________________
सर्वदर्शनसंग्रहे--
अथाक्षपाददर्शनम् ॥ ११ ॥ __तत्त्वज्ञानाद्दुःखात्यन्तच्छेद लक्षणं निःश्रेयसं भवतीति * समानतन्त्रेऽपि प्रतिपादितम् । तदाह सूत्रकार:-प्रमाणप्रमेयेत्यादितत्त्वज्ञानानिःश्रेयसाधिगम इति । इदं न्यायशास्त्रस्याऽऽदिम सूत्रम् । न्यायशास्त्रं च पञ्चाध्यायात्मकम् । तत्र प्रत्यध्यायमाह्निकद्वयम् । तत्र प्रथमाध्यायस्य प्रथमाह्निके भगवता गौतमेन प्रमाणादि पदार्थनवकलक्षणनिरूपणं विधाय द्वितीये वादादिसप्तपदार्थलक्षणनिरूपणं कृतम् । द्वितीयस्य प्रथपे. संशयपरीक्षणं प्रमाण चतुष्टयामामाण्यशङ्कगनिराकरणं च । द्वितीयेऽर्थापत्त्यादेरन्तर्भावनिरूपणम् । तृतीयस्य प्रथम
आत्मशरीरेन्द्रियार्थपरीक्षणम् । द्वितीये बुद्धिमनःपरीक्षणम् । चतुर्थस्य प्रथमे प्रवृत्तिदोपप्रेत्यभावफलदुःखापवर्मपरीक्षणम् । द्वितीये दोषनिमित्तकत्वनिरूपणमवयव्यादिनिरूपणं च । पञ्चमस्य प्रथमे जातिभेदनिरूपणम् । द्वितीये निग्रहस्थानभेदनिरूपणम् । . मानाधीना मेरसिद्धिरिति न्यायेनं प्रमा.स्य प्रथनमुद्देशे तदनुसारेण लक्षा णस्य कथनीयतया प्रथमोद्दिष्टस्य प्रमाणस्य प्रथमं लक्षणं कथ्यते—(१) साधना श्रयाव्यतिरिक्तत्वे सति प्रमाव्याप्तं प्रमाणम् । एवं च प्रतितन्त्र सिद्धान्तसिद्ध परमेश्वरप्रामाण्य संगृहीतं भवति । यदचक थत्सूत्रकार:-मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यादिति ( गौ० सू० २ । १ । ६७) । तथा च न्याथनयपारावारपारदृश्वा विश्वविख्यातकीर्तिरुदयनाचार्योऽपि न्यायकुसुमाञ्जली चतुर्थे स्तबके
मितिः सम्यकपरिच्छित्तिस्तद्वत्ता न प्रमातृता । तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ।। ( ४ । ५) इति । साक्षात्कारिणि नित्ययोगिनि परद्वाररानपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताविवस्तुक्रमः । लेशादृष्टिनिमितदुष्टिविगमप्रभ्रष्टशङ्कगतुषः
शङ्कगेन्मेपकलङ्किभिः किमपरैस्तन्मे प्रमागं शिवः ।। ( ४ । ६ ) इति । तंञ्चतुर्विध प्रत्यक्षानुमानोपमानशब्दभेदात् । ( २ ) प्रमायां यद्धि प्रतिभासते.
* घ. पु. टि-न्यायतन्त्रे। • १ ख. दकल । २ ग. °माणाप्र । ३ क.ग. ङ. च. यस्याऽऽहनि । ४ क. ख. घ. °णम् । द्वि' । ५ घ. °यप्र । ६ ख. °षं प्रत्य । ७ ख. °न प्रथ। ८ ख. घ. 'माणव्या । ९ च. 'रमप्रा । १० ङ.-च. यपा। ११ ग. तस्फातिरु । १२ क-ङ. °पि कु । १३ घ. स्तानिके वस्तुनि । ले । १४ क. °स्तु कर्म। ले । ख. "स्तुनिः ले । ग. स्तुत्करे।ले । १५ घ. त्तदृष्टि । १६ क.-ङ. त् । प्रमेयं द्वा ।