________________
९३
अक्षपाददर्शनम् । यतया तत्त्वज्ञानं जायते । तत्त्वज्ञानामिथ्याज्ञानमपैति । मिथ्याझानापाये दोषा अपयान्ति । दोषापाये प्रवृत्तिरपैति । प्रवृत्त्यपाये जन्मापैति । जन्मापाये दुःखमत्यन्तं निवर्तते । साऽऽत्यन्तिकी दुःखनिवृत्तिरपवर्गः । निवृत्तेरात्यन्तिकत्वं नाम निवर्त्य सजातीयस्य पुनस्तत्रानुत्पाद इति । तथा च पारमर्ष सूत्रम्-दुःखजन्ममवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्त पार्योदपवर्ग: ( गौ० सू० १।१।२) इति ।
ननु दुःखात्यन्तोच्छेदोऽपवर्ग इत्येतद्यापि * कॅफोणिगुडायितं वर्तते । तत्कथं सिद्धवत्कृत्य व्यवाहियत इति चेन्मैवम् । सर्वेषां मोक्षवादिनामपवर्गदशायामात्यन्तिको दुःखनिवृत्तिरस्तीत्यस्यार्थस्य सर्वतन्त्र सिद्धान्तसिद्धतया घण्टापथत्वात् । तथाहि-आत्मोच्छेदो मोक्ष इति माध्यमिकमते दुःखोच्छेदोऽस्तीत्येतावत्तावदविवादम् । अथ मन्येथा:-शरीरादिवदात्माऽपि दुःखहेतुत्वादुच्छेद्य इति तन्न संगच्छते । विकल्पानुपपत्तेः । किमात्मा ज्ञानसंतानो विवक्षितस्तदतिरिक्तो वा । प्रथमे न विप्रतिपत्तिः । कः खल्वनुकूलमाचरति प्रतिकूलमाचरेत् । द्वितीये तस्य नित्यत्वे निवृत्तिरशक्यविधानैव । अनित्यत्वे प्रवृत्त्यनुपपत्तिः । व्यवहारानुपपत्तिश्चाधिकं दृषणम् । न खलु कश्चित्प्रेक्षावानात्मनस्तु कामाय सर्वं प्रियं भवतीति सर्वतः प्रियतमस्याऽऽत्मनः समुच्छेदाय प्रयतते । सर्वो हि प्राणी सति धर्मिणि मुक्त इति व्यवहरति नैनु । धर्मिनिवृत्ती निर्मलज्ञानोदयो महोदय इति विज्ञानवादिवादे + सामय्यभावः सामानाधिकरण्यानुपपत्तिश्च । भावनाचतुष्टयं हि तस्य कारणमभीष्टम् । तच्च क्षणभङ्गपक्षे स्थिरैकाधारासंभवाल्लङ्घनाभ्यासादिवदनासादितप्रकर्ष न स्फुटमभिज्ञानमभिजनयितुं प्रभवति । सोपप्लवस्य ज्ञानसंतानस्य बद्धत्वे निरुपलवस्य च मुक्तत्वे यो बद्धः स एव मुक्त इति सामानाधिकरण्यं न संगच्छते । आवरणमुक्तिर्मुक्तिरिति जैनजनाभिमतोऽपि मार्गों न निसर्गतो निरर्गलः । अङ्ग भवान्पृष्टो व्याचेष्टां किमावरणम् । धर्माधर्मभ्रान्तय इति चेदिष्टमेव । अथ देहमेवाऽऽवरणम् । तथा च तनिवृत्तौ पञ्जरान्मुक्तस्य भुकस्येवाऽऽत्मनः सततोर्ध्वगमनं मुक्तिरिति चेत्तदा वक्तव्यम् । किमयमात्मा मूर्तोऽमूतों वा ।
* घ. पु. टि.- कया युक्त्या । अत्यन्तगूढायितम् । + घ. पु. टि.- सामग्यभावे ।
१ क.-ड. की नि । २ ख. निवृत्यस' । ३ क.-. "राभावाद । ४. ख. ग. घ. 'यादिति दुः। ५ घ. दभिधायिकपोणागु । ६ ख. कपोणायितं प्रव। ७ च. 'वं शकिष्टाः । स । ८ क.-. 'त्तिश्वा । ९ क.-ह. °णी मु । १० ख. 'क्तये व्य । ११ क. ख. ग. घ. न तु । १२ घः °वज्ञा । १३ घ. ° ! निसर्गतो न नि' । १४ क. ग.-च. निर्ग° । १५ ख. चष्टा कि। .