. पु. टि.-विमतं तमः भावो भवितुमर्हति न जानुलिखितप्रत्ययवेद्यत्वाद्धटवादति । ४ घ. पु. टि.-समवायादिसंबन्धशून्यत्वे सति संबन्धवानित्यर्थः । घ. पु. टि.-भावनिरूपितः ।
१च. 'नास । २ क. °द्यत्वं न । अयोगाभाव इ । ग. °द्यत्वं योगो भाव इ । घ. °द्यत्वेन आलोका इ° । ङ.-- °द्यत्वायोगो भाव इ° । च द्यत्वं न चात्र प्रयोगाभावादिति। ३ ख. घ. वधानेषु । ङ. °वधाना । ४ घ. °हेऽपि य । ५ च. °णप्रत्ययत्वादङ्गस्यान । ६ क. ख. घ. "णिकत्वव । ७ क. ग. घ. काणादः । ८ क. ख. ग.: °ाद्भाव । ९ क ख. र्गान्यो ।
१२