________________
सर्वदर्शनसंग्रहे—
९२
न्यायस्य परार्थानुमानापरपर्यायस्य सकलविद्यानुग्राहकतया सर्वकर्मानुष्ठानसाधनतया प्रधानत्वेन तथा व्यपदेशो युज्यते । तथाऽमाणि सर्वज्ञेन सोऽयं परमो न्याय विप्रतिपन्नपुरुषं प्रति प्रतिपादकत्वात् । तथा प्रवृत्तिहेतुत्वाच्चेति ( गौ० सू० (० वा० १|११ ) | पक्षिलस्वामिना च सेयमान्वीक्षिकीविद्या प्रमाणादिभिः पदार्थः प्रविभज्यमाना -
心
प्रदीपः सर्वविद्यानामुपायः सर्वकर्मणान् ।
आश्रयः सर्वधर्माणां विद्योद्देशे परीक्षिता । (न्या० सू० भा० १ । १ । १ ) इति ।
ननु तत्त्वज्ञानान्निःश्रेयसं भवतीत्युक्तम् । तत्र किं तत्त्वज्ञानादनन्तरमेव निःश्रेयसं संपद्यते । नेत्युच्यते । किंतु तत्त्वज्ञानादुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्ग इति । तत्र मिथ्याज्ञानं नामानात्मनि देहादावात्म बुद्धिः । तदनुकूलेषु रागः । तत्प्रतिकूलेषु द्वेषः । वस्तुतस्त्वात्मनः प्रतिकूलमनुकूलं वा न किंचिद्वस्त्वस्ति । परस्परानुबन्धित्वाच्च रागादीनां मूढो ज्यति रक्तो मुह्यति मूढः कुप्यति कुपितो मुह्यतीति । ततस्तैर्दोष: प्रेरितः प्राणी प्रतिषिद्धानि शरीरेण हिंसास्तेयादीन्याचरति । वाचाऽनृतादीनि । मनसा परद्रोहादीनि । सेयं पापरूपा प्रवृत्तिरधर्मः । शरीरेण प्रशस्तानि दानपरपरित्राणादीनि । वाचा हितसत्यादीनि । मनसाऽजिघांसादीनि । सेयं पुण्यरूपा प्रवृत्तिधर्मः । सेयमुभयैी मनृत्तिः । ततः स्वानुरूपं प्रशस्तं निन्दितं वा जन्मे पुनः शरीरींदेः प्रादुर्भावः । तस्मिन्सति प्रतिकूलवेदनीयतय बाधनात्मकं दुःखं भवति । न ह्यप्रवृत्तस्य दुःखं प्रत्यापद्यत इति कचित्पद्यते । त इमे मिथ्याज्ञानादयो दुःखान्ता अविच्छेदेन प्रवर्तमानाः संसारशब्दार्थो घटीचक्रवनि
धिरनुवर्तते । यदा कश्चित्पुरुषधौरेयः पुराकृतसुकृतपरिपाकवशादाचार्योपदेशेन सर्वमिदं दुःखार्थैतनं दुःखानुषक्तं च पश्यति तदा तत्सर्वं हेयत्वेन बुध्यते । ततस्तन्निर्वर्तकमविद्यादि निवर्तयितुमिच्छति । तन्निवृत्युपायश्च तत्त्वज्ञानमिति । कॅस्यचिच्चतसृभिर्विधाभिर्विभक्तं प्रमेयं भावयतः सम्यग्दर्शन पदवेदनी
१ ख. घ. 'था च स । २ घ 'यो निरूपितः । वि । ३ ख रुषार्थप्रतिपा । क. ग. ङ. -च. 'रुषप्रतिपा' । ४ ख. विद्याद्दे । ५ क. ग. 'चित्स्वमस्ति । ख चित्तत्त्वमस्ति । ङ. - च 'चित्समस्ति । ६ क. ख. ग. घ. रञ्जति । ७ ६. धर्मोऽनुकूलरागादिभिस्तैः प्रेरितो धर्ममावहति । श० । ८ ङ. - च. 'साऽहिंसा' । ९ क. ग ङ. - च. यी वृ° । १० ख. ग. वृत्तिः । स्वा' । घ. 'वृत्तिः । स्वा' । ११ च. ● न्म संपायति पु° । १२ च. 'रादेर्जन्म प्रा । १३ क. - ङ. या वासना' । १४ क. ख. घ. त्प्रत्याप' । १५ च. 'टीयन्त्रव' । १६ क. ग. 'यत्तं दुः । १७ ख. वा । १८ क. ख. ग. घ. कञ्चिच्च ।