________________
अक्षपाददर्शनम् । तत्पमेयम् । तच्च द्वादशप्रकारम् । आत्मशरीरन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गभेदात् । (३) अनवधारणात्मकं ज्ञानं संशयः। स त्रिविधः । साधारणधर्मासाधारणधर्मविप्रतिपत्तिलक्षणभेदात् । ( ४ ) यमधिकृत्य प्रवर्तन्ते पुरुषास्तत्प्रयोजनम् । तद्विविधम् । दृष्टादृष्टभेदात् । ( ५ ) व्याप्तिसंवेदनभूमिदृष्टान्तः । स द्विविधः ।. साधर्म्यवधर्म्यभेदात् । ( ६ ) प्रामाणिकत्वेनाभ्युपगतोऽर्थः सिद्धान्तः । स चतुर्विधः । सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमभेदात् । ( ७ ) परार्थानुमानवाक्यैकदेशोऽवयवः । स पञ्चविधः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात् । ( ८ ) व्याप्यारोपेण व्यापकारोपस्तर्कः । स चैकादशविधः । व्याघातात्माश्रयेतरेतराश्रयचक्रकाश्रयानवस्थाप्रतिबन्धिकल्पनौलाघवकल्पनागौरवोत्सर्गापवादवैजात्यभेदात् । (९) यथार्थानुभवपर्याया प्रमितिनिर्णयः । स चतुर्विधः । साक्षात्कृत्य नुमित्युपमितिशाब्दभेदात् । (१०) तत्त्वनिर्णयफलः कथाविशेषो वादः । ( ११ ) उभय साधनवती विजिगीषुकथा जल्पः । ( १२ ) स्वपक्षस्थापनहीनः कथाविशेषो वितण्डा । कथा नाम वादिप्रतिवादिनोः पक्षमतिपक्षपरिग्रहः। (१३) असाधको हेतुत्वेनाभिमतो हेत्वाभासः । स पञ्चविधः । सव्यभिचारविरुद्धप्रकरणसमसाध्य समातीतकालभेदात् । (१४) शब्दवृत्तिव्यत्य येन प्रतिषेधहेतु इछलम् । तत्रिविधम् । अभिधानतात्पर्योपचारवृत्तिव्यत्ययभेदात् ।(१५) स्वव्या घ तकमुत्तरं जातिः । सा चतुर्विशति विधा। साधर्म्यवैधम्र्योत्कर्षापकर्षावर्ण्यविकल्पसाध्यप्राप्तयप्राप्तिप्रसङ्गप्रतिदृष्टान्तानुत्पत्तिसंशयप्रकरणहेत्वर्थापत्त्य विशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्यानित्य कार्यसमभेदात् । (१६) पराजयनिमित्तं निग्रहस्थानम् । द्वाविंशतिप्रकारम् । प्रतिज्ञाहानिप्रतिज्ञान्तरप्रतिज्ञाविरोधप्रतिज्ञा. संन्यासहेत्वन्तरार्थान्तरनिरर्थकाविज्ञातापार्थकाप्राप्तकालन्यूनाधिकपुनरुक्ताननुभाषणाज्ञानाप्रतिभाविक्षेपमतानुज्ञापर्यनुयोज्योपेक्षणनिरनुयोज्यानुयोगापसिद्धान्तहेत्वाभासभेदात् । अत्र सर्वान्तणिकस्तु विशेषस्तत्र शास्त्रे विस्पष्टोऽपि विस्तरभिंया न प्रस्तूयते । . नन प्रमाणादि पदार्थषोडशके प्रतिपाद्यमाने कथमिदं न्यायशास्त्रमिति व्यपदिश्यते । सत्यम् । तथाऽप्यसाधारण्येन व्यपदेशा भवन्तीति न्यायेन
- १ च णकारणभे । २ क. ङ.-च. पे व्या । ३ ख. नागौ । ४ क.-ग. ङ. च. पनाही । ५ घ. हीनक । ६ क.-ग. ङ. च ,ब्दवृ । ७ क. °शतिधा। ख. ग. घ. शतिः। सा । ८ १. °वणावर्णवि । ९ क. घ.-च. 'रणाहे । १० घ. 'यभे । ११ ख. ज्योऽनु । - - -