________________
९४
. सर्वदर्शनसंग्रहेप्रथमे निरवयवः सावयंवो वा । निरवयवत्वे निरवयवो मूर्तः परमाणुरिति परमाणुलक्षणापत्त्या परमाणुधर्मवदात्मधर्माणामतीन्द्रियत्वं प्रसजेत् । सावयवत्वे यत्सावयवं तदनित्यमिति +व्याप्तिबलेनानित्यत्वांपत्तौ कृतप्रणाशाकृताभ्यागमा निष्प्रतिबन्धौ प्रसरताम् । अमूर्तत्वे गमनमनुपपत्रमेव । चलनात्मिकाया: क्रियाया * मूर्नत्वप्रतिबन्धात् । पारतन्त्र्यं बन्धः स्वातन्त्र्यं मोक्ष इति चार्वाकपक्षेऽपि स्वातन्त्र्यं दुःखनिवृत्तिश्चेदविवादः । ऐश्वर्य चेत्सातिशयतया सहक्षतया च प्रेक्षावती नाभिमतम् । प्रकृतिपुरुषान्यत्वख्याती प्रकृत्युपरमे पुरुषस्य स्वरूपेणावस्थानं मुक्तिरिति सांख्याख्यातेऽपि पक्षे दुःखोच्छेदोऽस्त्येव । विवेकज्ञानं पुरुषाश्रयं प्रकृत्याश्रयं वेत्येतावदवशिष्यते । तत्र पुरुषांश्रयामिति न श्लिष्यते । पुरुषस्य कोटरथ्याँवस्थाननिरोधापातात् । नापि प्रकृत्याश्रयः । अचेतनत्वात्तस्याः । किंच प्रकृतिः प्रवृत्तिस्वभाषा निवृत्तिस्वभावा वा । आधेऽनिर्मोक्षः । स्वभावस्यानपायात् । द्वितीये संप्रति संसारोऽस्तमियात् । नित्यनिरतिशयसुखाभिव्यक्तिर्मुक्तिरित भट्टसर्वज्ञाद्यभिमतेऽपि दुःखनिवृत्तिरभिमतैव । परंतु नित्यसुखं न प्रमाणपद्धतिमध्यास्ते । श्रुतिस्तत्र प्रमाणमिति चेन । योग्यानुपलब्धियाधिते तदनवकाशात् । अवकाशे वा ग्रावेप्लवेऽपि तथाभावप्रसङ्गात् ।
ननु सुखाभिव्यक्तिर्मुक्तिरिति पक्षं परित्यज्य दुःखनिवृत्तिरेव मुक्तिरिति स्वीकारः क्षीरं विहायारोचकग्रस्तस्य = सौवीररुचिपनुभावयतीति चेत्तदेवन्ना. टकपक्षपतितं त्वद्वच इत्युपेक्ष्यते । सुखस्य सातिशयतयाँ सदृक्षतया बहुमत्यनीकाक्रान्ततया साधनप्रार्थनापरिक्लिष्टतया च दुःखाविनाभूतत्वेन विषानुषक्तमधुवदुःखपक्षनिक्षेपात् । नन्वेकमनुसंधिसतोऽपरं प्रच्यवत इति न्यायेन दुःखवन्सुरखमप्युच्छिद्यत इत्यकाम्योऽयं पक्ष इति चेन्मेवं मंस्थाः । सुखसंपादने दुःखसाधनबाहुल्यानुषङ्गनियमेन तप्तायःपिण्डे तपनीयबुद्धया प्रवर्तमानेन साम्यापातात् । तथाहि- न्यायोपार्जितेषु विषयेषु कियन्तः सुखखद्योताः कियन्ति दःखदुर्दिनानि । अन्यायोपार्जितेषु तु यद्भविष्यति तन्मनसाऽपि
* घ. पु. टि.--मूर्तसंबन्धात् । = घ. पु. टि:--आरनालक सौवीरमित्यमरः। । १ ख. वा.निरवयवो । २ ख. प्रसंजेत। घ. प्रसज्येत। ३ घ. दृशत। ४ घ. वद्विकल्पासहतया मुक्तेदुनिरूपत्वापत्तेः। प्र। च. वदनुपादेयतयैव स्यात् । प्र°1५ क. "तामभि । ६ क. घ.--च. दोऽभ्युपेयते । वि° । ७ क.--ग ङ. च. "स्थ्यात्स्था । ८ क. ति भावस । ख. ग. °ति भाट्टस । घ. "ति भगवत्सर्व । ९ क.-ग. ङ. च. °वप्लवे । १० घः तथोपलम्भावकाशप ११ क.-ग. ङ. °नुभवती । च. "नुसरती । १२ ङ.-च. 'या प्रत्यक्ष । १३ ख. ग. र्थनप १४ क. ग. ङ-च. खमित्युच्छि।